Jaya
Chapter 17: The princes’ martial exhibition; Bhīma and Duryodhana’s prowess, Arjuna’s acclaimed skill, Karṇa’s challenge, and his alliance with Duryodhana.
वैशम्पायन उवाच॥
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत। दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥BORI: १-१२४-१॥
राजन्सम्प्राप्तविद्यास्ते कुमराः कुरुसत्तम। ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥BORI: १-१२४-३॥
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना। भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ॥BORI: १-१२४-४॥
यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा। तथा तथा विधानाय स्वयमाज्ञापयस्व माम् ॥BORI: १-१२४-५॥
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा। न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥BORI: १-१२४-७॥
ततो राजानमामन्त्र्य विदुरानुगतो बहिः। भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्। समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ॥BORI: १-१२४-८॥
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि। प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः। राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ ॥BORI: १-१२४-१०॥
अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् । विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ॥BORI: १-१२४-२०॥
ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः । बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ॥BORI: १-१२४-२१॥
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः । चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥BORI: १-१२४-२२॥
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे । मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः ॥BORI: १-१२४-२३॥
ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः । विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥BORI: १-१२४-२४॥
तत्कुमारबलं तत्र गृहीतशरकार्मुकम् । गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥BORI: १-१२४-२५॥
सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः । विस्मयोत्फुल्लनयनाः साधु साध्विति भारत ॥BORI: १-१२४-२६॥
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् । गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥BORI: १-१२४-२७॥
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः । त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥BORI: १-१२४-२८॥
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् । ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ॥BORI: १-१२४-२९॥
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ । अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥BORI: १-१२४-३०॥
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ । चेरतुर्निर्मलगदौ समदाविव गोवृषौ ॥BORI: १-१२४-३२॥
वैशम्पायन उवाच॥
कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे । पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥BORI: १-१२५-१॥
हा वीर कुरुराजेति हा भीमेति च नर्दताम् । पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥BORI: १-१२५-२॥
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् । भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥BORI: १-१२५-३॥
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि । मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥BORI: १-१२५-४॥
ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ । युगान्तानिलसङ्क्षुब्धौ महावेगाविवार्णवौ ॥BORI: १-१२५-५॥
वैशम्पायन उवाच॥
तस्मिन्समुदिते रङ्गे कथञ्चित्पर्यवस्थिते । दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ॥BORI: १-१२५-१८॥
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः । क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ॥BORI: १-१२५-२१॥
सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः । सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥BORI: १-१२५-२२॥
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् । पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ॥BORI: १-१२५-२३॥
इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् । गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ॥BORI: १-१२५-२५॥
ततः समाप्त-भूयिष्ठे तस्मिन् कर्मणि भारत । मन्दीभूते समाजे च वादित्रस्य च निस्वने ॥BORI: १-१२५-२६॥
द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः । वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ॥BORI: १-१२५-२७॥
वैशम्पायन उवाच॥
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः। विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः ॥BORI: १-१२६-१॥
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम्। प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ॥BORI: १-१२६-६॥
स सामाजजनः सर्वो निश्चलः स्थिरलोचनः। कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ॥BORI: १-१२६-७॥
सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः। भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥BORI: १-१२६-८॥
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः। करिष्ये पश्यतां नृणां मात्मना विस्मयं गमः ॥BORI: १-१२६-९॥
असमाप्ते ततस्तस्य वचने वदतां वर। यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः ॥BORI: १-१२६-१०॥
प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् । ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह ॥BORI: १-१२६-११॥
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा । यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥BORI: १-१२६-१२॥
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत । कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ॥BORI: १-१२६-१३॥
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद । अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ॥BORI: १-१२६-१४॥
कर्ण उवाच॥
कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे । द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ॥BORI: १-१२६-१५॥
दुर्योधन उवाच॥
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव । दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम ॥BORI: १-१२६-१६॥
वैशम्पायन उवाच॥
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत । कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥BORI: १-१२६-१७॥
अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् । ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥BORI: १-१२६-१८॥
कर्ण उवाच॥
रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन । वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ॥BORI: १-१२६-१९॥
किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत । गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥BORI: १-१२६-२०॥
वैशम्पायन उवाच॥
ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः । भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥BORI: १-१२६-२१॥
ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः । परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ॥BORI: १-१२६-२२॥
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः । भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥BORI: १-१२६-२६॥
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् । द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ॥BORI: १-१२६-३०॥
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः । कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥BORI: १-१२६-३१॥
त्वमप्येवं महाबाहो मातरं पितरं कुलम् । कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः । ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ॥BORI: १-१२६-३२॥
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् । बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा ॥BORI: १-१२६-३३॥
दुर्योधन उवाच॥
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये । तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति ॥BORI: १-१२६-३४॥
यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति । तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ॥BORI: १-१२६-३५॥
वैशम्पायन उवाच॥
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः । काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः । अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः ॥BORI: १-१२६-३६॥
सच्छत्रवालव्यजनो जयशब्दान्तरेण च । उवाच कौरवं राजा राजानं तं वृषस्तदा ॥BORI: १-१२६-३७॥
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते । प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप । अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ॥BORI: १-१२६-३८॥
एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत । हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ॥BORI: १-१२६-३९॥
वैशम्पायन उवाच॥
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः । विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ॥BORI: १-१२७-१॥
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः । कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ॥BORI: १-१२७-२॥
ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः । पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः ॥BORI: १-१२७-३॥
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः । अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ॥BORI: १-१२७-४॥
तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः । भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ॥BORI: १-१२७-५॥
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् । कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ॥BORI: १-१२७-६॥
एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः । गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ॥BORI: १-१२७-८॥
ततो दुर्योधनः कोपादुत्पपात महाबलः । भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥BORI: १-१२७-९॥
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् । वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥BORI: १-१२७-१०॥
क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना । शूराणां च नदीनां च प्रभवा दुर्विदाः किल ॥BORI: १-१२७-११॥
सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् । कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति ॥BORI: १-१२७-१५॥
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् । रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ॥BORI: १-१२७-१७॥
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् । साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् ॥BORI: १-१२७-१८॥
ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप । दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥BORI: १-१२७-१९॥
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते । भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ॥BORI: १-१२७-२०॥
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत । कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥BORI: १-१२७-२१॥
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव । भयमर्जुनसाञ्जातं क्षिप्रमन्तरधीयत ॥BORI: १-१२७-२३॥
स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम् । युधिष्ठिरस्याप्यभवत्तदा मति; र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥BORI: १-१२७-२४॥