Jaya
Chapter 22: Kuntī’s Decision to Send Bhīma Against Baka to Save Their Brahmin Host
जनमेजय उवाच॥
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥BORI: ०१-१४५-१॥
वैशम्पायन उवाच॥
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥BORI: ०१-१४५-२॥
चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते । बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ॥BORI: ०१-१४५-४॥
निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि । तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ॥BORI: ०१-१४५-५॥
अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः । अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ॥BORI: ०१-१४५-६॥
तथा तु तेषां वसतां तत्र राजन्महात्मनाम् । अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥BORI: ०१-१४५-७॥
ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः । सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह ॥BORI: ०१-१४५-८॥
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने । भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥BORI: ०१-१४५-९॥
रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा । कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ॥BORI: ०१-१४५-१०॥
मथ्यमानेव दुःखेन हृदयेन पृथा ततः । उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥BORI: ०१-१४५-११॥
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने । अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥BORI: ०१-१४५-१२॥
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् । प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ॥BORI: ०१-१४५-१३॥
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति । यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥BORI: ०१-१४५-१४॥
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् । तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥BORI: ०१-१४५-१५॥
भीम उवाच॥
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् । विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥BORI: ०१-१४५-१६॥
वैशम्पायन उवाच॥
तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् । आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ॥BORI: ०१-१४५-१७॥
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः । विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ॥BORI: ०१-१४५-१८॥
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च । दुहित्रा चैव सहितं ददर्श विकृताननम् ॥BORI: ०१-१४५-१९॥
कुन्त्युवाच॥
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः । विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् ॥BORI: १-१४८-१॥
ब्राह्मण उवाच॥
उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने । न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥BORI: १-१४८-२॥
समीपे नगरस्यास्य बको वसति राक्षसः । ईशो जनपदस्यास्य पुरस्य च महाबलः ॥BORI: १-१४८-३॥
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः । रक्षत्यसुरराण्नित्यमिमं जनपदं बली ॥BORI: १-१४८-४॥
नगरं चैव देशं च रक्षोबलसमन्वितः । तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ॥BORI: १-१४८-५॥
वेतनं तस्य विहितं शालिवाहस्य भोजनम् । महिषौ पुरुषश्चैको यस्तदादाय गच्छति ॥BORI: १-१४८-६॥
एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् । स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥BORI: १-१४८-७॥
तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् । सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥BORI: १-१४८-८॥
वेत्रकीयगृहे राजा नायं नयमिहास्थितः । अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥BORI: १-१४८-९॥
एतदर्हा वयं नूनं वसामो दुर्बलस्य ये । विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः ॥BORI: १-१४८-१०॥
ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः । गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा ॥BORI: १-१४८-११॥
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । त्रयस्य सञ्चये चास्य ज्ञातीन्पुत्रांश्च धारयेत् ॥BORI: १-१४८-१२॥
विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् । त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् ॥BORI: १-१४८-१३॥
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः । भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥BORI: १-१४८-१४॥
न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् । सुहृज्जनं प्रदातुं च न शक्ष्यामि कथञ्चन । गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ॥BORI: १-१४८-१५॥
सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् । सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् । ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥BORI: १-१४८-१६॥
कुन्त्युवाच॥
न विषादस्त्वया कार्यो भयादस्मात्कथञ्चन । उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ॥BORI: १-१४९-१॥
एकस्तव सुतो बालः कन्या चैका तपस्विनी । न ते तयोस्तथा पत्न्या गमनं तत्र रोचये ॥BORI: १-१४९-२॥
मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति । त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥BORI: १-१४९-३॥
ब्राह्मण उवाच॥
नाहमेतत्करिष्यामि जीवितार्थी कथञ्चन । ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् ॥BORI: १-१४९-४॥
न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते । यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् ॥BORI: १-१४९-५॥
आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये । ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम ॥BORI: १-१४९-६॥
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते । अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम ॥BORI: १-१४९-७॥
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे । परैः कृते वधे पापं न किञ्चिन्मयि विद्यते ॥BORI: १-१४९-८॥
अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया । निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ॥BORI: १-१४९-९॥
आगतस्य गृहे त्यागस्तथैव शरणार्थिनः । याचमानस्य च वधो नृशंसं परमं मतम् ॥BORI: १-१४९-१०॥
कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन । इति पूर्वे महात्मान आपद्धर्मविदो विदुः ॥BORI: १-१४९-११॥
श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् । ब्राह्मणस्य वधं नाहमनुमंस्ये कथञ्चन ॥BORI: १-१४९-१२॥
कुंत्युवाच॥
ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा । न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥BORI: १-१४९-१३॥
न चासौ राक्षसः शक्तो मम पुत्रविनाशने । वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥BORI: १-१४९-१४॥
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् । मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ॥BORI: १-१४९-१५॥
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः । बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥BORI: १-१४९-१६॥
न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथञ्चन । विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ॥BORI: १-१४९-१७॥
गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम । न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् ॥BORI: १-१४९-१८॥
वैशम्पायन उवाच॥
एवमुक्तस्तु पृथया स विप्रो भार्यया सह । हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् ॥BORI: १-१४९-१९॥
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् । तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ॥BORI: १-१४९-२०॥
वैशम्पायन उवाच॥
करिष्य इति भीमेन प्रतिज्ञाते तु भारत । आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ॥BORI: १-१५०-१॥
भीमसेनं ततो दृष्ट्वा आपूर्णवदनं तथा । बुबोध धर्मराजस्तु हृषितं भीममच्युतम् ॥KUMB: १-१७६-२॥
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः । रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ॥BORI: १-१५०-२॥
किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः । भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति ॥BORI: १-१५०-३॥
कुंत्युवाच॥
ममैव वचनादेष करिष्यति परन्तपः । ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च ॥BORI: १-१५०-४॥
युधिष्ठिर उवाच॥
किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् । परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ॥BORI: १-१५०-५॥
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि । लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया ॥BORI: १-१५०-६॥
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया । कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः ॥BORI: १-१५०-११॥
कुन्त्युवाच॥
युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् । न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ॥BORI: १-१५०-१२॥
इह विप्रस्य भवने वयं पुत्र सुखोषिताः । तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता । एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ॥BORI: १-१५०-१३॥
दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतुगृहे महत् । हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे ॥BORI: १-१५०-१४॥
जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ । शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता ॥BORI: १-१५०-१७॥
तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव । प्रतीकारं च विप्रस्य ततः कृतवती मतिम् ॥BORI: १-१५०-१८॥
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् । बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ॥BORI: १-१५०-१९॥
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः । प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ॥BORI: १-१५०-२०॥
युधिष्ठिर उवाच॥
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् । आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् । ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ॥BORI: १-१५०-२६॥
यथा त्विदं न विन्देयुर्नरा नगरवासिनः । तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ॥BORI: १-१५०-२७॥