Chapter 20: The Pāṇḍavas secretly escape after burning the lac house and are believed dead. Dhṛtarāṣṭra publicly mourns while Vidura conceals the truth.
वैशम्पायन उवाच॥
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् । विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ॥BORI: १-१३५-१॥
प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् । पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ॥BORI: १-१३५-२॥
कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः । भवनस्य तव द्वारि प्रदास्यति हुताशनम् ॥BORI: १-१३५-४॥
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः । इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् ॥BORI: १-१३५-५॥
किञ्चिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव । त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ॥BORI: १-१३५-६॥
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः । अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ॥BORI: १-१३५-७॥
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् । न विद्यते कवेः किञ्चिदभिज्ञानप्रयोजनम् ॥BORI: १-१३५-८॥
यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि । भवतः स्म यथा तस्य पालयास्मान्यथा कविः ॥BORI: १-१३५-९॥
इदं शरणमाग्नेयं मदर्थमिति मे मतिः । पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ॥BORI: १-१३५-१०॥
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः । अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते ॥BORI: १-१३५-११॥
स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् । अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ॥BORI: १-१३५-१२॥
समृद्धमायुधागारमिदं तस्य दुरात्मनः । वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् ॥BORI: १-१३५-१३॥
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् । प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ॥BORI: १-१३५-१४॥
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा । पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय ॥BORI: १-१३५-१५॥
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः । परिखामुत्किरन्नाम चकार सुमहद्बिलम् ॥BORI: १-१३५-१६॥
चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् । कपाटयुक्तमज्ञातं समं भूम्या च भारत ॥BORI: १-१३५-१७॥
पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् । स तत्र च गृहद्वारि वसत्यशुभधीः सदा ॥BORI: १-१३५-१८॥
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप । दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ॥BORI: १-१३५-१९॥
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् । अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः ॥BORI: १-१३५-२०॥
न चैनानन्वबुध्यन्त नरा नगरवासिनः । अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ॥BORI: १-१३५-२१॥
वैशम्पायन उवाच॥
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् । विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ॥BORI: १-१३६-१॥
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः । भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् ॥BORI: १-१३६-२॥
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः । वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ॥BORI: १-१३६-३॥
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् । षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ॥BORI: १-१३६-४॥
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् । चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः ॥BORI: १-१३६-५॥
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत । जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् ॥BORI: १-१३६-६॥
निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया । अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ॥BORI: १-१३६-७॥
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला । सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने । सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ॥BORI: १-१३६-८॥
अथ प्रवाते तुमुले निशि सुप्ते जने विभो । तदुपादीपयद्भीमः शेते यत्र पुरोचनः ॥BORI: १-१३६-९॥
ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः । प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ॥BORI: १-१३६-१०॥
पौरा ऊचुः॥
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना । गृहमात्मविनाशाय कारितं दाहितं च यत् ॥BORI: १-१३६-११॥
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी । यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा ॥BORI: १-१३६-१२॥
दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः । अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ॥BORI: १-१३६-१३॥
वैशम्पायन उवाच॥
एवं ते विलपन्ति स्म वारणावतका जनाः । परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ॥BORI: १-१३६-१४॥
पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः । बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः ॥BORI: १-१३६-१५॥
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः । न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ॥BORI: १-१३६-१६॥
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः । जगाम भ्रातृनादाय सर्वान्मातरमेव च ॥BORI: १-१३६-१७॥
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् । पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ ॥BORI: १-१३६-१८॥
तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् । स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥BORI: १-१३६-१९॥
वैशम्पायन उवाच॥
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः । तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥BORI: १-१३७-१॥
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः । जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ॥BORI: १-१३७-२॥
नूनं दुर्योधनेनेदं विहितं पापकर्मणा । पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः ॥BORI: १-१३७-३॥
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः । दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् ॥BORI: १-१३७-४॥
नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते । द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥BORI: १-१३७-५॥
ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः । संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ॥BORI: १-१३७-६॥
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् । निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥BORI: १-१३७-७॥
खनकेन तु तेनैव वेश्म शोधयता बिलम् । पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ॥BORI: १-१३७-८॥
ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः । पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥BORI: १-१३७-९॥
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् । विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥BORI: १-१३७-१०॥
अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः । तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥BORI: १-१३७-११॥
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् । सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् ॥BORI: १-१३७-१२॥
कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च । ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ॥BORI: १-१३७-१३॥
एवङ्गते मया शक्यं यद्यत्कारयितुं हितम् । पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥BORI: १-१३७-१४॥
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः । उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥BORI: १-१३७-१५॥
चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः । विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥BORI: १-१३७-१६॥
पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् । जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः ॥BORI: १-१३७-१७॥