Chapter 2: Vyāsa arrives at Janamejaya’s serpent sacrifice, and Vaiśampāyana begins narrating the Jaya with its table of contents.
सूत उवाच॥
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्। अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा॥BORI: १-५४-१॥
जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा। विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः॥BORI: १-५४-७॥
भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च। सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत्॥BORI: १-५४-१६॥
ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः। इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः॥BORI: १-५४-१७॥
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्। तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज॥BORI: १-५४-१८॥
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम्। तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत्॥BORI: १-५४-१९॥
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम्। कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि॥BORI: १-५४-२०॥
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा। शशास शिष्यमासीनं वैशम्पायनमन्तिके॥BORI: १-५४-२१॥
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा। तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि॥BORI: १-५४-२२॥
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा। आचचक्षे ततः सर्वमितिहासं पुरातनम्॥BORI: १-५४-२३॥
तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः। भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा॥BORI: १-५४-२४॥
वैशम्पायन उवाच॥
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः। सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान्॥BORI: १-५५-१॥
महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥BORI: १-५५-२॥
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्। गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम्॥BORI: १-५५-३॥
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्। राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च॥BORI: १-५५-४॥
यथा च युद्धमभवत्पृथिवीक्षयकारकम्। तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ॥BORI: १-५५-५॥
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्। नचिरादिव विद्वांसो वेदे धनुषि चाभवन्॥BORI: १-५५-६॥
तांस्तथा रूपवीर्यौजःसम्पन्नान्पौरसंमतान्। नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः॥BORI: १-५५-७॥
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः। तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन्॥BORI: १-५५-८॥
ददावथ विषं पापो भीमाय धृतराष्ट्रजः। जरयामास तद्वीरः सहान्नेन वृकोदरः॥BORI: १-५५-९॥
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्। तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्॥BORI: १-५५-१०॥
यदा प्रबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम्। उदतिष्ठन्महाराज भीमसेनो गतव्यथः॥BORI: १-५५-११॥
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्। सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा॥BORI: १-५५-१२॥
तेषां तु विप्रकारेषु तेषु तेषु महामतिः। मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत्॥BORI: १-५५-१३॥
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः। पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः॥BORI: १-५५-१४॥
यदा तु विविधोपायैः संवृतैर्विवृतैरपि। नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्॥BORI: १-५५-१५॥
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः। धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्॥BORI: १-५५-१६॥
ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात् । प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम् ॥KUMB: १-६१-२०; NILA: ०१.०६१.०१९॥
न्यवसन्त महात्मानो मात्रा सह परन्तपाः । धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे ॥KUMB: १-६१-२२; NILA: ०१.०६१.०२१॥
पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः । सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः ॥KUMB: १-६१-२३; NILA: ०१.०६१.०२२॥
आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम् । प्राद्रवन्भयसंविग्ना मात्रा सह परन्तपाः ॥KUMB: १-६१-२४; NILA: ०१.०६१.०२३॥
ददृशुर्दारुणं रक्षो हिडिम्बं वननिर्झरे । हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात् ॥KUMB: १-६१-२५; NILA: ०१.०६१.०२४॥
निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः । प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः ॥KUMB: १-६१-२६; NILA: ०१.०६१.०२५॥
अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा। ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः॥BORI: १-५५-२०॥
तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम्। ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः॥BORI: १-५५-२१॥
ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम् । श्रुत्वा चैवाभ्यगच्छ्त गत्वा चैवालभन्त ताम् ॥KUMB: १-६१-३१; NILA: ०१.०६१.०३०॥
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः। विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः॥BORI: १-५५-२२॥
त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च। भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति । अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः॥BORI: १-५५-२३॥
तस्माज्जनपदोपेतं सुविभक्तमहापथम्। वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः॥BORI: १-५५-२४॥
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः। नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः॥BORI: १-५५-२५॥
तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून्। वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः॥BORI: १-५५-२६॥
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः। अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा॥BORI: १-५५-२७॥
अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः। उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा॥BORI: १-५५-२८॥
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा। एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम्॥BORI: १-५५-२९॥
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता। षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः॥BORI: १-५५-३०॥
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः। वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम्॥BORI: १-५५-३१॥
स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत्। ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन॥BORI: १-५५-३२॥
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्। अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्॥BORI: १-५५-३३॥
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता। सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह॥BORI: १-५५-३४॥
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्। बीभत्सुर्वासुदेवेन सहितो नृपसत्तम॥BORI: १-५५-३५॥
नातिभारो हि पार्थस्य केशवेनाभवत्सह। व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव॥BORI: १-५५-३६॥
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्। इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्॥BORI: १-५५-३७॥
मोक्षयामास बीभत्सुर्मयं तत्र महासुरम्। स चकार सभां दिव्यां सर्वरत्नसमाचिताम्॥BORI: १-५५-३८॥
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः। ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्॥BORI: १-५५-३९॥
वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च। अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम्॥BORI: १-५५-४०॥
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु। नालभन्त महाराज ततो युद्धमवर्तत॥BORI: १-५५-४१॥
ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम्। राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः॥BORI: १-५५-४२॥
इष्ट्वा क्रतूंश्च विविधानश्वमेधादिकान्बहून् । धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते ॥KUMB: १-६१-५५; KUMB: १-६१-५६॥
गमयित्वा क्रियां स्वर्ग्यां राज्ञाममिततेजसाम् ॥KUMB: १-६१-५६; KUMB: १-६१-५७॥
महाप्रस्थानिकं कृत्वा गताः स्वर्गमनुत्तमम् ॥KUMB: १-६१-५७॥
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्। भेदो राज्यविनाशश्च जयश्च जयतां वर॥BORI: १-५५-४३॥
वैशम्पायन उवाच॥
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥BORI: १-०५६-१२॥
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा। महीं विजयते सर्वां शत्रूंश्चापि पराजयेत्॥BORI: १-०५६-१९॥
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम्। मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥BORI: १-०५६-२१॥
शरीरेण कृतं पापं वाचा च मनसैव च। सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा॥BORI: १-०५६-२३॥
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च। कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा॥BORI: १-०५६-२५॥
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः। ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते॥BORI: १-०५६-२७॥
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः। महाभारतमाख्यानं कृतवानिदमुत्तमम्॥BORI: १-०५६-३२॥
तपोनियममास्थाय कृतमेतन्महर्षिणा ॥KUMB: १-६२-४५; NILA: ०१.०६२.०४२॥
तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम् । कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम् ॥KUMB: १-६२-४६; NILA: ०१.०६२.०४३॥
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्॥BORI: १-०५६-३३॥