Chapter 6: Uparicara Vasu, Girikā and Adrikā; Satyavatī and the birth of Dvaipāyana.
राजोपरिचरो नाम धर्मनित्यो महीपतिः। बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः॥BORI: १-०५७-१॥
स चेदिविषयं रम्यं वसुः पौरव-नन्दनः। इन्द्रोपदेशात् जग्राह ग्रहणीयं महीपतिः॥BORI: १-०५७-२॥
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम्। देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम्॥BORI: १-०५७-३॥
इन्द्रत्वम् अर्हः राजा अयम् तपसा इति अनुचिन्त्य वै। तम् सान्त्वेन नृपम् साक्षात् तपसः संन्यवर्तयत्॥BORI: १-०५७-४॥
न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते। तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत्॥BORI: १-०५७-५॥
लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः। धर्मयुक्तस्ततो लोकान् पुण्यानाप्स्यसि शाश्वतान्॥BORI: १-०५७-६॥
दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः। ऊधः पृथिव्या यो देशस्तमावस नराधिप॥BORI: १-०५७-७॥
पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान्। स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः॥BORI: १-०५७-८॥
अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः। वसुपूर्णा च वसुधा वस चेदिषु चेदिप॥BORI: १-०५७-९॥
धर्मशीलाः जनपदाः सुसन्तोषाः च साधवः। न च मिथ्या-प्रलापः अत्र स्वैरेषु अपि कुतः अन्यथा॥BORI: १-०५७-१०॥
न च पित्रा विभज्यन्ते नरा गुरुहिते रताः। युञ्जते धुरि नो गाश्च कृशाः सन्धुक्षयन्ति च॥BORI: १-०५७-११॥
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद। न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु यद्भवेत्॥BORI: १-०५७-१२॥
देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत्। आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते॥BORI: १-०५७-१३॥
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः। चरिष्यसि उपरिस्थः वै देवः विग्रहवानिव॥BORI: १-०५७-१४॥
ददामि ते वैजयन्तीं मालाम् अम्लान-पङ्कजाम्। धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैः अविक्षतम्॥BORI: १-०५७-१५॥
लक्षणं चैतदेवेह भविता ते नराधिप। इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्॥BORI: १-०५७-१६॥
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः। इष्टप्रदानम् उद्दिश्य शिष्टानां परिपालिनीम्॥BORI: १-०५७-१७॥
ततस्तु राजा चेदीनामिन्द्राभरणभूषितः । इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम् ॥KUMB: १-६४-१९॥
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा। प्रवेशं कारयामास गते संवत्सरे तदा॥BORI: १-०५७-१८॥
ततः प्रभृति च अद्यापि यष्ट्याः क्षितिप-सत्तमैः। प्रवेशः क्रियते राजन् यथा तेन प्रवर्तितः॥BORI: १-०५७-१९॥
अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयः नृपैः। अलङ्कृतायाः पिटकैः गन्धैः माल्यैः च भूषणैः। माल्यदाम-परिक्षिप्ता विधिवत् क्रियते अपि च॥BORI: १-०५७-२०॥
भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः। स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः॥BORI: १-०५७-२१॥
एतां पूजां महेन्द्रस्तु दृष्ट्वा देवकृतां शुभाम्। वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः॥BORI: १-०५७-२२॥
ये पूजयिष्यन्ति नरा राजानश्च महं मम। कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः॥BORI: १-०५७-२३॥
तेषां श्रीः विजयः चैव स-राष्ट्राणां भविष्यति। तथा स्फीतः जनपदः मुदितः च भविष्यति॥BORI: १-०५७-२४॥
एवं महात्मना तेन महेन्द्रेण नराधिप। वसुः प्रीत्या मघवता महाराजः अभिसत्कृतः॥BORI: १-०५७-२५॥
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः। भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै। वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते॥BORI: १-०५७-२६॥
सम्पूजितो मघवता वसुश्चेदिपतिस्तदा। पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम्। इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः॥BORI: १-०५७-२७॥
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः। नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत्॥BORI: १-०५७-२८॥
महारथो मगधराड्विश्रुतो यो बृहद्रथः। प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम्। मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः॥BORI: १-०५७-२९॥
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः। न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च। वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः॥BORI: १-०५७-३०॥
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम्। उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम्। राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्॥BORI: १-०५७-३१॥
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः। अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल॥BORI: १-०५७-३२॥
गिरिं कोलाहलं तं तु पदा वसुरताडयत्। निश्चक्राम नदी तेन प्रहारविवरेण सा॥BORI: १-०५७-३३॥
तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम्। तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत्॥BORI: १-०५७-३४॥
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः। वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम्। चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः॥BORI: १-०५७-३५॥
वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत्। ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः॥BORI: १-०५७-३६॥
तदहः पितरश्चैनमूचुर्जहि मृगानिति। तं राजसत्तमं प्रीतास्तदा मतिमतां वरम्॥BORI: १-०५७-३७॥
स पितृणां नियोगं तमव्यतिक्रम्य पार्थिवः। चचार मृगयां कामी गिरिकामेव संस्मरन्। अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम्॥BORI: १-०५७-३८॥
तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने। स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः॥BORI: १-०५७-३९॥
प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत। ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः॥BORI: १-०५७-४०॥
सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः। अमोघत्वं च विज्ञाय रेतसो राजसत्तमः॥BORI: १-०५७-४१॥
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः। अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम्। सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत्॥BORI: १-०५७-४२॥
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय। गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै॥BORI: १-०५७-४३॥
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान्। जवं परममास्थाय प्रदुद्राव विहङ्गमः॥BORI: १-०५७-४४॥
तमपश्यदथायान्तं श्येनं श्येनस्तथापरः। अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया॥BORI: १-०५७-४५॥
तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः। युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि॥BORI: १-०५७-४६॥
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः। मीनभावमनुप्राप्ता बभूव यमुनाचरी॥BORI: १-०५७-४७॥
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम्। जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी॥BORI: १-०५७-४८॥
कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः। मासे च दशमे प्राप्ते तदा भरतसत्तम। उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम्॥BORI: १-०५७-४९॥
आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन्। काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति॥BORI: १-०५७-५०॥
तयोः पुमांसं जग्राह राजोपरिचरस्तदा। स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः॥BORI: १-०५७-५१॥
साप्सरा मुक्तशापा च क्षणेन समपद्यत। पुरोक्ता या भगवता तिर्यग्योनिगता शुभे। मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि॥BORI: १-०५७-५२॥
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना। सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च। सिद्धर्षिचारणपथं जगामाथ वराप्सराः॥BORI: १-०५७-५३॥
या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी। राज्ञा दत्ताथ दाशाय इयं तव भवत्विति। रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः॥BORI: १-०५७-५४॥
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात्। आसीन् मत्स्यसगन्धैव कञ्चित्कालं शुचिस्मिता॥BORI: १-०५७-५५॥
शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले। तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः॥BORI: १-०५७-५६॥
अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम्। दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम्। विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुङ्गवः॥BORI: १-०५७-५७॥
साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान्। आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः॥BORI: १-०५७-५८॥
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः। येन देशः स सर्वस्तु तमोभूत इवाभवत्॥BORI: १-०५७-५९॥
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा। विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी॥BORI: १-०५७-६०॥
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम्। त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ॥BORI: १-०५७-६१॥
कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम। गन्तुं गृहं गृहे चाहं धीमन् न स्थातुमुत्सहे। एतत्सञ्चिन्त्य भगवन्विधत्स्व यदनन्तरम्॥BORI: १-०५७-६२॥
एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः। उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि॥BORI: १-०५७-६३॥
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि। वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते॥BORI: १-०५७-६४॥
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम्। स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः॥BORI: १-०५७-६५॥
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता। जगाम सह संसर्गमृषिणाद्भुतकर्मणा॥BORI: १-०५७-६६॥
तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि। तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि॥BORI: १-०५७-६७॥
ततो योजनगन्धेति तस्या नाम परिश्रुतम्। पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम्॥BORI: १-०५७-६८॥
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्। पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा। जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्॥BORI: १-०५७-६९॥
स मातरमुपस्थाय तपस्येव मनो दधे। स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्॥BORI: १-०५७-७०॥
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्। द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत्॥BORI: १-०५७-७१॥
ततः सत्यवती हृष्टा जगाम स्वं निवेशनम् । तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ॥KUMB: १-६४अ-८३॥
दाशराजस्तु तद्गन्धमाजिघ्रन्पीतिमावहत् । त्वामाहुर्मत्स्यगन्धेति कथं बाले सुगन्धता ॥KUMB: १-६४अ-८४॥
अपास्य मत्स्यगन्धत्वं केन दत्ता सुगन्धता । शक्ते-पुत्रो महाप्राज्ञः पराशर इति श्रुतः ॥KUMB: १-६४अ-८५॥
नावं वाहयमानाया मम दृष्ट्वां सुशिक्षितम् । उपास्य मत्स्यगन्धत्वं योजनाद्गन्धतां ददौ ॥KUMB: १-६४अ-८६॥
ऋषेः प्रसादं दृष्ट्वा तु जनाः प्रीतिमुपागमन् । एवं लब्धो मया गन्धो न रोषं कर्तुमर्हसि ॥KUMB: १-६४अ-८७॥
पादापसारिणं धर्मं विद्वान्स तु युगे युगे। आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च॥BORI: १-०५७-७२॥
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया। विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः॥BORI: १-०५७-७३॥
वेदानध्यापयामास महाभारतपञ्चमान्। सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्॥BORI: १-०५७-७४॥
प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च। संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः॥BORI: १-०५७-७५॥
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः। वसुवीर्यात्समभवन्महावीर्यो महायशाः॥BORI: १-०५७-७६॥
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया। अणीमाण्डव्य इति वै विख्यातः सुमहायशाः॥BORI: १-०५७-७७॥
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान्। इषीकया मया बाल्यादेका विद्धा शकुन्तिका॥BORI: १-०५७-७८॥
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे। तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः॥BORI: १-०५७-७९॥
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः। तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि॥BORI: १-०५७-८०॥
तेन शापेन धर्मोऽपि शूद्रयोनावजायत। विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी॥BORI: १-०५७-८१॥
सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात्। सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः। सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः॥BORI: १-०५७-८२॥
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः। वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः॥BORI: १-०५७-८३॥
अनादिनिधनो देवः स कर्ता जगतः प्रभुः। अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम्॥BORI: १-०५७-८४॥
आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम्। पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम्॥BORI: १-०५७-८५॥
अनन्तमचलं देवं हंसं नारायणं प्रभुम्। धातारमजरं नित्यं तमाहुः परमव्ययम्॥BORI: १-०५७-८६॥
पुरुषः स विभुः कर्ता सर्वभूतपितामहः। धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु॥BORI: १-०५७-८७॥
अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ। सात्यकिः कृतवर्मा च नारायणमनुव्रतौ। सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ॥BORI: १-०५७-८८॥
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत। महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत॥BORI: १-०५७-८९॥
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः। अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः। अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः॥BORI: १-०५७-९०॥
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः। वैताने कर्मणि तते पावकात्समजायत। वीरो द्रोणविनाशाय धनुषा सह वीर्यवान्॥BORI: १-०५७-९१॥
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा। विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम्॥BORI: १-०५७-९२॥
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः। तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात्॥BORI: १-०५७-९३॥
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा। दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ॥BORI: १-०५७-९४॥
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः। क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः॥BORI: १-०५७-९५॥
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक्। द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः॥BORI: १-०५७-९६॥
धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः। इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः॥BORI: १-०५७-९७॥
जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावुभौ। नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ॥BORI: १-०५७-९८॥
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः। दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा॥BORI: १-०५७-९९॥
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत। स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः॥BORI: १-०५७-१००॥
पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे। कुमारा रूपसम्पन्नाः सर्वशस्त्रविशारदाः॥BORI: १-०५७-१०१॥
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्। अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः॥BORI: १-०५७-१०२॥
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान्। हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः॥BORI: १-०५७-१०३॥
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता। यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया॥BORI: १-०५७-१०४॥
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ। राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे॥BORI: १-०५७-१०५॥
तेषामपरिमेयानि नामधेयानि सर्वशः। न शक्यं परिसङ्ख्यातुं वर्षाणामयुतैरपि। एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम्॥BORI: १-०५७-१०६॥
प्रययौ दैवतैः सार्धं कृत्वा कार्यं दिवौकसाम् ॥KUMB: १-६४-१८॥
मार्गशीर्षे महाराज पूर्वपक्षे महामखम् ॥KUMB: १-६४-२१॥
उद्धृत्य पिटके चापि द्वादशारत्निकोच्छ्रये । महारजनवासांसि परिक्षिप्य ध्वजोत्तमम् ॥KUMB: १-६४-२४॥
वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः । पुण्याहं वाचयित्वाथ ध्वज उच्छ्रियते तदा ॥KUMB: १-६४-२५॥
माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह ॥KUMB: १-६४-२७॥
नानाविधानि दानानि दत्त्वार्थिभ्यः सुहृज्जनैः । अलङ्कृत्वा माल्यदामैर्वस्त्रैर्नानाविधैस्तथा ॥KUMB: १-६४-२८॥
दृतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात् । सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः ॥KUMB: १-६४-२९॥
रमन्ते नागराः सर्वे तथा जानपदैः सह । सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः ॥KUMB: १-६४-३०॥
प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम् । सान्तःपुरः सहामात्यः सर्वाभरणभूषितः ॥KUMB: १-६४-३१॥
महारजनवासांसि वसित्वा चेदिराट् तदा । जातिहिङ्गुलकेनाक्तः सदारो मुमुदे तदा ॥KUMB: १-६४-३२॥
एवं जानपदाः सर्वे चक्रुरिन्द्रमहं वसुः । यथा चेदिपतिः प्रीतश्चकारेन्द्रमहं वसुः ॥KUMB: १-६४-३३॥
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ॥KUMB: १-६४-३४॥
निरीतिकानि सस्यानि भवन्ति बहुधा नृप । राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथंचन ॥KUMB: १-६४-३८॥
एवं कृत्वा महेन्द्रस्तु जगाम स्वं निवेशनम् ॥KUMB: १-६४-३९॥
महिषी भविता कन्या पुमान्सेनापतिर्भवेत् । शुक्तिमत्या वचःश्रुत्वा दृष्ट्वा तौ राजसत्तमः ॥KUMB: १-६४-५१॥
अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः । पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः ॥KUMB: १-६४-५७; NILA: ०१.०६३.०४३॥
पनसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा । एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम् ॥KUMB: १-६४-५८; NILA: ०१.०६३.०४४॥
कोकिलाकुलसन्नादं मत्तभ्रमरनादितम् । वसन्तकाले तत्पश्यन्वनं चैत्ररथोपमम् ॥KUMB: १-६४-५९; NILA: ०१.०६३.०४५॥
मन्मथाभिपरीतात्मा नापश्यद्गिरिकां तदा । अपश्यन्कामसंतप्तश्चरमाणो यदृच्छया ॥KUMB: १-६४-६०; NILA: ०१.०६३.०४६॥
पुष्पसंछन्नशाखाग्रं पल्लवैरुपशोभितम् । अशोकस्तबकैश्छन्नं रमणीयमपश्यत ॥KUMB: १-६४-६१; NILA: ०१.०६३.०४७॥
अधस्यात्तस्य छायायां सुखासीनो नराधिपः । मधुगन्धैश्च संयुक्तं पुष्पगन्धमनोहरम् ॥KUMB: १-६४-६२; NILA: ०१.०६३.०४८॥
वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात् ॥KUMB: १-६४-६३; NILA: ०१.०६३.०४९॥
अङ्गुलीयेन शुक्लस्य रक्षां च विदधे नृपः । अशोकस्तबकै रक्तैः पल्लवैश्चाप्यबन्धयत् ॥KUMB: १-६४-६५॥
संभवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः । क्व कर्णधारो नौर्येन नीयते ब्रूहि भामिनि ॥KUMB: १-६४-८७॥
अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया । सहस्रजनसंपन्ना नौर्मया वाह्यते द्विज ॥KUMB: १-६४-८८॥
शोभनं वासवि शुभे किं चिरायसि वाह्यताम् । कलशं भविता भद्रे सहस्रार्धेन संमितम् ॥KUMB: १-६४-८९॥
अहं शेषो भिविष्यामि नीयतामचिरेण वै ॥KUMB: १-६४-९०॥
वीक्षमाणं मुनिं दृष्ट्वा प्रोवाचेदं वचस्तदा । मत्स्यगन्धेति मामाहुर्दाशराजसुतां जनाः ॥KUMB: १-६४-९१॥
जन्म शोकाभितप्तायाः कथं ज्ञास्यसि कथ्यताम् ॥KUMB: १-६४-९२॥
प्रणयग्रहणार्थाय वक्ष्येव वासवि तच्छृणु । बर्हिषद इति ख्याताः पितरः सोमपास्तुते ॥KUMB: १-६४-९३॥
तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता । अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम् ॥KUMB: १-६४-९४॥
त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन । संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती ॥KUMB: १-६४-९५॥
सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन् । नाम्ना वसुरिति ख्यातं मनुपुत्रं दिवि स्थितम् ॥KUMB: १-६४-९६॥
अद्रिकाऽप्सरसा युक्तं विमाने दिवि विष्ठितम् । सा तेन व्यभिचारेण मनसा कामचारिणी ॥KUMB: १-६४-९७॥
पितरं प्रार्थयित्वाऽन्यं योगाद्भष्टा पपात सा । अपश्यत्पतमाना सा विमानत्रयमन्तिकात् ॥KUMB: १-६४-९८॥
त्रसरेणुप्रमाणांस्तांस्तत्रापश्यत्स्वकान्पितॄन् । सुसूक्ष्मानपरिव्यक्तानङ्गैरङ्गेष्विवाहितान् ॥KUMB: १-६४-९९॥
तातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी । तैरुक्ता सा तु माभैषीस्तेन सा संस्थिता दिवि ॥KUMB: १-६४-१००॥
ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा । तामूचुः पितरः कन्यां भ्रैष्टश्वर्यां व्यतिक्रमात् ॥KUMB: १-६४-१०१॥
भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते । यैरारभन्ते कर्माणि शरीरैरिह देवताः ॥KUMB: १-६४-१०२॥
तैरेव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः । मनुष्यास्त्वन्यदेहेन शुभाशुभमिति स्थितिः ॥KUMB: १-६४-१०३॥
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे । तस्मात्त्वं पतसे पुत्रि प्रेत्यत्वं प्राप्स्यसे फलम् ॥KUMB: १-६४-१०४॥
पितृहीना तु कन्या त्वं वसोर्हि त्वं सुता मता । मत्स्ययोनौ समुत्पन्ना सुताराज्ञो भविष्यसि ॥KUMB: १-६४-१०५॥
अद्रिका मत्स्यरूपाऽभूद्गङ्गायमनुसङ्गमे । पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि ॥KUMB: १-६४-१०६॥
यो वेदमेकं ब्रह्मर्षिश्चतुर्धा विबजिष्यति । महाभिषक्सुतस्यैव शन्तनोः कीर्तिवर्धनम् ॥KUMB: १-६४-१०७॥
ज्येष्ठं चित्राङ्गदं वीरं चित्रवीरं च विश्रुतम् । एतान्सूत्वा सुपुत्रांस्त्वं पुनरेव गमिष्यसि ॥KUMB: १-६४-१०८॥
व्यतिक्रमात्पितॄणां च प्राप्स्यसे जन्म कुत्सितम् । अस्यैव राज्ञस्त्वं कन्या ह्यद्रिकायां भविष्यसि ॥KUMB: १-६४-१०९॥
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा । एवमुक्ता पुरा तैस्त्वं जाता सत्यवती शुभा ॥KUMB: १-६४-११०॥
अद्रिकेत्यभिविख्याता ब्रह्मशापाद्वराप्सरा । मीनभावमनुप्राप्ता त्वं जनित्वा गता दिवम् ॥KUMB: १-६४-१११॥
तस्यां जातासि सा कन्या राज्ञो वीर्येण चैवहि । तस्माद्वासवि भद्रं ते याचे वंशकरं सुतम् ॥KUMB: १-६४-११२॥
संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत ॥KUMB: १-६४-११३; NILA: ०१.०६३.०७२॥
विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता ॥KUMB: १-६४-११४॥
ततो रम्ये वनोद्देशे दिव्यास्तरणसंयुते । वीरासनमुपास्थाय योगी ध्यानपरोऽभवत् ॥KUMB: १-६४अ-१॥
श्वेतपट्टगृहे रम्ये पर्यङ्के सोत्तरच्छदे । तूष्णींभूतां तदा कन्यां ज्वलन्तीं योगतेजसा ॥KUMB: १-६४अ-२॥
दृष्ट्वा तां तु समाधाय विचार्य च पुनः पुनः । स चिन्तयामास मुनिः किं कृतं सुकृतं भवेत् ॥KUMB: १-६४अ-३॥
शिष्टानां तु समाचारः शिष्टाचार इति स्मृतः । श्रुतिस्मृतिविदो विप्रा धर्मज्ञा ज्ञानिनः स्मृताः ॥KUMB: १-६४अ-४॥
धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्तो द्विधा द्विजैः । दानाग्निहोत्रमिज्या च श्रौतस्यैतद्धि लक्षणम् ॥KUMB: १-६४अ-५॥
स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः । धर्मे तु धारणे धातुः सहत्वे चापि पठ्यते ॥KUMB: १-६४अ-६॥
तत्रेष्टफलभाग्धर्म आचार्यैरुपदिश्यते । अनिष्टफलभाक्रेति तैरधर्मोऽपि भाष्यते ॥KUMB: १-६४अ-७॥
तस्मादिष्टफलार्थाय धर्ममेव समाश्रयेत् । ब्राह्मो दैवस्तथैवार्षः प्राजापत्यश्च धार्मिकः ॥KUMB: १-६४अ-८॥
विवाहा ब्राह्मणानां तु गान्धर्वो नैव धार्मिकः । त्रिवर्णेतरजातीनां गान्धर्वासुरराक्षसाः ॥KUMB: १-६४अ-९॥
पैशाचो नैव कर्तव्यः पैशाचश्चाष्टमोऽधमः । सामर्षां व्यङ्गिकां कन्यां मातुश्च कुलजां तथा ॥KUMB: १-६४अ-१०॥
वृद्धां प्रव्राजितां वन्ध्यां पतितां च रजस्वलाम् । अपस्मारकुले जातां पिङ्गलांकुष्ठिनीं व्रणीम् ॥KUMB: १-६४अ-११॥
न चास्नातां स्त्रियं गच्छेदिति धर्मानुशासनम् । पिता पितामहो भ्राता माता मातुल एव च ॥KUMB: १-६४अ-१२॥
उपाध्यायर्त्विजश्चैव कन्यादाने प्रभूत्तमाः । एतैर्दत्तां निषेवेत नादत्तामाददीत च ॥KUMB: १-६४अ-१३॥
इत्येव ऋषयः प्राहुर्विवाहे धर्मवित्तमाः । अस्या नास्ति पिता भ्राता माता मातुल एव च ॥KUMB: १-६४अ-१४॥
गान्धर्वेण विवाहेन न स्पृशामि यदृच्छया । क्रियाहीनं तु गान्धर्वं न कर्तव्यमनापदि ॥KUMB: १-६४अ-१५॥
यदस्यां जायते पुत्रो वेदव्यासो भवेदृषिः । क्रियाहीनः कथं विप्रो भवेदृषिरुदारधीः ॥KUMB: १-६४अ-१६॥
एवं चिन्तयतो भावं महर्षेर्भावितात्मनः । ज्ञात्वा चैवाभ्यवर्तन्त पितरो बर्हिषस्तदा ॥KUMB: १-६४अ-१७॥
तस्मिन्क्षणे ब्रह्मपुत्रो वसिष्ठोऽपि समेयिवान् । पूर्वं स्वागतमित्युक्त्वा वसिष्ठः प्रत्यभाषत ॥KUMB: १-६४अ-१८॥
अस्माकं मानसीं कन्यामस्मच्छापेन वासवीम् । यदिचच्छशि पुत्रार्थं कन्यां गृह्मीष्वमा चिरम् ॥KUMB: १-६४अ-१९॥
पितॄणां वचनं श्रुत्वा वसिष्ठः प्रत्यभाषत । महर्षीणां वचः सत्यं पुराणेपि मया श्रुतम् ॥KUMB: १-६४अ-२०॥
पराशरो ब्रह्मचारी प्रजार्थी मम वंशधृत् । एवं संभाषमाणे तु वसिष्ठे पितृभिः सह ॥KUMB: १-६४अ-२१॥
ऋषयोऽभ्यागमंस्तत्र नैमिशारण्यवासिनः । विवाहं द्रष्टुमिच्छन्तः शक्तिपुत्रस्य धीमतः ॥KUMB: १-६४अ-२२॥
अरुन्धती महाभागा अदृश्यन्त्या सहैव सा । विश्वकर्मकृतां दिव्यां पर्णशालां प्रविश्य सा ॥KUMB: १-६४अ-२३॥
वैवाहिकांस्तु संभारान्संकल्प्य च यथाक्रमम् । अरुन्धती सत्यवतीं वधूं संगृह्य पाणिना ॥KUMB: १-६४अ-२४॥
भद्रासने प्रतिष्ठाप्य इन्द्राणीं समकल्पयत् । आपूर्यमाणपक्षे तु वैशाखे सोमदैवते ॥KUMB: १-६४अ-२५॥
शुभग्रहे त्रयोदश्यां मुहूर्ते मैत्र आगते । विवाहकाल इत्युक्त्वा वसिष्ठो मुनिभिः सह ॥KUMB: १-६४अ-२६॥
यमुनाद्वीपमासाद्य शिष्यैश्च मुनिपङ्क्तिभिः । स्थण्डिलं चतुरश्रं च गोमयेनोपलिप्य च ॥KUMB: १-६४अ-२७॥
अक्षतैः फलपुष्पैश्च स्वस्तिकैराम्रपल्लवैः । जलपूर्णघटैश्चैव सर्वतः परिशोभितम् ॥KUMB: १-६४अ-२८॥
तस्य मध्ये प्रतिष्ठाप्य बृस्यां मुनिवरं तदा । सिद्धार्थयवकल्कैश्च स्नातं सर्वौषधैरपि ॥KUMB: १-६४अ-२९॥
कृत्वार्जुनानि वस्त्राणि परिधाप्य महामुनिम् । वाचयित्वा तु पुण्याहमक्षतैस्तु समर्चितः ॥KUMB: १-६४अ-३०॥
गन्धानुलिप्तः स्रग्वी च सप्रतोदो वधूगृहे । अपदातिस्ततो गत्वा वधूज्ञातिभिरर्चितः ॥KUMB: १-६४अ-३१॥
स्नातामहतसंवीतां गन्धलिप्तां स्रगुज्ज्वलाम् । वधूं मङ्गलसंयुक्तामिषुहस्तां समीक्ष्य च ॥KUMB: १-६४अ-३२॥
उवाच वचनं काले कालज्ञः सर्वधर्मवित् । प्रतिग्रहो दातृवशः श्रुतमेवं मया पुरा ॥KUMB: १-६४अ-३३॥
यथा वक्ष्यन्ति पितरस्तत्करिष्यामहे वयम् । तद्धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः ॥KUMB: १-६४अ-३४॥
श्रुत्वा तु पितरः सर्वे निःसङ्गा निष्परिग्रहाः । वसुं परमधर्मिष्ठमानीयेदं वचोऽब्रुवन् ॥KUMB: १-६४अ-३५॥
मत्स्ययोनौ समुत्पन्ना तव पुत्री विशेषतः । पराशराय मुनये दातुमर्हसि धर्मतः ॥KUMB: १-६४अ-३६॥
सत्यं मम सुता सा हि दाशराजेन वर्धिता । अहं प्रभुः प्रदाने तु प्रजापालः प्रजार्थिनाम् ॥KUMB: १-६४अ-३७॥
निराशिषो वयं सर्वे निःसङ्गा निष्परिग्रहाः । कन्यादानेन संबन्धो दक्षिणाबन्ध उच्यते ॥KUMB: १-६४अ-३८॥
कर्मभूमिस्तु मानुष्यं भोगभूमिस्त्रिविष्टपम् । इह पुण्यकृतो यान्ति स्वर्गलोकं न संशयः ॥KUMB: १-६४अ-३९॥
इह लोके दुष्कृतिनो नरकं यान्ति निर्घृणाः । दक्षिणाबन्ध इत्युक्ते उभे सुकृतदुष्कृते ॥KUMB: १-६४अ-४०॥
दक्षिणाबन्धसंयुक्ता योगिनः प्रपतन्ति ते । तस्मान्नो मानसीं कन्यां योगाद्भ्रष्टां विशापते ॥KUMB: १-६४अ-४१॥
सुतात्वं तव संप्राप्तां सतीं भिक्षां ददस्व वै । इत्युक्त्वा पितरः सर्वे क्षणादन्तर्हितास्तदा ॥KUMB: १-६४अ-४२॥
याज्ञवल्क्यं समाहूय विवाहाचार्यमित्युत । वसुं चापि समाहूय वसिष्ठो मुनिभिः सह ॥KUMB: १-६४अ-४३॥
विवाहं कारयामास विधिदृष्टेन कर्मणा । पराशर महाप्राज्ञ तव दास्याम्यहं सुताम् ॥KUMB: १-६४अ-४४॥
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना । वसोस्तु वचनं श्रुत्वा याज्ञवल्क्यमते स्थितः ॥KUMB: १-६४अ-४५॥
कृतकौतुकमङ्गल्यः पाणिना पाणिमस्पृशत् । प्रभूताज्येन हविषा हुत्वा मन्त्रैर्हुताशनम् ॥KUMB: १-६४अ-४६॥
त्रिरग्निं तु परिक्रम्य समभ्यर्च्य हुताशनम् । महर्षीन्याज्ञवल्क्यादीन्दक्षिणाभिः प्रतर्प्यच ॥KUMB: १-६४अ-४७॥
लब्धानुज्ञोऽभिवाद्याशु प्रदक्षिणमथाकरोत् । पराशरे कृतोद्वाहे देवाः सर्पिगणास्तदा ॥KUMB: १-६४अ-४८॥
हृष्टा जग्मुः क्षणादेव वेदव्यासो भवत्विति । एवं सत्यवती हृष्टा पूजां लब्ध्वा यथेष्टतः ॥KUMB: १-६४अ-४९॥
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा । जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥KUMB: १-६४अ-५०॥
जातमात्रः स ववृधे सप्तवर्षोऽभवत्तदा । स्नात्वाभिवाद्य पितरं तस्थौ व्यासः समाहितः ॥KUMB: १-६४अ-५१॥
स्वस्तीति वचनं चोक्त्वा ददौ कलशमुत्तमम् । गृहीत्वा कलशं प्राप्ते तस्थौ व्यासः समाहितः ॥KUMB: १-६४अ-५२॥
ततो दाशभयात्पत्नी स्नात्वा कन्या बभूव सा । अभिवाद्य मुनेः पादौ पुत्रं जग्राह पाणिना ॥KUMB: १-६४अ-५३॥
स्पृष्टमात्रे तु निर्भर्त्स्य मातरं वाक्यमब्रवीत् । मम पित्रा तु संस्पर्शान्मातस्त्वमभवः शुचिः ॥KUMB: १-६४अ-५४॥
अद्य दाशसुता कन्या न स्पृशेर्मामनिन्दिते । व्यासस्य वचनं श्रुत्वा बाष्पपूर्णमुखी तदा ॥KUMB: १-६४अ-५५॥
मनुष्यभावात्सा योषित्पपात मुनिपादयोः । महाप्रसादो भगवान्पुत्रं प्रोवाच धर्मवित् ॥KUMB: १-६४अ-५६॥
मा त्वमेवंविधं कार्षीर्नैतद्धर्म्यं मतं हि नः । दूष्यौ न मातापितरौ तथा पूर्वोपकारिणौ ॥KUMB: १-६४अ-५७॥
धारणाद्दुःखसहनात्तयोर्माता गरीयसी । बीजक्षेत्रसमायोगे सस्यं जायेत लौकिकम् ॥KUMB: १-६४अ-५८॥
जायते च सुतस्तद्वत्पुरुषस्त्रीसमागमे । मृगीणां पक्षिणां चैव अप्सराणां तथैव च ॥KUMB: १-६४अ-५९॥
शूद्रयोन्यां च जायन्ते मुनयो वेदपारगाः । ऋष्यशृङ्गो मृगीपुत्रः कण्वो बर्हिसुतस्तथा ॥KUMB: १-६४अ-६०॥
अगस्त्यश्च वसिष्ठश्च उर्वश्यां जनितावुभौ । सोमश्रवास्तु सर्प्यां तु अश्विनावश्विसंभवौ ॥KUMB: १-६४अ-६१॥
स्कन्दः स्कन्नेन शुक्लेन जातः शरवणे पुरा । एवमेव च देवानामृषीमां चैव संभवः ॥KUMB: १-६४अ-६२॥
लोकवेदप्रवृत्तिर्हि न मीमांस्या बुधैः सदा । वेदव्यास इति प्रोक्तः पुराणे च स्वयंभुवा ॥KUMB: १-६४अ-६३॥
धर्मनेता महर्षीणां मनुष्याणां त्वमेव च । तस्मात्पुत्र न दूष्येत वासवी योगचारिणी ॥KUMB: १-६४अ-६४॥
मत्प्रीत्यर्थं महाप्राज्ञ सस्नेहं वक्तुमर्हसि । प्रजाहितार्थं संभूतो विष्णोर्भागो महानृषिः ॥KUMB: १-६४अ-६५॥
तस्मात्स्वमातरं स्नेहात्प्रबवीहि तपोधन । गुरोर्वचनमाज्ञाय व्यासः प्रीतोऽभवत्तदा ॥KUMB: १-६४अ-६६॥
चिन्तयित्वा लोकवृत्तं मातुरङ्कमथाविशत् । पुत्रस्पर्शात्तु लोकेषु नान्यत्सुखमतीव हि ॥KUMB: १-६४अ-६७॥
व्यासं कमलपत्राक्षं परिष्वज्याश्र्ववर्तयत् । स्तन्यासारैः क्लिद्यमाना पुत्रमाघ्राय मूर्धनि ॥KUMB: १-६४अ-६८॥
पुत्रलाभात्परं लोके नास्तीह प्रसवार्थिनाम् । दुर्लभं चेति मन्येऽहं मया प्राप्तं महत्तपः ॥KUMB: १-६४अ-६९॥
महता तपसा तात महायोगबलेन च । मया त्वं हि महाप्राज्ञ लब्धोऽमृतमिवामरैः ॥KUMB: १-६४अ-७०॥
तस्मात्त्वं मामृषेः पुत्र त्यक्तुं नार्हसि सांप्रतम् । एवमुक्तस्ततः स्नेहाद्व्यासो मातरमब्रवीत् ॥KUMB: १-६४अ-७१॥
त्वया स्पृष्टः परिष्वक्तो मूर्ध्नि चाघ्रायितो मुहुः । एतावन्मात्रया प्रीतो भविष्येषु नृपात्मजे ॥KUMB: १-६४अ-७२॥
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् । स मातरमनुज्ञाप्य तपस्येव मनो दधे ॥KUMB: १-६४अ-७३॥
ततः कन्यामनुज्ञाय पुनः कन्या भवत्विति । पराशरोऽपि भगवान्पुत्रेण सहितो ययौ ॥KUMB: १-६४अ-७४॥
गत्वाश्रमपदं पुम्यमदृश्यन्त्या पराशरः । जातकर्मादिसंस्कारं कारयामास धर्मतः ॥KUMB: १-६४अ-७५॥
कृतोपनयनो व्यासो याज्ञवल्क्येन भारत । वेदानधिजगौ साङ्गानोङ्कारेण त्रिमात्रया ॥KUMB: १-६४अ-७६॥
गुरवे दक्षिणां दत्त्वा तपः कर्तुं प्रचक्रमे । एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ॥KUMB: १-६४अ-७७॥
द्वीप न्यस्तः स यद्वालस्तस्माद्द्वैपायनोऽभवत् । पादापसारिणं धर्मं विद्वान्स तु युगे युगे ॥KUMB: १-६४अ-७८॥
आयुः शक्तिं च मर्त्यानां युगाद्युगमवेक्ष्य च । ब्रह्मर्षिर्ब्राह्मणानां च तथाऽनुग्रहकाङ्क्षया ॥KUMB: १-६४अ-७९॥
विव्यास वेदान्यस्माच्च वेदव्यास इति स्मृतः । ततः स महर्षिर्विद्वाञ्शिष्यानाहूय धर्मतः ॥KUMB: १-६४अ-८०॥
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् । प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च ॥KUMB: १-६४अ-८१॥
वेदानध्यापयामास महाभारतपञ्चमान् । संहितास्तैः पृथक्त्वेन भारतस्य प्रकीर्तिता ॥KUMB: १-६४अ-८२॥
दाशराजस्तु तद्वाक्यं प्रशशंस ननन्द च । एतत्पवित्रं पुण्यं च व्याससमवमुत्तमम् । इतिहासमिमं श्रुत्वा प्रजावन्तो भवन्ति च ॥KUMB: १-६४अ-८८॥
वैदार्थविच्च भगवानृषिर्विप्रो महायशाः ॥KUMB: १-६४-१३४; NILA: ०१.०६३.०९२॥
कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम् ॥KUMB: १-६४-१४५; NILA: ०१.०६३.१०३॥
धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः । विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि ॥KUMB: १-६४-१५६; NILA: ०१.०६३.११४॥
ततो दुःशासनश्चैव दुःसहश्चापि भारत । दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः ॥KUMB: १-६४-१६१; NILA: ०१.०६३.११९॥
जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत । वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः ॥KUMB: १-६४-१६२; NILA: ०१.०६३.१२०॥