Jaya
Chapter 1: Preface: Overview of the Bhārata, Layered Meanings, and Expansion
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः। यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति ॥
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥BORI: १-००१-१॥
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान्। विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥BORI: १-००१-२॥
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः। चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥BORI: १-००१-३॥
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः।अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥BORI: १-००१-४॥
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु।निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥BORI: १-००१-५॥
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च।अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥BORI: १-००१-६॥
कुत आगम्यते सौते क्व चायं विहृतस्त्वया।कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥BORI: १-००१-७॥
सूत उवाच॥
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः।समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥BORI: १-००१-८॥
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः।कथिताश्चापि विधिवद्या वैशम्पायनेन वै ॥BORI: १-००१-९॥
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः।बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ॥BORI: १-००१-१०॥
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्।गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ॥BORI: १-००१-११॥
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥BORI: १-००१-११॥
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह।आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥BORI: १-००१-१२॥
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः।कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ॥BORI: १-००१-१३॥
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥BORI: १-००१-१३॥
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः।इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥BORI: १-००१-१४॥
ऋषय ऊचुः॥
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा।सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥BORI: १-००१-१५॥
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः।सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥BORI: १-००१-१६॥
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्।संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥BORI: १-००१-१७॥
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान्।यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥BORI: १-००१-१८॥
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः।संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥BORI: १-००१-१९॥
सूत उवाच॥
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते।बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥BORI: १-००१-२७॥
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते।यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥BORI: १-००१-२८॥
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम्।अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥BORI: १-००१-२९॥
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः।ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥BORI: १-००१-३०॥
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्।वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥BORI: १-००१-४६॥
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च।लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ॥BORI: १-००१-४७॥
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च।इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥BORI: १-००१-४८॥
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्।इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥BORI: १-००१-५२॥
तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः । कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत् ॥KUMB: १-१-८०; NILA: ०१.००१.०५५; NILA: ०१.००१.०५६॥
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च । तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम् ॥KUMB: १-१-८१; NILA: ०१.००१.०५६; NILA: ०१.००१.०५७॥
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया । तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः ॥KUMB: १-१-८२; NILA: ०१.००१.०५७; NILA: ०१.००१.०५८॥
आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः ॥KUMB: १-१-८३; NILA: ०१.००१.०५८॥
हिरण्यमर्भमासीनं तस्मिंस्तु परमासने । परिवृत्यासनभ्याशे वासवेयः स्थितोऽभवत् ॥KUMB: १-१-८४; NILA: ०१.००१.०५९॥
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना । निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः ॥KUMB: १-१-८५; NILA: ०१.००१.०६०॥
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् । कृतं मयेदं भगवन्काव्यं परमपूजितम् ॥KUMB: १-१-८६; NILA: ०१.००१.०६१॥
ब्रह्मन्वेदरहस्य च यच्चान्यत्स्थापितं मया । साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया ॥KUMB: १-१-८७; NILA: ०१.००१.०६२॥
इतिहासप्रदीपेन मोहावरणघातिना । लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम् ॥KUMB: १-१-१०३; NILA: ०१.००१.०८७॥
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने. ॥KUMB: १-१-१०९; NILA: ०१.००१.०७४॥
एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् । भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह ॥KUMB: १-१-११०; NILA: ०१.००१.०७४॥
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः ॥KUMB: १-१-१११; NILA: ०१.००१.०७५॥
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः । तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः ॥KUMB: १-१-११२; NILA: ०१.००१.०७५; NILA: ०१.००१.०७६॥
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ । लेखको भारतस्यास्य भव त्वं गणनायक ॥ मयैव प्रोच्यमानस्य मनसा कल्पितस्य च ॥KUMB: १-१-११३; NILA: ०१.००१.०७६; NILA: ०१.००१.०७७॥
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम् । लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥KUMB: १-१-११४; NILA: ०१.००१.०७८॥
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित् । ओमित्युक्त्वा गणेशोपि बभूव किल लेखकः ॥KUMB: १-१-११५; NILA: ०१.००१.०७९॥
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् । यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम् ॥KUMB: १-१-११६; NILA: ०१.००१.०८०॥
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च । अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा ॥KUMB: १-१-११७; NILA: ०१.००१.०८१॥
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने । भेत्तुं न शक्यतेऽर्थस्यं गूढत्वात्प्रश्रितस्य च ॥KUMB: १-१-११८; NILA: ०१.००१.०८२॥
सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन् । तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि ॥KUMB: १-१-११९; NILA: ०१.००१.०८३॥
तस्य वृक्षस्य वक्ष्यामि शाखापुष्पफलोदयम् । स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि ॥KUMB: १-१-१२०; NILA: ०१.००१.०९३॥
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्।ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥BORI: १-००१-६३॥
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥BORI: १-००१-५७॥
स सदस्यैः सहासीनः श्रावयामास भारतम्।कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥BORI: १-००१-५८॥
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्।उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥BORI: १-००१-६१॥
विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत्।इष्टं हि विदुषां लोके समासव्यासधारणम् ॥BORI: १-००१-४९॥
मन्वादि भारतं केचिदास्तीकादि तथापरे।तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥BORI: १-००१-५०॥
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः।व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥BORI: १-००१-५१॥
ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः।अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥BORI: १-००१-६२॥
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः । न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥BORI: १-००२-२३५॥
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः । इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ॥BORI: १-००२-२३९॥
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते । आहारमनपाश्रित्य शरीरस्येव धारणम् ॥BORI: १-००२-२४०॥
आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण । श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ॥BORI: १-००२-२४३॥