Chapter 5: Mahābhiṣa and Gaṅgā; the Vasus’ curse, Gaṅgā’s pact with Pratīpa and marriage to Śantanu, and the birth, preservation and return of Gāṅgeya.
वैशम्पायन उवाच॥
इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः। महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ॥BORI: १-०९१-१॥
सोऽश्वमेधसहस्रेण वाजपेयशतेन च। तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ॥BORI: १-०९१-२॥
ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः। तत्र राजर्षयो आसन्स च राजा महाभिषः ॥BORI: १-०९१-३॥
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम्। तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥BORI: १-०९१-४॥
ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा। महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥BORI: १-०९१-५॥
अपध्यातो भगवता ब्रह्मणा स महाभिषः। उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥BORI: १-०९१-६॥
यया हृतमनाश्चासि गङ्गया त्वं हि दुर्मते । सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति ॥KUMB: १-१०२-७; NILA: ०१.०९६.००७॥
यदा ते भविता मन्युस्तदा शापाद्विमोक्ष्यते ॥KUMB: १-१०२-८; NILA: ०१.०९६.००८॥
स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान्। प्रतीपं रोचयामास पितरं भूरिवर्चसम् ॥BORI: १-०९१-७॥
महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम्। तमेव मनसाध्यायमुपावर्तत्सरिद्वरा ॥BORI: १-०९१-८॥
वैशम्पायन उवाच॥
ततः प्रतीपो राजा स सर्वभूतहिते रतः। निषसाद समा बह्वीर्गङ्गातीरगतो जपन् ॥BORI: १-०९२-१॥
तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी। उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥BORI: १-०९२-२॥
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी। दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ॥BORI: १-०९२-३॥
प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम्। करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥BORI: १-०९२-४॥
स्त्र्युवाच॥
त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम्। त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥BORI: १-०९२-५॥
प्रतीप उवाच॥
नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि। न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् ॥BORI: १-०९२-६॥
स्त्र्युवाच॥
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित्। भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् ॥BORI: १-०९२-७॥
प्रतीप उवाच॥
मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम्। अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥BORI: १-०९२-८॥
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने। अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥BORI: १-०९२-९॥
सव्यतः कामिनीभागस्त्वया स च विवर्जितः। तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥BORI: १-०९२-१०॥
स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम्। स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ॥BORI: १-०९२-११॥
स्त्र्युवाच॥
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते। त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् ॥BORI: १-०९२-१२॥
स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो। तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ॥BORI: १-०९२-१४॥
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम्। पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः ॥BORI: १-०९२-१५॥
वैशम्पायन उवाच॥
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत। पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् ॥BORI: १-०९२-१६॥
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः। तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ॥BORI: १-०९२-१७॥
तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः। शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शन्तनुः ॥BORI: १-०९२-१८॥
संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा। पुण्यकर्मकृदेवासीच्छन्तनुः कुरुसत्तम ॥BORI: १-०९२-१९॥
प्रतीपः शन्तनुं पुत्रं यौवनस्थं ततोऽन्वशात्। पुरा मां स्त्री समभ्यागाच्छन्तनो भूतये तव ॥BORI: १-०९२-२०॥
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी। कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया। सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने ॥BORI: १-०९२-२१॥
यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ। मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥BORI: १-०९२-२२॥
एवं संदिश्य तनयं प्रतीपः शन्तनुं तदा। स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥BORI: १-०९२-२३॥
स राजा शन्तनुर्धीमान् ख्यातः पृथ्व्यां धनुर्धरः। बभूव मृगयाशीलः सततं वनगोचरः ॥BORI: १-०९२-२४॥
स मृगान्महिषांश्चैव विनिघ्नन् राजसत्तमः। गङ्गामनुचचारैकः सिद्धचारणसेविताम् ॥BORI: १-०९२-२५॥
स कदाचिन्महाराज ददर्श परमस्त्रियम् ॥BORI: १-०९२-२६॥
तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा ॥BORI: १-०९२-२८॥
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा। देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः ॥BORI: १-०९२-३०॥
यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे। या वा त्वं सुरगर्भाभे भार्या मे भव शोभने ॥BORI: १-०९२-३१॥
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च। वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता ॥BORI: १-०९२-३२॥
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा। भविष्यामि महीपाल महिषी ते वशानुगा ॥BORI: १-०९२-३३॥
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम्। न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् ॥BORI: १-०९२-३४॥
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव। वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ॥BORI: १-०९२-३५॥
एष मे समयो राजन्भज मां त्वं यथेप्सितम् । अनुनीताऽस्मि ते पित्रा भर्ता मे त्वं भव प्रभो ॥KUMB: १-१०४-८॥
तथेति राज्ञा सा तूक्ता तदा भरतसत्तम। प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ॥BORI: १-०९२-३६॥
दिविष्ठान्मानुषांश्चैव भोगान्भुङ्क्ते स वै नृपः । आसाद्य शान्तनुः श्रीमान्मुमुदे योषितां वराम् ॥KUMB: १-१०५-२॥
रममाणस्तया सार्धं यथाकामं जनेश्वरः। अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः ॥BORI: १-०९२-४३॥
जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत। प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ॥BORI: १-०९२-४४॥
तस्य तन्न प्रियं राज्ञः शन्तनोरभवत्तदा। न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः ॥BORI: १-०९२-४५॥
अथ तामष्टमे पुत्रे जाते प्रहसितामिव। उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ॥BORI: १-०९२-४६॥
मा वधीः कासि कस्यासि किं हिंससि सुतानिति। पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते ॥BORI: १-०९२-४७॥
स्त्र्युवाच॥
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर। जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥BORI: १-०९२-४८॥
अहं गङ्गा जह्नुसुता महर्षिगणसेविता। देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह ॥BORI: १-०९२-४९॥
अष्टे मे वसवो देवा महाभागा महौजसः। वसिष्ठ-शाप-दोषेण मानुषत्वम् उपागताः ॥BORI: १-०९२-५०॥
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते। मद्विधा मानुषी धात्री न चैवास्तीह काचन ॥BORI: १-०९२-५१॥
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता। जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ॥BORI: १-०९२-५२॥
देवानां समयस्त्वेष वसूनां संश्रुतो मया। जातं जातं मोक्षयिष्ये जन्मतः मानुषादिति ॥BORI: १-०९२-५३॥
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः। स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥BORI: १-०९२-५४॥
एष पर्यायवासो मे वसूनां संनिधौ कृतः। मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ॥BORI: १-०९२-५५॥
शन्तनुरुवाच॥
आपवो नाम को न्वेष वसूनां किं च दुष्कृतम्। यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ॥BORI: १-०९३-१॥
अनेन च कुमारेण गङ्गादत्तेन किं कृतम्। यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥BORI: १-०९३-२॥
ईशानाः सर्वलोकस्य वसवस्ते च वै कथम्। मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥BORI: १-०९३-३॥
वैशम्पायन उवाच॥
सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत्। भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् ॥BORI: १-०९३-४॥
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम। वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ॥BORI: १-०९३-५॥
तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम्। मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥BORI: १-०९३-६॥
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम। वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥BORI: १-०९३-७॥
दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता। गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥BORI: १-०९३-८॥
अनुग्रहार्थं जगतः सर्वकामदुघां वराम्। तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥BORI: १-०९३-९॥
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते। चचार रम्ये धर्म्ये च गौरपेतभया तदा ॥BORI: १-०९३-१०॥
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ। पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ॥BORI: १-०९३-११॥
ते सदारा वनं तच्च व्यचरन्त समन्ततः। रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥BORI: १-०९३-१२॥
तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम। सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा । या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ॥BORI: १-०९३-१३॥
सा विस्मयसमाविष्टा शीलद्रविणसम्पदा। दिवे वै दर्शयामास तां गां गोवृषभेक्षण ॥BORI: १-०९३-१४॥
स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम्। उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ॥BORI: १-०९३-१५॥
एवङ्गुणसमायुक्तां वसवे वसुनन्दिनी। दर्शयामास राजेन्द्र पुरा पौरवनन्दन ॥BORI: १-०९३-१६॥
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम। उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ॥BORI: १-०९३-१७॥
एषा गौरुत्तमा देवि वारुणेरसितेक्षणे। ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ॥BORI: १-०९३-१८॥
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे। दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ॥BORI: १-०९३-१९॥
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा। तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ॥BORI: १-०९३-२०॥
अस्ति मे मानुषे लोके नरदेवात्मजा सखी। नाम्ना जिनवती नाम रूपयौवनशालिनी ॥BORI: १-०९३-२१॥
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः। दुहिता प्रथिता लोके मानुषे रूपसम्पदा ॥BORI: १-०९३-२२॥
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम्। आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ॥BORI: १-०९३-२३॥
यावदस्याः पयः पीत्वा सा सखी मम मानद। मानुषेषु भवत्वेका जरारोगविवर्जिता ॥BORI: १-०९३-२४॥
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित। प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन ॥BORI: १-०९३-२५॥
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया। पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ॥BORI: १-०९३-२६॥
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप। ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् । हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥BORI: १-०९३-२७॥
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः। न चापश्यत गां तत्र सवत्सां काननोत्तमे ॥BORI: १-०९३-२८॥
ततः स मृगयामास वने तस्मिंस्तपोधनः। नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ॥BORI: १-०९३-२९॥
ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः। ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥BORI: १-०९३-३०॥
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम्। तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥BORI: १-०९३-३१॥
एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः। वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ ॥BORI: १-०९३-३२॥
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे। एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः। महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ॥BORI: १-०९३-३३॥
अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः। शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥BORI: १-०९३-३४॥
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ। न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात्। आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥BORI: १-०९३-३५॥
उवाच च स धर्मात्मा सप्त यूयं धरादयः। अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ॥BORI: १-०९३-३६॥
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति। द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ॥BORI: १-०९३-३७॥
नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम्। न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥BORI: १-०९३-३८॥
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः॥BORI: १-०९३-३९॥
पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति । एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ॥BORI: १-०९३-३९॥
ततो मामुपजग्मुस्ते समस्ता वसवस्तदा। अयाचन्त च मां राजन्वरं स च मया कृतः । जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥BORI: १-०९३-४०॥
एवं तेषामहं सम्यक्षप्तानां राजसत्तम। मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥BORI: १-०९३-४१॥
अयं शापादृषेस्तस्य एक एव नृपोत्तम। द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥BORI: १-०९३-४२॥
एतदाख्याय सा देवी तत्रैवान्तरधीयत। आदाय च कुमारं तं जगामाथ यथेप्सितम् ॥BORI: १-०९३-४३॥
शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः॥BORI: १-०९३-४५A॥
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः। रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ॥BORI: १-०९४-१८॥
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम्। भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः ॥BORI: १-०९४-२१॥
तां दृष्ट्वा चिन्तयामास शन्तनुः पुरुषर्षभः। स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥BORI: १-०९४-२२॥
ततो निमित्तमन्विच्छन्ददर्श स महामनाः। कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् ॥BORI: १-०९४-२३॥
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम्। कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥BORI: १-०९४-२४॥
तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके। अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ॥BORI: १-०९४-२५॥
जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा। नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ॥BORI: १-०९४-२६॥
स तु तं पितरं दृष्ट्वा मोहयामास मायया। संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ॥BORI: १-०९४-२७॥
तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः। शङ्कमानः सुतं गङ्गामब्रवीद् दर्शयेति ह ॥BORI: १-०९४-२८॥
गङ्गोवाच॥
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः। स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् ॥BORI: १-०९४-३१॥
स चायं पुरुषव्याघ्र सर्वास्त्रविदनुत्तमः । गृहाणेमं महाराज मया संवर्धितं सुतम् ॥KUMB: १-१०७-३४; KUMB: १-१०७-३५; NILA: ०१.१००.०३३; NILA: ०१.१००.०३४॥
इत्युक्त्वा सा महाभागा तत्रैवान्तरधीयत ॥KUMB: १-१०७-४१क्ष्॥
वैशम्पायन उवाच॥
तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः। भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति ॥BORI: १-०९४-३७॥
पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम्। सर्वकामसमृद्धार्थं मेने आत्मानमात्मना । पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् ॥BORI: १-०९४-३८॥
पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः। राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ॥BORI: १-०९४-३९॥
स तथा सह पुत्रेण रममाणो महीपतिः। वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ॥BORI: १-०९४-४०॥