Maha union -
UNION 01.02
ऋषय ऊचुः॥
समन्तपञ्चकमिति यदुक्तं सूतनन्दन। एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम्॥ (BORI 1.2.1)
सूत उवाच॥
शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः। समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः॥ (BORI 1.2.2)
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः। असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः॥ (BORI 1.2.3)
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः। समन्तपञ्चके पञ्च चकार रुधिरह्रदान्॥ (BORI 1.2.4)
स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः। पितृन्सन्तर्पयामास रुधिरेणेति नः श्रुतम्॥ (BORI 1.2.5)
अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम्। राम राम महाभाग प्रीताः स्म तव भार्गव॥ (NIL 1.2.6; KUM 1.2.6)
अनया पितृभक्त्या च विक्रमेण तव प्रभो। वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते॥ (NIL 1.2.7; KUM 1.2.7)
राम उवाच॥
यदि मे पितरः प्रीता यद्यनुग्राह्यतामयि। यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया॥ (NIL 1.2.8; KUM 1.2.8)
अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः। ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः॥ (NIL 1.2.9; KUM 1.2.9)
एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन्। (NIL 1.2.10; KUM 1.2.10)
तं क्षमस्वेति सिषिधुस्ततः स विरराम ह॥ (BORI 1.2.6)
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्। समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्॥ (BORI 1.2.7)
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते। तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः॥ (BORI 1.2.8)
अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत्। समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः॥ (BORI 1.2.9)
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते। अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया॥ (BORI 1.2.10)
समेत्य तं द्विजास्ताश्च तत्रैव निधं गताः। (NIL 1.2.15; KUM 1.2.15)
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः। पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः॥ (BORI 1.2.11)
तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः। यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः॥ (BORI 1.2.12)
ऋषय ऊचुः॥
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन। एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्॥ (BORI 1.2.13)
अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम्। यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव॥ (BORI 1.2.14)
सूत उवाच॥
एको रथो गजश्चैको नराः पञ्च पदातयः। त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते॥ (BORI 1.2.15)
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः। त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते॥ (BORI 1.2.16)
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः। स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः॥ (BORI 1.2.17)
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी। अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः॥ (BORI 1.2.18)
अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः। सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः॥ (BORI 1.2.19)
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः। गजानां तु परीमाणमेतदेवात्र निर्दिशेत्॥ (BORI 1.2.20)
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव। नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः॥ (BORI 1.2.21)
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च। दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया॥ (BORI 1.2.22)
एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः। यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः॥ (BORI 1.2.23)
एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः। अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः॥ (BORI 1.2.24)
समेतास्तत्र वै देशे तत्रैव निधनं गताः। कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा॥ (BORI 1.2.25)
अहानि युयुधे भीष्मो दशैव परमास्त्रवित्। अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्॥ (BORI 1.2.26)
अहनी युयुधे द्वे तु कर्णः परबलार्दनः। शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम्॥ (BORI 1.2.27)
तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः। प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्॥ (BORI 1.2.28)
यत्तु शौनकसत्रे ते भारताख्यानविस्तरम्। जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता॥ (NIL 1.2.33; KUM 1.2.33)
कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्। (NIL 1.2.34; KUM 1.2.34)
आख्यास्ये तत्र पौलोममाख्यानं चादितः परम्॥ (BORI 1.2.29)
विचित्रार्थपदाख्यानमनेकसमयान्वितम्। अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः॥ (BORI 1.2.30)
आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम्। इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्॥ (BORI 1.2.31)
तदेतद्भारतं नाम कविभिस्तूपजीव्यते। (NIL 1.2.38; KUM 1.2.38)
इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा। स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्॥ (BORI 1.2.32)
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः। सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च॥ (NIL 1.2.40; KUM 1.2.40)
भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः॥ (BORI 1.2.33)
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः। पौष्यं पौलोममास्तीकमादिवंशावतारणम्॥ (BORI 1.2.34)
ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम्। दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते॥ (BORI 1.2.35)
ततो बकवधः पर्व पर्व चैत्ररथं ततः। ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते॥ (BORI 1.2.36)
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्। विदुरागमनं पर्व राज्यलम्भस्तथैव च॥ (BORI 1.2.37)
अर्जुनस्य वने वासः सुभद्राहरणं ततः। सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम्॥ (BORI 1.2.38)
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्। सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम्॥ (BORI 1.2.39)
जरासन्धवधः पर्व पर्व दिग्विजयस्तथा। पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते॥ (BORI 1.2.40)
ततश्चार्घाभिहरणं शिशुपालवधस्ततः। द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम्॥ (BORI 1.2.41)
तत आरण्यकं पर्व किर्मीरवध एव च। अर्जुनस्याभिगमनं पर्व ज्ञेयमतः परम्। (NIL 1.2.50; KUM 1.2.50)
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम्॥ (BORI 1.2.42)
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्। तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः॥ (BORI 1.2.43)
जटासुरवधः पर्व यक्षयुद्धमतः परम्। तथैवाजगरं पर्व विज्ञेयं तदनन्तरम्॥ (BORI 1.2.44)
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम्। संवादश्च ततः पर्व द्रौपदीसत्यभामयोः॥ (BORI 1.2.45)
घोषयात्रा ततः पर्व ततः प्रायोपवेशनेम्। मन्त्रस्य निश्चयं चैव मृगस्वप्नोद्भवं ततः॥ (KUM 1.2.54)
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः। व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते॥ (BORI 1.2.46)
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः। पतिव्रताया माहात्म्यं सावित्र्याश्चैवमद्भुतम्। रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्॥ (NIL 1.2.56; KUM 1.2.56)
कुण्डलाहरणं पर्व ततः परमिहोच्यते॥ (BORI 1.2.47)
आरणेयं ततः पर्व वैराटं तदनन्तरम्। पाण्डवानां प्रवेशश्च समयस्य च पालनम्॥ (NIL 1.2.57; KUM 1.2.57)
कीचकानां वधः पर्व पर्व गोग्रहणं ततः॥ (BORI 1.2.48)
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम्। उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम्॥ (BORI 1.2.49)
ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम्। प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया॥ (BORI 1.2.50)
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम्। यानसन्धिस्ततः पर्व भगवद्यानमेव च॥ (BORI 1.2.51)
मातलीयमुपाख्यानं चरितं गालवस्य च॥ (NIL 1.2.61; KUM 1.2.61)
सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च। जामदग्न्यमुपाख्यानं पर्व षोडशराजकम्॥ (NIL 1.2.62; KUM 1.2.62)
सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम्। उद्योगः सैन्यनिर्याणं विश्वोपाख्यानमेव च॥ (NIL 1.2.63; KUM 1.2.63)
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः। मन्त्रस्य निश्चयं कृत्वा कार्यस्य समनन्तरम्। श्वेतस्य वासुदेवेन चित्रं बहुकथाश्रयम्॥ (KUM 1.2.64–65)
निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः॥ (BORI 1.2.52)
रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम्। उलूकदूतागमनं पर्वामर्षविवर्धनम्॥ (BORI 1.2.53)
अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम्। भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम्॥ (BORI 1.2.54)
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम्। भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम्॥ (BORI 1.2.55)
दिव्यं चक्षुर्ददौ यत्र संजयाय महामुनिः। (KUM 1.2.69)
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः। द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः॥ (BORI 1.2.56)
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते। जयद्रथवधः पर्व घटोत्कचवधस्ततः॥ (BORI 1.2.57)
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम्। मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते॥ (BORI 1.2.58)
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्। ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्॥ (BORI 1.2.59)
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम्। अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते॥ (BORI 1.2.60)
ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम्। जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम्॥ (BORI 1.2.61)
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम्। आभिषेचनिकं पर्व धर्मराजस्य धीमतः॥ (BORI 1.2.62)
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः। प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्॥ (BORI 1.2.63)
शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम्। आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्॥ (BORI 1.2.64)
शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम्। प्रादुर्भावश्च दुर्वासःसंवादश्चैव मायया॥ (NIL 1.2.77; KUM 1.2.78)
ततः पर्व परिज्ञेयमानुशासनिकं परम्। स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः॥ (BORI 1.2.65)
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्। अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम्॥ (BORI 1.2.66)
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च। नारदागमनं पर्व ततः परमिहोच्यते॥ (BORI 1.2.67)
मौसलं पर्व च ततो घोरं समनुवर्ण्यते। महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः॥ (BORI 1.2.68)
हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम्। विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा॥ (NIL 1.2.82; KUM 1.2.83)
भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्॥ (BORI 1.2.69)
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना। यथावत्सूतपुत्रेण लोमहर्षणिना पुनः॥ (BORI 1.2.70)
कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु। समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः॥ (BORI 1.2.71)
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम्। पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः॥ (BORI 1.2.72)
आस्तीके सर्वनागानां गरुडस्य च सम्भवः। क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा॥ (BORI 1.2.73)
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च। कथेयमभिनिर्वृत्ता भारतानां महात्मनाम्॥ (BORI 1.2.74)
विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि। अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च॥ (BORI 1.2.75)
अंशावतरणं चात्र देवानां परिकीर्तितम्। दैत्यानां दानवानां च यक्षाणां च महौजसाम्॥ (BORI 1.2.76)
नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम्। अन्येषां चैव भूतानां विविधानां समुद्भवः॥ (BORI 1.2.77)
महर्षेराश्रमपदे कण्वस्य च तपस्विनः॥ (NIL 1.2.95; KUM 1.2.96)
शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान्। यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम्॥ (NIL 1.2.96; KUM 1.2.97)
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्। शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि॥ (BORI 1.2.78)
तेजोंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः। राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः॥ (BORI 1.2.79)
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च। हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः॥ (BORI 1.2.80)
विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम्। धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा॥ (BORI 1.2.81)
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा। धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः॥ (BORI 1.2.82)
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च। कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति॥ (NIL 1.2.102; KUM 1.2.103)
हितोपदेशश्च पथि धर्मराजस्य धीमतः। विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया॥ (NIL 1.2.103; KUM 1.2.104)
विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया॥ (BORI 1.2.83)
निषाद्याः पञ्चपुत्रायाः सुप्ताया जतु वेश्मनि॥ (NIL 1.2.104; KUM 1.2.105)
पुरोचनस्य चात्रैव दहनं सम्प्रकीर्तितम्। (NIL 1.2.105; KUM 1.2.106)
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्। तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात्। (NIL 1.2.106; KUM 1.2.107)
घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता॥ (BORI 1.2.84)
महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः। तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने॥ (NIL 1.2.107; KUM 1.2.108)
अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि। बकस्य निधनं चैव नागराणां च विस्मयः॥ (BORI 1.2.85)
सम्भवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह। ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः॥ (NIL 1.2.109; KUM 1.2.110)
द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया। पञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः॥ (NIL 1.2.110; KUM 1.2.111)
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा। सख्यं कृत्वा ततस्तेन तस्मादेव च शुश्रुवे॥ (NIL 1.2.111; KUM 1.2.112)
भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ॥ (BORI 1.2.86)
पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनञ्जयः। (NIL 1.2.113; KUM 1.2.114)
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्। भीमसेनार्जुनौ यत्र संरब्धान्पृथिवीपतीन्। शल्यकर्णौ च तरसा जितवन्तौ महामृधे॥ (NIL 1.2.114; KUM 1.2.115)
दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम्। (NIL 1.2.115; KUM 1.2.116)
पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते॥ (BORI 1.2.87)
जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि। (NIL 1.2.116; KUM 1.2.117)
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च। द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः॥ (BORI 1.2.88)
क्षत्तुश्च धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति। (NIL 1.2.118; KUM 1.2.119)
विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च। खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम्॥ (BORI 1.2.89)
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया। सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम्॥ (BORI 1.2.90)
अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम्॥ (NIL 1.2.120; KUM 1.2.121)
अनु प्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुधम्। मोक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः॥ (NIL 1.2.121; KUM 1.2.122)
समयं पालयन्वीरो वनं यत्र जगाम ह। (NIL 1.2.122; KUM 1.2.123)
पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः। पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च॥ (BORI 1.2.91)
तत्रैव मोक्षयामास पञ्च सोऽप्सरसः शुभाः॥ (NIL 1.2.123; KUM 1.2.124)
शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तपस्विनः। प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः॥ (NIL 1.2.124; KUM 1.2.125)
द्वारकायां सुभद्रा च कामयानेन कामिनी। वासुदेवस्यानुमते प्राप्ता चैव किरीटिना॥ (BORI 1.2.92)
हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने। द्रौपद्यास्तनयानां च सम्भवोऽनुप्रकीर्तितः। विहारार्थं च गतयोः कृष्णयोर्यमुनामनु॥ (NIL 1.2.127; KUM 1.2.128)
सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम्॥ (BORI 1.2.93)
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः। मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम्। महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः॥ (BORI 1.2.94)
इत्येतदाधिपर्वोक्तं प्रथमं बहुविस्तरम्। अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा। अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा॥ (BORI 1.2.95)
सप्त श्लोकसहस्राणि तथा नव शतानि च। श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना॥ (BORI 1.2.96)
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते। सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम्॥ (BORI 1.2.97)
लोकपालसभाख्यानं नारदाद्देवदर्शनात्। राजसूयस्य चारम्भो जरासन्धवधस्तथा॥ (BORI 1.2.98)
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्। तथा दिग्विजयोऽत्रैव पाण्डवानां प्रकीर्तितः॥(NIL 1.2.134; KUM 1.2.135)
राज्ञामागमनं चैव सार्हणानां महक्रतौ। (NIL 1.2.135; KUM 1.2.136)
राजसूयेऽर्घसंवादे शिशुपालवधस्तथा॥ (BORI 1.2.99)
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च। दुर्योधनस्यावहासो भीमेन च सभातले॥ (BORI 1.2.100)
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्। यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्॥ (BORI 1.2.101)
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात्। धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम्॥ (NIL 1.2.138; KUM 1.2.139)
तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः। पुनरेव ततो द्यूते समाह्वयत पाण्डवान्॥ (BORI 1.2.102)
जित्वा स वनवासाय प्रेषयामास तांस्ततः। (NIL 1.2.140; KUM 1.2.141)
एतत्सर्वं सभापर्व समाख्यातं महात्मना। अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया॥ (BORI 1.2.103)
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च। श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः॥ (BORI 1.2.104)
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्। वनवासं प्रयातेषु पाण्डवेषु महात्मसु। (NIL 1.2.143; KUM 1.2.144)
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः॥ (BORI 1.2.105)
अन्नौषधीनां च कृते पाण्डवेन महात्मना। द्विजानां भरणार्थं च कृतमाराधनं रवेः॥ (NIL 1.2.144; KUM 1.2.145)
धौम्योपदेशात्तिग्मांशुप्रसादादन्नसम्भः। हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात्॥ (NIL 1.2.145; KUM 1.2.146)
त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा। पुनरागमनं चैव धृतराष्ट्रस्य शासनात्॥ (NIL 1.2.146; KUM 1.2.147)
कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः। वनस्थान्पाण्डवान्हन्तुं मन्त्रो दुर्योधनस्यच॥ (NIL 1.2.147; KUM 1.2.148)
तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम्। निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च॥ (NIL 1.2.148; KUM 1.2.149)
मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम्। शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च॥ (NIL 1.2.149; KUM 1.2.150)
किर्मीरस्य वधश्चात्र भीमसेनेन संयुगे। (NIL 1.2.150; KUM 1.2.151)
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः। श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान्। क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना॥ (NIL 1.2.151; KUM 1.2.152)
परिदेवनं च पाञ्चाल्या वासुदेवस्य सन्निधौ। आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम्॥ (NIL 1.2.152; KUM 1.2.153)
यत्र सौभवधाख्यानं किर्मीरवध एव च। सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम्॥ (NIL 1.2.153; KUM 1.2.154)
नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह। प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः॥ (NIL 1.2.154; KUM 1.2.155)
धर्मराजस्य चात्रैव संवादः कृष्णया सह। संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः॥ (NIL 1.2.155; KUM 1.2.156)
समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा। प्रतिश्रुत्याथ विद्याया दानं राज्ञो महर्षिणा॥ (NIL 1.2.156; KUM 1.2.157)
गमनं काम्यके चापि व्यासे प्रतिगते ततः। (NIL 1.2.157; KUM 1.2.158)
अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः॥ (BORI 1.2.106)
महादेवेन युद्धं च किरातवपुषा सह। दर्शनं लोकपालानां स्वर्गारोहणमेव च॥ (BORI 1.2.107)
महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः। यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी॥ (NIL 1.2.159; KUM 1.2.160)
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः। युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम्॥ (BORI 1.2.108)
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्। दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे॥ (BORI 1.2.109)
तथाऽक्षहृदयप्राप्तिस्तस्मादेव महर्षितः। लोमशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति॥ (NIL 1.2.162; KUM 1.2.163)
वनवासगतानां च पाण्डवानां महात्मनाम्। स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै॥ (BORI 1.2.110)
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम्। जटासुरस्य तत्रैव वधः समुपवर्ण्यते॥ (BORI 1.2.111)
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने। यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत्॥ (BORI 1.2.112)
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः। यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा॥ (BORI 1.2.113)
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्। लोपामुद्राभिगमनमपत्यार्थमृषेरपि॥ (BORI 1.2.114)
ततः श्येनकपोतीयमुपाख्यानमनन्तरम्। इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम्॥ (BORI 1.2.115)
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः। जामदग्न्यस्य रामस्य चरितं भूरितेजसः॥ (BORI 1.2.116)
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते। प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः॥ (NIL 1.2.169; KUM 1.2.170)
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः॥ (BORI 1.2.117)
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ। ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः॥ (BORI 1.2.118)
मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैव प्रकीर्तितम्॥ (NIL 1.2.171; KUM 1.2.172)
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः। पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः॥ (BORI 1.2.119)
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम्। अष्टावक्रस्य विप्रर्षेर्जनकस्याध्वरेऽभवत्॥ (NIL 1.2.174; KUM 1.2.175)
नैयायिकानां मुख्येन वरुणस्यात्मजेन च। पराजितो यत्र बन्दी विवादेन महात्मना॥ (NIL 1.2.175; KUM 1.2.176)
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः॥ (BORI 1.2.120)
यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः। गन्धमादनयात्रा च वासो नारायणाश्रमे॥ (NIL 1.2.176; KUM 1.2.177)
व्रजन्पथि महाबाहुर्दृष्टवान्पवनात्मजम्॥ (NIL 1.2.177; KUM 1.2.178)
कदलीषण्डमध्यस्थं हनूमन्तं महाबलम्। यत्र सौगन्धिकार्थेऽसौ नलिनीं तामधर्षयत्॥ (NIL 1.2.178)
जटासुरस्य च वधो राक्षसस्य वृकोदरात्। वृषपर्वणो राजर्षेस्ततोऽभिगमनं स्मृतम्॥ (NIL 1.2.180; KUM 1.2.181)
आर्ष्टिषेणाश्रमे चैषां गमनं वास एव च। प्रोत्साहनं च पाञ्चाल्या भीमस्यात्र महात्मनः॥ (NIL 1.2.181; KUM 1.2.182)
कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः। युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह॥ (NIL 1.2.182; KUM 1.2.183)
समागमश्च पाण्डूनां यत्र वैश्रवणेन च। समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह॥ (NIL 1.2.183; KUM 1.2.184)
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना। निवातकवचैर्युद्धं हिरण्यपुरवासिभिः॥ (BORI 1.2.121)
निवातकवचैर्घोरैर्दानवैः सुरशत्रुभिः। पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः॥ (NIL 1.2.185; KUM 1.2.186)
वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता। अस्त्रसन्दर्शनारम्भो धर्मराजस्य सन्निधौ॥ (NIL 1.2.186; KUM 1.2.187)
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने। अवरोहणं पुनश्चैव पाण्डूनां गन्धमादनात्॥ (NIL 1.2.187; KUM 1.2.188)
भीमस्य ग्रहणं चात्र पर्वताभोगवर्ष्मणा। भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने॥ (NIL 1.2.188; KUM 1.2.189)
घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः॥ (BORI 1.2.122)
पुनरागमनं चैव तेषां द्वैतवनं सरः। जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्॥ (BORI 1.2.123)
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे। मार्कण्डेयसमस्यायामुपाख्यानानि भागशः॥ (BORI 1.2.124)
पृथोर्वैन्यस्य यत्रोक्तमाख्यानं परमर्षिणा॥ (NIL 1.2.191; KUM 1.2.192)
संवादश्च सरस्वत्यास्तार्क्ष्यर्षेः सुमहात्मनः। मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम्॥ (NIL 1.2.192; KUM 1.2.193)
मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते। ऐन्द्रद्युम्नामुपाख्यानं धौन्धुमारं तथैव च॥ (NIL 1.2.193)
पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम्। (NIL 1.2.194; KUM 1.2.195)
संदर्शनं च कृष्णस्य संवादश्चैव सत्यया। पुनर्द्वैतवनं चैव पाण्डवाः समुपागताः। घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः॥ (NIL 1.2.195; KUM 1.2.196)
ह्रियमाणस्तु मन्दात्मा मोक्षितोऽसौ किरीटिना। धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनात्॥ (NIL 1.2.196; KUM 1.2.197)
काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते। (NIL 1.2.197; KUM 1.2.198)
व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च॥ (BORI 1.2.125)
दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम्। (NIL 1.2.198; KUM 1.2.199)
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च। चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः॥ (NIL 1.2.199; KUM 1.2.200)
रामायणमुपाख्यानमत्रैव बहुविस्तरम्॥ (BORI 1.2.126)
यत्र रामेण विक्रम्य निहतो रावणो युधि॥ (NIL 1.2.200; KUM 1.2.201)
सावित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्तितम्। (NIL 1.2.201; KUM 1.2.202)
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात्। यत्रास्य शक्तिं तुष्टोऽसावदादेकवधाय च। (NIL 1.2.202; KUM 1.2.203)
आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्। जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्॥ (BORI 1.2.127)
एतदारण्यकं पर्व तृतीयं परिकीर्तितम्। अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा। एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः॥ (BORI 1.2.128)
एकादश सहस्राणि श्लोकानां षट्शतानि च। चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम्॥ (BORI 1.2.129)
अतः परं निबोधेदं वैराटं पर्वविस्तरम्। विराटनगरं गत्वा श्मशाने विपुलां शमीम्। दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत॥ (BORI 1.2.130)
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते। पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः। (NIL 1.2.208; KUM 1.2.209)
दुरात्मनो वधो यत्र कीचकस्य वृकोदरात्॥ (BORI 1.2.131)
पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च। चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतो दिशम्॥ (NIL 1.2.209; KUM 1.2.210)
न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम्। (NIL 1.2.210; KUM 1.2.211)
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि। यत्रास्य युद्धं सुमहत्तैरासील्लोमहर्षणम्। ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः॥ (NIL 1.2.211; KUM 1.2.212)
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः॥ (BORI 1.2.132)
अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम्॥ (NIL 1.2.212; KUM 1.2.213)
प्रत्याहृतं गोधनं च विक्रमेण किरीटिना॥ (NIL 1.2.213; KUM 1.2.214)
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः। अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम्॥ (BORI 1.2.133)
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्। अत्रापि परिसङ्ख्यातमध्यायानां महात्मना॥ (BORI 1.2.134)
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु। श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु। पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा॥ (BORI 1.2.135)
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्। उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया। दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ॥ (BORI 1.2.136)
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति। इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः॥ (BORI 1.2.137)
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ। अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम्॥ (BORI 1.2.138)
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः। अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः॥ (BORI 1.2.139)
मद्रराजं व राजानमायान्तं पाण्डवान्प्रति। उपहारैर्वञ्चायत्वा वर्त्मन्येव सुयोधनः॥ (NIL 1.2.222; KUM 1.2.223)
वरदं तं वरं वव्रे साहाय्यं क्रियतां मम। शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान्॥ (NIL 1.2.223; KUM 1.2.224)
शान्तिपूर्वं चाकथयद्यत्रेन्द्रविजयं नृपः। पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति॥ (NIL 1.2.224; KUM 1.2.225)
वैचित्रवीर्यस्य वचः समादाय पुरोधसः। तथेन्द्रविजयं चापि यानं चैव पुरोधसः॥ (NIL 1.2.225; KUM 1.2.226)
सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति। यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्॥ (BORI 1.2.140)
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्। प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया॥ (BORI 1.2.141)
विदुरो यत्र वाक्यानि विचित्राणि हितानि च। श्रावयामास राजानं धृतराष्ट्रं मनीषिणम्॥ (BORI 1.2.142)
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्। मनस्तापान्वितो राजा श्रावितः शोकलालसः॥ (BORI 1.2.143)
प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः। ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च॥ (BORI 1.2.144)
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः। स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम्॥ (BORI 1.2.145)
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै। शमार्थं याचमानस्य पक्षयोरुभयोर्हितम्॥ (BORI 1.2.146)
दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम्। वरान्वेषणमत्रैव मातलेश्च महात्मनः॥ (NIL 1.2.233; KUM 1.2.234)
महर्षेश्चापि चरितं कथितं गालवस्य वै। विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम्॥ (NIL 1.2.234; KUM 1.2.235)
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्। योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम्॥ (BORI 1.2.147)
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः। उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः॥ (BORI 1.2.148)
आगम्य हास्तिनपुरादुपप्लाव्यमरिन्दमः। पाण्डवानां यथावृत्तं सर्वमाख्यातवान्हरिः॥ (NIL 1.2.237; KUM 1.2.238)
ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम्। साङ्ग्रामिकं ततः सर्वं सञ्जं चक्रुः परन्तपाः॥ (NIL 1.2.238; KUM 1.2.239)
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम्। नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च॥ (BORI 1.2.149)
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति। श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना। रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च॥ (BORI 1.2.150)
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते। उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम्॥ (BORI 1.2.151)
अध्यायाः सङ्ख्यया त्वत्र षडशीतिशतं स्मृतम्। श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च॥ (BORI 1.2.152)
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना। व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः॥ (BORI 1.2.153)
अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते। जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह॥ (BORI 1.2.154)
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम्। यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम्॥ (BORI 1.2.155)
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः। मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः॥ (BORI 1.2.156)
समीक्ष्यादोक्षजः क्षिप्रं युधिष्ठिरहिते रतः॥ (NIL 1.2.247; KUM 1.2.248)
रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः। प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः॥ (NIL 1.2.248; KUM 1.2.249)
वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः। गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः॥ (NIL 1.2.249; KUM 1.2.250)
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः। विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत्॥ (BORI 1.2.157)
शरतल्पगतश्चैव भीष्मो यत्र बभूव ह। (NIL 1.2.251; KUM 1.2.252)
षष्ठमेतन्महापर्व भारते परिकीर्तितम्। अध्यायानां शतं प्रोक्तं सप्तदश तथापरे॥ (BORI 1.2.158)
पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च। श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः। व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि॥ (BORI 1.2.159)
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते। सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान्॥ (NIL 1.2.254; KUM 1.2.255)
दुर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित्। ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः॥ (NIL 1.2.255; KUM 1.2.256)
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्॥ (BORI 1.2.160)
भगदत्तो महाराजो यत्र शक्रसमो युधि। सुप्रतीकेन नागेन सह शस्तः किरीटिना॥ (BORI 1.2.161)
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः। जयद्रथमुखा बालं शूरमप्राप्तयौवनम्॥ (BORI 1.2.162)
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे। अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः। यत्र भीमो महाबाहुः सात्यकिश्च महारथः॥ (NIL 1.2.259; KUM 1.2.260)
अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया। प्रविष्टौ भारतीं सेनामप्रधृष्यां सुरैरपि॥ (NIL 1.2.260; KUM 1.2.261)
संशप्तकावशेषं च कृतं निःशेषमाहवे॥ (BORI 1.2.163)
संशप्तकानां वीराणां कोट्यो नव महात्मनाम्॥ (NIL 1.2.261; KUM 1.2.262)
किरीटिनाभिनिष्क्रम्य प्रापिता यमसादनम्। धृतराष्ट्रस्य पुत्राश्च तथा पाषाणयोधिनः॥ (NIL 1.2.262; KUM 1.2.263)
नारायणाश्च गोपालाः समरे चित्रयोधिनः। (NIL 1.2.263; KUM 1.2.264)
अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान्। सौमदत्तिर्विराटश्च द्रुपदश्च महारथः। घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि॥ (BORI 1.2.164)
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते। अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः॥ (BORI 1.2.165)
आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम्। व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः॥ (NIL 1.2.266; KUM 1.2.267)
सप्तमं भारते पर्व महदेतदुदाहृतम्। अत्र ते पृथिवीपालाः प्रायशो निधनं गताः। द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः॥ (BORI 1.2.166)
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा। अष्टौ श्लोकसहस्राणि तथा नव शतानि च॥ (BORI 1.2.167)
श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना। पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि॥ (BORI 1.2.168)
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्। सारथ्ये विनियोगश्च मद्रराजस्य धीमतः। आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम्॥ (BORI 1.2.169)
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः। हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम्॥ (BORI 1.2.170)
वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना। दण्डसेनस्य च ततो दण्डस्य च वधस्तथा॥ (NIL 1.2.273; KUM 1.2.274)
द्वैरथे यत्र कर्णेन धर्मराजो युधिष्टिरः। संशयं गमितो युद्धे मिषतां सर्वधन्विनाम्॥ (NIL 1.2.274; KUM 1.2.275)
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः। यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि॥ (NIL 1.2.275; KUM 1.2.276)
प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च। भित्त्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे॥ (NIL 1.2.276; KUM 1.2.277)
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः॥ (BORI 1.2.171)
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः। एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि। चत्वार्येव सहस्राणि नव श्लोकशतानि च॥ (BORI 1.2.172)
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः। (NIL 1.2.279; KUM 1.2.280)
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्। हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्॥ (BORI 1.2.173)
यत्र कौमारमाख्यानमभिषेकस्य कर्म च॥ (NIL 1.2.280; KUM 1.2.281)
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः। विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते॥ (BORI 1.2.174)
शल्यस्य निधनं चात्र धर्मराजान्महारथात्।
शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे॥ (NIL 1.2.282; KUM 1.2.283)
सैन्ये च हतभूयिष्ठे किञ्चिच्छिष्टे सुयोधनः। ह्रदं प्रविश्य यत्रासौ संस्तभ्यापोव्यवस्थितः॥ (NIL 1.2.283; KUM 1.2.284)
प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः। क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः॥ (NIL 1.2.284; KUM 1.2.285)
ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः। (NIL 1.2.285; KUM 1.2.286)
गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम्।
समवाये च युद्धस्य रामस्यागमनं स्मृतम्। (NIL 1.2.286; KUM 1.2.287)
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता॥ (BORI 1.2.175)
दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे॥ (NIL 1.2.287; KUM 1.2.288)
ऊरू भग्नो प्रसह्याजौ गदया भीमवेगया। (NIL 1.2.288; KUM 1.2.289)
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्। एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः॥ (BORI 1.2.176)
सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते। त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा। मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम्॥ (BORI 1.2.177)
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्। भग्नोरुं यत्र राजानं दुर्योधनममर्षणम्॥ (BORI 1.2.178)
व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः। कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः॥ (BORI 1.2.179)
समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि। (NIL 1.2.293; KUM 1.2.294)
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः। अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान्। पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम्॥ (BORI 1.2.180)
यत्रैव मुक्त्वा राजानमपक्रम्य त्रयो रथाः। सूर्यास्तमनवेलायामासेदुस्ते महद्वनम्॥ (NIL 1.2.295; KUM 1.2.296)
न्यग्रोधस्याथ महतो यत्राधस्ताद्व्यवस्थिताः। ततः काकान्बहून्रात्रौ दृष्ट्वोलूकेन हिंसितान्॥ (NIL 1.2.296; KUM 1.2.297)
द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन्। पाञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे॥ (NIL 1.2.297; KUM 1.2.298)
गत्वा च शिबिरद्वारि दुर्दृशं तत्र राक्षसम्। घोररूपमपश्यत्स दिवामावृत्य धिष्ठिरम्॥ (NIL 1.2.298; KUM 1.2.299)
तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च। द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः॥ (NIL 1.2.299; KUM 1.2.300)
प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः। पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः॥ (BORI 1.2.181)
कृतवर्मणा च सहितः कृपेण च निजघ्निवान्। (NIL 1.2.301; KUM 1.2.302)
यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात्। सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः॥ (BORI 1.2.182)
पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः॥ (NIL 1.2.302; KUM 1.2.303)
धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः। (NIL 1.2.303; KUM 1.2.304)
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता। कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत्॥ (BORI 1.2.183)
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः।
प्रियं तस्याश्चिकीर्षन्वै गदामादाय वीर्यवान्। (NIL 1.2.305; KUM 1.2.306)
अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम्॥ (BORI 1.2.184)
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः। अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत्॥ (BORI 1.2.185)
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः। यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः॥ (BORI 1.2.186)
द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा। (NIL 1.2.308; KUM 1.2.309)
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः। तोयकर्मणि सर्वेषां राज्ञामुदकदानिके॥ (BORI 1.2.187)
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः। सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम्॥ (BORI 1.2.188)
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना। श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च॥ (BORI 1.2.189)
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया। सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना॥ (BORI 1.2.190)
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्।
पुत्रशोकाभिसन्तप्तः प्रज्ञाचक्षुर्नराधिपः। कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढाम्॥ (NIL 1.2.313; KUM 1.2.314)
भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्ज ह। तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः॥ (NIL 1.2.314; KUM 1.2.315)
संसारदहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः। विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम्॥ (NIL 1.2.315; KUM 1.2.316)
धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा। सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम्॥ (NIL 1.2.316; KUM 1.2.317)
विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः। क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः॥ (BORI 1.2.191)
यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः। पुत्रान्भ्रातृन्पितृंश्चैव ददृशुर्निहतान्रणे॥ (BORI 1.2.192)
पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता। गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया॥ (NIL 1.2.319; KUM 1.2.320)
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः। राज्ञां तानि शरीराणि दाहयामास शास्त्रतः॥ (BORI 1.2.193)
सुतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा। (NIL 1.2.322; KUM 1.2.323)
एतदेकादशं प्रोक्तं पर्वातिकरुणं महत्। सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः॥ (BORI 1.2.194)
श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते। सङ्ख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना। प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम्॥ (BORI 1.2.195)
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्। यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः। घातयित्वा पितृन्भ्रातृन्पुत्रान्सम्बन्धिबान्धवान्॥ (BORI 1.2.196)
शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः। राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः॥ (BORI 1.2.197)
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः। यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्। मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः॥ (BORI 1.2.198)
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्। पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम्। त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः॥ (BORI 1.2.199)
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश। पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया॥ (BORI 1.2.200)
अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम्। यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्। भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः॥ (BORI 1.2.201)
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः। विविधानां च दानानां फलयोगाः पृथग्विधाः॥ (BORI 1.2.202)
तथा पात्रविशेषाश्च दानानां च परो विधिः। आचारविधियोगश्च सत्यस्य च परा गतिः॥ (BORI 1.2.203)
महाभाग्यं गवां चैव ब्राह्मणानां तथैव च। रहस्यं चैव धर्माणां देशकालोपसंहितम्॥ (NIL 1.2.335; KUM 1.2.336)
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम्। भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता॥ (BORI 1.2.204)
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्। अध्यायानां शतं चात्र षट्चत्वारिंशदेव च। श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च॥ (BORI 1.2.205)
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्। तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्॥ (BORI 1.2.206)
सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः। दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः॥ (BORI 1.2.207)
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः। तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः॥ (BORI 1.2.208)
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः। सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः।
सुदर्शनं तथाऽऽख्यानं वैष्णवं धर्ममेव च। (KUM 1.2.343)
अश्वमेधे महायज्ञे नकुलाख्यानमेव च॥ (BORI 1.2.209)
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्। अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः॥ (BORI 1.2.210)
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च। विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना॥ (BORI 1.2.211)
तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम्। यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः। धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह॥ (BORI 1.2.212)
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा। पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता॥ (BORI 1.2.213)
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान्। लोकान्तरगतान्वीरानपश्यत्पुनरागतान्॥ (BORI 1.2.214)
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्। त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः॥ (BORI 1.2.215)
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः। सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी॥ (BORI 1.2.216)
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः। नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्॥ (BORI 1.2.217)
एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम्। द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया॥ (BORI 1.2.218)
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च। षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना॥ (BORI 1.2.219)
अतः परं निबोधेदं मौसलं पर्व दारुणम्। यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि। ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः॥ (BORI 1.2.220)
आपाने पानगलिता दैवेनाभिप्रचोदिताः। एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम्॥ (BORI 1.2.221)
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ। नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम्॥ (BORI 1.2.222)
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्। दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः॥ (BORI 1.2.223)
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः। ददर्श यदुवीराणामापाने वैशसं महत्॥ (BORI 1.2.224)
शरीरं वासुदेवस्य रामस्य च महात्मनः। संस्कारं लम्भयामास वृष्णीनां च प्रधानतः॥ (BORI 1.2.225)
स वृद्धबालमादाय द्वारवत्यास्ततो जनम्। ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्॥ (BORI 1.2.226)
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम्। नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम्॥ (BORI 1.2.227)
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः। धर्मराजं समासाद्य संन्यासं समरोचयेत्॥ (BORI 1.2.228)
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्। अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्॥ (BORI 1.2.229)
श्लोकानां विंशतिश्चैव सङ्ख्याता तत्त्वदर्शिना। (NIL 1.2.364; KUM 1.2.365)
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्। यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः। द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः॥ (BORI 1.2.230)
यत्र तेऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम्। यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने॥ (NIL 1.2.366; KUM 1.2.367)
ददौ सम्पूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम्। यत्र भ्रातॄन्निपतितान्द्रौपदीं च युधिष्ठिरः॥ (NIL 1.2.367; KUM 1.2.368)
दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन्। एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम्॥ (NIL 1.2.368; KUM 1.2.369)
अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा। विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना॥ (BORI 1.2.231)
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्।
प्राप्तं दैवरथं स्वर्गान्नेष्टवान्यत्र धर्मराट्॥ (NIL 1.2.370; KUM 1.2.371)
आरोदुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना। तामस्या विचलां ज्ञात्वा स्थितिं धर्मे महात्मनः॥ (NIL 1.2.371; KUM 1.2.372)
श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः। स्वर्गं प्राप्तः स च तथा यातना विपुला भृशम्॥ (NIL 1.2.372; KUM 1.2.373)
देवदूतेन नरकं यत्र व्याजेन दर्शितम्। शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणा गिरः॥ (NIL 1.2.373; KUM 1.2.374)
निदेशे वर्तमानानां देशे तत्रैव वर्तताम्। अनुदर्शितश्च धर्मेण देवराज्ञा च पाण्डवः॥ (NIL 1.2.374; KUM 1.2.375)
आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम्। स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट्॥ (NIL 1.2.375; KUM 1.2.376)
मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह। एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता॥ (NIL 1.2.376; KUM 1.2.377)
अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया। श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः॥ (BORI 1.2.232)
नव श्लोकास्तथैवान्ये सङ्ख्याताः परमर्षिणा। (NIL 1.2.378; KUM 1.2.379)
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः। खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम्॥ (BORI 1.2.233)
दश श्लोकसहस्राणि विंशच्छ्लोकशतानि च॥ (NIL 1.2.379; KUM 1.2.380)
खिलेषु हरिवंशे च सङ्ख्यातानि महर्षिणा। (NIL 1.2.380; KUM 1.2.381)
एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात्। अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया। तन्महद्दारुणं युद्धमहान्यष्टादशाभवत्॥ (BORI 1.2.234)
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः। न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः॥ (BORI 1.2.235)
अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत्। कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥ (NIL 1.2.383; KUM 1.2.384)
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते। पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव॥ (BORI 1.2.236)
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः। पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः॥ (BORI 1.2.237)
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः। अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः॥ (BORI 1.2.238)
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः। इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः॥ (BORI 1.2.239)
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते। आहारमनपाश्रित्य शरीरस्येव धारणम्॥ (BORI 1.2.240)
इदं सर्वैः कविवरैराख्यानमुपजीव्यते। उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥ (BORI 1.2.241)
अस्य काव्यस्य कवयो न समर्था विशेषणे। साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः॥ (NIL 1.2.390; KUM 1.2.391)
धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः। अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम्॥ (NIL 1.2.391; KUM 1.2.392)
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च। यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन॥ (BORI 1.2.242)
यदह्नात्कुरुते पाप ब्राह्मणस्त्विन्द्रियैश्चरन्। महाभारतमाख्याय सन्ध्यां मुच्यति पश्चिमाम्॥ (NIL 1.2.393; KUM 1.2.394)
यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा। महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते॥ (NIL 1.2.394; KUM 1.2.395)
यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय। पुण्यां च भारतकथां शृणुयाच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव॥ (NIL 1.2.395; KUM 1.2.396)
आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण। श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन॥ (BORI 1.2.243)