Maha union -
UNION 01.053-057
०१.०५३–०५७
शौनक उवाच॥
भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत्। आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते ॥ (बोरि १.५३.२७)
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन। यां कथां व्याससम्पन्नां तां च भूयः प्रचक्ष्व मे ॥ (बोरि १.५३.२८)
तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम्। कर्मान्तरेषु विधिवत्सदस्यानां महाकवे ॥ (बोरि १.५३.२९)
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम्। त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः ॥ (बोरि १.५३.३०)
सूत उवाच॥
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः। व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् ॥ (बोरि १.५३.३१)
शौनक उवाच॥
महाभारतमाख्यानं पाण्डवानां यशस्करम्। जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा ॥ (बोरि १.५३.३२)
श्रावयामास विधिवत्तदा कर्मान्तरेषु सः। तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ॥ (बोरि १.५३.३३)
मनःसागरसम्भूतां महर्षेः पुण्यकर्मणः। कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज ॥ (बोरि १.५३.३४)
सूत उवाच॥
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्। कृष्णद्वैपायनमतं महाभारतमादितः ॥ (बोरि १.५३.३५)
तज्जुषस्वोत्तममते कथ्यमानं मया द्विज। शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते ॥ (बोरि १.५३.३६)
सूत उवाच॥
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्। अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ॥ (बोरि १.५४.१)
जनयामास यं काली शक्तेः पुत्रात्पराशरात्। कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ॥ (बोरि १.५४.२)
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत्। वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः ॥ (बोरि १.५४.३)
यं नातितपसा कश्चिन्न वेदाध्ययनेन च। न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ॥ (बोरि १.५४.४)
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः। परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ॥ (बोरि १.५४.५)
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत्। शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः ॥ (बोरि १.५४.६)
जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा। विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः ॥ (बोरि १.५४.७)
तत्र राजानमासीनं ददर्श जनमेजयम्। वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम् ॥ (बोरि १.५४.८)
तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः। ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे ॥ (बोरि १.५४.९)
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम्। सगणोऽब्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ॥ (बोरि १.५४.१०)
काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः। आसनं कल्पयामास यथा शक्रो बृहस्पतेः ॥ (बोरि १.५४.११)
तत्रोपविष्टं वरदं देवर्षिगणपूजितम्। पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥ (बोरि १.५४.१२)
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः। पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ॥ (बोरि १.५४.१३)
प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात्। गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ॥ (बोरि १.५४.१४)
तथा सम्पूजयित्वा तं यत्नेन प्रपितामहम्। उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ॥ (बोरि १.५४.१५)
भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च। सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् ॥ (बोरि १.५४.१६)
ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः। इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ॥ (बोरि १.५४.१७)
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्। तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ॥ (बोरि १.५४.१८)
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम्। तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ॥ (बोरि १.५४.१९)
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम्। कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि ॥ (बोरि १.५४.२०)
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा। शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥ (बोरि १.५४.२१)
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा। तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥ (बोरि १.५४.२२)
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा। आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥ (बोरि १.५४.२३)
तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः। भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा ॥ (बोरि १.५४.२४)
वैशम्पायन उवाच॥
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः। सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ॥ (बोरि १.५५.१)
महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ (बोरि १.५५.२)
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्। गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् ॥ (बोरि १.५५.३)
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्। राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च ॥ (बोरि १.५५.४)
यथा च युद्धमभवत्पृथिवीक्षयकारकम्। तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ ॥ (बोरि १.५५.५)
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्। नचिरादिव विद्वांसो वेदे धनुषि चाभवन् ॥ (बोरि १.५५.६)
तांस्तथा रूपवीर्यौजःसम्पन्नान्पौरसंमतान्। नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ॥ (बोरि १.५५.७)
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः। तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् ॥ (बोरि १.५५.८)
ततो दुर्योधनः शूरः कुलिङ्गस्य मते स्थितः। पाण्डवान्विविधोपायै राज्यहेतोरपीडयत्॥ (नील १.६१.९)
ददावथ विषं पापो भीमाय धृतराष्ट्रजः। जरयामास तद्वीरः सहान्नेन वृकोदरः ॥ (बोरि १.५५.९)
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्। तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥ (बोरि १.५५.१०)
यदा प्रबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम्। उदतिष्ठन्महाराज भीमसेनो गतव्यथः ॥ (बोरि १.५५.११)
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्। सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥ (बोरि १.५५.१२)
तेषां तु विप्रकारेषु तेषु तेषु महामतिः। मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् ॥ (बोरि १.५५.१३)
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः। पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥ (बोरि १.५५.१४)
यदा तु विविधोपायैः संवृतैर्विवृतैरपि। नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ॥ (बोरि १.५५.१५)
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः। धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ॥ (बोरि १.५५.१६)
तत्र तान्वासयामास पाण्डवानमितौजसः। अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा ॥ (बोरि १.५५.१७)
विदुरस्यैव वचनात्खनित्री विहिता ततः। मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् ॥ (बोरि १.५५.१८)
ततो महावने घोरे हिडिम्बं नाम राक्षसम्। भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः ॥ (बोरि १.५५.१९)
अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा। ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः ॥ (बोरि १.५५.२०)
तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम्। ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः ॥ (बोरि १.५५.२१)
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः। विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः ॥ (बोरि १.५५.२२)
त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च। भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ॥ अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ॥ (बोरि १.५५.२३)
तस्माज्जनपदोपेतं सुविभक्तमहापथम्। वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः ॥ (बोरि १.५५.२४)
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः। नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ॥ (बोरि १.५५.२५)
तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून्। वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥ (बोरि १.५५.२६)
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः। अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा ॥ (बोरि १.५५.२७)
अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः। उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ॥ (बोरि १.५५.२८)
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा। एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ॥ (बोरि १.५५.२९)
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता। षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ॥ (बोरि १.५५.३०)
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः। वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम् ॥ (बोरि १.५५.३१)
स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत्। ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ॥ (बोरि १.५५.३२)
तीर्थयात्रां च कृतवान्नागकन्यामवाप च। पाण्ड्यस्य तनयां लब्ध्वा तत्र ताभ्यांसहोषितः॥ (कुंभ १.६१.४४)
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्। अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ॥ (बोरि १.५५.३३)
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता। सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह ॥ (बोरि १.५५.३४)
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्। बीभत्सुर्वासुदेवेन सहितो नृपसत्तम ॥ (बोरि १.५५.३५)
नातिभारो हि पार्थस्य केशवेनाभवत्सह। व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ॥ (बोरि १.५५.३६)
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्। इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ॥ (बोरि १.५५.३७)
मोक्षयामास बीभत्सुर्मयं तत्र महासुरम्। स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ॥ (बोरि १.५५.३८)
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः। ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ॥ (बोरि १.५५.३९)
वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च। अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् ॥ (बोरि १.५५.४०)
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु। नालभन्त महाराज ततो युद्धमवर्तत ॥ (बोरि १.५५.४१)
ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम्। राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ॥ (बोरि १.५५.४२)
इष्ट्वा क्रतूंश्च विविधानश्वमेधादिकान्बहून्॥ (कुंभ १.६१.५५)
धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते। गमयित्वा क्रियां स्वर्ग्यां राज्ञाममिततेजसाम्॥ (कुंभ १.६१.५६)
स्वं धाम याते वार्ष्णेये कृष्णदारान्प्ररक्ष्य च। महाप्रस्थानिकं कृत्वा गताः स्वर्गमनुत्तमम्॥ (कुंभ १.६१.५७)
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्। भेदो राज्यविनाशश्च जयश्च जयतां वर ॥ (बोरि १.५५.४३)
जनमेजय उवाच॥
कथितं वै समासेन त्वया सर्वं द्विजोत्तम। महाभारतमाख्यानं कुरूणां चरितं महत् ॥ (बोरि १.५६.१)
कथां त्वनघ चित्रार्थामिमां कथयति त्वयि। विस्तरश्रवणे जातं कौतूहलमतीव मे ॥ (बोरि १.५६.२)
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ (बोरि १.५६.३)
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः। अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥ (बोरि १.५६.४)
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः। प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥ (बोरि १.५६.५)
कथं नागायुतप्राणो बाहुशाली वृकोदरः। परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥ (बोरि १.५६.६)
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः। शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ॥ (बोरि १.५६.७)
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा। अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ॥ (बोरि १.५६.८)
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्। अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥ (बोरि १.५६.९)
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः। अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः ॥ (बोरि १.५६.१०)
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन। यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ॥ (बोरि १.५६.११)
वैशम्पायन उवाच। क्षणं कुरु महाराज विपुलोऽयमनुक्रमः। पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः॥ (नील १.६२.१२)
वैशम्पायन उवाच॥
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ (बोरि १.५६.१२)
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्। सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥ (बोरि १.५६.१३)
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम्। संक्षेपेण तु वक्ष्यामि सर्वमेतन्नराधिप॥ (कुंभ १.६२.१५)
अध्यायानां सहस्रे द्वे पर्वणां शतमेव च। श्लोकानां तु सहस्राणि नवतिश्च दशैव च। ततोऽष्टादशभिः पर्वैः संगृहीतं महर्षिणा॥ (कुंभ १.६२.१६)
य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः। ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥ (बोरि १.५६.१४)
इदं हि वेदैः समितं पवित्रमपि चोत्तमम्। श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥ (बोरि १.५६.१५)
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते। इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥ (बोरि १.५६.१६)
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान्। कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥ (बोरि १.५६.१७)
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम्। इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥ (बोरि १.५६.१८)
मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा। (नील १.६२.२०)
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा। महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ॥ (बोरि १.५६.१९)
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्। महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ॥ (बोरि १.५६.२०)
वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम्॥ (नील १.६२.२२)
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम्। मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥ (बोरि १.५६.२१)
सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे। पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥ (बोरि १.५६.२२)
शरीरेण कृतं पापं वाचा च मनसैव च। सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ॥ (बोरि १.५६.२३)
भारतानां महज्जन्म शृण्वतामनसूयताम्। नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥ (बोरि १.५६.२४)
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च। कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥ (बोरि १.५६.२५)
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्। अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥ (बोरि १.५६.२६)
सर्वविद्यावदातानां लोके प्रथितकर्मणाम्। य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन्॥ (नील १.६२.२९)
श्रावयेत महापुण्यं तस्य धर्मः सनातनः। कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः॥ (नील १.६२.३०)
वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत्। योऽधीते भारतं पुण्यं ब्राह्मणो नियतव्रतः॥ (नील १.६२.३१)
चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते। विज्ञेयः स च वेदानां पारगो भारतं पठन्॥ (नील १.६२.३२)
देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तथा। कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा॥ (नील १.६२.३३)
भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते। अनेकजननो यत्र कार्तिकेयस्य सम्भवः॥ (नील १.६२.३४)
ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते। सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः॥ (नील १.६२.३५)
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः। ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥ (बोरि १.५६.२७)
श्राव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम्॥ (नील १.६२.४९)
य इदं भारतं राजन्वाचकाय प्रयच्छति। तेन सर्वा मही दत्ता भवेत्सागरमेखला॥ (नील १.६२.५०)
पारिक्षितकथां दिव्यां पुण्याय विजयाय च। कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम्॥ (नील १.६२.५१)
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु। धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ॥ (बोरि १.५६.२८)
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः। अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितृनपि ॥ (बोरि १.५६.२९)
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन्। तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ॥ (बोरि १.५६.३०)
भारतानां महज्जन्म महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ (बोरि १.५६.३१)
महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः। (नील १.६२.४१)
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः। महाभारतमाख्यानं कृतवानिदमुत्तमम् ॥ (बोरि १.५६.३२)
नित्योत्थितः शुचिः शक्तो महाभारतमादितः। तपो नियममास्थाय कृतमेतन्महर्षिणा॥ (नील १.६२.४२)
तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम्। कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम्॥ (नील १.६२.४३)
श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः। सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः॥ (नील १.६२.४४)
नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि। निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात्॥ (नील १.६२.४५)
न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः। यां श्रुत्वैवं महापुण्यमितिहासमुपाश्नुते॥ (नील १.६२.४६)
शृण्वञ्श्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम्। नरः फलमवाप्नोति राजसूयाश्वमेधयोः॥ (नील १.६२.४७)
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ (बोरि १.५६.३३)
शृणु कीर्तयतस्तन्म इतिहासं पुरातनम्॥ (कुंभ १.६२.५६)
वैशम्पायन उवाच। पूरोर्वंशमहं धन्यं राज्ञाममिततेजसाम्। प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृमु॥ (कुंभ १.६३.१)
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः। तस्मान्मरीचिः संजज्ञे दक्षश्चैव प्रजापतिः॥ (कुंभ १.६३.२)
अङ्गुष्ठाद्दक्षमसृजच्चक्षुर्भ्यां च मरीचिनम्। मरीचेः कश्यपः पुत्रो दक्षस्य दुहिताऽऽदितिः॥ (कुंभ १.६३.३)
अदित्यां कश्यपाद्विवस्थान्। विवस्वतो मनुर्मनोरिला॥ (कुंभ १.६३.४)
इलायाः पुरूरवाः। पुरूरवस आयुः। आयुषो नहुषः। नहुषस्य ययातिः॥ (कुंभ १.६३.५)
ययातेर्द्वे भार्ये बभूवतुः। उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम॥ (कुंभ १.६३.६)
तत्रानुवंशो भवति। यदुं च तुर्वसुं चैव देवयानी व्यजायत। द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी॥ (कुंभ १.६३.७)
तत्र यदोर्यादवाः। पूरोः पौरवाः। पूरोर्भार्या कौसल्या बभूव। तस्यामस्य जज्ञे जनमेजयः॥ (कुंभ १.६३.८)
स त्रीन्हयमेधानाजहार। विश्वजिता चेष्ट्वा वनं प्रविवेश॥ (कुंभ १.६३.९)
जनमेजयस्तु सुनन्दां नामोपयेमे मागधीं। तस्यामस्य जज्ञे प्राचीन्वान्॥ (कुंभ १.६३.१०)
यः प्राचीं दिशं जिगाय। यावत्सूर्यादयात् तत्तस्य प्राचीनत्वम्॥ (कुंभ १.६३.११)
प्राचीन्वांस्तु खल्वाश्मकीमुपयेमे यादवीम्। तस्यामस्य जज्ञे शस्यातिः॥ (कुंभ १.६३.१२)
शय्यातिस्तु त्रिशङ्कोर्दुहितरं वराङ्गीं नामोपयेमे तस्यामस्य जज्ञेऽहंयातिः॥ (कुंभ १.६३.१३)
अहंयातिस्तु खलु कृतवीर्यदुहितरं भानुमतीं नामोपयेमे। तस्यामस्य जज्ञे सार्वभौमः॥ (कुंभ १.६३.१४)
सार्वभौमस्तु खलु जित्वाऽऽजहार कैकयीं सुन्दरां नाम तामुपयेमे। तस्यामस्य जज्ञे जयत्सेनः॥ (कुंभ १.६३.१५)
जयत्सेनस्तु खलु वैदर्भीमुपयेमे सुश्रवां नाम। तस्यामस्य जज्ञेऽपराचीनः॥ (कुंभ १.६३.१६)
अपराचीनस्तु खलु वैदर्भीमपरामुपयेमे मर्यादां नाम। तस्यामस्य जज्ञेऽरिहः॥ (कुंभ १.६३.१७)
अरिहः खल्वाङ्गीमुपेयेमे। तस्यामस्य जज्ञे महाभौमः॥ (कुंभ १.६३.१८)
महाभौमस्तु खलु प्रसेनजिद्दुहितरमुपयेमे सुयज्ञां नाम। तस्यामस्य जज्ञे अयुतानायी॥ (कुंभ १.६३.१९)
यः पुरुषमेधे पुरुषाणामयुतमानयत्तत्तस्यायुतानायित्वम्॥ (कुंभ १.६३.२०)
अयुतानायी तु खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम। तस्यामस्य जज्ञेऽक्रोधनः॥ (कुंभ १.६३.२१)
अक्रोधनस्तु खलु कालिङ्गीं कण्डूं नामोपयेमे। तस्यामस्य जज्ञे देवातिथिः॥ (कुंभ १.६३.२२)
देवातिथिस्तु खलु वैदर्भीमुपयेमे मर्यादां नाम तस्यामस्य जज्ञे ऋचः॥ (कुंभ १.६३.२३)
ऋचस्तु खलु वामदेव्यामङ्गराजकन्यायामृक्षं पुत्रमजीजनत्॥ (कुंभ १.६३.२४)
ऋक्षस्तु खलु तक्षकदुहितरं ज्वलन्तीं नामोपयेमे। तस्यामन्त्यनारमुत्पादयामास॥ (कुंभ १.६३.२५)
अन्त्यनारस्तु खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार। तमुदवसाने सरस्वत्यभिगम्य भर्तारं वरयामास॥ (कुंभ १.६३.२६)
तस्यां पुत्रं जनयामास त्रस्नुं नाम। अत्रानुवंशो भवति॥ (कुंभ १.६३.२७)
त्रस्नुं सरस्वती पुत्रमन्त्यनारादजीजनत्। इलिलं जनयामास कालिन्द्यांत्रस्नुरात्मजम्॥ (कुंभ १.६३.२८)
इलिलस्तु रथन्तर्यां दुष्यन्तादीन्पञ्च पुत्रानजीजनत्॥ (कुंभ १.६३.२९)
दुष्यन्तस्तु लाक्षीं नाम भागीरथीमुपयेमे तस्यामस्य जज्ञे जनमेजयः॥ (कुंभ १.६३.३०)
सएव दुष्यन्तो विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे। तस्यामस्य जज्ञे भरतः॥ (कुंभ १.६३.३१)
तत्रेमौ श्लोकौ भवतः। माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः। भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला॥ (कुंभ १.६३.३२)
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्। त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला॥ (कुंभ १.६३.३३)
ततोऽस्य भरतत्वम्। भरतस्तु खलु काशेयीं सार्वसेनीमुपयेमे सुनन्दां नाम। तस्यामस्य जज्ञे भुमन्युः॥ (कुंभ १.६३.३४)
भुमन्युस्तु खलु दाशार्हीमुपयेमे सुवर्णां नाम। तस्यामस्य जज्ञे सुहोत्रः॥ (कुंभ १.६३.३५)
सुहोत्रस्तु खल्वैक्ष्वाकीमुपयेमे जयन्तीं नाम। तस्यामस्य जज्ञे हस्ती। य इदं पुरं निर्मापयामास॥ (कुंभ १.६३.३६)
तस्माद्धास्तिनपुरत्वम्। हस्ती खलु त्रैगर्तीमुपयेमे यशोदां नाम तस्यामस्य जज्ञे विकुञ्जतः॥ (कुंभ १.६३.३७)
विकुञ्जनस्तु खलु दाशार्हीमुपयेमे सुन्दरां नाम। तस्यामस्य जज्ञेऽजमीढः॥ (कुंभ १.६३.३८)
अजमीढस्य तु चतुर्विंशतिपुत्रशतं बभूव। कैकय्यां नागायां गान्धार्यां विमलायामृक्षायामिति॥ (कुंभ १.६३.३९)
पृथग्वंशकर्तारो नृपतयः। तत्र अजमीढादृक्षायां संवरणो जज्ञे स वंशकरः॥ (कुंभ १.६३.४०)
सवरणस्तु वैवस्वतीं तपतीं नामोपयेमे। तस्यामस्य जज्ञे कुरुः॥ (कुंभ १.६३.४१)
कुरुस्तु खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम। तस्यामस्य जज्ञे विदूरथः॥ (कुंभ १.६३.४२)
विदूरथस्तु खलु मागधीमुपयेमे संप्रियां नाम। तस्यामस्य जज्ञेऽनश्वान्॥ (कुंभ १.६३.४३)
अनश्वांस्तु खलु मागधीमुपयेमेऽमृतां नाम। तस्यामस्य जज्ञे परिक्षित्॥ (कुंभ १.६३.४४)
परिक्षित्खलु बाहुकामुपयेमे सुवेषां नाम। तस्यामस्य जज्ञे भीमसेनः॥ (कुंभ १.६३.४५)
भीमसेनस्तु खलु कैकयीमुपयेमे सुकुमारीं नाम। तस्यामस्य जज्ञे परिश्रवाः॥ (कुंभ १.६३.४६)
यमाहुः प्रतीप इति। प्रतीपस्तु खलु शैब्यामुपयेमे सुनन्दीं नाम। तस्यां त्रीन्पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति॥ (कुंभ १.६३.४७)
देवापिस्तु खलु बाल एवारण्यं प्रविवेश। शन्तनुस्तु महीपालोऽभवत्॥ (कुंभ १.६३.४८)
तत्र श्लोको भवति। यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते। पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः॥ (कुंभ १.६३.४९)
तदस्य शन्तनुत्वं। शन्तनुस्तु खलु गङ्गां भागीरथीमुपयेमे तस्यामस्य जज्ञे देवव्रतः। यमाहुर्भीष्म इति॥ (कुंभ १.६३.५०)
भीष्मस्तु खलु पितुः प्रियचिकीर्षया सत्यवतीमानयामास मातरं। यामाहुः कालीति॥ (कुंभ १.६३.५१)
तस्यां पूर्वं पुराशरात्कन्यागर्भो द्वैपायनः। तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः चित्राङ्गदो विचित्रवीर्यश्च॥ (कुंभ १.६३.५२)
चित्राङ्गदस्तु प्राप्तराज्य एव गन्धर्वेण निहृतः। ततो विचित्रवीर्यो राजा बभूव॥ (कुंभ १.६३.५३)
विचित्रवीर्यस्तु खलुकाशिराजस्य सुते अम्बिकाम्बालिके उदवहत्। विचित्रवीर्योऽनुत्पन्नापत्य एव विदेहत्वं प्राप्तः॥ (कुंभ १.६३.५४)
ततः सत्यवती चिन्तयामास कथं नु खलु शन्तनोः पिण्डविच्छेदो न स्यादिति॥ (कुंभ १.६३.५५)
साथ द्वैपायनं चिन्तयामास सोऽग्रतः स्थितः किं करवाणीति। तं सत्यवत्युवाच भ्राता तेऽनपत्य एव स्वर्गतः तस्यार्थेऽपत्यमुत्पादयेति॥ (कुंभ १.६३.५६)
स परमित्युवाच स तत्र त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति॥ (कुंभ १.६३.५७)
धृतराष्ट्रात्पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य तेषां च धार्तराष्ट्राणां चत्वारः प्रधानाः दुर्योधनो दुश्शासनो विकर्णश्चित्रसेनश्चेति॥ (कुंभ १.६३.५८)
वैशम्पायन उवाच॥
राजोपरिचरो नाम धर्मनित्यो महीपतिः। बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः ॥ (बोरि १.५७.१)
स चेदिविषयं रम्यं वसुः पौरव-नन्दनः। इन्द्रोपदेशात् जग्राह ग्रहणीयं महीपतिः ॥ (बोरि १.५७.२)
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम्। देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् ॥ (बोरि १.५७.३)
इन्द्रत्वम् अर्हः राजा अयम् तपसा इति अनुचिन्त्य वै। तम् सान्त्वेन नृपम् साक्षात् तपसः संन्यवर्तयत् ॥ (बोरि १.५७.४)
इन्द्र उवाच॥
न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते। तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् ॥ (बोरि १.५७.५)
देवानहं पालयिता पालय त्वं हि मानुषान्। (कुंभ १.६४.६)
लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः। धर्मयुक्तस्ततो लोकान् पुण्यानाप्स्यसि शाश्वतान् ॥ (बोरि १.५७.६)
दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः। ऊधः पृथिव्या यो देशस्तमावस नराधिप ॥ (बोरि १.५७.७)
पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान्। स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ॥ (बोरि १.५७.८)
अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः। वसुपूर्णा च वसुधा वस चेदिषु चेदिप ॥ (बोरि १.५७.९)
धर्मशीलाः जनपदाः सुसन्तोषाः च साधवः। न च मिथ्या-प्रलापः अत्र स्वैरेषु अपि कुतः अन्यथा ॥ (बोरि १.५७.१०)
न च पित्रा विभज्यन्ते नरा गुरुहिते रताः। युञ्जते धुरि नो गाश्च कृशाः सन्धुक्षयन्ति च ॥ (बोरि १.५७.११)
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद। न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु यद्भवेत् ॥ (बोरि १.५७.१२)
देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत्। आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ॥ (बोरि १.५७.१३)
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः। चरिष्यसि उपरिस्थः वै देवः विग्रहवानिव ॥ (बोरि १.५७.१४)
ददामि ते वैजयन्तीं मालाम् अम्लान-पङ्कजाम्। धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैः अविक्षतम् ॥ (बोरि १.५७.१५)
लक्षणं चैतदेवेह भविता ते नराधिप। इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ॥ (बोरि १.५७.१६)
वैशम्पायन उवाच॥
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः। इष्टप्रदानम् उद्दिश्य शिष्टानां परिपालिनीम् ॥ (बोरि १.५७.१७)
एवं संसान्त्व्य नृपतिं तपसः संन्यवर्तयत्। प्रययौ दैवतैः सार्धं कृत्वा कार्यं दिवौकसाम्॥ (कुंभ १.६४.१८)
ततस्तु राजा चेदीनामिन्द्राभरणभूषितः। इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम्॥ (कुंभ १.६४.१९)
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा। प्रवेशं कारयामास गते संवत्सरे तदा ॥ (बोरि १.५७.१८)
मार्गशीर्षे महाराज पूर्वपक्षे महामखम्। (कुंभ १.६४.२१)
ततः प्रभृति च अद्यापि यष्ट्याः क्षितिप-सत्तमैः। प्रवेशः क्रियते राजन् यथा तेन प्रवर्तितः ॥ (बोरि १.५७.१९)
अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयः नृपैः। अलङ्कृतायाः पिटकैः गन्धैः माल्यैः च भूषणैः। माल्यदाम-परिक्षिप्ता विधिवत् क्रियते अपि च ॥ (बोरि १.५७.२०)
माल्यदामपरिक्षिप्तां द्वात्रिंशत्किष्कुसंमिताम्॥ (कुंभ १.६४.२३)
उद्धृत्य पिटके चापि द्वादशारत्निकोच्छ्रये। महारजनवासांसि परिक्षिप्य ध्वजोत्तमम्॥ (कुंभ १.६४.२४)
वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः। पुण्याहं वाचयित्वाथ ध्वज उच्छ्रियते तदा॥ (कुंभ १.६४.२५)
भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः। स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ॥ (बोरि १.५७.२१)
माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह॥ (कुंभ १.६४.२७)
नानाविधानि दानानि दत्त्वार्थिभ्यः सुहृज्जनैः। अलङ्कृत्वा माल्यदामैर्वस्त्रैर्नानाविधैस्तथा॥ (कुंभ १.६४.२८)
दृतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात्। सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः॥ (कुंभ १.६४.२९)
रमन्ते नागराः सर्वे तथा जानपदैः सह। सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः॥ (कुंभ १.६४.३०)
प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम्। सान्तःपुरः सहामात्यः सर्वाभरणभूषितः॥ (कुंभ १.६४.३१)
महारजनवासांसि वसित्वा चेदिराट् तदा। जातिहिङ्गुलकेनाक्तः सदारो मुमुदे तदा॥ (कुंभ १.६४.३२)
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्। आस्थाय सह शच्या च वृतो ह्यप्सरसां गणैः॥ (कुंभ १.६४.३४–३५)
एतां पूजां महेन्द्रस्तु दृष्ट्वा देवकृतां शुभाम्। वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः ॥ (बोरि १.५७.२२)
ये पूजयिष्यन्ति नरा राजानश्च महं मम। कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ॥ (बोरि १.५७.२३)
तेषां श्रीः विजयः चैव स-राष्ट्राणां भविष्यति। तथा स्फीतः जनपदः मुदितः च भविष्यति ॥ (बोरि १.५७.२४)
निरीतिकानि सस्यानि भवन्ति बहुधा नृप। राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथंचन॥ (कुंभ १.६४.३८)
एवं महात्मना तेन महेन्द्रेण नराधिप। वसुः प्रीत्या मघवता महाराजः अभिसत्कृतः ॥ (बोरि १.५७.२५)
एवं कृत्वा महेन्द्रस्तु जगाम स्वं निवेशनम्॥ (कुंभ १.६४.३९)
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः। भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै॥ वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते ॥ (बोरि १.५७.२६)
सम्पूजितो मघवता वसुश्चेदिपतिस्तदा। पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम्॥ इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः ॥ (बोरि १.५७.२७)
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः। नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ॥ (बोरि १.५७.२८)
महारथो मगधराड्विश्रुतो यो बृहद्रथः। प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम्॥ मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः ॥ (बोरि १.५७.२९)
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः। न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च॥ वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः ॥ (बोरि १.५७.३०)
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम्। उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम्॥ राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ॥ (बोरि १.५७.३१)
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः। अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ॥ (बोरि १.५७.३२)
गिरिं कोलाहलं तं तु पदा वसुरताडयत्। निश्चक्राम नदी तेन प्रहारविवरेण सा ॥ (बोरि १.५७.३३)
तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम्। तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ॥ (बोरि १.५७.३४)
महिषी भविता कन्या पुमान्सेनापतिर्भवेत्। शुक्तिमत्या वचःश्रुत्वा दृष्ट्वा तौ राजसत्तमः॥ (कुंभ १.६४.५१)
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः। वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम्॥ चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः ॥ (बोरि १.५७.३५)
वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत्। ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः ॥ (बोरि १.५७.३६)
तदहः पितरश्चैनमूचुर्जहि मृगानिति। तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् ॥ (बोरि १.५७.३७)
स पितृणां नियोगं तमव्यतिक्रम्य पार्थिवः। चचार मृगयां कामी गिरिकामेव संस्मरन्॥ अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ॥ (बोरि १.५७.३८)
अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः। पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः॥ (नील १.६३.४३; कुंभ १.६४.५७)
पाटसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा। एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम्॥ (नील १.६३.४४; कुंभ १.६४.५८)
कोकिलाकुलसन्नादं मत्तभ्रमरनादितम्। वसन्तकाले तत्तस्य वनं चैत्ररथोपमम्॥ (नील १.६३.४५; कुंभ १.६४.५९)
मथाभिपरीतात्मा नापश्यद्गिरिकां तदा। अपश्यन्कामसन्तप्तश्चरमाणो यदृच्छया॥ (नील १.६३.४६; कुंभ १.६४.६०)
पुष्पसञ्छन्नशाखाग्रं पल्लवैरुपशोभितम्। अशोकं स्तबकैश्छन्नं रमणीयमपश्यत॥ (नील १.६३.४७; कुंभ १.६४.६१)
अधस्तात्तस्य च्छायायां सुखासीनो नराधिपः। मधुगन्धश्च संयुक्तं पुष्पगन्धमनोहरम्॥ (नील १.६३.४८; कुंभ १.६४.६२)
भार्यां चिन्तयमानस्य मन्मथाग्निरवर्धत। (कुंभ १.६४.६३)
तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने। स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ॥ (बोरि १.५७.३९)
अङ्गुलीयेन शुक्लस्य रक्षां च विदधे नृपः। अशोकस्तबकै रक्तैः पल्लवैश्चाप्यबन्धयत्॥ (कुंभ १.६४.६५)
प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत। ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ॥ (बोरि १.५७.४०)
सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः। अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ॥ (बोरि १.५७.४१)
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः। अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम्॥ सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् ॥ (बोरि १.५७.४२)
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय। गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै ॥ (बोरि १.५७.४३)
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान्। जवं परममास्थाय प्रदुद्राव विहङ्गमः ॥ (बोरि १.५७.४४)
तमपश्यदथायान्तं श्येनं श्येनस्तथापरः। अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ॥ (बोरि १.५७.४५)
तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः। युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि ॥ (बोरि १.५७.४६)
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः। मीनभावमनुप्राप्ता बभूव यमुनाचरी ॥ (बोरि १.५७.४७)
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम्। जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी ॥ (बोरि १.५७.४८)
कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः। मासे च दशमे प्राप्ते तदा भरतसत्तम॥ उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् ॥ (बोरि १.५७.४९)
आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन्। काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति ॥ (बोरि १.५७.५०)
तयोः पुमांसं जग्राह राजोपरिचरस्तदा। स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः ॥ (बोरि १.५७.५१)
साप्सरा मुक्तशापा च क्षणेन समपद्यत। पुरोक्ता या भगवता तिर्यग्योनिगता शुभे॥ मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ॥ (बोरि १.५७.५२)
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना। सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च॥ सिद्धर्षिचारणपथं जगामाथ वराप्सराः ॥ (बोरि १.५७.५३)
या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी। राज्ञा दत्ताथ दाशाय इयं तव भवत्विति॥ रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः ॥ (बोरि १.५७.५४)
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात्। आसीन् मत्स्यसगन्धैव कञ्चित्कालं शुचिस्मिता ॥ (बोरि १.५७.५५)
शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले। तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः ॥ (बोरि १.५७.५६)
अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम्। दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम्॥ विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुङ्गवः ॥ (बोरि १.५७.५७)
संभवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः। क्व कर्णधारो नौर्येन नीयते ब्रूहि भामिनि॥ (कुंभ १.६४.८७)
मत्स्यगन्धोवाच। अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया। सहस्रजनसंपन्ना नौर्मया वाह्यते द्विज॥ (कुंभ १.६४.८८)
पराशर उवाच। शोभनं वासवि शुभे किं चिरायसि वाह्यताम्। कलशं भविता भद्रे सहस्रार्धेन संमितम्॥ (कुंभ १.६४.८९)
अहं शेषो भिविष्यामि नीयतामचिरेण वै। वैशम्पायन उवाच। मत्स्यगन्धा तथेत्युक्त्वा नावं वाहयतां जले॥ (कुंभ १.६४.९०)
वीक्षमाणं मुनिं दृष्ट्वा प्रोवाचेदं वचस्तदा। मत्स्यगन्धेति मामाहुर्दाशराजसुतां जनाः॥ (कुंभ १.६४.९१)
जन्म शोकाभितप्तायाः कथं ज्ञास्यसि कथ्यताम्। पराशर उवाच। दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः॥ (कुंभ १.६४.९२)
प्रणयग्रहणार्थाय वक्ष्येव वासवि तच्छृणु। बर्हिषद इति ख्याताः पितरः सोमपास्तुते॥ (कुंभ १.६४.९३)
तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता। अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम्॥ (कुंभ १.६४.९४)
त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन। संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती॥ (कुंभ १.६४.९५)
सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन्। नाम्ना वसुरिति ख्यातं मनुपुत्रं दिवि स्थितम्॥ (कुंभ १.६४.९६)
अद्रिकाऽप्सरसा युक्तं विमाने दिवि विष्ठितम्। सा तेन व्यभिचारेण मनसा कामचारिणी॥ (कुंभ १.६४.९७)
पितरं प्रार्थयित्वाऽन्यं योगाद्भष्टा पपात सा। अपश्यत्पतमाना सा विमानत्रयमन्तिकात्॥ (कुंभ १.६४.९८)
त्रसरेणुप्रमाणांस्तांस्तत्रापश्यत्स्वकान्पितॄन्। सुसूक्ष्मानपरिव्यक्तानङ्गैरङ्गेष्विवाहितान्॥ (कुंभ १.६४.९९)
तातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी। तैरुक्ता सा तु माभैषीस्तेन सा संस्थिता दिवि॥ (कुंभ १.६४.१००)
ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा। तामूचुः पितरः कन्यां भ्रैष्टश्वर्यां व्यतिक्रमात्॥ (कुंभ १.६४.१०१)
भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते। यैरारभन्ते कर्माणि शरीरैरिह देवताः॥ (कुंभ १.६४.१०२)
तैरेव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः। मनुष्यास्त्वन्यदेहेन शुभाशुभमिति स्थितिः॥ (कुंभ १.६४.१०३)
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे। तस्मात्त्वं पतसे पुत्रि प्रेत्यत्वं प्राप्स्यसे फलम्॥ (कुंभ १.६४.१०४)
पितृहीना तु कन्या त्वं वसोर्हि त्वं सुता मता। मत्स्ययोनौ समुत्पन्ना सुताराज्ञो भविष्यसि॥ (कुंभ १.६४.१०५)
अद्रिका मत्स्यरूपाऽभूद्गङ्गायमनुसङ्गमे। पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि॥ (कुंभ १.६४.१०६)
यो वेदमेकं ब्रह्मर्षिश्चतुर्धा विबजिष्यति। महाभिषक्सुतस्यैव शन्तनोः कीर्तिवर्धनम्॥ (कुंभ १.६४.१०७)
ज्येष्ठं चित्राङ्गदं वीरं चित्रवीरं च विश्रुतम्। एतान्सूत्वा सुपुत्रांस्त्वं पुनरेव गमिष्यसि॥ (कुंभ १.६४.१०८)
व्यतिक्रमात्पितॄणां च प्राप्स्यसे जन्म कुत्सितम्। अस्यैव राज्ञस्त्वं कन्या ह्यद्रिकायां भविष्यसि॥ (कुंभ १.६४.१०९)
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा। एवमुक्ता पुरा तैस्त्वं जाता सत्यवती शुभा॥ (कुंभ १.६४.११०)
अद्रिकेत्यभिविख्याता ब्रह्मशापाद्वराप्सरा। मीनभावमनुप्राप्ता त्वं जनित्वा गता दिवम्॥ (कुंभ १.६४.१११)
तस्यां जातासि सा कन्या राज्ञो वीर्येण चैवहि। तस्माद्वासवि भद्रं ते याचे वंशकरं सुतम्॥ (कुंभ १.६४.११२)
सङ्गमं मम कल्याणि कुरुष्वेत्यभ्यभाषत। (नील १.६३.७२; कुंभ १.६४.११३)
साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान्। आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः ॥ (बोरि १.५७.५८)
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः। येन देशः स सर्वस्तु तमोभूत इवाभवत् ॥ (बोरि १.५७.५९)
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा। विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी ॥ (बोरि १.५७.६०)
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम्। त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ ॥ (बोरि १.५७.६१)
कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम। गन्तुं गृहं गृहे चाहं धीमन् न स्थातुमुत्सहे॥ एतत्सञ्चिन्त्य भगवन्विधत्स्व यदनन्तरम् ॥ (बोरि १.५७.६२)
एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः। उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ॥ (बोरि १.५७.६३)
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि। वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ॥ (बोरि १.५७.६४)
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम्। स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः ॥ (बोरि १.५७.६५)
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता। जगाम सह संसर्गमृषिणाद्भुतकर्मणा ॥ (बोरि १.५७.६६)
तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि। तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ॥ (बोरि १.५७.६७)
ततो योजनगन्धेति तस्या नाम परिश्रुतम्। पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् ॥ (बोरि १.५७.६८)
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्। पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा॥ जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥ (बोरि १.५७.६९)
स मातरमुपस्थाय तपस्येव मनो दधे। स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ॥ (बोरि १.५७.७०)
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्। द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् ॥ (बोरि १.५७.७१)
पादापसारिणं धर्मं विद्वान्स तु युगे युगे। आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च ॥ (बोरि १.५७.७२)
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया। विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः ॥ (बोरि १.५७.७३)
वेदानध्यापयामास महाभारतपञ्चमान्। सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ॥ (बोरि १.५७.७४)
प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च। संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ॥ (बोरि १.५७.७५)
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः। वसुवीर्यात्समभवन्महावीर्यो महायशाः ॥ (बोरि १.५७.७६)
वैदार्थविच्च भगवानृषिर्विप्रो महायशाः। (नील १.६३.९२; कुंभ १.६४.१३४)
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया। अणीमाण्डव्य इति वै विख्यातः सुमहायशाः ॥ (बोरि १.५७.७७)
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान्। इषीकया मया बाल्यादेका विद्धा शकुन्तिका ॥ (बोरि १.५७.७८)
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे। तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः ॥ (बोरि १.५७.७९)
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः। तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि ॥ (बोरि १.५७.८०)
तेन शापेन धर्मोऽपि शूद्रयोनावजायत। विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी ॥ (बोरि १.५७.८१)
सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात्। सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः॥ सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ॥ (बोरि १.५७.८२)
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः। वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ॥ (बोरि १.५७.८३)
अनादिनिधनो देवः स कर्ता जगतः प्रभुः। अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् ॥ (बोरि १.५७.८४)
आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम्। पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् ॥ (बोरि १.५७.८५)
अनन्तमचलं देवं हंसं नारायणं प्रभुम्। धातारमजरं नित्यं तमाहुः परमव्ययम् ॥ (बोरि १.५७.८६)
कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम्। (नील १.६३.१०३; कुंभ १.६४.१४५)
पुरुषः स विभुः कर्ता सर्वभूतपितामहः। धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु ॥ (बोरि १.५७.८७)
अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ। सात्यकिः कृतवर्मा च नारायणमनुव्रतौ॥ सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ॥ (बोरि १.५७.८८)
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत। महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ॥ (बोरि १.५७.८९)
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः। अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः॥ अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः ॥ (बोरि १.५७.९०)
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः। वैताने कर्मणि तते पावकात्समजायत॥ वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् ॥ (बोरि १.५७.९१)
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा। विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ॥ (बोरि १.५७.९२)
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः। तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ॥ (बोरि १.५७.९३)
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा। दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ ॥ (बोरि १.५७.९४)
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः। क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ॥ (बोरि १.५७.९५)
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक्। द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ॥ (बोरि १.५७.९६)
धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः। इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः ॥ (बोरि १.५७.९७)
जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावुभौ। नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ॥ (बोरि १.५७.९८)
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः। दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा ॥ (बोरि १.५७.९९)
ततो दुःशासनश्चैव दुःसहश्चापि भारत। दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः॥ (नील १.६३.११९; कुंभ १.६४.१६१)
जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत। वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः॥ (नील १.६३.१२०; कुंभ १.६४.१६२)
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत। स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ॥ (बोरि १.५७.१००)
पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे। कुमारा रूपसम्पन्नाः सर्वशस्त्रविशारदाः ॥ (बोरि १.५७.१०१)
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्। अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ (बोरि १.५७.१०२)
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान्। हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ॥ (बोरि १.५७.१०३)
शैव्यस्य कन्यां देवकीं नामोपयेमे युधिष्ठिरः। तस्यां पुत्रं जनयामास यौधेयं नाम॥ (कुंभ १.६३.७५)
भीमसेनस्तु वाराणस्यां काशिराजकन्यां जलन्धरां नामोपयेमे स्वयंवरस्थां। तस्यामस्य जज्ञे शर्वत्रातः॥ (कुंभ १.६३.७६)
नकुलस्तु खलु चैद्यां रेणुमतीं नामोदवहत्। तस्यां पुत्रं जनयामास निरमित्रं नाम॥ (कुंभ १.६३.७८)
सहदेवस्तु खलु माद्रीमेव स्वयंवरे विजयां नामोदवहद्भार्याम्। तस्यां पुत्रं जनयामास सुहोत्रं नाम॥ (कुंभ १.६३.७९)
अर्जुनस्तु नागकन्यायामुलूप्यामिरावन्तं नाम पुत्रं जनयामास॥ (कुंभ १.६३.८०)
ततो मणलूरुपतिकन्यायां चित्राङ्गदायामर्जुनः पुत्रमुत्पादयामास बभ्रुवाहनं नाम। एते त्रयोदश पुत्राः पाण्डवानाम्॥ (कुंभ १.६३.८१)
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपेयेमे। तस्यामस्य परासुर्गर्भोऽजायत॥ (कुंभ १.६३.८२)
तमुत्सङ्गे प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य। षाण्मासिकं गर्भमहं जीवयामि पादस्पर्शादिति वासुदेव उवाच॥ (कुंभ १.६३.८३)
अहं जीवयामि कुमारमनन्तवीर्यं जात एवायमजायत। अभिमन्योः सत्येन चेयं पृथिवी धारयत्विति वासुदेवस्य पादस्पर्शात्सजीवोऽजायत। नाम तस्याकरोत्सुभद्रा॥ (कुंभ १.६३.८४)
परिक्षीणे कुले जात उत्तरायां परंतपः। परिक्षिदभवत्तस्मात्सौभद्रात्तु यशस्विनः॥ (कुंभ १.६३.८५)
परीक्षित्तु खलु भद्रवतीं नामोपयेमे। तस्यां तत्र भवाञ्जनमेजयः॥ (कुंभ १.६३.८६)
जनमेजयात्तु भवतः खलु वपुष्टमायां पुत्रौ द्वौ शतानीकः शङ्कुकर्णश्च॥ (कुंभ १.६३.८७)
शतानीकस्तु खलु वैदेहीमुपयेमे। तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः॥ (कुंभ १.६३.८८)
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः। पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते॥ (कुंभ १.६३.८९)
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता। यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया ॥ (बोरि १.५७.१०४)
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ। राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ॥ (बोरि १.५७.१०५)
तेषामपरिमेयानि नामधेयानि सर्वशः। न शक्यं परिसङ्ख्यातुं वर्षाणामयुतैरपि॥ एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ॥ (बोरि १.५७.१०६)