Sankhya Kārika
Karika 66
दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या। सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥६६॥