Jaya
Chapter 15: Duryodhana reveals his wicked disposition and desire to seize the kingdom by plotting Bhīma’s death; Yudhiṣṭhira takes control under Vidura’s guidance.
अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा । अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥BORI: १-११९-१३॥
धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि । बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ॥BORI: १-११९-१४॥
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे । धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥BORI: १-११९-१५॥
हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने । शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ॥BORI: १-११९-१६॥
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् । एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ॥BORI: १-११९-१७॥
पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली । चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ॥BORI: १-११९-१८॥
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः । आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ॥BORI: १-११९-१९॥
फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा । तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ॥BORI: १-११९-२०॥
प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः । सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ॥BORI: १-११९-२१॥
न ते नियुद्धे न जवे न योग्यासु कदाचन । कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥BORI: १-११९-२२॥
एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः । अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥BORI: १-११९-२३॥
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् । भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥BORI: १-११९-२४॥
तस्य धर्मादपेतस्य पापानि परिपश्यतः । मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥BORI: १-११९-२५॥
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः । मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ॥BORI: १-११९-२६॥
अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् । प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् ॥BORI: १-११९-२७॥
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा । नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥BORI: १-११९-२८॥
ततो जलविहारार्थं कारयामास भारत । चेलकम्बलवेश्मानि विचित्राणि महान्ति च ॥BORI: १-११९-२९॥
प्रमाणकोट्यामुद्देशं स्थलं किञ्चिदुपेत्य च । क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलङ्कृताः । सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥BORI: १-११९-३०॥
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः । विहारावसथेष्वेव वीरा वासमरोचयन् ॥BORI: १-११९-३१॥
तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह । उपच्छन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः ॥KUMB: १-१३८-१३ (६१९७)॥
अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्चते । परस्परस्य वक्त्रेषु ददुर्भक्ष्यांस्ततस्ततः ॥KUMB: १-१३८-१४ (६१९८)॥
ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम् । विषं प्रक्षेपयामास भीमसेनजिघांसया ॥KUMB: १-१३८-१५ (६१९९)॥
स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः । स वाचाऽमृतकल्पश्च भ्रातृवच्च सुहृद्यथा ॥KUMB: १-१३८-१६ (६२००)॥
स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पाकृत् । प्रभक्षितं च भीमेन तं वै दोषमजानता ॥KUMB: १-१३८-१७ (६२०१)॥
ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत । पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः ॥KUMB: १-१३८-१९ (६२०३)॥
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा । वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः । प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ॥BORI: १-११९-३२॥
शीतं वासं समासाद्य श्रान्तो मदविमोहितः । निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ॥BORI: १-११९-३३॥
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः । गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ॥BORI: १-११९-३४॥
वैशम्पायन उवाच. ॥KUMB: १-१३९-०क्ष् (८१८)॥
दुर्योधनस्तु पापात्मा भीममाशीविषहदे । प्रक्षिप्य कृतकृत्यं स्वमात्मानं मन्यते तदा ॥KUMB: १-१३९-१ (६२२८)॥
प्रभातायां रजन्यां च प्रविवेश पुरं ततः । ब्रुवाणो भीमसेनस्तु यातो ह्यग्रत एव नः ॥॥KUMB: १-१३९-२ (६२२९)॥
युधिष्ठिरस्तु धर्मात्मा ह्यविदन्पापमात्मनि । स्वेनानुमानेन परं साधुं समनुपश्यति ॥KUMB: १-१३९-३ (६२३०)॥
सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः । अभिवाद्याब्रवीत्कुन्तीमम्ब भीम इहागतः ॥KUMB: १-१३९-४ (६२३१)॥
क्व गतो भविता मातर्नेह पश्यामि तं शुभे । उद्यानानि वनं चैव विचितानि समन्ततः ॥KUMB: १-१३९-५ (६२३२)॥
तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम् । मन्यमानास्ततः सर्वे यातो नः पूर्वमेव सः ॥KUMB: १-१३९-६ (६२३३)॥
आगताः स्म महाभागे व्याकुलेनान्तरात्मना । इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु ॥KUMB: १-१३९-७ (६२३४)॥
कथयस्व महाबाहुं भीमसेनं यशस्विनि । नहि मे शुध्यते भावस्तं वीरं प्रति शोभने ॥KUMB: १-१३९-८ (६२३५)॥
यतः प्रसुप्तं मन्येऽहं भीम् नेति हतस्तु सः । इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता ॥KUMB: १-१३९-९ (६२३६)॥
हाहेति कृत्वा संभ्रान्ता प्रत्युवाच युधिष्ठिरम् । न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति ॥KUMB: १-१३९-१० (६२३७)॥
शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह । द्रुतं गत्वा पुरोद्यानं विचिन्वन्तिस्म पाण्डवाः ॥KUMB: १-१३९-११ (६२३८)॥
भीमभीमेति ते वाचा पाण्डवाः समुदैरयन् । विचिन्वन्तोऽथ ते सर्वे न स्म पश्यन्ति भ्रातरम् ॥KUMB: १-१३९-१२ (६२३९)॥
आगताः स्वगृहं भूय इदमूचुः पृथां तदा । न दृश्यते महाबाहुरम्ब भीमो वने चितः ॥KUMB: १-१३९-१३ (६२४०)॥
विचितानि च सर्वाणि ह्युद्यानानि नदीस्तथा. ॥KUMB: १-१३९-१४ (६२४१)॥
वैशम्पायन उवाच । ततो विदुरमानाय्य कुन्ती सा स्वं निवेशनम् ॥KUMB: १-१३९-१४क्ष् (८१९)॥
उवाच बलवान्क्षत्तर्भीमसेनो न दृश्यते ॥KUMB: १-१३९-१५ (६२४२)॥
उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह । तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह ॥KUMB: १-१३९-१६ (६२४३)॥
न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः । क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः ॥KUMB: १-१३९-१७ (६२४४)॥
निहन्यादपि तं वीरं जातमन्युः सुयोधनः । तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च ॥KUMB: १-१३९-१८ (६२४५)॥
विदुर उवाच. ॥KUMB: १-१३९-१९क्ष् (८२०)॥
मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु । प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत्तव ॥KUMB: १-१३९-१९ (६२४६)॥
दीर्घायुषस्तव सुता यथोवाच महामुनिः । आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति ॥KUMB: १-१३९-२० (६२४७)॥
वैशम्पायन उवाच. ॥KUMB: १-१३९-२१क्ष् (८२१)॥
एवमुक्त्वा ययौ विद्वान्विदुरः स्वं निवेशनम् । कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे ॥KUMB: १-१३९-२१ (६२४८)॥
स निःसंज्ञो जलस्यान्तमवाग्वै पाण्डवोऽविशत् । आक्रामन्नागभवने तदा नागकुमारकान् ॥KUMB: १-१३८-२५; NILA: ०१.१२८.०५५॥
ततः समेत्य बहुभिस्तदा नागैर्महाविषैः । अदश्यत भृशं भीमो महादंष्ट्रैर्विपोल्बणैः ॥KUMB: १-१३८-२६ (६२१०)॥
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः । त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥BORI: १-११९-३७॥
तत उत्थाय कौन्तेयो भीमसेनो महाबलः । आजगाम महाबाहुर्मातुरन्तिकमञ्जसा ॥KUMB: १-१३९-३१ (६२५८)॥
ततोऽभिवाद्य जननीं ज्येष्ठं भ्रातरमेव च । कनीयसः समाघ्राय शिरस्स्वरिविमर्दनः ॥KUMB: १-१३९-३२ (६२५९)॥
तैश्चापि संपरिष्वक्तः सह मात्रा नरर्षभैः । अन्योन्यगतसौहार्दाद्दिष्ट्या दिष्ट्येति चाब्रुवन् ॥KUMB: १-१३९-३३ (६२६०)॥
ततस्तत्सर्वमाचष्ट दुर्योधनविचेष्टितम् । भ्रातॄणां भीमसेनश्च महाबलपराक्रमः ॥KUMB: १-१३९-३४ (६२६१)॥
ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत् । तूष्णीं भव न ते जल्प्यमिदं कार्यं कथंचन ॥KUMB: १-१३९-३६ (६२६३)॥
इतःप्रभृति कौन्तेयं रक्षतान्योन्यमादृताः । एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः ॥KUMB: १-१३९-३७ (६२६४)॥
भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत्तदा । यदा त्ववगतास्ते वै पाण्डवास्तस्य कर्म तत् ॥KUMB: १-१३९-३८ (६२६५)॥
नत्वेव बहुलं चक्रुः प्रयता मन्त्ररक्षणे । धर्मात्मा विदुरस्तेषां प्रददौ मतिमान्मतिम् ॥KUMB: १-१३९-३९ (६२६६)॥
दुर्योधनोऽपि तं दृष्ट्वा पाण्डवं पुनरागतम् । निश्वसंश्चिन्तयंश्चैवमहन्यहनि तप्यते ॥KUMB: १-१३९-४० (६२६७)॥
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् । कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ॥BORI: १-११९-३९॥
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया । तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ॥BORI: १-११९-४०॥
विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् । भीमसंहननो भीमस्तदप्यजरयत्ततः ॥BORI: १-११९-४१॥
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥BORI: १-११९-४३॥