Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
Chapter 2: Uttanka and Janamejaya; the Bhṛgu–Āstīka narratives; the churning of the ocean, Kadrū–Vinatā wager, and birth of Garuḍa.
सूत उवाच।जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते ।तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति ॥BORI: १-०३-००१॥
तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः ।स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् ॥BORI: १-०३-००२॥
तं माता रोरूयमाणमुवाच ।किं रोदिषि ।केनास्यभिहत इति ॥BORI: १-०३-००३॥
स एवमुक्तो मातरं प्रत्युवाच ।जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति ॥BORI: १-०३-००४॥
तं माता प्रत्युवाच ।व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति ॥BORI: १-०३-००५॥
स तां पुनरुवाच ।नापराध्यामि किञ्चित् ।नावेक्षे हवींषि नावलिह इति ॥BORI: १-०३-००६॥
तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते ॥BORI: १-०३-००७॥
स तया क्रुद्धया तत्रोक्तः ।अयं मे पुत्रो न किञ्चिदपराध्यति ।किमर्थमभिहत इति ।यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति ॥BORI: १-०३-००८॥
स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं सम्भ्रान्तो विषण्णश्चासीत् ॥BORI: १-०३-००९॥
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति ॥BORI: १-०३-०१०॥
स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् ॥BORI: १-०३-०११॥
तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम ।तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम ॥BORI: १-०३-०१२॥
तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे ॥BORI: १-०३-०१३॥
स नमस्कृत्य तमृषिमुवाच ।भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति ॥BORI: १-०३-०१४॥
स एवमुक्तः प्रत्युवाच ।भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः ।महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः ।समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् ।अस्य त्वेकमुपांशुव्रतम् ।यदेनं कश्चिद्ब्राह्मणः कञ्चिदर्थमभियाचेत्तं तस्मै दद्यादयम् ।यद्येतदुत्सहसे ततो नयस्वैनमिति ॥BORI: १-०३-०१५॥
तेनैवमुत्को जनमेजयस्तं प्रत्युवाच ।भगवंस्तथा भविष्यतीति ॥BORI: १-०३-०१६॥
स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच ।मयायं वृत उपाध्यायः ।यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति ॥BORI: १-०३-०१७॥
तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः ।स तथा भ्रातृन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे ।तं च देशं वशे स्थापयामास ॥BORI: १-०३-०१८॥
एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः ।तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति ॥BORI: १-०३-०१९॥
स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास ।गच्छ केदारखण्डं बधानेति ॥BORI: १-०३-०२०॥
स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् ॥BORI: १-०३-०२१॥
स क्लिश्यमानोऽपश्यदुपायम् ।भवत्वेवं करिष्यामीति ॥BORI: १-०३-०२२॥
स तत्र संविवेश केदारखण्डे ।शयाने तस्मिंस्तदुदकं तस्थौ ॥BORI: १-०३-०२३॥
ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् ।क्व आरुणिः पाञ्चाल्यो गत इति ॥BORI: १-०३-०२४॥
ते प्रत्यूचुः ।भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति ॥BORI: १-०३-०२५॥
स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच ।तस्मात्सर्वे तत्र गच्छामो यत्र स इति ॥BORI: १-०३-०२६॥
स तत्र गत्वा तस्याह्वानाय शब्दं चकार ।भो आरुणे पाञ्चाल्य क्वासि ।वत्सैहीति ॥BORI: १-०३-०२७॥
स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे ।प्रोवाच चैनम् ।अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः ।तदभिवादये भगवन्तम् ।आज्ञापयतु भवान् ।किं करवाणीति ॥BORI: १-०३-०२८॥
तमुपाध्यायोऽब्रवीत् ।यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति ॥BORI: १-०३-०२९॥
स उपाध्यायेनानुगृहीतः ।यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति ।सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति ॥BORI: १-०३-०३०॥
स एवमुक्त उपाध्यायेनेष्टं देशं जगाम ॥BORI: १-०३-०३१॥
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम ॥BORI: १-०३-०३२॥
तमुपाध्यायः प्रेषयामास ।वत्सोपमन्यो गा रक्षस्वेति ॥BORI: १-०३-०३३॥
स उपाध्यायवचनादरक्षद्गाः ।स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥BORI: १-०३-०३४॥
तमुपाध्यायः पीवानमपश्यत् ।उवाच चैनम् ।वत्सोपमन्यो केन वृत्तिं कल्पयसि ।पीवानसि दृढमिति ॥BORI: १-०३-०३५॥
स उपाध्यायं प्रत्युवाच ।भैक्षेण वृत्तिं कल्पयामीति ॥BORI: १-०३-०३६॥
तमुपाध्यायः प्रत्युवाच ।ममानिवेद्य भैक्षं नोपयोक्तव्यमिति ॥BORI: १-०३-०३७॥
स तथेत्युक्त्वा पुनररक्षद्गाः ।रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥BORI: १-०३-०३८॥
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच ।वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि ।केनेदानीं वृत्तिं कल्पयसीति ॥BORI: १-०३-०३९॥
स एवमुक्त उपाध्यायेन प्रत्युवाच ।भगवते निवेद्य पूर्वमपरं चरामि ।तेन वृत्तिं कल्पयामीति ॥BORI: १-०३-०४०॥
तमुपाध्यायः प्रत्युवाच ।नैषा न्याय्या गुरुवृत्तिः ।अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः ।लुब्धोऽसीति ॥BORI: १-०३-०४१॥
स तथेत्युक्त्वा गा अरक्षत् ।रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥BORI: १-०३-०४२॥
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच ।अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि ।पीवानसि ।केन वृत्तिं कल्पयसीति ॥BORI: १-०३-०४३॥
स उपाध्यायं प्रत्युवाच ।भो एतासां गवां पयसा वृत्तिं कल्पयामीति ॥BORI: १-०३-०४४॥
तमुपाध्यायः प्रत्युवाच ।नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति ॥BORI: १-०३-०४५॥
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे ॥BORI: १-०३-०४६॥
तमुपाध्यायः पीवानमेवापश्यत् ।उवाच चैनम् ।भैक्षं नाश्नासि न चान्यच्चरसि ।पयो न पिबसि ।पीवानसि ।केन वृत्तिं कल्पयसीति ॥BORI: १-०३-०४७॥
स एवमुक्त उपाध्यायं प्रत्युवाच ।भोः फेनं पिबामि यमिमे वत्सा मातृणां स्तनं पिबन्त उद्गिरन्तीति ॥BORI: १-०३-०४८॥
तमुपाध्यायः प्रत्युवाच ।एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति ।तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः ।फेनमपि भवान्न पातुमर्हतीति ॥BORI: १-०३-०४९॥
स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् ।तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति ।पयो न पिबति ।फेनं नोपयुङ्क्ते ॥BORI: १-०३-०५०॥
स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् ॥BORI: १-०३-०५१॥
स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् ।सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् ॥BORI: १-०३-०५२॥
अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् ।मयोपमन्युः सर्वतः प्रतिषिद्धः ।स नियतं कुपितः ।ततो नागच्छति चिरगतश्चेति ॥BORI: १-०३-०५३॥
स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे ।भो उपमन्यो क्वासि ।वत्सैहीति ॥BORI: १-०३-०५४॥
स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः ।अयमस्मि भो उपाध्याय कूपे पतित इति ॥BORI: १-०३-०५५॥
तमुपाध्यायः प्रत्युवाच ।कथमसि कूपे पतित इति ॥BORI: १-०३-०५६॥
स तं प्रत्युवाच ।अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि ।अतः कूपे पतित इति ॥BORI: १-०३-०५७॥
तमुपाध्यायः प्रत्युवाच ।अश्विनौ स्तुहि ।तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति ॥BORI: १-०३-०५८॥
स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः ॥BORI: १-०३-०५९॥
प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ ।दिव्यौ सुपर्णौ विरजौ विमाना; वधिक्षियन्तौ भुवनानि विश्वा ॥BORI: १-०३-०६०॥
हिरण्मयौ शकुनी साम्परायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ ।शुक्रं वयन्तौ तरसा सुवेमा; वभि व्ययन्तावसितं विवस्वत् ॥BORI: १-०३-०६१॥
ग्रस्तां सुपर्णस्य बलेन वर्तिका; ममुञ्चतामश्विनौ सौभगाय ।तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन् ॥BORI: १-०३-०६२॥
षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति ।नानागोष्ठा विहिता एकदोहना; स्तावश्विनौ दुहतो घर्ममुक्थ्यम् ॥BORI: १-०३-०६३॥
एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः ।अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी ॥BORI: १-०३-०६४॥
एकं चक्रं वर्तते द्वादशारं प्रधि; षण्णाभिमेकाक्षममृतस्य धारणम् ।यस्मिन्देवा अधि विश्वे विषक्ता; स्तावश्विनौ मुञ्चतो मा विषीदतम् ॥BORI: १-०३-०६५॥
अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी ।भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य ॥BORI: १-०३-०६६॥
युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति ।तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति ॥BORI: १-०३-०६७॥
युवां वर्णान्विकुरुथो विश्वरूपां; स्तेऽधिक्षियन्ति भुवनानि विश्वा ।ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति ॥BORI: १-०३-०६८॥
तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य ।तौ नासत्यावमृतावृतावृधा; वृते देवास्तत्प्रपदेन सूते ॥BORI: १-०३-०६९॥
मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते ।सद्यो जातो मातरमत्ति गर्भ; स्तावश्विनौ मुञ्चथो जीवसे गाः ॥BORI: १-०३-०७०॥
एवं तेनाभिष्टुतावश्विनावाजग्मतुः ।आहतुश्चैनम् ।प्रीतौ स्वः ।एष तेऽपूपः ।अशानैनमिति ॥BORI: १-०३-०७१॥
स एवमुक्तः प्रत्युवाच ।नानृतमूचतुर्भवन्तौ ।न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति ॥BORI: १-०३-०७२॥
ततस्तमश्विनावूचतुः ।आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः ।उपयुक्तश्च स तेनानिवेद्य गुरवे ।त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति ॥BORI: १-०३-०७३॥
स एवमुक्तः पुनरेव प्रत्युवाचैतौ ।प्रत्यनुनये भवन्तावश्विनौ ।नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति ॥BORI: १-०३-०७४॥
तमश्विनावाहतुः ।प्रीतौ स्वस्तवानया गुरुवृत्त्या ।उपाध्यायस्य ते कार्ष्णायसा दन्ताः ।भवतो हिरण्मया भविष्यन्ति ।चक्षुष्मांश्च भविष्यसि ।श्रेयश्चावाप्स्यसीति ॥BORI: १-०३-०७५॥
स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे ।स चास्य प्रीतिमानभूत् ॥BORI: १-०३-०७६॥
आह चैनम् ।यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति ।सर्वे च ते वेदाः प्रतिभास्यन्तीति ॥BORI: १-०३-०७७॥
एषा तस्यापि परीक्षोपमन्योः ॥BORI: १-०३-०७८॥
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम ॥BORI: १-०३-०७९॥
तमुपाध्यायः संदिदेश ।वत्स वेद इहास्यताम् ।भवता मद्गृहे कञ्चित्कालं शुश्रूषमाणेन भवितव्यम् ।श्रेयस्ते भविष्यतीति ॥BORI: १-०३-०८०॥
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् ।गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः ॥BORI: १-०३-०८१॥
तस्य महता कालेन गुरुः परितोषं जगाम ।तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप ।एषा तस्यापि परीक्षा वेदस्य ॥BORI: १-०३-०८२॥
स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत ।तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः ॥BORI: १-०३-०८३॥
स शिष्यान्न किञ्चिदुवाच ।कर्म वा क्रियतां गुरुशुश्रूषा वेति ।दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष ॥BORI: १-०३-०८४॥
अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः ॥BORI: १-०३-०८५॥
स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास ।भो उत्तङ्क यत्किञ्चिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति ॥BORI: १-०३-०८६॥
स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम ॥BORI: १-०३-०८७॥
अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म ॥BORI: १-०३-०८८॥
स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः ।उपाध्यायिनी ते ऋतुमती ।उपाध्यायश्च प्रोषितः ।अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् ।एतद्विषीदतीति ॥BORI: १-०३-०८९॥
स एवमुक्तस्ताः स्त्रियः प्रत्युवाच ।न मया स्त्रीणां वचनादिदमकार्यं कार्यम् ।न ह्यहमुपाध्यायेन संदिष्टः ।अकार्यमपि त्वया कार्यमिति ॥BORI: १-०३-०९०॥
तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् ।स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् ॥BORI: १-०३-०९१॥
उवाच चैनम् ।वत्सोत्तङ्क किं ते प्रियं करवाणीति ।धर्मतो हि शुश्रूषितोऽस्मि भवता ।तेन प्रीतिः परस्परेण नौ संवृद्धा ।तदनुजाने भवन्तम् ।सर्वामेव सिद्धिं प्राप्स्यसि ।गम्यतामिति ॥BORI: १-०३-०९२॥
स एवमुक्तः प्रत्युवाच ।किं ते प्रियं करवाणीति ।एवं ह्याहुः ॥BORI: १-०३-०९३॥
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति ॥BORI: १-०३-०९४॥
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥BORI: १-०३-०९५॥
तेनैवमुक्त उपाध्यायः प्रत्युवाच ।वत्सोत्तङ्क उष्यतां तावदिति ॥BORI: १-०३-०९६॥
स कदाचित्तमुपाध्यायमाहोत्तङ्कः ।आज्ञापयतु भवान् ।किं ते प्रियमुपहरामि गुर्वर्थमिति ॥BORI: १-०३-०९७॥
तमुपाध्यायः प्रत्युवाच ।वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति ।तद्गच्छ ।एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति ।एषा यद्ब्रवीति तदुपहरस्वेति ॥BORI: १-०३-०९८॥
स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् ।भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् ।तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् ।तदाज्ञापयतु भवती ।किमुपहरामि गुर्वर्थमिति ॥BORI: १-०३-०९९॥
सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच ।गच्छ पौष्यं राजानम् ।भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले ।ते आनयस्व ।इतश्चतुर्थेऽहनि पुण्यकं भविता ।ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि ।शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व ।श्रेयो हि ते स्यात्क्षणं कुर्वत इति ॥BORI: १-०३-१००॥
स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः ।स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव ॥BORI: १-०३-१०१॥
स पुरुष उत्तङ्कमभ्यभाषत ।उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति ॥BORI: १-०३-१०२॥
स एवमुक्तो नैच्छत् ॥BORI: १-०३-१०३॥
तमाह पुरुषो भूयः ।भक्षयस्वोत्तङ्क ।मा विचारय ।उपाध्यायेनापि ते भक्षितं पूर्वमिति ॥BORI: १-०३-१०४॥
स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः ॥BORI: १-०३-१०५॥
तमुपेत्यापश्यदुत्तङ्क आसीनम् ।स तमुपेत्याशीर्भिरभिनन्द्योवाच ।अर्थी भवन्तमुपगतोऽस्मीति ॥BORI: १-०३-१०६॥
स एनमभिवाद्योवाच ।भगवन्पौष्यः खल्वहम् ।किं करवाणीति ॥BORI: १-०३-१०७॥
तमुवाचोत्तङ्कः ।गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति ॥BORI: १-०३-१०८॥
तं पौष्यः प्रत्युवाच ।प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति ॥BORI: १-०३-१०९॥
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् ॥BORI: १-०३-११०॥
स पौष्यं पुनरुवाच ।न युक्तं भवता वयमनृतेनोपचरितुम् ।न हि ते क्षत्रियान्तःपुरे संनिहिता ।नैनां पश्यामीति ॥BORI: १-०३-१११॥
स एवमुक्तः पौष्यस्तं प्रत्युवाच ।सम्प्रति भवानुच्छिष्टः ।स्मर तावत् ।न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् ।पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति ॥BORI: १-०३-११२॥
अथैवमुक्त उत्तङ्कः स्मृत्वोवाच ।अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति ॥BORI: १-०३-११३॥
तं पौष्यः प्रत्युवाच ।एतत्तदेवं हि ।न गच्छतोपस्पृष्टं भवति न स्थितेनेति ॥BORI: १-०३-११४॥
अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर् हृदयङ्गमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् ॥BORI: १-०३-११५॥
सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच ।स्वागतं ते भगवन् ।आज्ञापय किं करवाणीति ॥BORI: १-०३-११६॥
स तामुवाच ।एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति ॥BORI: १-०३-११७॥
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् ॥BORI: १-०३-११८॥
आह चैनम् ।एते कुण्डले तक्षको नागराजः प्रार्थयति ।अप्रमत्तो नेतुमर्हसीति ॥BORI: १-०३-११९॥
स एवमुक्तस्तां क्षत्रियां प्रत्युवाच ।भवति सुनिर्वृता भव ।न मां शक्तस्तक्षको नागराजो धर्षयितुमिति ॥BORI: १-०३-१२०॥
स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् ॥BORI: १-०३-१२१॥
स तं दृष्ट्वोवाच ।भोः पौष्य प्रीतोऽस्मीति ॥BORI: १-०३-१२२॥
तं पौष्यः प्रत्युवाच ।भगवंश्चिरस्य पात्रमासाद्यते ।भवांश्च गुणवानतिथिः ।तत्करिष्ये श्राद्धम् ।क्षणः क्रियतामिति ॥BORI: १-०३-१२३॥
तमुत्तङ्कः प्रत्युवाच ।कृतक्षण एवास्मि ।शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति ॥BORI: १-०३-१२४॥
स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास ॥BORI: १-०३-१२५॥
अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच ।यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति ॥BORI: १-०३-१२६॥
तं पौष्यः प्रत्युवाच ।यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति ॥BORI: १-०३-१२७॥
सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास ॥BORI: १-०३-१२८॥
अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास ।भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च ।तत्क्षामये भवन्तम् ।न भवेयमन्ध इति ॥BORI: १-०३-१२९॥
तमुत्तङ्कः प्रत्युवाच ।न मृषा ब्रवीमि ।भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति ।ममापि शापो न भवेद्भवता दत्त इति ॥BORI: १-०३-१३०॥
तं पौष्यः प्रत्युवाच ।नाहं शक्तः शापं प्रत्यादातुम् ।न हि मे मन्युरद्याप्युपशमं गच्छति ।किं चैतद्भवता न ज्ञायते यथा ॥BORI: १-०३-१३१॥
नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः ।विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम् ॥BORI: १-०३-१३२॥
इति ।तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् ।गम्यतामिति ॥BORI: १-०३-१३३॥
तमुत्तङ्कः प्रत्युवाच ।भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः ।प्राक्च तेऽभिहितम् ।यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति ।दुष्टे चान्ने नैष मम शापो भविष्यतीति ॥BORI: १-०३-१३४॥
साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा ॥BORI: १-०३-१३५॥
सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च ।अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे ॥BORI: १-०३-१३६॥
एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् ।तमुत्तङ्कोऽभिसृत्य जग्राह ।स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश ॥BORI: १-०३-१३७॥
प्रविश्य च नागलोकं स्वभवनमगच्छत् ।तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन ।प्रविश्य च नागानस्तुवदेभिः श्लोकैः ॥BORI: १-०३-१३८॥
य ऐरावतराजानः सर्पाः समितिशोभनाः ।वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः ॥BORI: १-०३-१३९॥
सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः ।आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ॥BORI: १-०३-१४०॥
बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे ।इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ॥BORI: १-०३-१४१॥
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः ।सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति ॥BORI: १-०३-१४२॥
ये चैनमुपसर्पन्ति ये च दूरं परं गताः ।अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ॥BORI: १-०३-१४३॥
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा ।तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् ॥BORI: १-०३-१४४॥
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ ।कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु ॥BORI: १-०३-१४५॥
जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः ।अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ॥BORI: १-०३-१४६॥
करवाणि सदा चाहं नमस्तस्मै महात्मने ॥BORI: १-०३-१४६॥
एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ ॥BORI: १-०३-१४७॥
तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः ।चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् ।पुरुषं चापश्यद्दर्शनीयम् ॥BORI: १-०३-१४८॥
स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः ॥BORI: १-०३-१४९॥
त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् ।चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति ॥BORI: १-०३-१५०॥
तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ ।कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव ॥BORI: १-०३-१५१॥
वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता ।कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके ॥BORI: १-०३-१५२॥
यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः ।नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय ॥BORI: १-०३-१५३॥
ततः स एनं पुरुषः प्राह ।प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण ।किं ते प्रियं करवाणीति ॥BORI: १-०३-१५४॥
स तमुवाच ।नागा मे वशमीयुरिति ॥BORI: १-०३-१५५॥
स एनं पुरुषः पुनरुवाच ।एतमश्वमपाने धमस्वेति ॥BORI: १-०३-१५६॥
स तमश्वमपानेऽधमत् ।अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः ॥BORI: १-०३-१५७॥
ताभिर्नागलोको धूपितः ॥BORI: १-०३-१५८॥
अथ ससम्भ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच ।एते कुण्डले प्रतिगृह्णातु भवानिति ॥BORI: १-०३-१५९॥
स ते प्रतिजग्राहोत्तङ्कः ।कुण्डले प्रतिगृह्याचिन्तयत् ।अद्य तत्पुण्यकमुपाध्यायिन्याः ।दूरं चाहमभ्यागतः ।कथं नु खलु सम्भावयेयमिति ॥BORI: १-०३-१६०॥
तत एनं चिन्तयानमेव स पुरुष उवाच ।उत्तङ्क एनमश्वमधिरोह ।एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति ॥BORI: १-०३-१६१॥
स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् ।उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे ॥BORI: १-०३-१६२॥
अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत् ।ते चास्यै कुण्डले प्रायच्छत् ॥BORI: १-०३-१६३॥
सा चैनं प्रत्युवाच ।उत्तङ्क देशे कालेऽभ्यागतः ।स्वागतं ते वत्स ।मनागसि मया न शप्तः ।श्रेयस्तवोपस्थितम् ।सिद्धिमाप्नुहीति ॥BORI: १-०३-१६४॥
अथोत्तङ्क उपाध्यायमभ्यवादयत् ।तमुपाध्यायः प्रत्युवाच ।वत्सोत्तङ्क स्वागतं ते ।किं चिरं कृतमिति ॥BORI: १-०३-१६५॥
तमुत्तङ्क उपाध्यायं प्रत्युवाच ।भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि ।तेनास्मि नागलोकं नीतः ॥BORI: १-०३-१६६॥
तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ ।तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः ।किं तत् ॥BORI: १-०३-१६७॥
तत्र च मया चक्रं दृष्टं द्वादशारम् ।षट्चैनं कुमाराः परिवर्तयन्ति ।तदपि किम् ॥BORI: १-०३-१६८॥
पुरुषश्चापि मया दृष्टः ।स पुनः कः ॥BORI: १-०३-१६९॥
अश्वश्चातिप्रमाणयुक्तः ।स चापि कः ॥BORI: १-०३-१७०॥
पथि गच्छता मया ऋषभो दृष्टः ।तं च पुरुषोऽधिरूढः ।तेनास्मि सोपचारमुक्तः ।उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय ।उपाध्यायेनापि ते भक्षितमिति ।ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् ।तदिच्छामि भवतोपदिष्टं किं तदिति ॥BORI: १-०३-१७१॥
तेनैवमुक्त उपाध्यायः प्रत्युवाच ।ये ते स्त्रियौ धाता विधाता च ।ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी ॥BORI: १-०३-१७२॥
यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम् ।यः पुरुषः स पर्जन्यः ।योऽश्वः सोऽग्निः ॥BORI: १-०३-१७३॥
य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः ।यश्चैनमधिरूढः स इन्द्रः ।यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् ॥BORI: १-०३-१७४॥
तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने ।स चापि मम सखा इन्द्रः ॥BORI: १-०३-१७५॥
तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि ।तत्सौम्य गम्यताम् ।अनुजाने भवन्तम् ।श्रेयोऽवाप्स्यसीति ॥BORI: १-०३-१७६॥
स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे ॥BORI: १-०३-१७७॥
स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः ।समागच्छत राजानमुत्तङ्को जनमेजयम् ॥BORI: १-०३-१७८॥
पुरा तक्षशिलातस्तं निवृत्तमपराजितम् ।सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ॥BORI: १-०३-१७९॥
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः ।उवाचैनं वचः काले शब्दसम्पन्नया गिरा ॥BORI: १-०३-१८०॥
अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम ।बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम ॥BORI: १-०३-१८१॥
एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह ।जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् ॥BORI: १-०३-१८२॥
आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि ।प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम् ॥BORI: १-०३-१८३॥
स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः ।उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत् ॥BORI: १-०३-१८४॥
तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता ।तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ॥BORI: १-०३-१८५॥
कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः ।तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः ॥BORI: १-०३-१८६॥
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना ।पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ॥BORI: १-०३-१८७॥
बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः ।अकार्यं कृतवान्पापो योऽदशत्पितरं तव ॥BORI: १-०३-१८८॥
राजर्षिवंशगोप्तारममरप्रतिमं नृपम् ।जघान काश्यपं चैव न्यवर्तयत पापकृत् ॥BORI: १-०३-१८९॥
दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने ।सर्पसत्रे महाराज त्वयि तद्धि विधीयते ॥BORI: १-०३-१९०॥
एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि ।मम प्रियं च सुमहत्कृतं राजन्भविष्यति ॥BORI: १-०३-१९१॥
कर्मणः पृथिवीपाल मम येन दुरात्मना ।विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ॥BORI: १-०३-१९२॥
एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह ।उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ॥BORI: १-०३-१९३॥
अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः ।उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति ॥BORI: १-०३-१९४॥
तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् ।यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा ॥BORI: १-०३-१९५॥
स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किंचिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति ॥KUMB: १-३-८; NILA: ०१.००३.००८॥
न किंचिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति ॥KUMB: १-३-९; NILA: ०१.००३.००९॥
तमुपाध्यायः प्रत्युवाच मय्यनिवेद्य भैक्ष्यं नोपयोक्तव्यमिति। स तथेत्युक्तो भैक्ष्यं चरित्वोपाध्यायाय न्यवेदयत् ॥KUMB: १-३-३८; NILA: ०१.००३.०३८॥
स तस्मादुपाध्यायःसर्वमेव भैक्ष्यमगृह्णात्। स तथेत्युक्तः पुनररक्षद्गा अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रतः स्थित्वा नमश्चक्रे ॥KUMB: १-३-३९; NILA: ०१.००३.०३९॥
अथ तस्मिन्ननागच्छति सूर्ये चास्ताचलावलम्बिनि उपाध्यायः शिष्यानवोचत्। नायात्युपमन्युस्त ऊचुर्वनं गतो गा रक्षितुमिति ॥KUMB: १-३-५२; NILA: ०१.००३.०५२॥
तानाह उपाध्यायः मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितस्ततो नागच्छति चिरं ततोऽन्वेष्य इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार। भो उपमन्यो क्वासि वत्सैहीति ॥KUMB: १-३-५३; NILA: ०१.००३.०५३॥
स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः पथि संप्रमोहः । दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये ॥KUMB: १-३-६८; NILA: ०१.००३.०६८॥
एवमृग्भिश्चान्यैरस्तुवत् । इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैं प्रीतौ स्व एष तेऽपूपोशानैनमिति ॥KUMB: १-३-६९॥
सर्वे च ते वेदाःप्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति । एषा तस्यापि परीक्षोपमन्न्योः ॥KUMB: १-३-७७; NILA: ०१.००३.०७७॥
स एवमुक्तो बाढमित्युक्त्वा तदा तद्वृपभस्य मूत्रं पुरीषं च भक्षयित्वोत्तङ्कः संभ्रमाढुत्थित एवापोऽनुस्पृश्य प्रतस्थे ॥KUMB: १-३-१०१; NILA: ०१.००३.१०१॥
न युक्तं भवताऽन्नमशुचि दत्त्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु । ततः पौष्यस्तदन्नमशुचि दृष्ट्वा तस्याशुचिभावमपरोक्षयामास ॥KUMB: १-३-११८; NILA: ०१.००३.११८॥
तमुत्तङ्कोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात् ॥KUMB: १-३-१२८; NILA: ०१.००३.१२८॥
तस्य तक्षको दृढमासन्नः सतं जग्राह । गृहीतमात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश ॥KUMB: १-३-१२९; NILA: ०१.००३.१२९॥
प्रविश्य च नागलोकं स्वभवनमगच्छत् । अथोत्तङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत् ॥KUMB: १-३-१३०; NILA: ०१.००३.१३०॥
स तद्बिलं दण्डकाष्ठेन चखान न चाशकत् । तं क्लिश्यमानमिन्द्रोऽपश्यत्स वज्रं प्रेषयामास । गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति ॥KUMB: १-३-१३१; NILA: ०१.००३.१३१॥
अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्बिलमदारयत् ॥KUMB: १-३-१३२; NILA: ०१.००३.१३२॥
तमुत्तङ्कोऽनुविवेश तेनैव बिलेन प्रविश्य च तं नागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशत- संकुलमुच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत् ॥KUMB: १-३-१३३; NILA: ०१.००३.१३३॥
बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे । तत्रस्थानपि संस्तौमि महतः पन्नगानहम् ॥KUMB: १-३-१३६; NILA: ०१.००३.१३६॥
एवं स्तुत्वा स विप्रर्षिरुत्तङ्को भुजगोत्तमान् । नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत् ॥KUMB: १-३-१४३; NILA: ०१.००३.१४३॥
एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभत्तदाऽपश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ । तस्मिंस्तन्त्रे कृष्णाः सिताश्च तन्तवश्चक्रं चापश्यद्द्वादशारं षड्भिः कुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वं च दर्शनीयम् ॥KUMB: १-३-१४४; NILA: ०१.००३.१४४॥
उत्तङ्क देशे कालेऽभ्यागतः स्वागतं ते वत्स ' इदानीं यद्यनागतोसि कोपितया मया शप्तो भविष्यसि' श्रेयस्तवोपस्थितं सिद्धिमाप्नुहीति ॥KUMB: १-३-१५९॥
ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनी । यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति तेपि षडृतवः द्वादशारा द्वादश मासाः संवत्सरश्चक्रम् ॥१-३-१६६ (८६५) यः पुरुषःस पर्जन्यः योऽश्वः सोऽग्निः य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट् ॥KUMB: १-३-१६७॥
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे ॥BORI: १-०४-००१॥
पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच । किं भवन्तः श्रोतुमिच्छन्ति । किमहं ब्रुवाणीति ॥BORI: १-०४-००२॥
तमृषय ऊचुः ।
परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् । तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते ॥BORI: १-०४-००३॥
योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः । मनुष्योरगगन्धर्वकथा वेद च सर्वशः ॥BORI: १-०४-००४॥
स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः । दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ॥BORI: १-०४-००५॥
सत्यवादी शमपरस्तपस्वी नियतव्रतः । सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ॥BORI: १-०४-००६॥
तस्मिन्नध्यासति गुरावासनं परमार्चितम् । ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ॥BORI: १-०४-००७॥
सूत उवाच।
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि । तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ॥BORI: १-०४-००८॥
सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् । देवान्वाग्भिः पितृनद्भिस्तर्पयित्वाजगाम ह ॥BORI: १-०४-००९॥
यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः । यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः ॥BORI: १-०४-०१०॥
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः । उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ॥BORI: १-०४-०११॥
शौनक उवाच॥
पुराणमखिलं तात पिता तेऽधीतवान्पुरा । कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ॥BORI: १-००५-१॥
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् । कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ॥BORI: १-००५-२॥
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् । कथयस्व कथामेतां कल्याः स्म श्रवणे तव ॥BORI: १-००५-३॥
सूत उवाच॥
यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः । वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा ॥BORI: १-००५-४॥
यदधीतं च पित्रा मे सम्यक्चैव ततो मया । तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ॥BORI: १-००५-५॥
पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ॥BORI: १-००५-५॥
इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने । निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ॥BORI: १-००५-६॥
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः । च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ॥BORI: १-००५-७॥
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥BORI: १-००५-७॥
रुरोरपि सुतो जज्ञे शुनको वेदपारगः । प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ॥BORI: १-००५-८॥
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः । धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ॥BORI: १-००५-९॥
शौनक उवाच॥
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः । च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥BORI: १-००५-१०॥
सूत उवाच॥
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता । तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ॥BORI: १-००५-११॥
तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह । समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥BORI: १-००५-१२॥
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे । आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ॥BORI: १-००५-१३॥
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् । हृच्छयेन समाविष्टो विचेताः समपद्यत ॥BORI: १-००५-१४॥
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना । न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥BORI: १-००५-१५॥
तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् । दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ॥BORI: १-००५-१६॥
अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् । तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ॥BORI: १-००५-१७॥
शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै । सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ॥BORI: १-००५-१८॥
मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी । पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ॥BORI: १-००५-१९॥
सेयं यदि वरारोहा भृगोर्भार्या रहोगता । तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ॥BORI: १-००५-२०॥
मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति । मत्पुर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ॥BORI: १-००५-२१॥
तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् । शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ॥BORI: १-००५-२२॥
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा । साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥BORI: १-००५-२३॥
मत्पूर्वभार्यापहृता भृगुणानृतकारिणा । सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥BORI: १-००५-२४॥
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् । जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥BORI: १-००५-२५॥
तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् । भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥BORI: १-००५-२६॥
पुराणमखिलं तात पिता तेऽधीतवान्पुरा । ' भारताध्ययनं सर्वं कृष्णद्वैपायनात्तदा.' कच्चित्त्वमपि तत्सर्वमधीषे रौमहर्षणे ॥KUMB: १-५-१॥
निगदामि यथायुक्तं पुराणाश्रयसंयुतम् । भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयंभुवा ॥KUMB: १-५-७; NILA: ०१.००५.००७॥
वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम् । भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः ॥KUMB: १-५-८; NILA: ०१.००५.००८॥
जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम् । सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता ॥KUMB: १-५-१९; NILA: ०१.००५.०१९॥
तां तु प्रादात्पिता पश्चाद्भृगवे शास्त्रवत्तदा । तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव ॥KUMB: १-५-२०; NILA: ०१.००५.०२०॥
इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा । अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम् ॥KUMB: १-५-२१; NILA: ०१.००५.०२१॥
मुखं त्वमसि देवानां वद पावक पृच्छते । मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी ॥KUMB: १-५-२३; NILA: ०१.००५.०२३॥
मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम् । ' असंमतमिदं मेऽद्य हरिष्याम्याश्रमादिमाम्' ॥KUMB: १-५-२६॥
तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत् । ' सत्यं वदामि यदि मे शापः स्याद्ब्रह्मवित्तमात् ॥KUMB: १-५-३१॥
असत्यं चेदहं ब्रूयां पतिष्ये नरकान्ध्रुवम्.' भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥KUMB: १-५-३२॥
त्वया वृता पुलोमेयं पूर्वं दानवनन्दन । किं त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया ॥KUMB: १-५-३३; NILA: ०१.००५.०३१॥
पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी । ददाति न पिता तुभ्यं वरलोभान्महायशाः ॥KUMB: १-५-३४; NILA: ०१.००५.०३२॥
अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम् । भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव ॥KUMB: १-५-३५; NILA: ०१.००५.०३३॥
सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे । नानृतं हि सदा लोके पूज्यते दानवोत्तम ॥KUMB: १-५-३६; NILA: ०१.००५.०३४॥
सूत उवाच॥
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् । ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥BORI: १-००६-१॥
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह । रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥BORI: १-००६-२॥
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् । तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥BORI: १-००६-३॥
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् । च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ॥BORI: १-००६-४॥
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः । रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् । सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ॥BORI: १-००६-५॥
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी । अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ॥BORI: १-००६-६॥
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा । नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः । वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥BORI: १-००६-७॥
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् । तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ॥BORI: १-००६-८॥
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः । केनासि रक्षसे तस्मै कथितेह जिहीर्षवे । न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥BORI: १-००६-९॥
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा । बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥BORI: १-००६-१०॥
पुलोमोवाच॥
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता । ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥BORI: १-००६-११॥
साहं तव सुतस्यास्य तेजसा परिमोक्षिता । भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥BORI: १-००६-१२॥
सूत उवाच॥
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् । शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ॥BORI: १-००६-१३॥
सूत उवाच॥
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् । किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् ॥BORI: १-००७-१॥
धर्मे प्रयतमानस्य सत्यं च वदतः समम् । पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ॥BORI: १-००७-२॥
पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् । स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ॥BORI: १-००७-३॥
यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते । सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥BORI: १-००७-४॥
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम । जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ॥BORI: १-००७-५॥
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु । अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ॥BORI: १-००७-६॥
वेदोक्तेन विधानेन मयि यद्धूयते हविः । देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ॥BORI: १-००७-७॥
आपो देवगणाः सर्वे आपः पितृगणास्तथा । दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ॥BORI: १-००७-८॥
देवताः पितरस्तस्मात्पितरश्चापि देवताः । एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ॥BORI: १-००७-९॥
देवताः पितरश्चैव जुह्वते मयि यत्सदा । त्रिदशानां पितृणां च मुखमेवमहं स्मृतः ॥BORI: १-००७-१०॥
अमावास्यां च पितरः पौर्णमास्यां च देवताः । मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः । सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ॥BORI: १-००७-११॥
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः । द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ॥BORI: १-००७-१२॥
निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः । विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ॥BORI: १-००७-१३॥
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः । अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः । विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ॥BORI: १-००७-१४॥
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु । अग्नेरावेदयञ्शापं क्रियासंहारमेव च ॥BORI: १-००७-१५॥
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे । कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा । हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ॥BORI: १-००७-१६॥
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् । उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ॥BORI: १-००७-१७॥
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च । त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः । स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ॥BORI: १-००७-१८॥
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः । त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ॥BORI: १-००७-१९॥
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि । उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ॥BORI: १-००७-२०॥
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते । तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ॥BORI: १-००७-२१॥
तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् । स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो । देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ॥BORI: १-००७-२२॥
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् । जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥BORI: १-००७-२३॥
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् । ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ॥BORI: १-००७-२४॥
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः । अग्निश्च परमां प्रीतिमवाप हतकल्मषः ॥BORI: १-००७-२५॥
एवमेष पुरावृत्त इतिहासोऽग्निशापजः । पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः ॥BORI: १-००७-२६॥
क्रव्यादा च तनुर्याते सा सर्वं भक्षयिष्यति। यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते॥KUMB: १-७-२३; NILA: ०१.००७.०२३॥
एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा। एवमेष पुरावृत्त हतिहासोऽग्निशापजः। पुलोम्नश्च विनाशोऽयं च्यवनस्य च सम्भवः॥KUMB: १-७-२९; NILA: ०१.००७.०२९॥
सूत उवाच॥
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् । सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ॥BORI: १-००८-१॥
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् । रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ॥BORI: १-००८-२॥
शुनकस्तु महासत्वः सर्वभार्गवनन्दनः । जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः ॥KUMB: १-८-३; NILA: ०१.००८.००३॥
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः । विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ॥BORI: १-००८-३॥
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः । स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ॥BORI: १-००८-४॥
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् । गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ॥BORI: १-००८-५॥
अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन । उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ॥BORI: १-००८-६॥
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह । कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ॥BORI: १-००८-७॥
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः । स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ॥BORI: १-००८-८॥
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः । जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च । ववृधे सा वरारोहा तस्याश्रमपदे शुभा ॥BORI: १-००८-९॥
प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता । ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ॥BORI: १-००८-१०॥
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् । बभूव किल धर्मात्मा मदनानुगतात्मवान् ॥BORI: १-००८-११॥
पितरं सखिभिः सोऽथ वाचयामास भार्गवः । प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ॥BORI: १-००८-१२॥
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् । विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ॥BORI: १-००८-१३॥
ततः कतिपयाहस्य विवाहे समुपस्थिते । सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ॥BORI: १-००८-१४॥
नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् । पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ॥BORI: १-००८-१५॥
स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा । विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ॥BORI: १-००८-१६॥
सा दष्टा सहसा भूमौ पतिता गतचेतना । व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ॥BORI: १-००८-१७॥
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता । भूयो मनोहरतरा बभूव तनुमध्यमा ॥BORI: १-००८-१८॥
ददर्श तां पिता चैव ते चैवान्ये तपस्विनः । विचेष्टमानां पतितां भूतले पद्मवर्चसम् ॥BORI: १-००८-१९॥
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः । स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ॥BORI: १-००८-२०॥
भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः । प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ॥BORI: १-००८-२१॥
तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् । रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ॥BORI: १-००८-२२॥
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा। अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा॥KUMB: १-८-८; NILA: ०१.००८.००८॥
जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम्। स्थूलकेशो महाभागश्चकार सुमहानृषिः॥KUMB: १-८-१२; NILA: ०१.००८.०१२॥
सा दष्टा तेन सर्पेण पपात सहसा भुवि। विवर्णा विगतश्रीका भ्रष्टाभरणचेतना॥KUMB: १-८-२०; NILA: ०१.००८.०२०॥
निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा। व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाऽभवत्॥KUMB: १-८-२१; NILA: ०१.००८.०२१॥
उद्दालकः कठश्चैव श्वेतश्चैव महायशाः। भरद्वाजः कौणकृत्स्य आर्ष्टिषेणोऽथ गौतमः॥KUMB: १-८-२५; NILA: ०१.००८.०२५॥
रुरुदुः कृपयाऽविष्टा रुरुस्त्वार्तो बहिर्ययौ। ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा॥KUMB: १-८-२७; NILA: ०१.००८.०२७॥
सूत उवाच॥
तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः । रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ॥BORI: १-००९-१॥
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु । अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ॥BORI: १-००९-२॥
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी । बान्धवानां च सर्वेषां किं नु दुःखमतः परम् ॥BORI: १-००९-३॥
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि । सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया ॥BORI: १-००९-४॥
यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः । प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ॥BORI: १-००९-५॥
देवदूत उवाच॥
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा । न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ॥BORI: १-००९-६॥
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता । तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन ॥BORI: १-००९-७॥
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः । तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ॥BORI: १-००९-८॥
रुरुरुवाच॥
क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर । करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥BORI: १-००९-९॥
देवदूत उवाच॥
आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन । एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ॥BORI: १-००९-१०॥
रुरुरुवाच॥
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम । शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ॥BORI: १-००९-११॥
सूत उवाच॥
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ । धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥BORI: १-००९-१२॥
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा । समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ॥BORI: १-००९-१३॥
धर्मराज उवाच॥
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि । उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥BORI: १-००९-१४॥
सूत उवाच॥
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा । रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥BORI: १-००९-१५॥
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः । आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ॥BORI: १-००९-१६॥
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा । विवाहं तौ च रेमाते परस्परहितैषिणौ ॥BORI: १-००९-१७॥
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् । व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥BORI: १-००९-१८॥
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः । अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ॥BORI: १-००९-१९॥
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् । शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ॥BORI: १-००९-२०॥
तत उद्यम्य दण्डं स कालदण्डोपमं तदा । अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥BORI: १-००९-२१॥
नापराध्यामि ते किञ्चिदहमद्य तपोधन । संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः ॥BORI: १-००९-२२॥
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी । ' प्राणानपहरन्तीव पूर्णचन्द्रनिभानना ॥KUMB: १-९-३॥
यदि पीनायतश्रोणी पद्मपत्रनिभेक्षणा । मुमूर्षुरपि मे प्राणानादायाशु गमिष्यति ॥KUMB: १-९-४॥
पितृमातृसखीनां च लुप्तपिण्डस्य तस्य मे.' बान्धवानां च सर्वेषां किं नु दुःखमतःपरम् ॥KUMB: १-९-५॥
एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च। देवदूतस्तदाऽभ्येत्य वाक्यमाह रुरुं वने॥KUMB: १-९-८; NILA: ०१.००९.००६॥
कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि । यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया ॥KUMB: १-९-९॥
विलप्यमाने तु रुरौ सर्वे देवाः कृपान्विताः । दूतं प्रस्थापयामासुः संदिश्यास्य हितं वचः ॥KUMB: १-९-१०॥
स दूतस्त्वरितोऽभ्येत्य देवानां प्रियकृच्छुचिः । उवाच देववचनं रुरुमाभाष्य दुःखितम् ॥KUMB: १-९-११॥
देवैः सर्वैरहं ब्रह्मन्प्रेषितोऽस्मि तवान्तिकम् । त्वद्धितं त्वद्धितैरुक्तं शृणु वाक्यं द्विजोत्तम ॥' ॥KUMB: १-९-१२॥
रुरुरुवाच॥
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह । तत्र मे समयो घोर आत्मनोरग वै कृतः ॥BORI: १-१०-१॥
हन्यां सदैव भुजगं यं यं पश्येयमित्युत । ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ॥BORI: १-१०-२॥
डुण्डुभ उवाच॥
अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् । डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ॥BORI: १-१०-३॥
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् । डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ॥BORI: १-१०-४॥
सूत उवाच॥
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा । नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् ॥BORI: १-१०-५॥
उवाच चैनं भगवान्रुरुः संशमयन्निव । कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥BORI: १-१०-६॥
डुण्डुभ उवाच॥
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् । सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥BORI: १-१०-७॥
रुरुरुवाच॥
किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम । कियन्तं चैव कालं ते वपुरेतद्भविष्यति ॥BORI: १-१०-८॥
डुण्डुभ उवाच॥
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः । भृशं संशितवाक्तात तपोबलसमन्वितः ॥BORI: १-११-१॥
स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् । अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै ॥BORI: १-११-२॥
लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः । निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ॥BORI: १-११-३॥
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया । तथावीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि ॥BORI: १-११-४॥
तस्याहं तपसो वीर्यं जानमानस्तपोधन । भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् ॥BORI: १-११-५॥
प्रयतः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः । सखेति हसतेदं ते नर्मार्थं वै कृतं मया ॥BORI: १-११-६॥
क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् । सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ॥BORI: १-११-७॥
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः । नानृतं वै मया प्रोक्तं भवितेदं कथञ्चन ॥BORI: १-११-८॥
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत । श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन ॥BORI: १-११-९॥
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः । तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव ॥BORI: १-११-१०॥
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः । स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् ॥BORI: १-११-११॥
अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः । तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ॥BORI: १-११-१२॥
ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः । वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः ॥BORI: १-११-१३॥
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् । ब्राह्मणस्य परो धर्मो वेदानां धरणादपि ॥BORI: १-११-१४॥
क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव । दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ॥BORI: १-११-१५॥
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो । जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा ॥BORI: १-११-१६॥
परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि । तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् । आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ॥BORI: १-११-१७॥
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः । तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव । ' एवमुक्तस्तु तेनाहमुरगत्वमवाप्तवान् ॥' ॥KUMB: १-११-१०॥
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा। स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः॥KUMB: १-११-१२; NILA: ०१.०११.०१२॥
इदं चोवाच वचनं रुरुमप्रतिमौजसम्। अहिंसा परमो धर्मः सर्वप्राणभृतां वर॥KUMB: १-११-१३; NILA: ०१.०११.०१३॥
रुरुरुवाच॥
कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः । सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ॥BORI: १-१२-१॥
किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे । आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ॥BORI: १-१२-२॥
ऋषिरुवाच॥
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् । ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत ॥BORI: १-१२-३॥
सूत उवाच॥
इत्युक्त्वान्तर्हिते योगात्तस्मिन्नृषिवरे प्रभौ । संभ्रमाविष्टहृदयो रुरुर्मेने तदद्भुतम् ॥' ॥KUMB: १-१२-४॥
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः । तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ॥BORI: १-१२-४॥
स मोहे परमं गत्वा नष्टसञ्ज्ञ इवाभवत्। तदृषेर्वचनं तथ्यं चिन्तयानः पुनःपुनः ॥KUMB: १-१२-६; NILA: ०१.०१२.००५॥
लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा । ' पित्रे तु सर्वमाख्याय डुण्डुभस्य वचोऽर्थवत् ॥ ॥KUMB: १-१२-७॥
अपृच्छत्पितरं भूयः सोस्तीकस्य वचस्तदा । आख्यापयत्तदाऽऽख्यानं डुण्डुभेनाथ कीर्तितम् ॥ ॥KUMB: १-१२-८॥
तत्कीर्त्यमानं भगवञ्श्रोतुमिच्छामि तत्त्वतः.' पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥॥ ॥KUMB: १-१२-९॥
लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा । पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥BORI: १-१२-५॥
किमर्थं राजशार्दूलः स राजा जनमेजयः । सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ॥BORI: १-१३-१॥
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः । मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ॥BORI: १-१३-२॥
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् । स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ॥BORI: १-१३-३॥
महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज । सर्वमेतदशेषेण शृणु मे वदतां वर ॥BORI: १-१३-४॥
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् । आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ॥BORI: १-१३-५॥
इतिहासमिमं वृद्धाः पुराणं परिचक्षते । कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः ॥BORI: १-१३-६॥
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः । शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ॥BORI: १-१३-७॥
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् । इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ॥BORI: १-१३-८॥
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः । ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ॥BORI: १-१३-९॥
जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः । यायावराणां धर्मज्ञः प्रवरः संशितव्रतः ॥BORI: १-१३-१०॥
अटमानः कदाचित्स स्वान्ददर्श पितामहान् । लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ॥BORI: १-१३-११॥
तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् । के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः ॥BORI: १-१३-१२॥
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते । मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ॥BORI: १-१३-१३॥
यायावरा नाम वयमृषयः संशितव्रताः । सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ॥BORI: १-१३-१४॥
अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः । मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ॥BORI: १-१३-१५॥
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति । तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह ॥BORI: १-१३-१६॥
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा । कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ॥BORI: १-१३-१७॥
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः । किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ॥BORI: १-१३-१८॥
मम पूर्वे भवन्तो वै पितरः सपितामहाः । ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ॥BORI: १-१३-१९॥
यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः । आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ॥BORI: १-१३-२०॥
न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः । तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ॥BORI: १-१३-२१॥
तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु । पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ॥BORI: १-१३-२२॥
न दारान्वै करिष्यामि सदा मे भावितं मनः । भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् ॥BORI: १-१३-२३॥
समयेन च कर्ताहमनेन विधिपूर्वकम् । तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ॥BORI: १-१३-२४॥
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः । भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ॥BORI: १-१३-२५॥
दरिद्राय हि मे भार्यां को दास्यति विशेषतः । प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ॥BORI: १-१३-२६॥
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः । अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ॥BORI: १-१३-२७॥
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै । शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ॥BORI: १-१३-२८॥
ततो निवेशाय तदा स विप्रः संशितव्रतः । महीं चचार दारार्थी न च दारानविन्दत ॥BORI: १-१३-२९॥
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् । चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ॥BORI: १-१३-३०॥
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा । न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ॥BORI: १-१३-३१॥
सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि । मनो निविष्टमभवज्जरत्कारोर्महात्मनः ॥BORI: १-१३-३२॥
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः । किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम ॥BORI: १-१३-३३॥
जरत्कारो जरत्कारुः स्वसेयमनुजा मम । त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ॥BORI: १-१३-३४॥
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर । जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ॥BORI: १-१३-३५॥
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः । स्वसारमृषये तस्मै सुव्रताय तपस्विने ॥BORI: १-१३-३६॥
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा । आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ॥BORI: १-१३-३७॥
तपस्वी च महात्मा च वेदवेदाङ्गपारगः । समः सर्वस्य लोकस्य पितृमातृभयापहः ॥BORI: १-१३-३८॥
अथ कालस्य महतः पाण्डवेयो नराधिपः । आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ॥BORI: १-१३-३९॥
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै । मोचयामास तं शापमास्तीकः सुमहायशाः ॥BORI: १-१३-४०॥
नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् । पितृंश्च तारयामास सन्तत्या तपसा तथा । व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ॥BORI: १-१३-४१॥
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः । ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् ॥BORI: १-१३-४२॥
अपहृत्य गुरुं भारं पितृणां संशितव्रतः । जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ॥BORI: १-१३-४३॥
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः । जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ॥BORI: १-१३-४४॥
एतदाख्यानमास्तीकं यथावत्कीर्तितं मया । प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ॥BORI: १-१३-४५॥
निखिलेन यथातत्त्वं सौते सर्वमशेषतः । कथयिष्याम्यशेषेण सर्वपापप्रणाशनम् ॥KUMB: १-१३-२; १-१३-९; NILA: ०१.०१३.००२; ०१.०१३.००९॥
स कदाचिन्महाभागस्तपोबलसमन्वितः । चचार पृथिवीं सर्वां यत्र सायङ्गृहो मुनिः ॥KUMB: १-१३-१२; NILA: ०१.०१३.०१२॥
तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः । चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः ॥KUMB: १-१३-१३; NILA: ०१.०१३.०१३॥
वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः । इतस्ततः परिचरन्दीप्तपावकसप्रभः ॥KUMB: १-१३-१४; NILA: ०१.०१३.०१४॥
येषां तु संततिर्नास्ति मर्त्यलोके सुखावहा । न ते लभन्ते वसतिं स्वर्गे पुण्यकृतोऽपि हि ॥KUMB: १-१३-२१; १-१३-२२॥
प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम् । एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम् ॥KUMB: १-१४-६; १-१४-७; NILA: ०१.०१४.००६; ०१.०१४.००७॥
सौते कथय तामेतां विस्तरेण कथां पुनः। आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ॥BORI: १-१४-१॥
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया। प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥BORI: १-१४-२॥
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव। आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ॥BORI: १-१४-३॥
आयुष्यमिदमाख्यानमास्तीकं कथयामि ते। यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ॥BORI: १-१४-४॥
वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते। हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ॥BORI: १-१४-७॥
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः। द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले । ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ॥BORI: १-१४-८॥
तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम्। एवमस्त्विति तं चाह कश्यपं विनता तदा ॥BORI: १-१४-९॥
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ। कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ॥BORI: १-१४-१०॥
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः। ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ॥BORI: १-१४-११॥
कालेन महता कद्रूरण्डानां दशतीर्दश। जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ॥BORI: १-१४-१२॥
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः। सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ॥BORI: १-१४-१३॥
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः। अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ॥BORI: १-१४-१४॥
ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी। अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ॥BORI: १-१४-१५॥
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता। स पुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः ॥BORI: १-१४-१६॥
योऽहमेवं कृतो मातस्त्वया लोभपरीतया। शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ॥BORI: १-१४-१७॥
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह। एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ॥BORI: १-१४-१८॥
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्। न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ॥BORI: १-१४-१९॥
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया। विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ॥BORI: १-१४-२०॥
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः। अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ॥BORI: १-१४-२१॥
गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः। स जातमात्रो विनतां परित्यज्य खमाविशत् ॥BORI: १-१४-२२॥
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्। विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ॥BORI: १-१४-२३॥
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा । उद्यन्नथ सहस्रांशुर्दृष्ट्वा तमरुणं प्रभुः ॥KUMB: १-१६-११; १-१६-२३॥
स्वतेजसा प्रज्वलन्तमात्मनः समतेजसम् । सारथ्ये कल्पयामास प्रीयमाणस्तमोनुदः ॥KUMB: १-१६-२४॥
सोऽपि तं रथमारुह्य भानोरमिततेजसः । सर्वलोकप्रदीपस्य ह्यमरोऽप्यरुणोऽभवत् ॥KUMB: १-१६-२५॥
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाऽभवत्तदा । आदित्यरथमध्यास्ते सारथ्यं समकल्पयत् ॥NILA: ०१.०१६.०११; ०१.०१६.०२३॥
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन। अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् ॥BORI: १-१५-१॥
यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन्। मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ॥BORI: १-१५-२॥
महौघबलमश्वानामुत्तमं जवतां वरम्। श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् ॥BORI: १-१५-३॥
कथं तदमृतं देवैर्मथितं क्व च शंस मे। यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ॥BORI: १-१५-४॥
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्। आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ॥BORI: १-१५-५॥
काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम्। अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ॥BORI: १-१५-६॥
व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम्। नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ॥BORI: १-१५-७॥
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्। नानापतगसङ्घैश्च नादितं सुमनोहरैः ॥BORI: १-१५-८॥
तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम्। अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ॥BORI: १-१५-९॥
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः। अमृतार्थे समागम्य तपोनियमसंस्थिताः ॥BORI: १-१५-१०॥
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्। चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ॥BORI: १-१५-११॥
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः। भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ॥BORI: १-१५-१२॥
सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि। मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ॥BORI: १-१५-१३॥
कारणं चात्र मथने संजातममृतात्परम् ॥KUMB: १-१७-४॥
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम्। मन्दरं पर्वतवरं लताजालसमावृतम् ॥BORI: १-१६-१॥
नानाविहगसङ्घुष्टं नानादंष्ट्रिसमाकुलम्। किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥BORI: १-१६-२॥
एकादश सहस्राणि योजनानां समुच्छ्रितम्। अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥BORI: १-१६-३॥
तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा। विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥BORI: १-१६-४॥
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्। मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥BORI: १-१६-५॥
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव। ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः । नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥BORI: १-१६-६॥
अथ पर्वतराजानं तमनन्तो महाबलः। उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥BORI: १-१६-७॥
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे। तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ॥BORI: १-१६-८॥
अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः। सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥BORI: १-१६-९॥
ऊचुश्च कूर्मराजानमकूपारं सुरासुराः। गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ॥BORI: १-१६-१०॥
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्। तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ॥BORI: १-१६-११॥
मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम्। देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् । अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ॥BORI: १-१६-१२॥
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः। विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥BORI: १-१६-१३॥
अनन्तो भगवान्देवो यतो नारायणस्ततः। शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ॥BORI: १-१६-१४॥
वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः। सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥BORI: १-१६-१५॥
ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः। अभ्यवर्षन्सुरगणाञ्श्रमसन्तापकर्शितान् ॥BORI: १-१६-१६॥
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः। सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ॥BORI: १-१६-१७॥
बभूवात्र महाघोषो महामेघरवोपमः। उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥BORI: १-१६-१८॥
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा। विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥BORI: १-१६-१९॥
वारुणानि च भूतानि विविधानि महीधरः। पातालतलवासीनि विलयं समुपानयत् ॥BORI: १-१६-२०॥
तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम्। न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥BORI: १-१६-२१॥
तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः। विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥BORI: १-१६-२२॥
ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान्। विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥BORI: १-१६-२३॥
तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः। वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ॥BORI: १-१६-२४॥
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि। महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥BORI: १-१६-२५॥
तेषाममृतवीर्याणां रसानां पयसैव च। अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥BORI: १-१६-२६॥
अथ तस्य समुद्रस्य तज्जातमुदकं पयः। रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ॥BORI: १-१६-२७॥
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्। श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥BORI: १-१६-२८॥
ऋते नारायणं देवं दैत्या नागोत्तमास्तथा। चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥BORI: १-१६-२९॥
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्। विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥BORI: १-१६-३०॥
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः। क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ॥BORI: १-१६-३१॥
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः। तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥BORI: १-१६-३२॥
ततः शतसहस्रांशुः समान इव सागरात्। प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥BORI: १-१६-३३॥
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी। सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥BORI: १-१६-३४॥
कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः। मरीचिविकचः श्रीमान्नारायण उरोगतः ॥BORI: १-१६-३५॥
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः। यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥BORI: १-१६-३६॥
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत। श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥BORI: १-१६-३७॥
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः। अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥BORI: १-१६-३८॥
ततो नारायणो मायामास्थितो मोहिनीं प्रभुः। स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥BORI: १-१६-३९॥
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः। स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥BORI: १-१६-४०॥
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः ॥KUMB: १-१८-६; NILA: ०१.०१८.००६॥
वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः ॥KUMB: १-१८-१६॥
वासुकेर्मथ्यमानस्य निःसृतेन विषेण च । अभवन्मिश्रितं तोयं तदा भार्गवनन्दन ॥KUMB: १-१८-१८॥
मथनान्मन्दरेणाथ देवदानवबाहुभिः । विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम् ॥KUMB: १-१८-१९॥
देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह । अपाक्रामंस्ततो भीता विषादमगमंस्तदा ॥KUMB: १-१८-२०॥
ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः । मथ्यमानेऽमृते जातं विषं कालानलप्रभम् ॥KUMB: १-१८-२१॥
तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह । एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम् ॥KUMB: १-१८-२२॥
त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम् । तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ ॥KUMB: १-१८-२३॥
तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः । तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया ॥KUMB: १-१८-२४॥
अपिबत्तद्विषं रुद्रः कालानलसमप्रभम् । कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया ॥KUMB: १-१८-२५॥
यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः । पीतमात्रे विषे तत्र रुद्रेणामिततेजसा ॥KUMB: १-१८-२६॥
देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा । मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः ॥KUMB: १-१८-२७॥
ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम् ॥KUMB: १-१८-४३॥
तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः । प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता । कृष्णरूपधरा देवी सर्वाभरणभूषिता ॥KUMB: १-१८-४७॥
पारिजातश्च तत्रैव सुरभिश्च महामुने । जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ ॥KUMB: १-१८-५१॥
ततो जज्ञे महाकायश्चतुर्दन्तो महागजः । कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः ॥KUMB: १-१८-५२॥
सा तु नारायणी माया धारयन्ती कमण्डलुम् । आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः । देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः ॥KUMB: १-१८-५७; KUMB: १-१८-५८॥
श्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततः परम् । ऐरावणो महानागोऽभवद्वज्रभृता धृतः ॥NILA: ०१.०१८.०४०॥
अतुनिर्मथनादेव कालकूटस्ततः परः । जगदावृत्य सहसा सधूमोऽग्निरिव ज्वलन् ॥NILA: ०१.०१८.०४१॥
त्रैलोक्यं मोहितं यस्य गन्धमाव्रय तद्विषम् । प्राग्रसल्लोकरक्षार्थं ब्रह्मणो वचनाच्छिवः ॥NILA: ०१.०१८.०४२॥
दधार भगवन्कण्ठे मन्त्रमूर्तिर्महेश्वरः । तदा प्रभृति देवस्तु नीलकण्ठ इति श्रुतिः ॥NILA: ०१.०१८.०४३॥
एतत्तदद्भुतं दृष्ट्वा निराशा दानवाः स्थिताः । अमृतार्थे च लक्ष्म्यर्थे महन्तं वैरमाश्रिताः ॥NILA: ०१.०१८.०४४॥
अथावरणमुख्यानि नानाप्रहरणानि च। प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ॥BORI: १-१७-१॥
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्। जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ॥BORI: १-१७-२॥
ततो देवगणाः सर्वे पपुस्तदमृतं तदा। विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति ॥BORI: १-१७-३॥
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्। राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ॥BORI: १-१७-४॥
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा। आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥BORI: १-१७-५॥
ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम्। चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ॥BORI: १-१७-६॥
तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत्। चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ॥BORI: १-१७-७॥
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै। शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ॥BORI: १-१७-८॥
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः। नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् ॥BORI: १-१७-९॥
ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः। सुराणामसुराणां च सर्वघोरतरो महान् ॥BORI: १-१७-१०॥
प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः। तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥BORI: १-१७-११॥
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु। असिशक्तिगदारुग्णा निपेतुर्धरणीतले ॥BORI: १-१७-१२॥
छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे। तप्तकाञ्चनजालानि निपेतुरनिशं तदा ॥BORI: १-१७-१३॥
रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः। अद्रीणामिव कूटानि धातुरक्तानि शेरते ॥BORI: १-१७-१४॥
हाहाकारः समभवत्तत्र तत्र सहस्रशः। अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति ॥BORI: १-१७-१५॥
परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः। निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥BORI: १-१७-१६॥
छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च। व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ॥BORI: १-१७-१७॥
एवं सुतुमुले युद्धे वर्तमाने भयावहे। नरनारायणौ देवौ समाजग्मतुराहवम् ॥BORI: १-१७-१८॥
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि। चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् ॥BORI: १-१७-१९॥
ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम्। विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम् ॥BORI: १-१७-२०॥
तदागतं ज्वलितहुताशनप्रभं; भयङ्करं करिकरबाहुरच्युतः। मुमोच वै चपलमुदग्रवेगव; न्महाप्रभं परनगरावदारणम् ॥BORI: १-१७-२१॥
तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा। विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे ॥BORI: १-१७-२२॥
दहत्क्वचिज्ज्वलन इवावलेलिह; त्प्रसह्य तानसुरगणान्न्यकृन्तत। प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत् ॥BORI: १-१७-२३॥
अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा। महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह ॥BORI: १-१७-२४॥
अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः। महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः ॥BORI: १-१७-२५॥
ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः। परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसम्प्रवर्तिते ॥BORI: १-१७-२६॥
नरस्ततो वरकनकाग्रभूषणै; र्महेषुभिर्गगनपथं समावृणोत्। विदारयन्गिरिशिखराणि पत्रिभि; र्महाभयेऽसुरगणविग्रहे तदा ॥BORI: १-१७-२७॥
ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः। वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च ॥BORI: १-१७-२८॥
ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः। विनाद्य खं दिवमपि चैव सर्वश; स्ततो गताः सलिलधरा यथागतम् ॥BORI: १-१७-२९॥
ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम्। ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह ॥BORI: १-१७-३०॥
पाययत्यमृतं देवान्हरौ बाहुबलान्नरः । निरोधयति चापेन दूरीकृत्य धनुर्धरान् । ये येऽमृतं पिबन्ति स्म ते ते युद्ध्यन्ति दानवैः ॥KUMB: १-१९-४॥
चक्रच्छिन्नं खमुत्पत्य ननादातिभयङ्करम् । तत्कबन्धं पपातास्य विस्फुरद्धरणीतले ॥KUMB: १-१९-९; NILA: ०१.०१९.००७; NILA: ०१.०१९.००८॥
त्रयोदश सहस्राणि चतुरश्रं समन्ततः ॥KUMB: १-१९-१०॥
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम् ॥KUMB: १-१९-१०; NILA: ०१.०१९.००८॥
एतत्ते सर्वमाख्यातममृतं मथितं यथा। यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ॥BORI: १-१८-१॥
यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत्। उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् ॥BORI: १-१८-२॥
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे। ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ॥BORI: १-१८-३॥
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते। एहि सार्धं मया दीव्य दासीभावाय भामिनि ॥BORI: १-१८-४॥
एवं ते समयं कृत्वा दासीभावाय वै मिथः। जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ॥BORI: १-१८-५॥
ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती। आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः ॥BORI: १-१८-६॥
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा। तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजङ्गमान् ॥BORI: १-१८-७॥
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति। जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥BORI: १-१८-८॥
शापमेनं तु शुश्राव स्वयमेव पितामहः। अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि ॥BORI: १-१८-९॥
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत। बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ॥BORI: १-१८-१०॥
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः। तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै । प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने ॥BORI: १-१८-११॥
युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्। अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये ॥KUMB: १-२०-१२; NILA: ०१.०२०.०१२॥
तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते। एवं सम्भाष्य देवस्तु पूज्य कद्रूं च तां तदा ॥KUMB: १-२०-१३; NILA: ०१.०२०.०१३॥
आहूय कश्यपं देव इदं वचनमब्रवीत्। यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ ॥KUMB: १-२०-१४; NILA: ०१.०२०.०१४॥
विषोल्बणा महाभोगा मात्रा शप्ताः परन्तप। तत्र मन्युस्त्वया तात न कर्तव्यः कथञ्चन ॥KUMB: १-२०-१५; NILA: ०१.०२०.०१५॥
दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्। इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम् ॥KUMB: १-२०-१६; NILA: ०१.०२०.०१६॥
एवं शप्तेषु नागेषु कद्र्वातु द्विजसत्तम। अद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकोऽब्रवीत् ॥KUMB: १-२०-१७॥
मातरं परमप्रीतस्तथा भुजगसत्तमः। आविश्य वाजिनं मुख्यं बालो भूत्वाञ्जनप्रभः ॥KUMB: १-२०-१८॥
दर्शयिष्यामि तत्राहमात्मानं काममाश्वस। एवमस्त्विति सा पुत्रं प्रत्युवाच यशस्विनी ॥KUMB: १-२०-१९॥
ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ। कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ॥BORI: १-१९-१॥
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा। जग्मतुस्तुरगं द्रष्टुमुच्छैःश्रवसमन्तिकात् ॥BORI: १-१९-२॥
ददृशाते तदा तत्र समुद्रं निधिमम्भसाम्। तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा ॥BORI: १-१९-३॥
सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्। उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ॥BORI: १-१९-४॥
आकरं सर्वरत्नानामालयं वरुणस्य च। नागानामालयं रम्यमुत्तमं सरितां पतिम् ॥BORI: १-१९-५॥
पातालज्वलनावासमसुराणां च बन्धनम्। भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् ॥BORI: १-१९-६॥
शुभं दिव्यममर्त्यानाममृतस्याकरं परम्। अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ॥BORI: १-१९-७॥
घोरं जलचरारावरौद्रं भैरवनिस्वनम्। गम्भीरावर्तकलिलं सर्वभूतभयङ्करम् ॥BORI: १-१९-८॥
वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम्। वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः ॥BORI: १-१९-९॥
चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम्। पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ॥BORI: १-१९-१०॥
गां विन्दता भगवता गोविन्देनामितौजसा। वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥BORI: १-१९-११॥
ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा। अनासादितगाधं च पातालतलमव्ययम् ॥BORI: १-१९-१२॥
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः। युगादिकालशयनं विष्णोरमिततेजसः ॥BORI: १-१९-१३॥
वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम्। अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ॥BORI: १-१९-१४॥
महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः। अभिसार्यमाणमनिशं ददृशाते महार्णवम् ॥BORI: १-१९-१५॥
गम्भीरं तिमिमकरोग्रसङ्कुलं तं; गर्जन्तं जलचररावरौद्रनादैः। विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥BORI: १-१९-१६॥
इत्येवं झषमकरोर्मिसङ्कुलं तं; गम्भीरं विकसितमम्बरप्रकाशम्। पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् ॥BORI: १-१९-१७॥
स्मगरस्य परं पारं वेलावनविभूषितम् ॥KUMB: १-२१-२॥
महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम् ॥KUMB: १-२१-३; NILA: ०१.०२१.००३॥
भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा ॥KUMB: १-२१-५; NILA: ०१.०२१.००५॥
वज्रपातनसंत्रस्तमैनाकस्याभयप्रदम्। डिम्बाहवार्दितानां च असुराणां परायणम् ॥KUMB: १-२१-१५; NILA: ०१.०२१.०१५॥
आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः ॥KUMB: १-२१-१७; NILA: ०१.०२१.०१७॥
नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः। निःस्नेहा वै दहेन्माता असंप्राप्तमनोरथा ॥KUMB: १-२२-१; NILA: ०१.०२२.००१॥
प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी। कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः ॥KUMB: १-२२-२; NILA: ०१.०२२.००२॥
इति निश्चित्य ते तस्य कृष्णा वाला इव स्थिताः। एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा ॥KUMB: १-२२-३; NILA: ०१.०२२.००३॥
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह। न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा ॥BORI: १-२०-१॥
निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान्। विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् ॥BORI: १-२०-२॥
ततः सा विनता तस्मिन्पणितेन पराजिता। अभवद्दुःखसन्तप्ता दासीभावं समास्थिता ॥BORI: १-२०-३॥
एतस्मिन्नन्तरे चैव गरुडः काल आगते। विना मात्रा महातेजा विदार्याण्डमजायत ॥BORI: १-२०-४॥
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयङ्करः। प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ॥BORI: १-२०-५॥
तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम्। प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ॥BORI: १-२०-६॥
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि। असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ॥BORI: १-२०-७॥
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः। गरुडो बलवानेष मम तुल्यः स्वतेजसा ॥BORI: १-२०-८॥
एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन्। अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ॥BORI: १-२०-९॥
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः। त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् ॥BORI: १-२०-१०॥
बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव। तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम् ॥BORI: १-२०-११॥
त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे। समाक्षिपन्भानुमतः प्रभां मुहु; स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ॥BORI: १-२०-१२॥
दिवाकरः परिकुपितो यथा दहे; त्प्रजास्तथा दहसि हुताशनप्रभ। भयङ्करः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत् ॥BORI: १-२०-१३॥
खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम्। महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम् ॥BORI: १-२०-१४॥
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा। तेजसः प्रतिसंहारमात्मनः स चकार ह ॥BORI: १-२०-१५॥
ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम् । शशाङ्ककिरणप्रख्यं कालवालमुभे तदा ॥KUMB: १-२३-२; NILA: ०१.०२३.००२॥
महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः । कामरूपः कामगमः कामवीर्यो विहङ्गमः ॥KUMB: १-२३-६; NILA: ०१.०२३.००६॥
विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः । घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः ॥KUMB: १-२३-७; KUMB: १-२३-८; NILA: ०१.०२३.००७; NILA: ०१.०२३.००८॥
जातः परमतेजस्वी विनतानन्दवर्धनः । तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत् ॥KUMB: १-२३-१२; NILA: ०१.०२३.०१२॥
नागक्षयकरश्चैव काश्यपेयो महाबलः । देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम् ॥KUMB: १-२३-१३; NILA: ०१.०२३.०१३॥
न भीः कार्या कथं चात्र पश्यध्वं सहिता मया ॥KUMB: १-२३-१४; NILA: ०१.०२३.०१४॥
त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः । त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः ॥KUMB: १-२३-१६; NILA: ०१.०२३.०१६॥
त्वं मुखं पद्मजो विप्रस्त्वमग्निः पवनस्तथा । त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः ॥KUMB: १-२३-१७; NILA: ०१.०२३.०१७॥
त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः । त्वं प्रभास्त्वमभिप्रेतं ॥KUMB: १-२३-१८; NILA: ०१.०२३.०१८॥
त्वं गतिः सततं त्वत्तः कथं नः प्राप्नुयाद्भयम् ॥KUMB: १-२३-१९॥
तवौजस सर्वमिदं प्रतापितम् । जगत्प्रभो तप्तसुवर्णवर्चसा त्वं पाहि सर्वांश्च सुरान्महात्मनः ॥KUMB: १-२३-२३; NILA: ०१.०२३.०२३॥
भयान्विता नभसि विमानगामिनो विमानिता विपथगतिं प्रयान्ति ते । ऋषेः सुतस्त्वमसि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह ॥KUMB: १-२३-२४; NILA: ०१.०२३.०२४॥
स मा क्रुधः कुरु जगतो दयां परां त्वमीश्वरः प्रशममुपैहि पाहि नः । महाशनिस्फुरितसमस्वनेन ते दिशोऽम्बरं त्रिदिवमियं च मेदिनी ॥KUMB: १-२३-२५; NILA: ०१.०२३.०२५॥
चलन्ति नः खग हृदयानि चानिशं निगृह्यतां वपुरिदमग्निसन्निभम् । तव द्युतिं कुपितकृतान्तसन्निभां निशाम्य नश्चलति मनोऽव्यवस्थितम् । प्रसीद नः पतगते प्रयाचतां शिवश्च नो भव भगवन्सुखावहः ॥KUMB: १-२३-२६; NILA: ०१.०२३.०२६॥
स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम् । शरीरप्रतिसंहारमात्मनः संप्रचक्रमे ॥KUMB: १-२४-१; NILA: ०१.०२४.००१॥
न मे सर्वाणि भूतानि विभियुर्देहदर्शनात् । भीमरूपात्समुद्विग्रास्तस्मात्तेजस्तु संहरे ॥KUMB: १-२४-२; NILA: ०१.०२४.००२॥
अरुणं चात्मनः पृष्ठमारोप्य स पितुर्गृहात् । तत्रारुणश्च निक्षिप्तो दिशं पूर्वां महाद्युतिः ॥KUMB: १-२४-३; KUMB: १-२४-४; NILA: ०१.०२४.००३; NILA: ०१.०२४.००४॥
सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा । किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा ॥KUMB: १-२४-५; KUMB: १-२४-५क्ष्; NILA: ०१.०२४.००५॥
किमस्तापहृतं देवैर्येनेमं मन्युराविशत् । चन्द्रादित्यैर्यदा राहुराख्यातो ह्यमृतं पिबन् ॥KUMB: १-२४-६; KUMB: १-२४-६क्ष्; NILA: ०१.०२४.००६॥
वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदाऽनघ । बाध्यमानं ग्रहेणाथ ह्यादित्ये मन्युराविशत् ॥KUMB: १-२४-७; NILA: ०१.०२४.००७॥
सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति । बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम् ॥KUMB: १-२४-८; NILA: ०१.०२४.००८॥
सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते । पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः ॥KUMB: १-२४-९; NILA: ०१.०२४.००९॥
तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः । एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम् ॥KUMB: १-२४-१०; NILA: ०१.०२४.०१०॥
तस्माल्लोकविनाशाय सन्तापयत भास्करः । ततो देवानुपागम्य प्रोचुरेवं महर्षयः ॥KUMB: १-२४-११; NILA: ०१.०२४.०११॥
आद्यार्धरात्रसमये सर्वलोकभयावहः । उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः ॥KUMB: १-२४-१२; NILA: ०१.०२४.०१२॥
ततो देवाः सर्षिगणा उपगम्य पितामहम् । अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम् ॥KUMB: १-२४-१३; NILA: ०१.०२४.०१३॥
न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च । उदिते भगवन्भानौ कथनेतद्भविष्यति ॥KUMB: १-२४-१४; NILA: ०१.०२४.०१४॥
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः । दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति ॥KUMB: १-२४-१५; NILA: ०१.०२४.०१५॥
तस्य प्रतिविधानं च विहितं पूर्वमेव हि । कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः ॥KUMB: १-२४-१६; NILA: ०१.०२४.०१६॥
महाकायो महातेजाः स स्थास्यति पुरो रवेः । करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति ॥KUMB: १-२४-१७; NILA: ०१.०२४.०१७॥
लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम् । ततः पितामहाज्ञातः सर्वं चक्रे तदाऽरुणः ॥KUMB: १-२४-१८; KUMB: १-२४-१८क्ष्; NILA: ०१.०२४.०१८॥
उदितश्चैव सविता ह्यरुणेन समावृतः । एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत् ॥KUMB: १-२४-१९; NILA: ०१.०२४.०१९॥
अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः । भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम् ॥KUMB: १-२४-२०; NILA: ०१.०२४.०२०॥