Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
Chapter 3
ततः कामगमः पक्षी महावीर्यो महाबलः। मातुरन्तिकमागच्छत्परं तीरं महोदधेः ॥BORI: १-२१-१॥
यत्र सा विनता तस्मिन्पणितेन पराजिता। अतीव दुःखसन्तप्ता दासीभावमुपागता ॥BORI: १-२१-२॥
ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ। काल आहूय वचनं कद्रूरिदमभाषत ॥BORI: १-२१-३॥
नागानामालयं भद्रे सुरम्यं रमणीयकम्। समुद्रकुक्षावेकान्ते तत्र मां विनते वह ॥BORI: १-२१-४॥
ततः सुपर्णमाता तामवहत्सर्पमातरम्। पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ॥BORI: १-२१-५॥
स सूर्यस्याभितो याति वैनतेयो विहङ्गमः। सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् ॥ तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ॥BORI: १-२१-६॥
नमस्ते देवदेवेश नमस्ते बलसूदन। नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥BORI: १-२१-७॥
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव। त्वमेव परमं त्राणमस्माकममरोत्तम ॥BORI: १-२१-८॥
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर। त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥BORI: १-२१-९॥
त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम्। त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥BORI: १-२१-१०॥
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः। त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ॥BORI: १-२१-११॥
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः। त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥BORI: १-२१-१२॥
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः। त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ॥BORI: १-२१-१३॥
शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा। संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥BORI: १-२१-१४॥
त्वमुत्तमा सगिरिवना वसुन्धरा; सभास्करं वितिमिरमम्बरं तथा। महोदधिः सतिमितिमिङ्गिलस्तथा; महोर्मिमान्बहुमकरो झषालयः ॥BORI: १-२१-१५॥
महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः। अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये ॥BORI: १-२१-१६॥
त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च। त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ॥BORI: १-२१-१७॥
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः। नीलजीमूतसङ्घातैर्व्योम सर्वं समावृणोत् ॥BORI: १-२२-१॥
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः। परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ॥BORI: १-२२-२॥
सङ्घातितमिवाकाशं जलदैः सुमहाद्भुतैः। सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ॥BORI: १-२२-३॥
सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः। मेघस्तनितनिर्घोषमम्बरं समपद्यत ॥BORI: १-२२-४॥
नागानामुत्तमो हर्शस्तदा वर्षति वासवे। आपूर्यत मही चापि सलिलेन समन्ततः ॥BORI: १-२२-५॥
मेघानाज्ञापयामास वर्षध्वममृतं शुभम् ॥KUMB: १-२६-२; NILA: ०१.०२६.००२॥
तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा ॥KUMB: १-२६-५; NILA: ०१.०२६.००५॥
रसातलमनुप्राप्तं शीतलं विमलं जलम् ॥KUMB: १-२६-७; NILA: ०१.०२६.००७॥
तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः । रामणीयकमागच्छन्मात्रा सह भुजङ्गमाः ॥KUMB: १-२६-८; NILA: ०१.०२६.००८॥
सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै। सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम् ॥BORI: १-२३-१॥
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्। भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ॥BORI: १-२३-२॥
प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम्। दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ॥BORI: १-२३-३॥
उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि। शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः ॥BORI: १-२३-४॥
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः। मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् । नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ॥BORI: १-२३-५॥
तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा। अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् ॥BORI: १-२३-६॥
वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम्। त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर ॥BORI: १-२३-७॥
स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा। किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ॥BORI: १-२३-८॥
दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम। पणं वितथमास्थाय सर्पैरुपधिना कृतम् ॥BORI: १-२३-९॥
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः। उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ॥BORI: १-२३-१०॥
किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम्। दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः ॥BORI: १-२३-११॥
श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा। ततो दास्याद्विप्रमोक्षो भविता तव खेचर ॥BORI: १-२३-१२॥
सम्प्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा ॥KUMB: १-२७-१; NILA: ०१.०२७.००१॥
तं द्वीपं मकरावासं विहितं विश्वकर्मणा । तत्र ते लवणं घोरं ददृशुः पूर्वमागताः ॥KUMB: १-२७-२; NILA: ०१.०२७.००२॥
सुपर्णसहिताः सर्पाः काननं च मनोरमम् ॥KUMB: १-२७-३; NILA: ०१.०२७.००३॥
वायुविक्षिप्तकुसुमैस्तथाऽन्यैरपि पादपैः ॥KUMB: १-२७-७; NILA: ०१.०२७.००७॥
मत्तभ्रमस्सङ्घुष्टं मनोज्ञाकृतिदर्शनम् । रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः ॥KUMB: १-२७-८; KUMB: १-२७-९; NILA: ०१.०२७.००८; NILA: ०१.०२७.००९॥
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्। गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ॥BORI: १-२४-१॥
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्। सहस्राणामनेकानां तान्भुक्त्वामृतमानय ॥BORI: १-२४-२॥
न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन। अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ॥BORI: १-२४-३॥
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः। भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ॥BORI: १-२४-४॥
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः। तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ॥BORI: १-२४-५॥
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा। दहेदङ्गारवत्पुत्र तं विद्याद्बाह्मणर्षभम् ॥BORI: १-२४-६॥
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः। जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् ॥BORI: १-२४-७॥
पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक। शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु ॥BORI: १-२४-८॥
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा। अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये ॥BORI: १-२४-९॥
ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात। ततो निषादान्बलवानुपागम; द्बुभुक्षितः काल इवान्तको महान् ॥BORI: १-२४-१०॥
स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत्। समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन् ॥BORI: १-२४-११॥
ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट्। ततो निषादास्त्वरिताः प्रवव्रजु; र्यतो मुखं तस्य भुजङ्गभोजिनः ॥BORI: १-२४-१२॥
तदाननं विवृतमतिप्रमाणव; त्समभ्ययुर्गगनमिवार्दिताः खगाः। सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने ॥BORI: १-२४-१३॥
ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः। निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा ॥BORI: १-२४-१४॥
भवनानि निषादानां तत्र सन्ति द्विजोत्तम । पापिनां नष्टलोकानां निर्घृणानां दुरात्मनाम् ॥KUMB: १-२८-२; KUMB: १-२८-३॥
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः ॥KUMB: १-२८-५; NILA: ०१.०२८.००४॥
एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः । स ते तात न हन्तव्यः सङ्क्रुद्धेनापि सर्वथा ॥KUMB: १-२८-६; NILA: ०१.०२८.००५॥
ब्राह्मणानामभिद्रोहो न कर्तव्यः कथञ्चन । न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथाऽनघ ॥KUMB: १-२८-७; NILA: ०१.०२८.००६॥
यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः । तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम् ॥KUMB: १-२८-८; NILA: ०१.०२८.००७॥
किंरूपो ब्राह्मणो मातः किंशीलः किम्पराक्रमः । किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः ॥KUMB: १-२८-९क्ष्; KUMB: १-२८-१०; NILA: ०१.०२८.००८; NILA: ०१.०२८.००९॥
विप्रस्त्वया न हन्तव्यः सङ्क्रुद्धेनापि सर्वदा ॥KUMB: १-२८-१२; NILA: ०१.०२८.०११॥
जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम् । पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः ॥KUMB: १-२८-१३; KUMB: १-२८-१४; NILA: ०१.०२८.०१२; NILA: ०१.०२८.०१३॥
प्रीता परमदुःखार्ता नागैर्विप्रकृता सती ॥KUMB: १-२८-१५; NILA: ०१.०२८.०१४॥
विष्णुः सर्वगतः सर्वमह्गानि तव चैव ह ॥KUMB: १-२८-१६॥
इहासीना भविष्यामि स्वस्तिकारे रता सदा ॥KUMB: १-२८-१७; NILA: ०१.०२८.०१६॥
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया। दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ॥BORI: १-२५-१॥
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्। न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥BORI: १-२५-२॥
ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत। निषादी मम भार्येयं निर्गच्छतु मया सह ॥BORI: १-२५-३॥
एतामपि निषादीं त्वं परिगृह्याशु निष्पत। तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा ॥BORI: १-२५-४॥
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा। वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ॥BORI: १-२५-५॥
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट्। वितत्य पक्षावाकाशमुत्पपात मनोजवः ॥BORI: १-२५-६॥
ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः। अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः । मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ॥BORI: १-२५-७॥
मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै। न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ॥BORI: १-२५-८॥
तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे। यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो ॥BORI: १-२५-९॥
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्। भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ॥BORI: १-२५-१०॥
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः। विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ॥BORI: १-२५-११॥
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः। विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा । ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः ॥BORI: १-२५-१२॥
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः। विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ॥BORI: १-२५-१३॥
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ। भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ॥BORI: १-२५-१४॥
तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः। गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ॥BORI: १-२५-१५॥
नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि। यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ॥BORI: १-२५-१६॥
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्। त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि ॥BORI: १-२५-१७॥
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू। गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ॥BORI: १-२५-१८॥
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि। परस्परद्वेषरतौ प्रमाणबलदर्पितौ ॥BORI: १-२५-१९॥
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ। तयोरेकतरः श्रीमान्समुपैति महागजः ॥BORI: १-२५-२०॥
तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः। उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः ॥BORI: १-२५-२१॥
तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम्। दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ॥BORI: १-२५-२२॥
तं विक्षोभयमाणं तु सरो बहुझषाकुलम्। कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ॥BORI: १-२५-२३॥
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः। कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥BORI: १-२५-२४॥
तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ। उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः ॥BORI: १-२५-२५॥
स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः। नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ॥BORI: १-२५-२६॥
समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः। सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् ॥BORI: १-२५-२७॥
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः। न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ॥BORI: १-२५-२८॥
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान्। अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ॥BORI: १-२५-२९॥
काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः। सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ॥BORI: १-२५-३०॥
तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः। अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् ॥BORI: १-२५-३१॥
यैषा मम महाशाखा शतयोजनमायता। एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ॥BORI: १-२५-३२॥
ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन्। खगोत्तमो द्रुतमभिपत्य वेगवा; न्बभञ्ज तामविरलपत्रसंवृताम् ॥BORI: १-२५-३३॥
यथान्यायममेयात्मा तं चोवाच महानृषिः ॥KUMB: १-२९-७; NILA: ०१.०२९.००७॥
कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत । कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु ॥KUMB: १-२९-८; NILA: ०१.०२९.००८॥
क्व गन्तास्यतिवेगेन मम त्वं वक्तुमर्हसि ॥KUMB: १-२९-८॥
माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम् । न हि मे कुशलं तात भोजने बहुले सदा ॥KUMB: १-२९-९; NILA: ०१.०२९.००९॥
क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान् । इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम् ॥KUMB: १-२९-१३; KUMB: १-२९-१३क्ष्; NILA: ०१.०२९.०१३॥
यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः । तयोर्जन्मान्तरे वैरं सम्प्रवक्ष्याम्यसोषतः ॥KUMB: १-२९-१४; NILA: ०१.०२९.०१४॥
तन्मे तत्त्वं निबोधस्य यत्प्रमाणौ च तावुभौ ॥KUMB: १-२९-१५; NILA: ०१.०२९.०१५॥
शृणु त्वं वत्स भद्रं ते कथां वैराग्यवर्धिनीम् । पित्रोरर्थविभागे वै समुत्पन्नां पुराण्डज ॥KUMB: १-२९-१५; KUMB: १-२९-१६॥
विभागे बहवो दोषा भविष्यन्ति महातपः ॥KUMB: १-२९-१९॥
एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम् । एवं निर्बध्यमानस्तु शशापैनं विभावसुः ॥KUMB: १-२९-२२; KUMB: १-२९-२३॥
महाभ्रघनसङ्काशं तं भुक्त्वामृतमानय । महागिरिसमप्रख्यं घोररूपं च हस्तिनम् ॥KUMB: १-२९-३४; NILA: ०१.०२९.०३२॥
इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा । युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम् ॥KUMB: १-२९-३५; NILA: ०१.०२९.०३३॥
पूर्णकुम्भो द्विजा गावो यच्चान्यत्किञ्चिदुत्तमम् । शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डजा ॥KUMB: १-२९-३६; NILA: ०१.०२९.०३४॥
युध्यमानस्य सङ्ग्रामे देवैः सार्धं महाबल । ऋचो यजूंषि सामानि पवित्राणि हवींषि च ॥KUMB: १-२९-३७; NILA: ०१.०२९.०३५॥
रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम् । इत्युक्तो गरुडः पित्रा गतस्तं ह्रदमन्तिकात् ॥KUMB: १-२९-३८; NILA: ०१.०२९.०३६॥
वर्धयिष्यन्ति समरे भविष्यति खगोत्तम ॥KUMB: १-२९-३८॥
अपश्यन्निर्मलजलं नानापक्षिसमाकुलम् ॥KUMB: १-२९-३९; NILA: ०१.०२९.०३७॥
तेषां मध्ये महानासीत्पादपः सुमनोहरः । सहस्रयोजनोत्सेधो बहुशाखासमन्वितः ॥KUMB: १-२९-४४॥
खगानामालयो दिव्यो नाम्ना रौहिणपादपः । यस्य छायां समाश्रित्य सद्यो भवति निर्वृतः ॥KUMB: १-२९-४५॥
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा। अभज्यत तरोः शाखा भग्नां चैनामधारयत् ॥BORI: १-२६-१॥
तां भग्नां स महाशाखां स्मयन्समवलोकयन्। अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ॥BORI: १-२६-२॥
स तद्विनाशसन्त्रासादनुपत्य खगाधिपः। शाखामास्येन जग्राह तेषामेवान्ववेक्षया । शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ॥BORI: १-२६-३॥
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः। दयार्थं वालखिल्यानां न च स्थानमविन्दत ॥BORI: १-२६-४॥
स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम्। ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ॥BORI: १-२६-५॥
ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम्। तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ॥BORI: १-२६-६॥
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्। अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् ॥BORI: १-२६-७॥
मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम्। अप्रधृष्यमजेयं च देवदानवराक्षसैः ॥BORI: १-२६-८॥
भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम्। लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ॥BORI: १-२६-९॥
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा। विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् ॥BORI: १-२६-१०॥
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्। मा त्वा दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः ॥BORI: १-२६-११॥
प्रसादयामास स तान्कश्यपः पुत्रकारणात्। वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ॥BORI: १-२६-१२॥
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः। चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥BORI: १-२६-१३॥
एवमुक्ता भगवता मुनयस्ते समभ्ययुः। मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ॥BORI: १-२६-१४॥
ततस्तेष्वपयातेषु पितरं विनतात्मजः। शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ॥BORI: १-२६-१५॥
भगवन्क्व विमुञ्चामि तरुशाखामिमामहम्। वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ॥BORI: १-२६-१६॥
ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम्। अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ॥BORI: १-२६-१७॥
तं पर्वतमहाकुक्षिमाविश्य मनसा खगः। जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥BORI: १-२६-१८॥
न तां वध्रः परिणहेच्छतचर्मा महानणुः। शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ॥BORI: १-२६-१९॥
ततः स शतसाहस्रं योजनान्तरमागतः। कालेन नातिमहता गरुडः पततां वरः ॥BORI: १-२६-२०॥
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः। अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ॥BORI: १-२६-२१॥
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्। मुमोच पुष्पवर्षं च समागलितपादपः ॥BORI: १-२६-२२॥
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः। मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥BORI: १-२६-२३॥
शाखिनो बहवश्चापि शाखयाभिहतास्तया। काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥BORI: १-२६-२४॥
ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः। व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ॥BORI: १-२६-२५॥
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः। भक्षयामास गरुडस्तावुभौ गजकच्छपौ ॥BORI: १-२६-२६॥
ततः पर्वतकूटाग्रादुत्पपात मनोजवः। प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ॥BORI: १-२६-२७॥
इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम्। सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता ॥BORI: १-२६-२८॥
तथा वसूनां रुद्राणामादित्यानां च सर्वशः। साध्यानां मरुतां चैव ये चान्ये देवतागणाः । स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥BORI: १-२६-२९॥
अभूतपूर्वं सङ्ग्रामे तदा देवासुरेऽपि च। ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ॥BORI: १-२६-३०॥
निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम्। देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ॥BORI: १-२६-३१॥
मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि। उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु । रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ॥BORI: १-२६-३२॥
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः। उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ॥BORI: १-२६-३३॥
किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः। न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥BORI: १-२६-३४॥
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो। तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ॥BORI: १-२६-३५॥
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः। हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ॥BORI: १-२६-३६॥
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः। सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत् ॥BORI: १-२६-३७॥
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः। महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥BORI: १-२६-३८॥
युष्मान्सम्बोधयाम्येष यथा स न हरेद्बलात्। अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ॥BORI: १-२६-३९॥
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः। परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ॥BORI: १-२६-४०॥
धारयन्तो महार्हाणि कवचानि मनस्विनः। काञ्चनानि विचित्राणि वैडूर्यविकृतानि च ॥BORI: १-२६-४१॥
विविधानि च शस्त्राणि घोररूपाण्यनेकशः। शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः ॥BORI: १-२६-४२॥
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः। चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् ॥BORI: १-२६-४३॥
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्। स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ॥BORI: १-२६-४४॥
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः। भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ॥BORI: १-२६-४५॥
अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य। असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः ॥BORI: १-२६-४६॥
इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम्। विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ ॥BORI: १-२६-४७॥
ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन् । तपोरतांल्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः ॥KUMB: १-३०-३; NILA: ०१.०३०.००३॥
हन्यादेतान्सम्पतन्ती शाखेत्यथ विचिन्त्य सः । नखैर्दृढतरं वीरः सङ्गृह्य गजकच्छपौ ॥KUMB: १-३०-४; NILA: ०१.०३०.००४॥
अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः । विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे ॥KUMB: १-३०-६; NILA: ०१.०३०.००६॥
गुरुं भारं समासाद्योड्डीन एष विहङ्गमः । गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः ॥KUMB: १-३०-७; NILA: ०१.०३०.००७॥
तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ ॥KUMB: १-३०-३१; NILA: ०१.०३०.०३१॥
गृहीत्वावरणायुधान् । परिवार्यामृतं सर्वे यूयं मद्वचनादिह । रक्षध्वं विबुधा वीरा ॥KUMB: १-३०-४४; KUMB: १-३०-४५॥
चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च ॥KUMB: १-३०-४८; NILA: ०१.०३०.०४७॥
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज। तपसा वालखिल्यानां सम्भूतो गरुडः कथम् ॥BORI: १-२७-१॥
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः। अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् ॥BORI: १-२७-२॥
कथं च कामचारी स कामवीर्यश्च खेचरः। एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ॥BORI: १-२७-३॥
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि। शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज ॥BORI: १-२७-४॥
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः। साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ॥BORI: १-२७-५॥
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह। मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ॥BORI: १-२७-६॥
शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम्। समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ॥BORI: १-२७-७॥
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः। पलाशवृन्तिकामेकां सहितान्वहतः पथि ॥BORI: १-२७-८॥
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्। क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके ॥BORI: १-२७-९॥
तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः। अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च ॥BORI: १-२७-१०॥
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः। आरेभिरे महत्कर्म तदा शक्रभयङ्करम् ॥BORI: १-२७-११॥
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम्। मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ॥BORI: १-२७-१२॥
कामवीर्यः कामगमो देवराजभयप्रदः। इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ॥BORI: १-२७-१३॥
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः। तपसो नः फलेनाद्य दारुणः सम्भवत्विति ॥BORI: १-२७-१४॥
तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः। जगाम शरणं तत्र कश्यपं संशितव्रतम् ॥BORI: १-२७-१५॥
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः। वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ॥BORI: १-२७-१६॥
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः। तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ॥BORI: १-२७-१७॥
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः। इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥BORI: १-२७-१८॥
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः। भवतां च न मिथ्यायं सङ्कल्पो मे चिकीर्षितः ॥BORI: १-२७-१९॥
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान्। प्रसादः क्रियतां चैव देवराजस्य याचतः ॥BORI: १-२७-२०॥
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः। प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् ॥BORI: १-२७-२१॥
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते। अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ॥BORI: १-२७-२२॥
तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम्। तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ॥BORI: १-२७-२३॥
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा। विनता नाम कल्याणी पुत्रकामा यशस्विनी ॥BORI: १-२७-२४॥
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः। उपचक्राम भर्तारं तामुवाचाथ कश्यपः ॥BORI: १-२७-२५॥
आरम्भः सफलो देवि भवितायं तवेप्सितः। जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥BORI: १-२७-२६॥
तपसा वालखिल्यानां मम सङ्कल्पजौ तथा। भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ ॥BORI: १-२७-२७॥
उवाच चैनां भगवान्मारीचः पुनरेव ह। धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ॥BORI: १-२७-२८॥
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति। लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः ॥BORI: १-२७-२९॥
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः। त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः ॥BORI: १-२७-३०॥
नैताभ्यां भविता दोषः सकाशात्ते पुरंदर। व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि ॥BORI: १-२७-३१॥
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः। न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः ॥BORI: १-२७-३२॥
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्। विनता चापि सिद्धार्था बभूव मुदिता तदा ॥BORI: १-२७-३३॥
जनयामास पुत्रौ द्वावरुणं गरुडं तथा। अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः ॥BORI: १-२७-३४॥
पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत। तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ॥BORI: १-२७-३५॥
केन कामेन चारब्धं भवद्भिर्होमकर्म च । याथातथ्येन मे ब्रूत श्रोतुं कौतूहलं हि मे ॥KUMB: १-३१-१७॥
अवज्ञाताः सुरेन्द्रेण मूढेनाकृतबुद्धिना । ऐश्वर्यमदमत्तेन सदाचारान्निरस्यता ॥KUMB: १-३१-१८॥
तद्विघातार्थमारम्भो विधिवत्तस्य कश्यप ॥KUMB: १-३१-१९॥
ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे। गरुत्मान्पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति ॥BORI: १-२८-१॥
तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः। परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि ॥BORI: १-२८-२॥
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः। भौवनः सुमहावीर्यः सोमस्य परिरक्षिता ॥BORI: १-२८-३॥
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः। मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ॥BORI: १-२८-४॥
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः। कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ॥BORI: १-२८-५॥
तेनावकीर्णा रजसा देवा मोहमुपागमन्। न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः ॥BORI: १-२८-६॥
एवं संलोडयामास गरुडस्त्रिदिवालयम्। पक्षतुण्डप्रहारैश्च देवान्स विददार ह ॥BORI: १-२८-७॥
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्। विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत ॥BORI: १-२८-८॥
अथ वायुरपोवाह तद्रजस्तरसा बली। ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ॥BORI: १-२८-९॥
ननाद चोच्चैर्बलवान्महामेघरवः खगः। वध्यमानः सुरगणैः सर्वभूतानि भीषयन् । उत्पपात महावीर्यः पक्षिराट्परवीरहा ॥BORI: १-२८-१०॥
तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्। वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ॥BORI: १-२८-११॥
पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः। क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ॥BORI: १-२८-१२॥
नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः। कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत ॥BORI: १-२८-१३॥
विनर्दन्निव चाकाशे वैनतेयः प्रतापवान्। पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् ॥BORI: १-२८-१४॥
ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः। नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ॥BORI: १-२८-१५॥
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्। प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः ॥BORI: १-२८-१६॥
दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम्। मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् ॥BORI: १-२८-१७॥
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा। क्रथनेन च शूरेण तपनेन च खेचरः ॥BORI: १-२८-१८॥
उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा। प्ररुजेन च संयुद्धं चकार प्रलिहेन च ॥BORI: १-२८-१९॥
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः। युगान्तकाले सङ्क्रुद्धः पिनाकीव महाबलः ॥BORI: १-२८-२०॥
महावीर्या महोत्साहास्तेन ते बहुधा क्षताः। रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ॥BORI: १-२८-२१॥
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्। अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ॥BORI: १-२८-२२॥
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम्। दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् ॥BORI: १-२८-२३॥
ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा। नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन ॥BORI: १-२८-२४॥
ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः। ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य ॥BORI: १-२८-२५॥
नभः स्पृशन्तं ज्वालाभिः सर्वभूतभयंकरम् ॥KUMB: १-३२-२४॥
जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः। प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ॥BORI: १-२९-१॥
स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके। परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ॥BORI: १-२९-२॥
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्। घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ॥BORI: १-२९-३॥
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः। अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह ॥BORI: १-२९-४॥
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती। विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ ॥BORI: १-२९-५॥
चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ। रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ ॥BORI: १-२९-६॥
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ। तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ॥BORI: १-२९-७॥
तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत्। अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् ॥BORI: १-२९-८॥
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः। आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥BORI: १-२९-९॥
समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली। उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ॥BORI: १-२९-१०॥
अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान्। अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः ॥BORI: १-२९-११॥
विष्णुना तु तदाकाशे वैनतेयः समेयिवान्। तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ॥BORI: १-२९-१२॥
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम्। स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ॥BORI: १-२९-१३॥
उवाच चैनं भूयोऽपि नारायणमिदं वचः। अजरश्चामरश्च स्याममृतेन विनाप्यहम् ॥BORI: १-२९-१४॥
प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत्। भवतेऽपि वरं दद्मि वृणीतां भगवानपि ॥BORI: १-२९-१५॥
तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम्। ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ॥BORI: १-२९-१६॥
अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत्। विहङ्गमं सुरामित्रं हरन्तममृतं बलात् ॥BORI: १-२९-१७॥
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः। प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ॥BORI: १-२९-१८॥
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम्। वज्रस्य च करिष्यामि तव चैव शतक्रतो ॥BORI: १-२९-१९॥
एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे। न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन ॥BORI: १-२९-२०॥
तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा। सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ॥BORI: १-२९-२१॥
दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः। खगो महदिदं भूतमिति मत्वाभ्यभाषत ॥BORI: १-२९-२२॥
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्। सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ॥BORI: १-२९-२३॥
तौ दृष्ट्वा सहसा खेदं जगाम विनतात्मजः । कथमेतौ महावीर्यौ जेतव्यौ हरिभोजिनौ । इति संचिन्त्य गरुडस्तयोस्तूर्णं निराकरः ॥KUMB: १-३३-८; KUMB: १-३३-९॥
एवमस्त्विति तं विष्णुरुवाच विनतासुतम् ॥KUMB: १-३३-१६; NILA: ०१.०३३.०१५॥
एवमस्त्विति तं देवमुक्त्वा नारायणं खगः । वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः ॥KUMB: १-३३-१८; KUMB: १-३३-१९; NILA: ०१.०३३.०१७; NILA: ०१.०३३.०१८॥
एवमुक्त्वा ततः पुत्रमुत्ससर्ज स पक्षिराट् । तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम् ॥KUMB: १-३३-२३; KUMB: १-३३-२४; NILA: ०१.०३३.०२२; NILA: ०१.०३३.०२३॥
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर। बलं तु मम जानीहि महच्चासह्यमेव च ॥BORI: १-३०-१॥
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्। गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो ॥BORI: १-३०-२॥
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया। न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ॥BORI: १-३०-३॥
सपर्वतवनामुर्वीं ससागरवनामिमाम्। पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् ॥BORI: १-३०-४॥
सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान्। वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ॥BORI: १-३०-५॥
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः। आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ॥BORI: १-३०-६॥
प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम्। न कार्यं तव सोमेन मम सोमः प्रदीयताम् । अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ॥BORI: १-३०-७॥
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया। न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ॥BORI: १-३०-८॥
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्। त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर ॥BORI: १-३०-९॥
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज। यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ॥BORI: १-३०-१०॥
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्। स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ॥BORI: १-३०-११॥
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्। भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥BORI: १-३०-१२॥
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः। हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ॥BORI: १-३०-१३॥
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम्। अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ॥BORI: १-३०-१४॥
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः। स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ॥BORI: १-३०-१५॥
अदासी चैव मातेयमद्यप्रभृति चास्तु मे। यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ॥BORI: १-३०-१६॥
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत। शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ॥BORI: १-३०-१७॥
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा। स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ॥BORI: १-३०-१८॥
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्। सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ॥BORI: १-३०-१९॥
ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा। अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ॥BORI: १-३०-२०॥
ततः सुपर्णः परमप्रहृष्टवा; न्विहृत्य मात्रा सह तत्र कानने। भुजङ्गभक्षः परमार्चितः खगै; रहीनकीर्तिर्विनतामनन्दयत् ॥BORI: १-३०-२१॥
इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि। असंशयं त्रिदिवमियात्स पुण्यभा; ङ्महात्मनः पतगपतेः प्रकीर्तनात् ॥BORI: १-३०-२२॥
इत्येवमुक्तो गरुडः प्रत्युवाच शचीपतिम् ॥KUMB: १-३४-१॥
अनिमित्तं सुरश्रेष्ठ सद्यः प्राप्नोति गर्हणाम् । गुणसंकीर्तनं चापि पृष्टेनान्येन गोपते ॥KUMB: १-३४-२; KUMB: १-३४-३॥
एवमेव यथात्थ त्वं सर्वं सम्भाव्यते त्वयि ॥KUMB: १-३४-८; NILA: ०१.०३४.००७॥
देवदेवं महात्मानं योगिनामीश्वरं हरिम् ॥KUMB: १-३४-१५; NILA: ०१.०३४.०१४॥
स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै । इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः ॥KUMB: १-३४-१६; NILA: ०१.०३४.०१५॥
विनयावनतो भूत्वा वचनं चेदमब्रवीत् । इदमानीतममृतं देवानां भवनान्मया ॥KUMB: १-३४-१८॥
प्रशाधि किमितो मातः करिष्यामि शुभव्रते । परितुष्टाऽहमेतेन कर्मणा तव पुत्रक ॥KUMB: १-३४-१९; KUMB: १-३४-१९क्ष्॥
अजरश्चाभरश्चैव देवानां सुप्रियो भव ॥KUMB: १-३४-२०॥
भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा ॥KUMB: १-३४-२१; NILA: ०१.०३४.०१८॥
परस्परकृतद्वेषाः सोमप्राशनकर्मणि । अहं पूर्वमहं पूर्वमित्युक्त्वा ते समाद्रवन् ॥KUMB: १-३४-२५॥
यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे ॥KUMB: १-३४-२६; NILA: ०१.०३४.०२२॥
नागाश्च वञ्चिता भूत्वा विसृज्य विनतां ततः । विषादमगमंस्तीव्रं गरुडस्य बलात्प्रभो ॥KUMB: १-३४-२८॥
एवं तदमृतं तेन हृतमाहृतमेव च । द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना ॥KUMB: १-३४-२९; NILA: ०१.०३४.०२४॥
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे। आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ॥BORI: १-१४-५॥
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह। प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः । कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ॥BORI: १-१४-६॥