Chapter 4: Śeṣa and Vāsuki confront the serpent curse; Parīkṣit is killed by Takṣaka, Janamejaya begins the snake sacrifice, and Āstīka stops it.
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च। विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥BORI: १-३१-१॥
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा। नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥BORI: १-३१-२॥
पन्नगानां तु नामानि न कीर्तयसि सूतज। प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥BORI: १-३१-३॥
बहुत्वान्नामधेयानि भुजगानां तपोधन। न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥BORI: १-३१-४॥
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्। ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ॥BORI: १-३१-५॥
कालियो मणिनागश्च नागश्चापूरणस्तथा। नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥BORI: १-३१-६॥
नीलानीलौ तथा नागौ कल्माषशबलौ तथा। आर्यकश्चादिकश्चैव नागश्च शलपोतकः ॥BORI: १-३१-७॥
सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः। आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा ॥BORI: १-३१-८॥
निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा। बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ॥BORI: १-३१-९॥
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा। वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥BORI: १-३१-१०॥
नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः। क्षेमकश्च महानागो नागः पिण्डारकस्तथा ॥BORI: १-३१-११॥
करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः। मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ॥BORI: १-३१-१२॥
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा। कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ॥BORI: १-३१-१३॥
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान्। हस्तिभद्रः पिठरको मुखरः कोणवासनः ॥BORI: १-३१-१४॥
कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः। कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा । कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ॥BORI: १-३१-१५॥
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम। बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ॥BORI: १-३१-१६॥
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः। असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ॥BORI: १-३१-१७॥
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन ॥BORI: १-३१-१८॥
कर्दमश्च महानागो नागश्च बहुमूलकः ॥KUMB: १-३५-१६; NILA: ०१.०३५.०१६॥
जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः। शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ॥BORI: १-३२-१॥
तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः। तपो विपुलमातस्थे वायुभक्षो यतव्रतः ॥BORI: १-३२-२॥
गन्धमादनमासाद्य बदर्यां च तपोरतः। गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥BORI: १-३२-३॥
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च। एकान्तशीली नियतः सततं विजितेन्द्रियः ॥BORI: १-३२-४॥
तप्यमानं तपो घोरं तं ददर्श पितामहः। परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ॥BORI: १-३२-५॥
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः। किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥BORI: १-३२-६॥
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ। ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ॥BORI: १-३२-७॥
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः। सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥BORI: १-३२-८॥
अभ्यसूयन्ति सततं परस्परममित्रवत्। ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ॥BORI: १-३२-९॥
न मर्षयन्ति सततं विनतां ससुतां च ते। अस्माकं चापरो भ्राता वैनतेयः पितामह ॥BORI: १-३२-१०॥
तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः। वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥BORI: १-३२-११॥
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्। कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ॥BORI: १-३२-१२॥
जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम्। मातुश्चाप्यपराधाद्वै भ्रातृणां ते महद्भयम् ॥BORI: १-३२-१३॥
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम। भ्रातृणां तव सर्वेषां न शोकं कर्तुमर्हसि ॥BORI: १-३२-१४॥
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्। दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ॥BORI: १-३२-१५॥
दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम। अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥BORI: १-३२-१६॥
एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह। धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥BORI: १-३२-१७॥
प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च। त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥BORI: १-३२-१८॥
इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च। त्वं शेष सम्यक्चलितां यथाव; त्सङ्गृह्य तिष्ठस्व यथाचला स्यात् ॥BORI: १-३२-१९॥
यथाह देवो वरदः प्रजापति; र्महीपतिर्भूतपतिर्जगत्पतिः। तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते ॥BORI: १-३२-२०॥
अधो महीं गच्छ भुजङ्गमोत्तम; स्वयं तवैषा विवरं प्रदास्यति। इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति ॥BORI: १-३२-२१॥
तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः। बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः ॥BORI: १-३२-२२॥
शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः। अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा ॥BORI: १-३२-२३॥
अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान्। धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ॥BORI: १-३२-२४॥
सुपर्णं च सखायं वै भगवानमरोत्तमः। प्रादादनन्ताय तदा वैनतेयं पितामहः ॥BORI: १-३२-२५॥
तमेवं वादिनं शेषं पितामह उवाच ह ॥KUMB: १-३६-१३; NILA: ०१.०३६.०१३॥
अनन्तेऽभिप्रयाते तु वासुकिः स महाबलः । अभ्यषिच्यत नागैस्तु दैवतैरिव वासवः ॥KUMB: १-३६-२६॥
मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः। वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ॥BORI: १-३३-१॥
ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः। ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः ॥BORI: १-३३-२॥
अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः। तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ॥BORI: १-३३-३॥
सर्वेषामेव शापानां प्रतिघातो हि विद्यते। न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः ॥BORI: १-३३-४॥
अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः। शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ॥BORI: १-३३-५॥
नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः। न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् ॥BORI: १-३३-६॥
तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम्। यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् ॥BORI: १-३३-७॥
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे। यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ॥BORI: १-३३-८॥
यथा स यज्ञो न भवेद्यथा वापि पराभवेत्। जनमेजयस्य सर्पाणां विनाशकरणाय हि ॥BORI: १-३३-९॥
तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः। समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः ॥BORI: १-३३-१०॥
एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः। जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति ॥BORI: १-३३-११॥
अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः। मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः ॥BORI: १-३३-१२॥
स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम्। तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते ॥BORI: १-३३-१३॥
स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः। यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् ॥BORI: १-३३-१४॥
दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान्। हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ॥BORI: १-३३-१५॥
अथवा य उपाध्यायः क्रतौ तस्मिन्भविष्यति। सर्पसत्रविधानज्ञो राजकार्यहिते रतः ॥BORI: १-३३-१६॥
तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति। तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति ॥BORI: १-३३-१७॥
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः। तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ॥BORI: १-३३-१८॥
तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजङ्गमाः। अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना ॥BORI: १-३३-१९॥
सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा। अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ॥BORI: १-३३-२०॥
अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम्। वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ॥BORI: १-३३-२१॥
स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः। प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ॥BORI: १-३३-२२॥
यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः। जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति ॥BORI: १-३३-२३॥
अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः। स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ॥BORI: १-३३-२४॥
अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे। यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति । वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् ॥BORI: १-३३-२५॥
अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम्। गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ॥BORI: १-३३-२६॥
अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः। दशामैनं प्रगृह्याशु कृतमेवं भविष्यति । छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ॥BORI: १-३३-२७॥
एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता। यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् ॥BORI: १-३३-२८॥
इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम्। वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् ॥BORI: १-३३-२९॥
नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः। सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ॥BORI: १-३३-३०॥
किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम्। अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ॥BORI: १-३३-३१॥
शापः सृष्टो महाघोरो मात्रा खल्वविनीतया ॥KUMB: १-३७-६॥
सर्व एव हि नस्तावद्बुद्धिमन्तो विचक्षणाः ॥KUMB: १-३७-८; NILA: ०१.०३७.००८॥
श्रेयः प्रसादनं मन्ये कश्यपश्य महात्मनः ॥KUMB: १-३७-३२; NILA: ०१.०३७.०३२॥
ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजङ्गमाः । न च जानाति मे बुद्धिः किञ्चित्कर्तुं वचो हिवः ॥KUMB: १-३७-३३; NILA: ०१.०३७.०३३॥
मया हीदं विधातव्यं भवतां यद्धितं भवेत् ॥KUMB: १-३७-३४; NILA: ०१.०३७.०३४॥
श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च। वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥BORI: १-३४-१॥
न स यज्ञो न भविता न स राजा तथाविधः। जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् ॥BORI: १-३४-२॥
दैवेनोपहतो राजन्यो भवेदिह पूरुषः। स दैवमेवाश्रयते नान्यत्तत्र परायणम् ॥BORI: १-३४-३॥
तदिदं दैवमस्माकं भयं पन्नगसत्तमाः। दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ॥BORI: १-३४-४॥
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा। मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ॥BORI: १-३४-५॥
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो। पितामहमुपागम्य दुःखार्तानां महाद्युते ॥BORI: १-३४-६॥
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह। ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥BORI: १-३४-७॥
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह। एतदिच्छाम विज्ञातुं कारणं यन्न वारिता ॥BORI: १-३४-८॥
बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः। प्रजानां हितकामोऽहं न निवारितवांस्तदा ॥BORI: १-३४-९॥
ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः। तेषां विनाशो भविता न तु ये धर्मचारिणः ॥BORI: १-३४-१०॥
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात्। पन्नगानां निबोधध्वं तस्मिन्काले तथागते ॥BORI: १-३४-११॥
यायावरकुले धीमान्भविष्यति महानृषिः। जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः ॥BORI: १-३४-१२॥
तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः। आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा । तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥BORI: १-३४-१३॥
स मुनिप्रवरो देव जरत्कारुर्महातपाः। कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥BORI: १-३४-१४॥
सनामायां सनामा स कन्यायां द्विजसत्तमः। अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति ॥BORI: १-३४-१५॥
एवमस्त्विति तं देवाः पितामहमथाब्रुवन्। उक्त्वा चैवं गता देवाः स च देवः पितामहः ॥BORI: १-३४-१६॥
सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव। जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय ॥BORI: १-३४-१७॥
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये। ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया ॥BORI: १-३४-१८॥
प्रागेव दर्शिता बुद्धिर्मयैषा भुजगोत्तमाः । हेयेति यदि वो बुद्धिस्तवापि च तथा प्रभो ॥KUMB: १-३८-२॥
अस्तु कामं मभाद्यापि बुद्धिः स्मरणमागता । तां शृणुध्वं प्रवक्ष्यामि याथातथ्येन पन्नगाः ॥KUMB: १-३८-३॥
शापदुःखाग्नितप्तानां पन्नगानामनामयम् । कृपया परयाऽऽविष्टाः प्रार्थयन्तो दिवौकसः ॥KUMB: १-३८-८॥
वासुकेर्भगिनी कन्या समुत्पन्ना सुशोभना । तस्मै दास्यति तां कन्यां वासुकिर्भुजगोत्तमः ॥KUMB: १-३८-१७॥
तस्यां जनयिता पुत्रं वेदवेदाङ्गपारगम् ॥KUMB: १-३८-१८॥
वासुकेः सर्पराजस्य जरत्कारुः स्वसा किल । स तस्यां भविता पुत्रः शापान्नागांश्च मोक्ष्यति ॥NILA: ०१.०३८.०१६॥
एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम। सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् ॥BORI: १-३५-१॥
ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत। जरत्कारुं स्वसारं वै परं हर्षमवाप च ॥BORI: १-३५-२॥
ततो नातिमहान्कालः समतीत इवाभवत्। अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् ॥BORI: १-३५-३॥
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः। समाप्यैव च तत्कर्म पितामहमुपागमन् ॥BORI: १-३५-४॥
देवा वासुकिना सार्धं पितामहमथाब्रुवन्। भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ॥BORI: १-३५-५॥
तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि। जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः ॥BORI: १-३५-६॥
हितो ह्ययं सदास्माकं प्रियकारी च नागराट्। कुरु प्रसादं देवेश शमयास्य मनोज्वरम् ॥BORI: १-३५-७॥
मयैवैतद्वितीर्णं वै वचनं मनसामराः। एलापत्रेण नागेन यदस्याभिहितं पुरा ॥BORI: १-३५-८॥
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा। विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ॥BORI: १-३५-९॥
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः। तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ॥BORI: १-३५-१०॥
यदेलापत्रेण वचस्तदोक्तं भुजगेन ह। पन्नगानां हितं देवास्तत्तथा न तदन्यथा ॥BORI: १-३५-११॥
एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा। सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् ॥BORI: १-३५-१२॥
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः। शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति ॥BORI: १-३५-१३॥
संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः । स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति ॥KUMB: १-३९-१२; KUMB: १-३९-१३; NILA: ०१.०३९.०१२; NILA: ०१.०३९.०१३॥
जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन। इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ॥BORI: १-३६-१॥
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि। जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ॥BORI: १-३६-२॥
जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम्। शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ॥BORI: १-३६-३॥
क्षपयामास तीव्रेण तपसेत्यत उच्यते। जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥BORI: १-३६-४॥
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा। उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥BORI: १-३६-५॥
अथ कालस्य महतः स मुनिः संशितव्रतः। तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ॥BORI: १-३६-६॥
स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन्। चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् ॥BORI: १-३६-७॥
ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु। परिक्षिदिति विख्यातो राजा कौरववंशभृत् ॥BORI: १-३६-८॥
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि। बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥BORI: १-३६-९॥
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा। अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥BORI: १-३६-१०॥
स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा। पृष्ठतो धनुरादाय ससार गहने वने ॥BORI: १-३६-११॥
यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि। अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ॥BORI: १-३६-१२॥
न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम्। पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति । परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ॥BORI: १-३६-१३॥
दूरं चापहृतस्तेन मृगेण स महीपतिः। परिश्रान्तः पिपासार्त आससाद मुनिं वने ॥BORI: १-३६-१४॥
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्। भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ॥BORI: १-३६-१५॥
तमभिद्रुत्य वेगेन स राजा संशितव्रतम्। अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ॥BORI: १-३६-१६॥
भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः। मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ॥BORI: १-३६-१७॥
स मुनिस्तस्य नोवाच किञ्चिन्मौनव्रते स्थितः। तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ॥BORI: १-३६-१८॥
धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत। न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम् ॥BORI: १-३६-१९॥
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्। दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ॥BORI: १-३६-२०॥
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः। शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ॥BORI: १-३६-२१॥
स देवं परमीशानं सर्वभूतहिते रतम्। ब्रह्माणमुपतस्थे वै काले काले सुसंयतः । स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ॥BORI: १-३६-२२॥
सख्योक्तः क्रीडमानेन स तत्र हसता किल। संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः । ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ॥BORI: १-३६-२३॥
तेजस्विनस्तव पिता तथैव च तपस्विनः। शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥BORI: १-३६-२४॥
व्याहरत्स्वृषिपुत्रेषु मा स्म किञ्चिद्वचो वदीः। अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥BORI: १-३६-२५॥
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः। दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ॥BORI: १-३६-२६॥
उक्तं नाम यथा पूर्वं सर्वं तच्छ्रुतवानहम् । यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम् । तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः ॥KUMB: १-४०-६; NILA: ०१.०४०.००६॥
संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः । स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति ॥KUMB: १-४०-७; NILA: ०१.०४०.००७॥
तथा विख्यातवाँल्लोके परीक्षिदभिमन्युजः ॥KUMB: १-४०-१२॥
न हि तं राजशार्दूलं क्षमाशीलो महामुनिः । स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत् ॥KUMB: १-४०-२३; NILA: ०१.०४०.०२३॥
न हि तं राजशार्दूलस्तथा धर्मपरायणम् । जानाति भरतश्रेष्ठस्तत एनमधर्षयत् ॥KUMB: १-४०-२४; NILA: ०१.०४०.०२४॥
उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत् ॥KUMB: १-४०-२८; NILA: ०१.०४०.०२८॥
पित्रा च तव तत्कर्म नानुरूपमिवात्मनः । कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः ॥KUMB: १-४०-३२; NILA: ०१.०४०.०३२॥
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः। मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥BORI: १-३७-१॥
स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन्। अपृच्छत कथं तातः स मेऽद्य मृतधारकः ॥BORI: १-३७-२॥
राज्ञा परिक्षिता तात मृगयां परिधावता। अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ॥BORI: १-३७-३॥
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः। ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् ॥BORI: १-३७-४॥
स राजा मृगयां यातः परिक्षिदभिमन्युजः। ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा ॥BORI: १-३७-५॥
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने। पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥BORI: १-३७-६॥
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः। पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव ॥BORI: १-३७-७॥
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत। तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् ॥BORI: १-३७-८॥
शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः। सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ॥BORI: १-३७-९॥
श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः। कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥BORI: १-३७-१०॥
आविष्टः स तु कोपेन शशाप नृपतिं तदा। वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ॥BORI: १-३७-११॥
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च। स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी ॥BORI: १-३७-१२॥
तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगोत्तमः। आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥BORI: १-३७-१३॥
सप्तरात्रादितो नेता यमस्य सदनं प्रति। द्विजानामवमन्तारं कुरूणामयशस्करम् ॥BORI: १-३७-१४॥
इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात्। आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् ॥BORI: १-३७-१५॥
स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै। शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः ॥BORI: १-३७-१६॥
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत्। श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ॥BORI: १-३७-१७॥
राज्ञा परिक्षिता कोपादशपं तमहं नृपम्। यथार्हति स एवोग्रं शापं कुरुकुलाधमः ॥BORI: १-३७-१८॥
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः। वैवस्वतस्य भवनं नेता परमदारुणम् ॥BORI: १-३७-१९॥
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम्। न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ॥BORI: १-३७-२०॥
वयं तस्य नरेन्द्रस्य विषये निवसामहे। न्यायतो रक्षितास्तेन तस्य पापं न रोचये ॥BORI: १-३७-२१॥
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा। क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ॥BORI: १-३७-२२॥
यदि राजा न रक्षेत पीडा वै नः परा भवेत्। न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ॥BORI: १-३७-२३॥
रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः। चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः ॥BORI: १-३७-२४॥
परिक्षित्तु विशेषेण यथास्य प्रपितामहः। रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ॥BORI: १-३७-२५॥
तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना। अजानता व्रतमिदं कृतमेतदसंशयम् ॥BORI: १-३७-२६॥
तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम्। न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ॥BORI: १-३७-२७॥
सर्वभूतहिते रतः । अनन्यचेताः सततं विष्णुं दवेमतोषयत् । वन्यान्नभोजी सततं मुनिर्मौनव्रते स्थितः । एवंभूतः स तेजस्वी ॥KUMB: १-४१-२; KUMB: १-४१-३॥
सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि ॥KUMB: १-४१-२५; NILA: ०१.०४१.०२४॥
अराजके जनपदे दोषा जायन्ति वै सदा । उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै ॥KUMB: १-४१-२७; NILA: ०१.०४१.०२७॥
दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा । नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम् ॥KUMB: १-४१-२८; NILA: ०१.०४१.०२८॥
राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः । राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः ॥KUMB: १-४१-२९; NILA: ०१.०४१.०२९॥
देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः । ओषधिभ्यो मनुष्याणां धारयन्सततं हितम् ॥KUMB: १-४१-३०; NILA: ०१.०४१.०३०॥
मनुष्याणां च यो धाता राजा राज्यकरः पुनः । दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत् ॥KUMB: १-४१-३१; NILA: ०१.०४१.०३१॥
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम्। प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया ॥BORI: १-३८-१॥
नैवान्यथेदं भविता पितरेष ब्रवीमि ते। नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् ॥BORI: १-३८-२॥
जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा। नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति ॥BORI: १-३८-३॥
पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु। यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ॥BORI: १-३८-४॥
किं पुनर्बाल एव त्वं तपसा भावितः प्रभो। वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् ॥BORI: १-३८-५॥
सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर। पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ॥BORI: १-३८-६॥
स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन्। चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि ॥BORI: १-३८-७॥
क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम्। ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥BORI: १-३८-८॥
शम एव यतीनां हि क्षमिणां सिद्धिकारकः। क्षमावतामयं लोकः परश्चैव क्षमावताम् ॥BORI: १-३८-९॥
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः। क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ॥BORI: १-३८-१०॥
मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै। तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै ॥BORI: १-३८-११॥
मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना। ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ॥BORI: १-३८-१२॥
एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः। परिक्षिते नृपतये दयापन्नो महातपाः ॥BORI: १-३८-१३॥
संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च। शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ॥BORI: १-३८-१४॥
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम्। विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः ॥BORI: १-३८-१५॥
पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः। आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः । शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ ॥BORI: १-३८-१६॥
शमीको नाम राजेन्द्र विषये वर्तते तव। ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ॥BORI: १-३८-१७॥
तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः। अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम । क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ॥BORI: १-३८-१८॥
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै। तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति ॥BORI: १-३८-१९॥
तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत्। तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ॥BORI: १-३८-२०॥
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम्। ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ॥BORI: १-३८-२१॥
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः। पर्यतप्यत तत्पापं कृत्वा राजा महातपाः ॥BORI: १-३८-२२॥
तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा। भूय एवाभवद्राजा शोकसन्तप्तमानसः ॥BORI: १-३८-२३॥
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु। पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः ॥BORI: १-३८-२४॥
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत। अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ॥BORI: १-३८-२५॥
ततस्तं प्रेषयामास राजा गौरमुखं तदा। भूयः प्रसादं भगवान्करोत्विति ममेति वै ॥BORI: १-३८-२६॥
तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा। मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ॥BORI: १-३८-२७॥
निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित्। प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ॥BORI: १-३८-२८॥
रक्षां च विदधे तत्र भिषजश्चौषधानि च। ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् ॥BORI: १-३८-२९॥
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः। मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ॥BORI: १-३८-३०॥
प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम। काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ॥BORI: १-३८-३१॥
श्रुतं हि तेन तदभूदद्य तं राजसत्तमम्। तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ॥BORI: १-३८-३२॥
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम्। तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ॥BORI: १-३८-३३॥
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि। गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः ॥BORI: १-३८-३४॥
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम्। क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥BORI: १-३८-३५॥
नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम्। तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति ॥BORI: १-३८-३६॥
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा। पाण्डवानां कुलकरं राजानममितौजसम् ॥BORI: १-३८-३७॥
गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् ॥BORI: १-३८-३७॥
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम्। निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥BORI: १-३८-३८॥
अहं तं नृपतिं नाग त्वया दष्टमपज्वरम्। करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः ॥BORI: १-३८-३९॥
उत्सीदेयुरिमे लोकाः क्षणा चास्य प्रतिक्रिया ॥KUMB: १-४२-६॥
श्रुत्वा तु वचनं राज्ञो मुनिर्गौरमुखस्तदा । समनुज्ञाप्य वेगेन प्रजगामाश्रमं गुरोः ॥KUMB: १-४२-२८॥
न चैनं कश्चिदारूढं लभते राजसत्तमम् । वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते ॥KUMB: १-४२-३३; NILA: ०१.०४२.०३२॥
विज्ञातविषविद्योऽहं ब्राह्मणो लोकपूजितः । अस्मद्गुरुकटाक्षेण कल्योऽहं विषनाशने ॥KUMB: १-४२-४१॥
दष्टं यदि मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम्। ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥BORI: १-३९-१॥
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च। न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥BORI: १-३९-२॥
दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे। अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम ॥BORI: १-३९-३॥
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना। अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥BORI: १-३९-४॥
स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते। आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥BORI: १-३९-५॥
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्। कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥BORI: १-३९-६॥
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा। भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥BORI: १-३९-७॥
विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ। अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम ॥BORI: १-३९-८॥
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः। भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥BORI: १-३९-९॥
अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम्। पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥BORI: १-३९-१०॥
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना। उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ॥BORI: १-३९-११॥
विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा। कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥BORI: १-३९-१२॥
यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात्। अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥BORI: १-३९-१३॥
विप्रशापाभिभूते च क्षीणायुषि नराधिपे। घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥BORI: १-३९-१४॥
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्। विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥BORI: १-३९-१५॥
धनार्थी याम्यहं तत्र तन्मे दित्स भुजङ्गम। ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ॥BORI: १-३९-१६॥
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्। अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ॥BORI: १-३९-१७॥
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः। प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ॥BORI: १-३९-१८॥
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा। क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ॥BORI: १-३९-१९॥
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ॥BORI: १-३९-१९॥
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि। जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ॥BORI: १-३९-२०॥
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्। मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ॥BORI: १-३९-२१॥
स चिन्तयामास तदा मायायोगेन पार्थिवः। मया वञ्चयितव्योऽसौ क उपायो भवेदिति ॥BORI: १-३९-२२॥
ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान्। फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ॥BORI: १-३९-२३॥
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया। फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ॥BORI: १-३९-२४॥
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः। उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ॥BORI: १-३९-२५॥
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्। कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ॥BORI: १-३९-२६॥
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु। अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ॥BORI: १-३९-२७॥
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः। तापसैरुपनीतानि फलानि सहिता मया ॥BORI: १-३९-२८॥
ततो राजा ससचिवः फलान्यादातुमैच्छत। यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः । ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ॥BORI: १-३९-२९॥
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत्। अस्तमभ्येति सविता विषादद्य न मे भयम् ॥BORI: १-३९-३०॥
सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम्। तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥BORI: १-३९-३१॥
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः। एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह । कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ॥BORI: १-३९-३२॥
हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः। तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ॥BORI: १-३९-३३॥
पश्य मन्त्रबलं मेऽद्य न्यग्रोधं दश पन्नग ॥KUMB: १-४३-३॥
विधिना संप्रयुक्तो वै ऋषिवाक्येन तेन तु । यस्मिन्नेव फले नागस्तमेवाभक्षयत्स्वयम् ॥KUMB: १-४३-३०; NILA: ०१.०४३.०३०॥
वेष्टयित्वा च भोगेन विनद्य च महास्वनम् । अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः ॥KUMB: १-४३-३६; NILA: ०१.०४३.०३६॥
तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम्। विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ॥BORI: १-४०-१॥
तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः। अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् ॥BORI: १-४०-२॥
सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम्। तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ॥BORI: १-४०-३॥
ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः। भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा ॥BORI: १-४०-४॥
ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः। शुचिर्द्विजो राजपुरोहितस्तदा; तथैव ते तस्य नृपस्य मन्त्रिणः ॥BORI: १-४०-५॥
नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः। नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः ॥BORI: १-४०-६॥
स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा। शशास राज्यं कुरुपुङ्गवाग्रजो; यथास्य वीरः प्रपितामहस्तथा ॥BORI: १-४०-७॥
ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः। सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः ॥BORI: १-४०-८॥
ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः। स चापि तां प्राप्य मुदा युतोऽभव; न चान्यनारीषु मनो दधे क्वचित् ॥BORI: १-४०-९॥
सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान्। तथा स राजन्यवरो विजह्रिवा; न्यथोर्वशीं प्राप्य पुरा पुरूरवाः ॥BORI: १-४०-१०॥
वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम्। भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी ॥BORI: १-४०-११॥
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः। चचार पृथिवीं कृत्स्नां यत्रसायङ्गृहो मुनिः ॥BORI: १-४१-१॥
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः। तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ॥BORI: १-४१-२॥
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः। स ददर्श पितृन्गर्ते लम्बमानानधोमुखान् ॥BORI: १-४१-३॥
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान्। तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् ॥BORI: १-४१-४॥
निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः। उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ॥BORI: १-४१-५॥
के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः। दुर्बलं खादितैर्मूलैराखुना बिलवासिना ॥BORI: १-४१-६॥
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्। तदप्ययं शनैराखुरादत्ते दशनैः शितैः ॥BORI: १-४१-७॥
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव। ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः ॥BORI: १-४१-८॥
ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्। कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ॥BORI: १-४१-९॥
तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः। अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् ॥BORI: १-४१-१०॥
अथवापि समग्रेण तरन्तु तपसा मम। भवन्तः सर्व एवास्मात्काममेवं विधीयताम् ॥BORI: १-४१-११॥
ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति। न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ॥BORI: १-४१-१२॥
अस्ति नस्तात तपसः फलं प्रवदतां वर। सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ॥BORI: १-४१-१३॥
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै। येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ॥BORI: १-४१-१४॥
ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान्। शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज ॥BORI: १-४१-१५॥
यायावरा नाम वयमृषयः संशितव्रताः। लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयाद्विभो ॥BORI: १-४१-१६॥
प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै। अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ॥BORI: १-४१-१७॥
मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले। जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः । नियतात्मा महात्मा च सुव्रतः सुमहातपाः ॥BORI: १-४१-१८॥
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम्। न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन ॥BORI: १-४१-१९॥
तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत्। स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया ॥BORI: १-४१-२०॥
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः। साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो । कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन ॥BORI: १-४१-२१॥
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान्। एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः ॥BORI: १-४१-२२॥
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः। एते नस्तन्तवस्तात कालेन परिभक्षिताः ॥BORI: १-४१-२३॥
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम्। तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः ॥BORI: १-४१-२४॥
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः। स तं तपोरतं मन्दं शनैः क्षपयते तुदन् । जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ॥BORI: १-४१-२५॥
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम। छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः । नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा ॥BORI: १-४१-२६॥
अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः। छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ॥BORI: १-४१-२७॥
तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत्। तत्सर्वं न समं तात सन्तत्येति सतां मतम् ॥BORI: १-४१-२८॥
स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम्। यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः ॥BORI: १-४१-२९॥
यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा। तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ॥BORI: १-४१-३०॥
सन्तानं हि परो धर्म एवमाह पितामहः ॥KUMB: १-४५-१४; NILA: ०१.०४५.०१४॥
बान्धवानां हितस्येह यथा चात्मकुलं तथा ॥KUMB: १-४५-३३; NILA: ०१.०४५.०३३॥
कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम । श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति ॥KUMB: १-४५-३४; NILA: ०१.०४५.०३४॥
एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः। उवाच स्वान्पितृन्दुःखाद्बाष्पसंदिग्धया गिरा ॥BORI: १-४२-१॥
अहमेव जरत्कारुः किल्बिषी भवतां सुतः। तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः ॥BORI: १-४२-२॥
पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया। किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः ॥BORI: १-४२-३॥
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते। ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ॥BORI: १-४२-४॥
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः। मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः ॥BORI: १-४२-५॥
करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः। सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन ॥BORI: १-४२-६॥
भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता। प्रतिग्रहीता तामस्मि न भरेयं च यामहम् ॥BORI: १-४२-७॥
एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि। अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः ॥BORI: १-४२-८॥
एवमुक्त्वा तु स पितृंश्चचार पृथिवीं मुनिः। न च स्म लभते भार्यां वृद्धोऽयमिति शौनक ॥BORI: १-४२-९॥
यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा। तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः ॥BORI: १-४२-१०॥
यानि भूतानि सन्तीह स्थावराणि चराणि च। अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ॥BORI: १-४२-११॥
उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम्। निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया ॥BORI: १-४२-१२॥
निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः। दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः ॥BORI: १-४२-१३॥
यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः। ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् ॥BORI: १-४२-१४॥
मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत्। भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ॥BORI: १-४२-१५॥
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः। तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् ॥BORI: १-४२-१६॥
तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलङ्कृताम्। प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः ॥BORI: १-४२-१७॥
तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने। नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत ॥BORI: १-४२-१८॥
असनामेति वै मत्वा भरणे चाविचारिते। मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे ॥BORI: १-४२-१९॥
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन। वासुके भरणं चास्या न कुर्यामित्युवाच ह ॥BORI: १-४२-२०॥
मम पूर्वे भवन्तो वै पितरः सपितामहाः । तद्ब्रूत यन्मया कार्यं भवतां प्रियकाम्यया ॥KUMB: १-४६-२; NILA: ०१.०४६.००२॥
न दारान्वै करिष्येऽहमिति मे भावितं मनः ॥KUMB: १-४६-६; NILA: ०१.०४६.००६॥
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै । शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम ॥KUMB: १-४६-१०; NILA: ०१.०४६.०१०॥
सत्वरण्यगतः प्राज्ञः पितॄणां हितकाम्यया । उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः ॥KUMB: १-४६-१३; NILA: ०१.०४६.०१३॥
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा। सनामा तव कन्येयं स्वसा मे तपसान्विता ॥BORI: १-४३-१॥
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम। रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ॥BORI: १-४३-२॥
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति। जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ॥BORI: १-४३-३॥
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः। जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ॥BORI: १-४३-४॥
ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम्। जगाम भार्यामादाय स्तूयमानो महर्षिभिः ॥BORI: १-४३-५॥
शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम्। तत्र भार्यासहायः स जरत्कारुरुवास ह ॥BORI: १-४३-६॥
स तत्र समयं चक्रे भार्यया सह सत्तमः। विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ॥BORI: १-४३-७॥
त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे। एतद्गृहाण वचनं मया यत्समुदीरितम् ॥BORI: १-४३-८॥
ततः परमसंविग्ना स्वसा नागपतेस्तु सा। अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति ॥BORI: १-४३-९॥
तथैव सा च भर्तारं दुःखशीलमुपाचरत्। उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ॥BORI: १-४३-१०॥
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा। भर्तारं तं यथान्यायमुपतस्थे महामुनिम् ॥BORI: १-४३-११॥
तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः। अतीव तपसा युक्तो वैश्वानरसमद्युतिः । शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ॥BORI: १-४३-१२॥
ततः कतिपयाहस्य जरत्कारुर्महातपाः। उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ॥BORI: १-४३-१३॥
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम्। अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा । वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ॥BORI: १-४३-१४॥
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा। दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ॥BORI: १-४३-१५॥
कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः। धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः ॥BORI: १-४३-१६॥
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति। धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् ॥BORI: १-४३-१७॥
इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा। तमृषिं दीप्ततपसं शयानमनलोपमम् । उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ॥BORI: १-४३-१८॥
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति। सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः ॥BORI: १-४३-१९॥
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः। सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ॥BORI: १-४३-२०॥
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः। भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् ॥BORI: १-४३-२१॥
अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे। समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ॥BORI: १-४३-२२॥
न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः। अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ॥BORI: १-४३-२३॥
न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित्। किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ॥BORI: १-४३-२४॥
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्। अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने ॥BORI: १-४३-२५॥
नावमानात्कृतवती तवाहं प्रतिबोधनम्। धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया ॥BORI: १-४३-२६॥
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः। ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् ॥BORI: १-४३-२७॥
न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे। समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ॥BORI: १-४३-२८॥
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे। इतो मयि गते भीरु गतः स भगवानिति । त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ॥BORI: १-४३-२९॥
इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा। जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ॥BORI: १-४३-३०॥
बाष्पगद्गदया वाचा मुखेन परिशुष्यता। कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः । धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ॥BORI: १-४३-३१॥
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्। धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ॥BORI: १-४३-३२॥
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम। तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः ॥BORI: १-४३-३३॥
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम। अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते ॥BORI: १-४३-३४॥
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्। सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज ॥BORI: १-४३-३५॥
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये। इममव्यक्तरूपं मे गर्भमाधाय सत्तम । कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ॥BORI: १-४३-३६॥
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत्। यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः ॥BORI: १-४३-३७॥
अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः। ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ॥BORI: १-४३-३८॥
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः। उग्राय तपसे भूयो जगाम कृतनिश्चयः ॥BORI: १-४३-३९॥
त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम ॥KUMB: १-४७-२; NILA: ०१.०४७.००२॥
न भरिष्येऽहमेतां वै एष मे समयः कृतः । अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम् ॥KUMB: १-४७-३; NILA: ०१.०४७.००३॥
गतमात्रं तु भर्तारं जरत्कारुरवेदयत्। भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन ॥BORI: १-४४-१॥
ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम्। उवाच भगिनीं दीनां तदा दीनतरः स्वयम् ॥BORI: १-४४-२॥
जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत्। पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि ॥BORI: १-४४-३॥
स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान्। एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह ॥BORI: १-४४-४॥
अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात्। न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः ॥BORI: १-४४-५॥
कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम्। किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम् ॥BORI: १-४४-६॥
दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः। नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् ॥BORI: १-४४-७॥
आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम्। शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम् ॥BORI: १-४४-८॥
जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत। आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम् ॥BORI: १-४४-९॥
पृष्टो मयापत्यहेतोः स महात्मा महातपाः। अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः ॥BORI: १-४४-१०॥
स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्वचित्। उक्तपूर्वं कुतो राजन्साम्पराये स वक्ष्यति ॥BORI: १-४४-११॥
न सन्तापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे। उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः ॥BORI: १-४४-१२॥
इत्युक्त्वा हि स मां भ्रातर्गतो भर्ता तपोवनम्। तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् ॥BORI: १-४४-१३॥
एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा। एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत ॥BORI: १-४४-१४॥
सान्त्वमानार्थदानैश्च पूजया चानुरूपया। सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः ॥BORI: १-४४-१५॥
ततः स ववृधे गर्भो महातेजा रविप्रभः। यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि ॥BORI: १-४४-१६॥
यथाकालं तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा। कुमारं देवगर्भाभं पितृमातृभयापहम् ॥BORI: १-४४-१७॥
ववृधे स च तत्रैव नागराजनिवेशने। वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात् ॥BORI: १-४४-१८॥
चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः। नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत ॥BORI: १-४४-१९॥
अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम्। वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् ॥BORI: १-४४-२०॥
स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान्। गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत ॥BORI: १-४४-२१॥
भगवानिव देवेशः शूलपाणिर्हिरण्यदः। विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् ॥BORI: १-४४-२२॥
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः। पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ॥BORI: १-४५-१॥
शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा। आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः ॥BORI: १-४५-२॥
जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम। आसीद्यथा च निधनं गतः काले महायशाः ॥BORI: १-४५-३॥
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः। कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् ॥BORI: १-४५-४॥
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना। सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् ॥BORI: १-४५-५॥
धर्मात्मा च महात्मा च प्रजापालः पिता तव। आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् ॥BORI: १-४५-६॥
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत। धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ॥BORI: १-४५-७॥
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः। द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कञ्चन । समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ॥BORI: १-४५-८॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु। स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः ॥BORI: १-४५-९॥
विधवानाथकृपणान्विकलांश्च बभार सः। सुदर्शः सर्वभूतानामासीत्सोम इवापरः ॥BORI: १-४५-१०॥
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः। धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः ॥BORI: १-४५-११॥
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय। लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ॥BORI: १-४५-१२॥
परिक्षीणेषु कुरुषु उत्तरायामजायत। परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ॥BORI: १-४५-१३॥
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः। जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः ॥BORI: १-४५-१४॥
षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः। प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् ॥BORI: १-४५-१५॥
ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् ॥BORI: १-४५-१५॥
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान्। इदं वर्षसहस्राय राज्यं कुरुकुलागतम् । बाल एवाभिजातोऽसि सर्वभूतानुपालकः ॥BORI: १-४५-१६॥
नास्मिन्कुले जातु बभूव राजा; यो न प्रजानां हितकृत्प्रियश्च। विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद्वृत्तपरायणानाम् ॥BORI: १-४५-१७॥
कथं निधनमापन्नः पिता मम तथाविधः। आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ॥BORI: १-४५-१८॥
एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम्। ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः ॥BORI: १-४५-१९॥
बभूव मृगयाशीलस्तव राजन्पिता सदा। यथा पाण्डुर्महाभागो धनुर्धरवरो युधि । अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ॥BORI: १-४५-२०॥
स कदाचिद्वनचरो मृगं विव्याध पत्रिणा। विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ॥BORI: १-४५-२१॥
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान्। न चाससाद गहने मृगं नष्टं पिता तव ॥BORI: १-४५-२२॥
परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः। क्षुधितः स महारण्ये ददर्श मुनिमन्तिके ॥BORI: १-४५-२३॥
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम्। न च किञ्चिदुवाचैनं स मुनिः पृच्छतोऽपि सन् ॥BORI: १-४५-२४॥
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम्। मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ ॥BORI: १-४५-२५॥
न बुबोध हि तं राजा मौनव्रतधरं मुनिम्। स तं मन्युसमाविष्टो धर्षयामास ते पिता ॥BORI: १-४५-२६॥
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात्। तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ॥BORI: १-४५-२७॥
न चोवाच स मेधावी तमथो साध्वसाधु वा। तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् ॥BORI: १-४५-२८॥
शृणु पार्थिव यद्ब्रूषे पितुस्तव महात्मनः । चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः ॥KUMB: १-४९-६; NILA: ०१.०४९.००६॥
स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः ॥KUMB: १-४९-२२; NILA: ०१.०४९.०२२॥
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम्। मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ॥BORI: १-४६-१॥
ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः। शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥BORI: १-४६-२॥
ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह। अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा । सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ॥BORI: १-४६-३॥
मृतं सर्पं समासक्तं पित्रा ते जनमेजय। वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ॥BORI: १-४६-४॥
तपस्विनमतीवाथ तं मुनिप्रवरं नृप। जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ॥BORI: १-४६-५॥
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा। शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् ॥BORI: १-४६-६॥
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्। शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥BORI: १-४६-७॥
शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः। ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः ॥BORI: १-४६-८॥
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह। पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव ॥BORI: १-४६-९॥
अनागसि गुरौ यो मे मृतं सर्पमवासृजत्। तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति । सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥BORI: १-४६-१०॥
इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत्। दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ॥BORI: १-४६-११॥
स चापि मुनिशार्दूलः प्रेषयामास ते पितुः। शप्तोऽसि मम पुत्रेण यत्तो भव महीपते । तक्षकस्त्वां महाराज तेजसा सादयिष्यति ॥BORI: १-४६-१२॥
श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय। यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ॥BORI: १-४६-१३॥
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते। राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ॥BORI: १-४६-१४॥
तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा। तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ॥BORI: १-४६-१५॥
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥BORI: १-४६-१५॥
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज। तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै ॥BORI: १-४६-१६॥
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्। मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥BORI: १-४६-१७॥
किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि। ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् ॥BORI: १-४६-१८॥
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः। तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ॥BORI: १-४६-१९॥
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्। गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ॥BORI: १-४६-२०॥
स एवमुक्तो नागेन काश्यपो द्विपदां वरः। लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥BORI: १-४६-२१॥
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः। तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥BORI: १-४६-२२॥
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना। ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥BORI: १-४६-२३॥
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम। अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ॥BORI: १-४६-२४॥
श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम्। अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ॥BORI: १-४६-२५॥
एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने। संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा ॥BORI: १-४६-२६॥
केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम्। श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ॥BORI: १-४६-२७॥
शृणु राजन्यथास्माकं येनैतत्कथितं पुरा। समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥BORI: १-४६-२८॥
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव। विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ॥BORI: १-४६-२९॥
अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥BORI: १-४६-२९॥
स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा। द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः ॥BORI: १-४६-३०॥
तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम्। यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ॥BORI: १-४६-३१॥
एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम्। श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ॥BORI: १-४६-३२॥
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः। पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ॥BORI: १-४६-३३॥
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः। मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः । उवाच च महीपालो दुःखशोकसमन्वितः ॥BORI: १-४६-३४॥
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति। निश्चितेयं मम मतिर्या वै तां मे निबोधत ॥BORI: १-४६-३५॥
अनन्तरमहं मन्ये तक्षकाय दुरात्मने। प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता ॥BORI: १-४६-३६॥
ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम्। यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ॥BORI: १-४६-३७॥
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः। काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ॥BORI: १-४६-३८॥
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्। सञ्जिजीवयिषुं प्राप्तं राजानमपराजितम् ॥BORI: १-४६-३९॥
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः। द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥BORI: १-४६-४०॥
उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम्। भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ॥BORI: १-४६-४१॥
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥KUMB: १-५०-११; NILA: ०१.०५०.०११॥
शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम् ॥KUMB: १-५०-१३; NILA: ०१.०५०.०१३॥
आचख्यौ स च विश्रान्तो राज्ञः सर्वमशेषतः ॥KUMB: १-५०-१४; NILA: ०१.०५०.०१४॥
अहं स तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम् ॥KUMB: १-५०-२१; NILA: ०१.०५०.०२१॥
न शक्तस्त्वं मया दष्टं तं सञ्जीवयितुं नृपम् । इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम् ॥KUMB: १-५०-२२; KUMB: १-५०-२३क्ष्; NILA: ०१.०५०.०२२॥
स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः । काश्यपश्च ततो राजन्नजीवयत तं नगम् ॥KUMB: १-५०-२३; NILA: ०१.०५०.०२३॥
एतस्मिन्नेव काले तु स राजा जनमेजयः । उवाच मन्त्रिणः सर्वानिदं वाक्यमरिन्दमः ॥KUMB: १-५०-३२; NILA: ०१.०५०.०३२॥
अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ । आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा ॥KUMB: १-५०-३३; NILA: ०१.०५०.०३३॥
यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै । नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात् ॥KUMB: १-५०-३४; NILA: ०१.०५०.०३४॥
चिन्तयामास पापात्मा मनसा पन्नगाधमः । दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति ॥KUMB: १-५०-३५; NILA: ०१.०५०.०३५॥
तक्षकः संहतविषो लोके यास्यति हास्यताम् । विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै ॥KUMB: १-५०-३६; NILA: ०१.०५०.०३६॥
भविष्यति ह्युपायेन यस्य दास्यामि यातनाम् ॥KUMB: १-५०-३७; NILA: ०१.०५०.०३७॥
दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि ॥KUMB: १-५०-४६; NILA: ०१.०५०.०४६॥
मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः । अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत् ॥KUMB: १-५०-४७; NILA: ०१.०५०.०४७॥
इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत् ॥KUMB: १-५०-५०; NILA: ०१.०५०.०५०॥
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः। आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः । ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ॥BORI: १-४७-१॥
पुरोहितमथाहूय ऋत्विजं वसुधाधिपः। अब्रवीद्वाक्यसम्पन्नः सम्पदर्थकरं वचः ॥BORI: १-४७-२॥
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्। प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ॥BORI: १-४७-३॥
अपि तत्कर्म विदितं भवतां येन पन्नगम्। तक्षकं सम्प्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् ॥BORI: १-४७-४॥
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना। तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् ॥BORI: १-४७-५॥
अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम्। सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप ॥BORI: १-४७-६॥
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप। इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ॥BORI: १-४७-७॥
एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम्। हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम ॥BORI: १-४७-८॥
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा। आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे ॥BORI: १-४७-९॥
ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम। देशं तं मापयामासुर्यज्ञायतनकारणात् । यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः ॥BORI: १-४७-१०॥
ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम्। प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् ॥BORI: १-४७-११॥
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्। राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ॥BORI: १-४७-१२॥
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति। निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ॥BORI: १-४७-१३॥
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्। स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः ॥BORI: १-४७-१४॥
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा। यस्मिन्देशे च काले च मापनेयं प्रवर्तिता । ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ॥BORI: १-४७-१५॥
एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत्। क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति ॥BORI: १-४७-१६॥
ततः कर्म प्रववृते सर्पसत्रे विधानतः। पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः ॥BORI: १-४७-१७॥
परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः। जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ॥BORI: १-४७-१८॥
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते। सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ॥BORI: १-४७-१९॥
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने। विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् ॥BORI: १-४७-२०॥
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे। पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ॥BORI: १-४७-२१॥
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा। रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ ॥BORI: १-४७-२२॥
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च। अवशानि विनष्टानि पन्नगानां द्विजोत्तम ॥BORI: १-४७-२३॥
इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे। मत्ता इव च मातङ्गा महाकाया महाबलाः ॥BORI: १-४७-२४॥
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः। घोराश्च परिघप्रख्या दन्दशूका महाबलाः । प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ॥BORI: १-४७-२५॥
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः। जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ॥BORI: १-४८-१॥
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे। विषादजननेऽत्यर्थं पन्नगानां महाभये ॥BORI: १-४८-२॥
सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति। सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज ॥BORI: १-४८-३॥
हन्त ते कथयिष्यामि नामानीह मनीषिणाम्। ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ॥BORI: १-४८-४॥
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः। च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः ॥BORI: १-४८-५॥
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः। ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः ॥BORI: १-४८-६॥
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान्। उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः ॥BORI: १-४८-७॥
असितो देवलश्चैव नारदः पर्वतस्तथा। आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा ॥BORI: १-४८-८॥
वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान्। कहोडो देवशर्मा च मौद्गल्यः शमसौभरः ॥BORI: १-४८-९॥
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः। सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह ॥BORI: १-४८-१०॥
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ। अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ॥BORI: १-४८-११॥
वसामेदोवहाः कुल्या नागानां सम्प्रवर्तिताः। ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥BORI: १-४८-१२॥
पततां चैव नागानां धिष्ठितानां तथाम्बरे। अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ॥BORI: १-४८-१३॥
तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम्। गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ॥BORI: १-४८-१४॥
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः। अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् ॥BORI: १-४८-१५॥
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक। भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथञ्चन ॥BORI: १-४८-१६॥
प्रसादितो मया पूर्वं तवार्थाय पितामहः। तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः ॥BORI: १-४८-१७॥
एवमाश्वासितस्तेन ततः स भुजगोत्तमः। उवास भवने तत्र शक्रस्य मुदितः सुखी ॥BORI: १-४८-१८॥
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः। अल्पशेषपरीवारो वासुकिः पर्यतप्यत ॥BORI: १-४८-१९॥
कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम्। स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ॥BORI: १-४८-२०॥
दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च। सीदामीव च संमोहाद्घूर्णतीव च मे मनः ॥BORI: १-४८-२१॥
दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च। पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ॥BORI: १-४८-२२॥
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया। व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् ॥BORI: १-४८-२३॥
अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः। जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् ॥BORI: १-४८-२४॥
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे। प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ॥BORI: १-४८-२५॥
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम्। ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ॥BORI: १-४८-२६॥
तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा। वासुकेर्नागराजस्य वचनादिदमब्रवीत् ॥BORI: १-४९-१॥
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः। कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम् ॥BORI: १-४९-२॥
किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे। तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा ॥BORI: १-४९-३॥
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी। भगिनी नागराजस्य जरत्कारुरविक्लवा ॥BORI: १-४९-४॥
भुजगानामशेषाणां माता कद्रूरिति श्रुतिः। तया शप्ता रुषितया सुता यस्मान्निबोध तत् ॥BORI: १-४९-५॥
उच्छैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम। विनतानिमित्तं पणिते दासभावाय पुत्रकाः ॥BORI: १-४९-६॥
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः। तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ॥BORI: १-४९-७॥
तां च शप्तवतीमेवं साक्षाल्लोकपितामहः। एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च ॥BORI: १-४९-८॥
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा। अमृते मथिते तात देवाञ्शरणमीयिवान् ॥BORI: १-४९-९॥
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्। भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् ॥BORI: १-४९-१०॥
ते तं प्रसादयामासुर्देवाः सर्वे पितामहम्। राज्ञा वासुकिना सार्धं स शापो न भवेदिति ॥BORI: १-४९-११॥
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात्। अभिशापः स मात्रास्य भगवन्न भवेदिति ॥BORI: १-४९-१२॥
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति। तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति ॥BORI: १-४९-१३॥
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः। प्रादान्माममरप्रख्य तव पित्रे महात्मने ॥BORI: १-४९-१४॥
प्रागेवानागते काले तत्र त्वं मय्यजायथाः ॥BORI: १-४९-१४॥
अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि। भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् ॥BORI: १-४९-१५॥
अमोघं नः कृतं तत्स्याद्यदहं तव धीमते। पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ॥BORI: १-४९-१६॥
एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा। अब्रवीद्दुःखसन्तप्तं वासुकिं जीवयन्निव ॥BORI: १-४९-१७॥
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम। तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते ॥BORI: १-४९-१८॥
भव स्वस्थमना नाग न हि ते विद्यते भयम्। प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति ॥BORI: १-४९-१९॥
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ॥BORI: १-४९-१९॥
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्। वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ॥BORI: १-४९-२०॥
यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम ॥BORI: १-४९-२०॥
स सम्भावय नागेन्द्र मयि सर्वं महामते। न ते मयि मनो जातु मिथ्या भवितुमर्हति ॥BORI: १-४९-२१॥
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते। दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः ॥BORI: १-४९-२२॥
न सन्तापस्त्वया कार्यः कथञ्चित्पन्नगोत्तम। दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ॥BORI: १-४९-२३॥
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्। नाशयिष्यामि मात्र त्वं भयं कार्षीः कथञ्चन ॥BORI: १-४९-२४॥
ततः स वासुकेर्घोरमपनीय मनोज्वरम्। आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ॥BORI: १-४९-२५॥
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः। मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ॥BORI: १-४९-२६॥
स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम्। वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ॥BORI: १-४९-२७॥
स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः। अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः ॥BORI: १-४९-२८॥
स प्राप्य यज्ञायतनं वरिष्ठं द्विजोत्तमः पुण्यकृतां वरिष्ठः । तुष्टाव राजानमनन्तकीर्तिमृत्विक्सदस्यांश्च तथैव चाग्निम् ॥KUMB: १-५४-३०; NILA: ०१.०५४.०३०॥
सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रयागे। तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥BORI: १-५०-१॥
शक्रस्य यज्ञः शतसङ्ख्य उक्त; स्तथापरस्तुल्यसङ्ख्यः शतं वै। तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥BORI: १-५०-२॥
यमस्य यज्ञो हरिमेधसश्च; यथा यज्ञो रन्तिदेवस्य राज्ञः। तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥BORI: १-५०-३॥
गयस्य यज्ञः शशबिन्दोश्च राज्ञो; यज्ञस्तथा वैश्रवणस्य राज्ञः। तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥BORI: १-५०-४॥
नृगस्य यज्ञस्त्वजमीढस्य चासी; द्यथा यज्ञो दाशरथेश्च राज्ञः। तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥BORI: १-५०-५॥
यज्ञः श्रुतो नो दिवि देवसूनो; र्युधिष्ठिरस्याजमीढस्य राज्ञः। तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥BORI: १-५०-६॥
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र। तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥BORI: १-५०-७॥
इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा। नैषां ज्ञानं विद्यते ज्ञातुमद्य; दत्तं येभ्यो न प्रणश्येत्कथञ्चित् ॥BORI: १-५०-८॥
ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे। एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ॥BORI: १-५०-९॥
विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता विश्वभुक्कृष्णवर्त्मा। प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग्वष्टि देवः ॥BORI: १-५०-१०॥
नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम्। धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा ॥BORI: १-५०-११॥
शक्रः साक्षाद्वज्रपाणिर्यथेह; त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम्। मतस्त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिरस्ति यज्ञे ॥BORI: १-५०-१२॥
खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः। आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस्त्वम् ॥BORI: १-५०-१३॥
वाल्मीकिवत्ते निभृतं सुधैर्यं; वसिष्ठवत्ते नियतश्च कोपः। प्रभुत्वमिन्द्रेण समं मतं मे; द्युतिश्च नारायणवद्विभाति ॥BORI: १-५०-१४॥
यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः। श्रियां निवासोऽसि यथा वसूनां; निधानभूतोऽसि तथा क्रतूनाम् ॥BORI: १-५०-१५॥
दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविदस्त्रविच्च। और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीयोऽसि भगीरथो वा ॥BORI: १-५०-१६॥
एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः। तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयोऽथ ॥BORI: १-५०-१७॥
बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरोऽयं मतो मे। इच्छाम्यहं वरमस्मै प्रदातुं; तन्मे विप्रा वितरध्वं समेताः॥BORI: १-५१-१॥
बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत्। सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम्॥BORI: १-५१-२॥
व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततोऽभ्युवाच। होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्यस्मिंस्तक्षको नैति तावत्॥BORI: १-५१-३॥
यथा चेदं कर्म समाप्यते मे; यथा च नस्तक्षक एति शीघ्रम्। तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः॥BORI: १-५१-४॥
यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः। इन्द्रस्य भवने राजंस्तक्षको भयपीडितः॥BORI: १-५१-५॥
यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान्पुरस्तात्। स राजानं प्राह पृष्टस्तदानीं; यथाहुर्विप्रास्तद्वदेतन्नृदेव॥BORI: १-५१-६॥
पुराणमागम्य ततो ब्रवीम्यहं; दत्तं तस्मै वरमिन्द्रेण राजन्। वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस्त्वां प्रदहिष्यतीति॥BORI: १-५१-७॥
एतच्छ्रुत्वा दीक्षितस्तप्यमान; आस्ते होतारं चोदयन्कर्मकाले। होता च यत्तः स जुहाव मन्त्रै; रथो इन्द्रः स्वयमेवाजगाम॥BORI: १-५१-८॥
विमानमारुह्य महानुभावः; सर्वैर्देवैः परिसंस्तूयमानः। बलाहकैश्चाप्यनुगम्यमानो; विद्याधरैरप्सरसां गणैश्च॥BORI: १-५१-९॥
तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत्। ततो राजा मन्त्रविदोऽब्रवीत्पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन्॥BORI: १-५१-१०॥
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः। तमिन्द्रेणैव सहितं पातयध्वं विभावसौ॥BORI: १-५१-११॥
अयमायाति वै तूर्णं तक्षकस्ते वशं नृप। श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात्॥BORI: १-५१-१२॥
नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः। घूर्णन्नाकाशे नष्टसञ्ज्ञोऽभ्युपैति; तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः॥BORI: १-५१-१३॥
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो। अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि॥BORI: १-५१-१४॥
बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम्। वृणीष्व यत्तेऽभिमतं हृदि स्थितं; तत्ते प्रदास्याम्यपि चेददेयम्॥BORI: १-५१-१५॥
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि। इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत्॥BORI: १-५१-१६॥
वरं ददासि चेन्मह्यं वृणोमि जनमेजय। सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः॥BORI: १-५१-१७॥
एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा। नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत्॥BORI: १-५१-१८॥
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो। तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम॥BORI: १-५१-१९॥
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम्। सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः॥BORI: १-५१-२०॥
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा। पुनः पुनरुवाचेदमास्तीकं वदतां वरम्॥BORI: १-५१-२१॥
अन्यं वरय भद्रं ते वरं द्विजवरोत्तम। अयाचत न चाप्यन्यं वरं स भृगुनन्दन॥BORI: १-५१-२२॥
ततो वेदविदस्तत्र सदस्याः सर्व एव तम्। राजानमूचुः सहिता लभतां ब्राह्मणो वरम्॥BORI: १-५१-२३॥
प्रसादयैनं त्वरितो नरेन्द्र द्विजातिवर्यं सकलार्थसिद्धये ॥KUMB: १-५६-२॥
इन्द्रेण सार्धं तक्षकं पातयध्वं विभावसौ न विमुच्येत नागः ॥KUMB: १-५६-८॥
आयातु चेन्द्रोऽपि सतक्षकः पते-द्विभावसौ नागराजेन तूर्णम् । जम्भस्य हन्तेति जुहाव होता तदा जगामाहिदत्ताभयः प्रभुः ॥KUMB: १-५६-९॥
नागस्य नाशो मम चैव नाशो भविष्यतीत्येव विचिन्तयानः ॥KUMB: १-५६-१०॥
जनमेजयेन राज्ञा तु नोदितस्तक्षकं प्रति । होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा ॥KUMB: १-५६-१३; NILA: ०१.०५६.०१२॥
हूयमाने तथा चैव तक्षकः सपुरन्दरः । आकाशे ददृशे तत्र क्षणेन व्यथितस्तदा ॥KUMB: १-५६-१४; NILA: ०१.०५६.०१३॥
पुरन्दरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत् । हित्वा तु तक्षकं त्रस्तः स्वमेव भवनं ययौ ॥KUMB: १-५६-१५; NILA: ०१.०५६.०१४॥
इन्द्रे गते तु राजेन्द्र तक्षको भयमोहितः । मन्त्रशक्त्या पावकार्चिस्समीपमवशो गतः ॥KUMB: १-५६-१६; NILA: ०१.०५६.०१५॥
तं दृष्ट्वा ऋत्विजस्तत्र वचनं चेदमब्रुवन् ॥KUMB: १-५६-१६॥
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने। तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज॥BORI: १-५२-१॥
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च। न शक्यं परिसङ्ख्यातुं बहुत्वाद्वेदवित्तम॥BORI: १-५२-२॥
यथास्मृति तु नामानि पन्नगानां निबोध मे। उच्यमानानि मुख्यानां हुतानां जातवेदसि॥BORI: १-५२-३॥
वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे। नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान्॥BORI: १-५२-४॥
कोटिको मानसः पूर्णः सहः पैलो हलीसकः। पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः॥BORI: १-५२-५॥
हिरण्यवाहः शरणः कक्षकः कालदन्तकः। एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम्॥BORI: १-५२-६॥
तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्। पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः॥BORI: १-५२-७॥
उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः। शिलीशलकरो मूकः सुकुमारः प्रवेपनः॥BORI: १-५२-८॥
मुद्गरः शशरोमा च सुमना वेगवाहनः। एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्॥BORI: १-५२-९॥
पारावतः पारियात्रः पाण्डरो हरिणः कृशः। विहङ्गः शरभो मोदः प्रमोदः संहताङ्गदः॥BORI: १-५२-१०॥
ऐरावतकुलादेते प्रैविष्टा हव्यवाहनम्। कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम॥BORI: १-५२-११॥
ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः। बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ॥BORI: १-५२-१२॥
धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम्। कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्॥BORI: १-५२-१३॥
शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ। पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः॥BORI: १-५२-१४॥
आमाहठः कोमठकः श्वसनो मानवो वटः। भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः॥BORI: १-५२-१५॥
ऋषभो वेगवान्नाम पिण्डारकमहाहनू। रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ॥BORI: १-५२-१६॥
वराहको वारणकः सुमित्रश्चित्रवेदिकः। पराशरस्तरुणको मणिस्कन्धस्तथारुणिः॥BORI: १-५२-१७॥
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः। प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः॥BORI: १-५२-१८॥
एतेषां पुत्रपौत्रास्तु प्रसवस्य च सन्ततिः। न शक्याः परिसङ्ख्यातुं ये दीप्तं पावकं गताः॥BORI: १-५२-१९॥
सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे। कालानलविषा घोरा हुताः शतसहस्रशः॥BORI: १-५२-२०॥
महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः। योजनायामविस्तारा द्वियोजनसमायताः॥BORI: १-५२-२१॥
कामरूपाः कामगमा दीप्तानलविषोल्बणाः। दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः॥BORI: १-५२-२२॥
अवशान्मातृवाग्दण्डपीडितान्कृपणान्हूतान् ॥KUMB: १-५७-५; NILA: ०१.०५७.००५॥
अन्ये च बहवो विप्र तथा वै कुलसंभवाः । प्रदीप्ताग्नौ हुताः सर्वे घोररूपा महाबलाः ॥KUMB: १-५७-७; NILA: ०१.०५७.००७॥
कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम् ॥KUMB: १-५७-१४; NILA: ०१.०५७.०१४॥
अष्टावक्रः कोमलकः श्वसनो मौनवेपगः ॥KUMB: १-५७-१७॥
दशशीर्षाः शतशीर्षास्तथान्ये बहुशीर्षकाः ॥KUMB: १-५७-२१॥
इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः। तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह॥BORI: १-५३-१॥
इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत। ततश्चिन्तापरो राजा बभूव जनमेजयः॥BORI: १-५३-२॥
हूयमाने भृशं दीप्ते विधिवत्पावके तदा। न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः॥BORI: १-५३-३॥
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्। न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः॥BORI: १-५३-४॥
तमिन्द्रहस्ताद्विस्रस्तं विसञ्ज्ञं पन्नगोत्तमम्। आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत्॥BORI: १-५३-५॥
वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता। यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः॥BORI: १-५३-६॥
ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्। काममेतद्भवत्वेवं यथास्तीकस्य भाषितम्॥BORI: १-५३-७॥
समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः। प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत्॥BORI: १-५३-८॥
ततो हलहलाशब्दः प्रीतिजः समवर्तत। आस्तीकस्य वरे दत्ते तथैवोपरराम च॥BORI: १-५३-९॥
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह। प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः॥BORI: १-५३-१०॥
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः। तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः॥BORI: १-५३-११॥
लोहिताक्षाय सूताय तथा स्थपतये विभुः। येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम्॥BORI: १-५३-१२॥
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु। ततश्चकारावभृथं विधिदृष्टेन कर्मणा॥BORI: १-५३-१३॥
आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम्। राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम्॥BORI: १-५३-१४॥
पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत्। भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ॥BORI: १-५३-१५॥
तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः। कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम्॥BORI: १-५३-१६॥
स गत्वा परमप्रीतो मातरं मातुलं च तम्। अभिगम्योपसङ्गृह्य यथावृत्तं न्यवेदयत्॥BORI: १-५३-१७॥
एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः। तेऽऽस्तीके वै प्रीतिमन्तो बभूवु; रूचुश्चैनं वरमिष्टं वृणीष्व॥BORI: १-५३-१८॥
भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन्। प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स॥BORI: १-५३-१९॥
सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि। धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किञ्चिद्भयं स्यात्॥BORI: १-५३-२०॥
तैश्चाप्युक्तो भागिनेयः प्रसन्नै; रेतत्सत्यं काममेवं चरन्तः। प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय॥BORI: १-५३-२१॥
जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः। आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु॥BORI: १-५३-२२॥
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्। दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत्॥BORI: १-५३-२३॥
मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः। जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान्॥BORI: १-५३-२४॥
इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव। यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित्॥BORI: १-५३-२५॥
श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम्। आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः॥BORI: १-५३-२६॥
भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत्। आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते॥BORI: १-५३-२७॥
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन। यां कथां व्याससम्पन्नां तां च भूयः प्रचक्ष्व मे॥BORI: १-५३-२८॥
तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम्। कर्मान्तरेषु विधिवत्सदस्यानां महाकवे॥BORI: १-५३-२९॥
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम्। त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः॥BORI: १-५३-३०॥
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः। व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत्॥BORI: १-५३-३१॥
महाभारतमाख्यानं पाण्डवानां यशस्करम्। जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा॥BORI: १-५३-३२॥
श्रावयामास विधिवत्तदा कर्मान्तरेषु सः। तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम्॥BORI: १-५३-३३॥
मनःसागरसम्भूतां महर्षेः पुण्यकर्मणः। कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज॥BORI: १-५३-३४॥
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्। कृष्णद्वैपायनमतं महाभारतमादितः॥BORI: १-५३-३५॥
तज्जुषस्वोत्तममते कथ्यमानं मया द्विज। शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते॥BORI: १-५३-३६॥
दत्त्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितम् । प्रीतस्तस्मै नरपतिरप्रमेयपराक्रमः ॥KUMB: १-५८-१३; KUMB: १-५८-१४; NILA: ०१.०५८.०१३; NILA: ०१.०५८.०१४॥
सर्पापसर्प भद्रं ते गच्छ सर्प महाविष । जनेमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर ॥KUMB: १-५८-२५; NILA: ०१.०५८.०२५॥
आस्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्तते । शतधा भिद्यते मूर्धा शिंशवृक्षफलं यथा ॥KUMB: १-५८-२६; NILA: ०१.०५८.०२६॥
स एवमुक्तस्तु तदा द्विजेन्द्रः समागतैस्तैर्भुजगेन्द्रमुख्यैः । संप्राप्य प्रीतिं विपुलां महात्मा ततो मनो गमनायाथ दध्रे ॥KUMB: १-५८-२७; NILA: ०१.०५८.०२७॥
इत्येवं नागराजोऽथ नागानां मध्यगस्तदा । उक्त्वा सहैव तैः सर्पैः स्वमेव भवनं ययौ ॥KUMB: १-५८-२८॥
यथा कथितवान्ब्रह्मन्प्रमतिः पूर्वजस्तव । पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम ॥KUMB: १-५८-३१; NILA: ०१.०५८.०३०॥
यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया ॥KUMB: १-५८-३२; NILA: ०१.०५८.०३१॥
यन्मां त्वं पृष्टवान्ब्रह्मञ्श्रुत्वा डुण्डुभभाषितम् । व्येतु ते सुमहद्ब्रह्मन्कौतूहलमरिन्दम ॥KUMB: १-५८-३३; NILA: ०१.०५८.०३२॥
सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात् ॥KUMB: १-५८-३४॥