Sankhya Kārika
Karika 06
सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात्। तस्मादपिचासिद्धं परोक्षमाप्तागमात् सिद्धम् ॥६॥