Bhārata
01.001
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः । यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति ॥
VICTORY:1-1-1
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥१-००१-१॥
VICTORY:1-1-3
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान्। विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥१-००१-२॥
VICTORY:1-1-4
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः। चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥१-००१-३॥
VICTORY:1-1-5
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः।अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥१-००१-४॥
VICTORY:1-1-6
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु।निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥१-००१-५॥
VICTORY:1-1-7
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च।अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥१-००१-६॥
VICTORY:1-1-8
कुत आगम्यते सौते क्व चायं विहृतस्त्वया।कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥१-००१-७॥
VICTORY:1-1-9
सूत उवाच॥ जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः।समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥१-००१-८॥
VICTORY:1-1-10
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः।कथिताश्चापि विधिवद्या वैशम्पायनेन वै ॥१-००१-९॥
VICTORY:1-1-11
वेद वैयासिकीः सर्वाः कथा धर्मार्यैसंहिताः | वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः॥KUMB-१-१-८ (८)॥
VICTORY:1-1-12
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्।इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥१-००१-५२॥
VICTORY:1-1-55
तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः | कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत्॥KUMB/NILA-१-१-८० (८०) / 01.001.055 + 01.001.056॥
VICTORY:1-1-56
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च | तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम्॥KUMB/NILA-१-१-८१ (८१) / 01.001.056 + 01.001.057॥
VICTORY:1-1-57
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया | तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः॥KUMB/NILA-१-१-८२ (८२) / 01.001.057 + 01.001.058॥
VICTORY:1-1-58
आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः॥KUMB/NILA-१-१-८३ (८३) / 01.001.058॥
VICTORY:1-1-59
हिरण्यमर्भमासीनं तस्मिंस्तु परमासने | परिवृत्यासनभ्याशे वासवेयः स्थितोऽभवत्॥KUMB/NILA-१-१-८४ (८४) / 01.001.059॥
VICTORY:1-1-60
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना | निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः॥KUMB/NILA-१-१-८५ (८५) / 01.001.060॥
VICTORY:1-1-61
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् | कृतं मयेदं भगवन्काव्यं परमपूजितम्॥KUMB/NILA-१-१-८६ (८६) / 01.001.061॥
VICTORY:1-1-62
तपोविशिष्टदपि वै वसिष्ठान्मुनिपुंगवात् | मन्ये श्रेष्ठव्यं त्वां वै रहस्यज्ञानवेदनात्॥KUMB/NILA-१-१-९६ (९६) / 01.001.071॥
VICTORY:1-1-63
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम् | त्वयाच काव्यमित्युक्तं तस्मात्काव्यं भविष्यति॥KUMB/NILA-१-१-९७ (९७) / 01.001.072॥
VICTORY:1-1-64
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने.॥KUMB/NILA-१-१-१०९ (१०९) / 01.001.074॥
VICTORY:1-1-65
एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् | भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह॥KUMB/NILA-१-१-११० (११०) / 01.001.074॥
VICTORY:1-1-66
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः॥KUMB/NILA-१-१-१११ (१११) / 01.001.075॥
VICTORY:1-1-67
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः | तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः॥KUMB/NILA-१-१-११२ (११२) / 01.001.075 + 01.001.076॥
VICTORY:1-1-68
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ | लेखको भारतस्यास्य भव त्वं गणनायक || मयैव प्रोच्यमानस्य मनसा कल्पितस्य च॥KUMB/NILA-१-१-११३ (११३) / 01.001.076 + 01.001.077॥
VICTORY:1-1-69
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम् | लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम्॥KUMB/NILA-१-१-११४ (११४) / 01.001.078॥
VICTORY:1-1-70
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित् | ओमित्युक्त्वा गणेशोपि बभूव किल लेखकः॥KUMB/NILA-१-१-११५ (११५) / 01.001.079॥
VICTORY:1-1-71
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् | यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम्॥KUMB/NILA-१-१-११६ (११६) / 01.001.080॥
VICTORY:1-1-72
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च | अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा॥KUMB/NILA-१-१-११७ (११७) / 01.001.081॥
VICTORY:1-1-73
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने | भेत्तुं न शक्यतेऽर्थस्यं गूढत्वात्प्रश्रितस्य च॥KUMB/NILA-१-१-११८ (११८) / 01.001.082॥
VICTORY:1-1-74
सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन् | तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि॥KUMB/NILA-१-१-११९ (११९) / 01.001.083॥
VICTORY:1-1-75
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥१-००१-५७॥
VICTORY:1-1-76
स सदस्यैः सहासीनः श्रावयामास भारतम्।कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥१-००१-५८॥
VICTORY:1-1-77
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्।क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥१-००१-५९॥
VICTORY:1-1-78
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥१-००१-६०॥
VICTORY:1-1-79
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्।उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥१-००१-६१॥
VICTORY:1-1-80
ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः।अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥१-००१-६२॥
VICTORY:1-1-81
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः।मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥१-००१-५३॥
VICTORY:1-1-82
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥१-००१-५४॥
VICTORY:1-1-83
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥१-००१-५५॥
VICTORY:1-1-84
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च | अरण्ये मृगयाशीलो न्यवसत्सजनस्तथा॥KUMB/NILA-१-१-१३० (१३०) / 01.001.112॥
VICTORY:1-1-85
मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम् | जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः॥KUMB/NILA-१-१-१३१ (१३१) / 01.001.113॥
VICTORY:1-1-86
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति | धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया॥KUMB-१-१-१३२ (१३२)॥
VICTORY:1-1-87
' ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा | धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया॥KUMB-१-१-१३३ (१३३)॥
VICTORY:1-1-88
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च | जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः.' तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः॥KUMB-१-१-१३४ (१३४)॥
VICTORY:1-1-89
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च | ' तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु॥KUMB-१-१-१३५ (१३५)॥
VICTORY:1-1-90
माद्र्या तु सह संगम्य ऋषिशापप्रभावतः | मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ ||'॥KUMB-१-१-१३६ (१३६)॥
VICTORY:1-1-91
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्।अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥१-००१-५६॥
VICTORY:1-1-92
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति। धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥१-००१-६९॥
VICTORY:1-1-99
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः। मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥१-००१-७०॥
VICTORY:1-1-100
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम्। शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥१-००१-७१॥
VICTORY:1-1-101
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः। पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥१-००१-७२॥
VICTORY:1-1-102
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्।प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥१-००१-८२॥
VICTORY:1-1-112
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्।आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥१-००१-८३॥
VICTORY:1-1-113
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान्।आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥१-००१-८४॥
VICTORY:1-1-114
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः।युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ॥१-००१-८५॥
VICTORY:1-1-115
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च।घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ॥१-००१-८६॥
VICTORY:1-1-116
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः।मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥१-००१-८७॥
VICTORY:1-1-117
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम्।ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥१-००१-८८॥
VICTORY:1-1-118
विमानप्रतिमां चापि मयेन सुकृतां सभाम्।पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥१-००१-८९॥
VICTORY:1-1-119
यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात्।प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥१-००१-९०॥
VICTORY:1-1-120
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च। कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥१-००१-९१॥
VICTORY:1-1-121
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः। तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥१-००१-९२॥
VICTORY:1-1-122
नातिप्रीतमनाः च आसीत् विवादांश् च अन्वमोदत। द्यूतादीन् नयान् घोरान् प्रवृद्धांश् च अपि उपैक्षत ॥१-००१-९३॥
VICTORY:1-1-123
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम्। विग्रहे तुमुले तस्मिन् अहन् क्षत्रं परस्परम् ॥१-००१-९४॥
VICTORY:1-1-124
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्। दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेः तथा ॥१-००१-९५॥ धृतराष्ट्रः चिरं ध्यात्वा सञ्जयं वाक्यम् अब्रवीत् ॥१-००१-९५॥
VICTORY:1-1-125
शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि। श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥१-००१-९६॥
VICTORY:1-1-126
न विग्रहे मम मतिः न च प्रीये कुरुक्षये। न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥१-००१-९७॥
VICTORY:1-1-127
वृद्धं मामभ्यसूयन्ति पुत्रा मन्यु-परायणाः। अहं तु अचक्षुः कार्पण्यात् पुत्र-प्रीत्या सहामि तत् ॥१-००१-९८॥ मुह्यन्तं च अनुमुह्यामि दुर्योधनम् अचेतनम् ॥१-००१-९८॥
VICTORY:1-1-128
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः। तच्च अवहसनं प्राप्य सभारोहणदर्शने ॥१-००१-९९॥
VICTORY:1-1-129
अमर्षितः स्वयं जेतुं अशक्तः पाण्डवान् रणे। निरुत्साहश्च सम्प्राप्तुं श्रियम् अक्षत्रियः यथा ॥१-००१-१००॥ गान्धारराजसहितः छद्मद्यूतम् अमन्त्रयत् ॥१-००१-१००॥
VICTORY:1-1-130
शोच्याः गान्धारी पुत्रपौत्रैः विहीना; तथा वध्वः पितृभिः भ्रातृभिः च। कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यं असपत्नं पुनः तैः ॥१-००१-१५७॥
VICTORY:1-1-187
कष्टं युद्धे दश शेषाः श्रुताः मे; त्रयः अस्माकं पाण्डवानां च सप्त। द्वि-ऊना विंशतिः आहत-अक्षौहिणीनां; तस्मिन् संग्रामे विग्रहे क्षत्रियाणाम् ॥१-००१-१५८॥
VICTORY:1-1-188
तमसा तु अभ्यवस्तीर्णो; मोहः आविशतीव माम्। सञ्ज्ञां न उपलभे सूत; मनः विह्वलतीव मे ॥१-००१-१५९॥
VICTORY:1-1-189
इति उक्त्वा धृतराष्ट्रः अथ; विलप्य बहु-दुःखितः। मूर्च्छितः पुनः आश्वस्तः; सञ्जयं वाक्यम् अब्रवीत् ॥१-००१-१६०॥
VICTORY:1-1-190
सञ्जय एवम् गते प्राणान् त्यक्तुम् इच्छामि मा चिरम्। स्तोकम् हि अपि न पश्यामि फलम् जीवित-धारणे ॥१-००१-१६१॥
VICTORY:1-1-191
तं तथा वादिनं दीनं विलपन्तं महीपतिम्। गावल्गणिः इदं धीमान् महार्थं वाक्यम् अब्रवीत् ॥१-००१-१६२॥
VICTORY:1-1-192
तव पुत्राः दुरात्मानः प्रतप्ताः च एव मन्युना। लुब्धाः दुर्वृत्त-भूयिष्ठाः न तान् शोचितुम् अर्हसि ॥१-००१-१८३॥
VICTORY:1-1-213
श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञ-सम्मतः। येषां शास्त्र-अनुगा बुद्धिः न ते मुह्यन्ति भारत ॥१-००१-१८४॥
VICTORY:1-1-214
निग्रह-अनुग्रहौ च अपि विदितौ ते नराधिप। न अत्यन्तम् एव अनुवृत्तिः श्रूयते पुत्र-रक्षणे ॥१-००१-१८५॥
VICTORY:1-1-215
भवितव्यं तथा तत् च; न अतः शोचितुम् अर्हसि। दैवं प्रज्ञा-विशेषेण; कः निवर्तितुम् अर्हति ॥१-००१-१८६॥
VICTORY:1-1-216
इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम् | आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा॥KUMB/NILA-१-१-२७७ (२७६) / 01.001.252॥
VICTORY:1-1-217
धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत् | दिष्ट्येदमागतमिति मत्त्वा स प्राज्ञसत्तमः॥KUMB-१-१-२७८ (२७७)॥
VICTORY:1-1-218
तपः न कल्कः अध्ययनं न कल्कः। स्वाभाविकः वेदविधिः न कल्कः। प्रसह्य वित्त-ाहरणं न कल्कः; तानि एव भाव-उपहतानि कल्कः ॥१-००१-२१०॥
VICTORY:1-1-242