Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.017
Library: Yudhishthira advises his brothers and Draupadi on truth.
युधिष्ठिर उवाच॥
असन्तोषः प्रमादश्च मदो रागोऽप्रशान्तता। बलं मोहोऽभिमानश्च उद्वेगश्चापि सर्वशः ॥१२-१७-१॥
एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसि। निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव ॥१२-१७-२॥
य इमामखिलां भूमिं शिष्यादेको महीपतिः। तस्याप्युदरमेवैकं किमिदं त्वं प्रशंससि ॥१२-१७-३॥
नाह्ना पूरयितुं शक्या न मासेन नरर्षभ। अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात् ॥१२-१७-४॥
यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति। अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम् ॥ जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् ॥१२-१७-५॥
मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि। अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम् ॥१२-१७-६॥
योगक्षेमौ च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ। मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय ॥१२-१७-७॥
एकोदरकृते व्याघ्रः करोति विघसं बहु। तमन्येऽप्युपजीवन्ति मन्दवेगञ्चरा मृगाः ॥१२-१७-८॥
विषयान्प्रतिसंहृत्य संन्यासं कुरुते यतिः। न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा ॥१२-१७-९॥
पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा। अब्भक्षैर्वायुभक्षैश्च तैरयं नरको जितः ॥१२-१७-१०॥
यश्चेमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः। तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः ॥१२-१७-११॥
सङ्कल्पेषु निरारम्भो निराशो निर्ममो भव। विशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् ॥१२-१७-१२॥
निरामिषा न शोचन्ति शोचसि त्वं किमामिषम्। परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे ॥१२-१७-१३॥
पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ। ईजानाः पितृयानेन देवयानेन मोक्षिणः ॥१२-१७-१४॥
तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः। विमुच्य देहान्वै भान्ति मृत्योरविषयं गताः ॥१२-१७-१५॥
आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम्। ताभ्यां विमुक्तः पाशाभ्यां पदमाप्नोति तत्परम् ॥१२-१७-१६॥
अपि गाथामिमां गीतां जनकेन वदन्त्युत। निर्द्वंद्वेन विमुक्तेन मोक्षं समनुपश्यता ॥१२-१७-१७॥
अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन। मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन ॥१२-१७-१८॥
प्रज्ञाप्रासादमारुह्य नशोच्याञ्शोचतो जनान्। जगतीस्थानिवाद्रिस्थो मन्दबुद्धीनवेक्षते ॥१२-१७-१९॥
दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान्। अज्ञातानां च विज्ञानात्सम्बोधाद्बुद्धिरुच्यते ॥१२-१७-२०॥
यस्तु वाचं विजानाति बहुमानमियात्स वै। ब्रह्मभावप्रसूतानां वैद्यानां भावितात्मनाम् ॥१२-१७-२१॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति। तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥१२-१७-२२॥
ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः। नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् ॥१२-१७-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.