Bhārata
Chapter 16: Kṛpa and Droṇa as martial instructors; Droṇa’s arrival in Hastināpura, Arjuna’s emergence as his foremost pupil, Ekalavya’s deprivation, and the Brahmaśiras weapon.
वैशम्पायन उवाच. ॥KUMB: १-१३९-२१क्ष् (८२१)॥
कुमारान्क्रीडमानांस्तान्दृष्ट्वा राजातिदुर्मदान् । गुरुं शिक्षार्थमन्विष्य गौतमं तान्न्यवेदयत् ॥KUMB: १-१३९-४१ (६२६८)॥
शरस्तम्बे समुद्भूतं वेदशास्त्रार्थपारगम् । राज्ञा निवेदितास्तस्मै ते च सर्वे च निष्ठिताः.अधिजग्मुश्च कुरवो धनुर्वेदं कृपात्तु ते ॥KUMB: १-१३९-४२ (६२६९)॥
जनमेजय उवाच॥
कृपस्यापि महाब्रह्मन्सम्भवं वक्तुमर्हसि । शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् ॥BORI: १-१२०-१॥
वैशम्पायन उवाच॥
महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः । पुत्रः किल महाराज जातः सह शरैर्विभो ॥BORI: १-१२०-२॥
न तस्य वेदाध्ययने तथा बुद्धिरजायत । यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप ॥BORI: १-१२०-३॥
अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः । तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ॥BORI: १-१२०-४॥
धनुर्वेदपरत्वाच्च तपसा विपुलेन च । भृशं सन्तापयामास देवराजं स गौतमः ॥BORI: १-१२०-५॥
ततो जालपदीं नाम देवकन्यां सुरेश्वरः । प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ॥BORI: १-१२०-६॥
साभिगम्याश्रमपदं रमणीयं शरद्वतः । धनुर्बाणधरं बाला लोभयामास गौतमम् ॥BORI: १-१२०-७॥
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने । लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत् ॥BORI: १-१२०-८॥
धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि । वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत ॥BORI: १-१२०-९॥
स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् । अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ॥BORI: १-१२०-१०॥
यस्त्वस्य सहसा राजन्विकारः समपद्यत । तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत ॥BORI: १-१२०-११॥
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः । जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह ॥BORI: १-१२०-१२॥
शरस्तम्बे च पतितं द्विधा तदभवन्नृप । तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः ॥BORI: १-१२०-१३॥
मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया । कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ॥BORI: १-१२०-१४॥
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च । व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् । स राज्ञे दर्शयामास मिथुनं सशरं तदा ॥BORI: १-१२०-१५॥
स तदादाय मिथुनं राजाथ कृपयान्वितः । आजगाम गृहानेव मम पुत्राविति ब्रुवन् ॥BORI: १-१२०-१६॥
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत । गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत् ॥BORI: १-१२०-१७॥
कृपया यन्मया बालाविमौ संवर्धिताविति । तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ॥BORI: १-१२०-१८॥
निहितौ गौतमस्तत्र तपसा तावविन्दत । आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा ॥BORI: १-१२०-१९॥
चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च । निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा । सोऽचिरेणैव कालेन परमाचार्यतां गतः ॥BORI: १-१२०-२०॥
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः । धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः । वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः ॥BORI: १-१२०-२१॥
वैशम्पायन उवाच॥
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया । इष्वस्त्रज्ञान् पर्यपृच्छदाचार्यान्वीर्यसंमतान् ॥BORI: १-१२१-१॥
नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः । नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान् ॥BORI: १-१२१-२॥
महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा । ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः ॥BORI: १-१२१-३॥
तस्या वायुः समुद्धूतो वसनं व्यपकर्षत । ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥BORI: १-१२१-४॥
तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥BORI: १-१२१-५॥
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् । प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः ॥BORI: १-१२१-६॥
अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम । भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥BORI: १-१२१-७॥
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥BORI: १-१२१-८॥
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः । चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥BORI: १-१२१-९॥
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् । पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ॥BORI: १-१२१-१०॥
भरद्वाजोऽपि भगवानारुरोह दिवं तदा । ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः । शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत ॥BORI: १-१२१-११॥
अग्निहोत्रे च धर्मे च दमे च सततं रता । अलभद्गौतमी पुत्रमश्वत्थामानमेव च ॥BORI: १-१२१-१२॥
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः । तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ॥BORI: १-१२१-१३॥
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् । अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ॥BORI: १-१२१-१४॥
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् । तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ॥BORI: १-१२१-१५॥
स शुश्राव महात्मानं जामदग्न्यं परन्तपम् । ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ॥BORI: १-१२१-१६॥
वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् । आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् ॥BORI: १-१२१-१७॥
राम उवाच॥
हिरण्यं मम यच्चान्यद्वसु किञ्चन विद्यते । ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन ॥BORI: १-१२१-१८॥
तथैवेयं धरा देवी सागरान्ता सपत्तना । कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥BORI: १-१२१-१९॥
शरीरमात्रमेवाद्य मयेदमवशेषितम् । अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च । वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥BORI: १-१२१-२०॥
द्रोण उवाच॥
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव । सप्रयोगरहस्यानि दातुमर्हस्यशेषतः ॥BORI: १-१२१-२१॥
वैशम्पायन उवाच॥
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः । सरहस्यव्रतं चैव धनुर्वेदमशेषतः ॥BORI: १-१२१-२२॥
प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः । प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥BORI: १-१२१-२३॥
वैशम्पायन उवाच॥
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति ॥BORI: १-१२२-१॥
द्रुपद उवाच॥
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज ॥BORI: १-१२२-२॥
न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥BORI: १-१२२-३॥
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् । सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ॥BORI: १-१२२-४॥
न सख्यमजरं लोके जातु दृश्येत कर्हिचित् । कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति ॥BORI: १-१२२-५॥
मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु । आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ॥BORI: १-१२२-६॥
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा । शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते ॥BORI: १-१२२-७॥
ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ॥BORI: १-१२२-८॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते ॥BORI: १-१२२-९॥
वैशम्पायन उवाच॥
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् । मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः ॥BORI: १-१२२-१०॥
स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥BORI: १-१२२-११॥
स नागपुरमागम्य गौतमस्य निवेशने । भारद्वाजोऽवसत्तत्र प्रच्छन्नं द्विजसत्तमः ॥KUMB: १-१४१-१५॥
ततोऽस्य तनुजः पार्थान्कृपस्यानन्तरं प्रभुः । अस्त्राणि शिक्षयामास नाबुध्यन्त च तं जनाः ॥KUMB: १-१४१-१६॥
एवं स तत्र गूढात्मा कंचित्कालमुवास ह ॥KUMB: १-१४१-१७A॥
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् । क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ॥BORI: १-१२२-१२॥
पपात कूपे सा वीटा तेषां वै क्रीडतां तदा । न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ॥BORI: १-१२२-१३॥
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा । प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ॥BORI: १-१२२-१४॥
अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् । भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥BORI: १-१२२-१५॥
एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः । अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ॥BORI: १-१२२-१६॥
वेत्स्यामीषीकया वीटां तामिषीकामथान्यया । तामन्यया समायोगो वीटाया ग्रहणे मम ॥BORI: १-१२२-१७॥
तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः । अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् ॥BORI: १-१२२-१८॥
अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते । कोऽसि कं त्वाभिजानीमो वयं किं करवामहे ॥BORI: १-१२२-१९॥
द्रोण उवाच॥
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् । स एव सुमहाबुद्धिः साम्प्रतं प्रतिपत्स्यते ॥BORI: १-१२२-२०॥
वैशम्पायन उवाच॥
तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् । ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ॥BORI: १-१२२-२१॥
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत । युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ॥BORI: १-१२२-२२॥
अथैनमानीय तदा स्वयमेव सुसत्कृतम् । परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः । हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् ॥BORI: १-१२२-२३॥
द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः । अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ॥BORI: १-१२२-३८॥
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह । पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥BORI: १-१२२-३९॥
शिष्याः इति ददौ राजन्द्रोणाय विधिपूर्वकम् । स च शिष्यान् महेष्वासः प्रतिजग्राह कौरवान् ॥BORI: १-१२२-४०॥
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् । रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ॥BORI: १-१२२-४१॥
कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते । कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः ॥BORI: १-१२२-४२॥
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते । अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः ॥BORI: १-१२२-४३॥
ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः । प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ॥BORI: १-१२२-४४॥
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च । ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥BORI: १-१२२-४५॥
राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ । अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् । वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ॥BORI: १-१२२-४६॥
वैशम्पायन उवाच॥
अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने । अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ॥BORI: १-१२३-१॥
द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः । अन्धकारेऽर्जुनायान्नं न देयं ते कथञ्चन ॥BORI: १-१२३-२॥
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने । तेन तत्र प्रदीपः स दीप्यमानो निवापितः ॥BORI: १-१२३-३॥
भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत । हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् । तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः ॥BORI: १-१२३-४॥
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत । उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ॥BORI: १-१२३-५॥
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः । त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥BORI: १-१२३-६॥
ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च । अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् ॥BORI: १-१२३-७॥
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु । द्रोणः सङ्कीर्णयुद्धेषु शिक्षयामास पाण्डवम् ॥BORI: १-१२३-८॥
तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः । राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ॥BORI: १-१२३-९॥
ततो निषादराजस्य हिरण्यधनुषः सुतः । एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥BORI: १-१२३-१०॥
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् । शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥BORI: १-१२३-११॥
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः । अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं महीमयम् ॥BORI: १-१२३-१२॥
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा । इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥BORI: १-१२३-१३॥
परया श्रद्धया युक्तो योगेन परमेण च । विमोक्षादानसन्धाने लघुत्वं परमाप सः ॥BORI: १-१२३-१४॥
अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः । रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥BORI: १-१२३-१५॥
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया । राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥BORI: १-१२३-१६॥
तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् । श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् ॥BORI: १-१२३-१७॥
स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने । नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ॥BORI: १-१२३-१८॥
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे । लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा ॥BORI: १-१२३-१९॥
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह । तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः ॥BORI: १-१२३-२०॥
लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा । प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥BORI: १-१२३-२१॥
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् । ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥BORI: १-१२३-२२॥
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् । अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत ॥BORI: १-१२३-२३॥
एकलव्य उवाच॥
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् । द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ॥BORI: १-१२३-२४॥
वैशम्पायन उवाच॥
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः । यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् ॥BORI: १-१२३-२५॥
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् । रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् ॥BORI: १-१२३-२६॥
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः । भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥BORI: १-१२३-२७॥
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् । अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः ॥BORI: १-१२३-२८॥
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् । सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ॥BORI: १-१२३-२९॥
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् । एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ॥BORI: १-१२३-३०॥
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् । अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् ॥BORI: १-१२३-३१॥
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः । निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥BORI: १-१२३-३२॥
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः । यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीयताम् ॥BORI: १-१२३-३३॥
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् । किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ॥BORI: १-१२३-३४॥
न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम । तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम ॥BORI: १-१२३-३५॥
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् । प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा ॥BORI: १-१२३-३६॥
तथैव हृष्टवदनस्तथैवादीनमानसः । छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥BORI: १-१२३-३७॥
ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत । न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥BORI: १-१२३-३८॥
द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः । दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् ॥BORI: १-१२३-४०॥
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् । तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ । युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः ॥BORI: १-१२३-४१॥
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप ॥BORI: १-१२३-४४॥
तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् । द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ ॥BORI: १-१२३-४५॥
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् । अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥BORI: १-१२३-४६॥
द्रोण उवाच॥
शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः । भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः ॥BORI: १-१२३-४७॥
मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् । एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥BORI: १-१२३-४८॥
वैशम्पायन उवाच॥
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः । सन्धत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च ॥BORI: १-१२३-४९॥
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् । तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥BORI: १-१२३-५०॥
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् । स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥BORI: १-१२३-५१॥
पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज । पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥BORI: १-१२३-५२॥
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत । अथ वृक्षमिमं मां वा भ्रातृन्वापि प्रपश्यसि ॥BORI: १-१२३-५३॥
तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् । भवन्तं च तथा भ्रातृन्भासं चेति पुनः पुनः ॥BORI: १-१२३-५४॥
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव । नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥BORI: १-१२३-५५॥
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः । तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥BORI: १-१२३-५६॥
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् । तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः ॥BORI: १-१२३-५७॥
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत । त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् ॥BORI: १-१२३-५८॥
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः । वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ॥BORI: १-१२३-५९॥
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः । तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥BORI: १-१२३-६०॥
मुहूर्तादिव तं द्रोणस्तथैव समभाषत । पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत ॥BORI: १-१२३-६१॥
पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत । न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥BORI: १-१२३-६२॥
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः । प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् ॥BORI: १-१२३-६३॥
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः । शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ॥BORI: १-१२३-६४॥
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः । मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ॥BORI: १-१२३-६५॥
ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह । शिर उत्कृत्य तरसा पातयामास पाण्डवः ॥BORI: १-१२३-६६॥
तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् । मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ॥BORI: १-१२३-६७॥
कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः । जगाम गङ्गामभितो मज्जितुं भरतर्षभ ॥BORI: १-१२३-६८॥
अवगाढमथो द्रोणं सलिले सलिलेचरः । ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ॥BORI: १-१२३-६९॥
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् । ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव ॥BORI: १-१२३-७०॥
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः । आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् । इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे ॥BORI: १-१२३-७१॥
तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् । विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ॥BORI: १-१२३-७२॥
स पार्थ-बाणैः बहुधा खण्डशः परिकल्पितः । ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ॥BORI: १-१२३-७३॥
अथाब्रवीन्महात्मानं भारद्वाजो महारथम् । गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् । अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ॥BORI: १-१२३-७४॥
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन । जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ॥BORI: १-१२३-७५॥
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते । तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ॥BORI: १-१२३-७६॥
बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन । तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे ॥BORI: १-१२३-७७॥
तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः । जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः । भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ॥BORI: १-१२३-७८॥