Chapter 9: Kaca and Devayānī; Yayāti’s unions with Devayānī and Śarmiṣṭhā, birth of his five sons, exchange of youth with Pūru, and Yayāti’s fall and return to heaven.
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च। भरतस्य कुरोः पूरोरजमीढस्य चान्वये ॥BORI: ०१-७०-१॥
यादवानामिमं वंशं पौरवाणां च सर्वशः। तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् । धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ॥BORI: ०१-७०-२॥
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः। दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः । मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ॥BORI: ०१-७०-३॥
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः। सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः ॥BORI: ०१-७०-४॥
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः। आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥BORI: ०१-७०-५॥
सहस्रसङ्ख्यान्समितान्सुतान्दक्षस्य नारदः। मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् ॥BORI: ०१-७०-६॥
ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे। प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥BORI: ०१-७०-७॥
ददौ स दश धर्माय कश्यपाय त्रयोदश। कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥BORI: ०१-७०-८॥
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा। मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् । इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च ॥BORI: ०१-७०-९॥
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः। मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ॥BORI: ०१-७०-१०॥
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः। मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् । ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥BORI: ०१-७०-११॥
तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण सङ्गतम्। ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ॥BORI: ०१-७०-१२॥
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च। करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ॥BORI: ०१-७०-१३॥
पृषध्रनवमानाहुः क्षत्रधर्मपरायणान्। नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ॥BORI: ०१-७०-१४॥
पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ। अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ॥BORI: ०१-७०-१५॥
पुरूरवास्ततो विद्वानिलायां समपद्यत। सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ॥BORI: ०१-७०-१६॥
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः। अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ॥BORI: ०१-७०-१७॥
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः। जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ॥BORI: ०१-७०-१८॥
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह। अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ॥BORI: ०१-७०-१९॥
ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत। लोभान्वितो मदबलान्नष्टसञ्ज्ञो नराधिपः ॥BORI: ०१-७०-२०॥
स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट्। आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ॥BORI: ०१-७०-२१॥
षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः। दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ॥BORI: ०१-७०-२२॥
नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम्। स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ॥BORI: ०१-७०-२३॥
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः। राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ॥BORI: ०१-७०-२४॥
पितृन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान्। नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ॥BORI: ०१-७०-२५॥
स हत्वा दस्युसङ्घातानृषीन्करमदापयत्। पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ॥BORI: ०१-७०-२६॥
कारयामास चेन्द्रत्वमभिभूय दिवौकसः। तेजसा तपसा चैव विक्रमेणौजसा तथा ॥BORI: ०१-७०-२७॥
यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम्। नहुषो जनयामास षट्पुत्रान्प्रियवाससि ॥BORI: ०१-७०-२८॥
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः। स पालयामास महीमीजे च विविधैः सवैः ॥BORI: ०१-७०-२९॥
अतिशक्त्या पितृनर्चन्देवांश्च प्रयतः सदा। अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥BORI: ०१-७०-३०॥
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः। देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥BORI: ०१-७०-३१॥
देवयान्यामजायेतां यदुस्तुर्वसुरेव च। द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ॥BORI: ०१-७०-३२॥
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन्। जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥BORI: ०१-७०-३३॥
जराभिभूतः पुत्रान्स राजा वचनमब्रवीत्। यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥BORI: ०१-७०-३४॥
यौवनेन चरन्कामान्युवा युवतिभिः सह। विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥BORI: ०१-७०-३५॥
तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत्। किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ॥BORI: ०१-७०-३६॥
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम्। यौवनेन त्वदीयेन चरेयं विषयानहम् ॥BORI: ०१-७०-३७॥
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः। कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ॥BORI: ०१-७०-३८॥
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः। अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥BORI: ०१-७०-३९॥
न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम्। तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥BORI: ०१-७०-४०॥
राजंश्चराभिनवया तन्वा यौवनगोचरः। अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया ॥BORI: ०१-७०-४१॥
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात्। सञ्चारयामास जरां तदा पुत्रे महात्मनि ॥BORI: ०१-७०-४२॥
पौरवेणाथ वयसा राजा यौवनमास्थितः। यायातेनापि वयसा राज्यं पूरुरकारयत् ॥BORI: ०१-७०-४३॥
ततो वर्षसहस्रान्ते ययातिरपराजितः। अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥BORI: ०१-७०-४४॥
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः। पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥BORI: ०१-७०-४५॥
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च। कालेन महता पश्चात्कालधर्ममुपेयिवान् ॥BORI: ०१-७०-४६॥
नाशार्थं योजयामास दिगन्तज्ञानकर्मसु । ततः पञ्चाशतं कन्या पुत्रिका अभिसन्दधे । प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥KUMB: १-६९-११॥
धर्मात्मा स मनुर्धीमान्यत्र वंशः प्रतिष्ठितः । मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ॥KUMB: १-६९-१६; NILA: ०१.०७५.०१३॥
तेजसा तपसा चैव विक्रमेणौजसा तथा । विश्लिष्टो नहुषः शप्तः सद्यो ह्यजगरोऽभवत् । यतिं ययातिं संयातिमायातिमयतिं ध्रुवम् ॥KUMB: १-६९-३३॥
नहुषो जनयामास षट् सुतान्प्रियवादिनः । यतिस्तु योगमास्थाय ब्रह्मीभूतोऽभवन्मुनिः ॥KUMB: १-६९-३४; NILA: ०१.०७५.०३१॥
ततो वर्षसहस्राणि ययातिरपराजितः । स्थितः स नृपशार्दूलः शार्दूलसमविक्रमः ॥KUMB: १-६९-५०; NILA: ०१.०७५.०४७॥
ययातिरपि पत्नीभ्यां दीर्घकालं विहृत्य च । विश्वाच्या सहितो रेमे पुनश्चैत्ररथे वने ॥KUMB: १-६९-५१; NILA: ०१.०७५.०४८॥
नाध्यगच्छत्तदा तृप्तिं कामानां स महायशाः । अवेत्य मनसा राजन्निमां गाथां तदा जगौ ॥KUMB: १-६९-५२; NILA: ०१.०७५.०४९॥
न जातु कामः कामानामुपभोगेन शाम्यति । इविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥KUMB: १-६९-५३; NILA: ०१.०७५.०५०॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥KUMB: १-६९-५४; NILA: ०१.०७५.०५१॥
यदा न कुरुते पापं सर्वभूतेषु कर्हिचित् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥KUMB: १-६९-५५; NILA: ०१.०७५.०५२॥
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति । यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥KUMB: १-६९-५६; NILA: ०१.०७५.०५३॥
इत्यवेक्ष्य महाप्राज्ञः कामानां फल्गुतां नृप । समाधाय मनो बुद्ध्या प्रत्यगृह्णाज्जरां सुतात् ॥KUMB: १-६९-५७; NILA: ०१.०७५.०५४॥
ततो वर्षसहस्रान्ते ययातिरपराजितः। दत्वा च यौवनं राजा पूरुं राज्येऽभिषिच्य च । अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥KUMB: १-६९-५८; NILA: ०१.०७५.०५५॥
ततः स नृपशार्दूल पूरुं राज्येऽभिषिच्य च । ततः सुचरितं कृत्वा भृगुतुङ्गे महातपाः ॥KUMB: १-६९-६०; NILA: ०१.०७५.०५७॥
कालेन महता पश्चात्कालधर्ममुपेयिवान् । कारयित्वा त्वनशनं सदारः स्वर्गमाप्तवान् ॥KUMB: १-६९-६१; NILA: ०१.०७५.०५८॥
ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः। कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥BORI: ०१-७१-१॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम। आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् ॥BORI: ०१-७१-२॥
ययातिरासीद्राजर्षिर्देवराजसमद्युतिः। तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥BORI: ०१-७१-३॥
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो जनमेजय। देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥BORI: ०१-७१-४॥
सुराणामसुराणां च समजायत वै मिथः। ऐश्वर्यं प्रति सङ्घर्षस्त्रैलोक्ये सचराचरे ॥BORI: ०१-७१-५॥
जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम्। पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे । ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ॥BORI: ०१-७१-६॥
तत्र देवा निजघ्नुर्यान्दानवान्युधि सङ्गतान्। तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् । ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् ॥BORI: ०१-७१-७॥
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि। न तान्सञ्जीवयामास बृहस्पतिरुदारधीः ॥BORI: ०१-७१-८॥
न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान्। सञ्जीवनीं ततो देवा विषादमगमन्परम् ॥BORI: ०१-७१-९॥
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा। ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥BORI: ०१-७१-१०॥
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम्। यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि । शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि ॥BORI: ०१-७१-११॥
वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः। रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ॥BORI: ०१-७१-१२॥
तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम्। देवयानीं च दयितां सुतां तस्य महात्मनः ॥BORI: ०१-७१-१३॥
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते। शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥BORI: ०१-७१-१४॥
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः। तदाभिपूजितो देवैः समीपं वृषपर्वणः ॥BORI: ०१-७१-१५॥
स गत्वा त्वरितो राजन्देवैः सम्प्रेषितः कचः। असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ॥BORI: ०१-७१-१६॥
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः। नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ॥BORI: ०१-७१-१७॥
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ। अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ॥BORI: ०१-७१-१८॥
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः। अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥BORI: ०१-७१-१९॥
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम्। आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥BORI: ०१-७१-२०॥
व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत। आराधयन्नुपाध्यायं देवयानीं च भारत ॥BORI: ०१-७१-२१॥
नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे। गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ॥BORI: ०१-७१-२२॥
संशीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम्। पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत ॥BORI: ०१-७१-२३॥
देवयान्यपि तं विप्रं नियमव्रतचारिणम्। अनुगायमाना ललना रहः पर्यचरत्तदा ॥BORI: ०१-७१-२४॥
पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम्। तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ॥BORI: ०१-७१-२५॥
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः। जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च । हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् ॥BORI: ०१-७१-२६॥
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम्। ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् । उवाच वचनं काले देवयान्यथ भारत ॥BORI: ०१-७१-२७॥
अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो। अगोपाश्चागता गावः कचस्तात न दृश्यते ॥BORI: ०१-७१-२८॥
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति। तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥BORI: ०१-७१-२९॥
अयमेहीति शब्देन मृतं सञ्जीवयाम्यहम्। ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत्। आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया । हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ॥BORI: ०१-७१-३१॥
स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया। वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम् ॥BORI: ०१-७१-३२॥
ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः। प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा ॥BORI: ०१-७१-३३॥
देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत्। पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ॥BORI: ०१-७१-३४॥
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः। विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ॥BORI: ०१-७१-३५॥
मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यमनुप्रशोचेत्। सुराश्च विश्वे च जगच्च सर्व; मुपस्थितां वैकृतिमानमन्ति ॥BORI: ०१-७१-३६॥
यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश्चापि पिता तपोधनः। ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेयमहं न रुद्याम् ॥BORI: ०१-७१-३७॥
स ब्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः। कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचोऽभिरूपः ॥BORI: ०१-७१-३८॥
असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति। अब्राह्मणं कर्तुमिच्छन्ति रौद्रा; स्ते मां यथा प्रस्तुतं दानवैर्हि । अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम् ॥BORI: ०१-७१-३९॥
सञ्चोदितो देवयान्या महर्षिः पुनराह्वयत्। संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ॥BORI: ०१-७१-४०॥
गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार। तमब्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र ॥BORI: ०१-७१-४१॥
भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम्। न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि ॥BORI: ०१-७१-४२॥
असुरैः सुरायां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य। ब्राह्मीं मायामासुरी चैव माया; त्वयि स्थिते कथमेवातिवर्तेत् ॥BORI: ०१-७१-४३॥
किं ते प्रियं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य। नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवयानि ॥BORI: ०१-७१-४४॥
द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः। कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता ॥BORI: ०१-७१-४५॥
संसिद्धरूपोऽसि बृहस्पतेः सुत; यत्त्वां भक्तं भजते देवयानी। विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य ॥BORI: ०१-७१-४६॥
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात्। ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ॥BORI: ०१-७१-४७॥
पुत्रो भूत्वा भावय भावितो मा; मस्माद्देहादुपनिष्क्रम्य तात। समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥BORI: ०१-७१-४८॥
गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः। कचोऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः ॥BORI: ०१-७१-४९॥
दृष्ट्वा च तं पतितं ब्रह्मराशि; मुत्थापयामास मृतं कचोऽपि। विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच ॥BORI: ०१-७१-५०॥
ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम्। ये नाद्रियन्ते गुरुमर्चनीयं; पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् ॥BORI: ०१-७१-५१॥
सुरापानाद्वञ्चनां प्रापयित्वा; सञ्ज्ञानाशं चैव तथातिघोरम्। दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन ॥BORI: ०१-७१-५२॥
समन्युरुत्थाय महानुभाव; स्तदोशना विप्रहितं चिकीर्षुः। काव्यः स्वयं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः ॥BORI: ०१-७१-५३॥
यो ब्राह्मणोऽद्य प्रभृतीह कश्चि; न्मोहात्सुरां पास्यति मन्दबुद्धिः। अपेतधर्मो ब्रह्महा चैव स स्या; दस्मिँल्लोके गर्हितः स्यात्परे च ॥BORI: ०१-७१-५४॥
मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके। सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे ॥BORI: ०१-७१-५५॥
इतीदमुक्त्वा स महानुभाव; स्तपोनिधीनां निधिरप्रमेयः। तान्दानवान्दैवविमूढबुद्धी; निदं समाहूय वचोऽभ्युवाच ॥BORI: ०१-७१-५६॥
आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे। सञ्जीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः ॥BORI: ०१-७१-५७॥
गुरोरुष्य सकाशे तु दश वर्षशतानि सः। अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥BORI: ०१-७१-५८॥
गायन्तं चैव शुल्कं च दातारं प्रियवादिनम्। नार्यो नरं कामयन्ते रूपिणं स्रग्विणं तथा ॥KUMB: १-७०-२७॥
भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिर्गतः। आहूतः प्रादुरभवत्कचो हृष्टोऽथ विद्यया ॥KUMB: १-७०-३५; NILA: ०१.०७६.०३४॥
कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्गवीम्। समिधश्च कुशादीनि काष्ठभारं च भामिनि ॥KUMB: १-७०-३६; KUMB: १-७०-३६क्ष्; NILA: ०१.०७६.०३५॥
गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः। गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः ॥KUMB: १-७०-३७; NILA: ०१.०७६.०३६॥
असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन्। बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः ॥KUMB: १-७०-३८; NILA: ०१.०७६.०३७॥
इत्युक्तमात्रे मां हत्वा पेषीकृत्वा तु दानवाः। दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयम् ॥KUMB: १-७०-३९; NILA: ०१.०७६.०३८॥
आहूतो विद्यया भद्रे भार्गवेण महात्मना। त्वत्समीपमिहायातः कथंचित्प्राप्तजीवितः ॥KUMB: १-७०-४०; NILA: ०१.०७६.०३९॥
वनं ययौ कचो विप्रो ददृशुर्दानवाश्च तम्। पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन् ॥KUMB: १-७०-४२; NILA: ०१.०७६.०४१॥
चिरं गतं पुनः कन्या पित्रे तं संन्यवेदयत्। विप्रेण पुनराहूतो विद्यया गुरुदेहजः। पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा ॥KUMB: १-७०-४३; NILA: ०१.०७६.०४२॥
अपिबत्सुरया सार्धं कचभस्म भृगूद्वहः। सा सायन्तनवेलायामगोपा गाः समागताः ॥KUMB: १-७०-४५॥
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति। तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥KUMB: १-७०-४७; NILA: ०१.०७६.०४५॥
श्रुत्वा पुत्रीवचः काव्यो मन्त्रेणाहूतवान्कचम्। ज्ञात्वा बहिष्ठमज्ञात्वा स्वकुक्षिस्थं कचं नृप ॥KUMB: १-७०-४८॥
मैवं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनुप्रशोचते। यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽथाश्विनौ च ॥KUMB: १-७०-५०; NILA: ०१.०७६.०४७॥
सुरद्विषश्चैव जगच्च सर्वमुपस्थाने सन्नमन्ति प्रभावात्। अशक्योऽसौ जीवयितुं द्विजातिः संजीवितो वध्यते चैव भूयः ॥KUMB: १-७०-५१; NILA: ०१.०७६.०४८॥
कचोऽपि राजन्स महानुभावो विद्याबलाल्लब्धमतिर्महात्मा। गुरोर्हि भीतो विद्यया चोपहूतः। शनैर्वाक्यं जठरे व्याजहार ॥KUMB: १-७०-५६॥
प्रसीद भगवन्मह्यं कचोऽहमभिवादये। यथा बहुमतः पुत्रस्तथा मन्यतु मां भवान् ॥KUMB: १-७०-५७॥
तमब्रवीत्केन पथोपनीतस्त्वं चोदरे तिष्ठसि ब्रूहि विप्र। अस्मिन्मुहूर्ते ह्यसुरान्विनाश्य गच्छामि देवानहमद्य विप्र ॥KUMB: १-७०-५८॥
यः श्रोत्रयोरमृतं सन्निषिञ्चेद्विद्यामविद्यस्य यथा त्वमार्यः। तं मन्येऽहं पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥KUMB: १-७०-६८; NILA: ०१.०७६.०६३॥
योऽकार्षीद्दुष्करं कर्म देवानां कारणात्कचः। न तत्कीर्तिर्जरां गच्छेद्याज्ञीयश्च भविष्यति ॥KUMB: १-७०-७६॥
एतावदुक्त्वा वचनं विरराम स भार्गवः। दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम् ॥KUMB: १-७०-७७; NILA: ०१.०७६.०७१॥
समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा। प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ॥BORI: ०१-७२-१॥
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च। भ्राजसे विद्यया चैव तपसा च दमेन च ॥BORI: ०१-७२-२॥
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः। तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः ॥BORI: ०१-७२-३॥
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन। व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥BORI: ०१-७२-४॥
स समावृत्तविद्यो मां भक्तां भजितुमर्हसि। गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ॥BORI: ०१-७२-५॥
पूज्यो मान्यश्च भगवान्यथा तव पिता मम। तथा त्वमनवद्याङ्गि पूजनीयतरा मम ॥BORI: ०१-७२-६॥
आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः। त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥BORI: ०१-७२-७॥
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव। देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥BORI: ०१-७२-८॥
गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः। तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ॥BORI: ०१-७२-९॥
असुरैर्हन्यमाने च कच त्वयि पुनः पुनः। तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ॥BORI: ०१-७२-१०॥
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम्। न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥BORI: ०१-७२-११॥
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते। प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे ॥BORI: ०१-७२-१२॥
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने। तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥BORI: ०१-७२-१३॥
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने। सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ॥BORI: ०१-७२-१४॥
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि। अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे । अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ॥BORI: ०१-७२-१५॥
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः। ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥BORI: ०१-७२-१६॥
गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः। गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् ॥BORI: ०१-७२-१७॥
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया। शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः ॥BORI: ०१-७२-१८॥
तस्माद्भवत्या यः कामो न तथा स भविष्यति। ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ॥BORI: ०१-७२-१९॥
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा। अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥BORI: ०१-७२-२०॥
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा। त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥BORI: ०१-७२-२१॥
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः। बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ॥BORI: ०१-७२-२२॥
यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम्। न ते यशः प्रणशिता भागभाङ्नो भविष्यसि ॥BORI: ०१-७२-२३॥
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः। कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥BORI: ०१-७३-१॥
सर्व एव समागम्य शतक्रतुमथाब्रुवन्। कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर ॥BORI: ०१-७३-२॥
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा। तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः ॥BORI: ०१-७३-३॥
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे। वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥BORI: ०१-७३-४॥
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा। वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः ॥BORI: ०१-७३-५॥
तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा। व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ॥BORI: ०१-७३-६॥
ततस्तयोर्मिथस्तत्र विरोधः समजायत। देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥BORI: ०१-७३-७॥
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि। समुदाचारहीनाया न ते श्रेयो भविष्यति ॥BORI: ०१-७३-८॥
आसीनं च शयानं च पिता ते पितरं मम। स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ॥BORI: ०१-७३-९॥
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः। सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥BORI: ०१-७३-१०॥
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि। लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् ॥BORI: ०१-७३-११॥
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि। शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् ॥BORI: ०१-७३-१२॥
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया। अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ॥BORI: ०१-७३-१३॥
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः। श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ॥BORI: ०१-७३-१४॥
स नाहुषः प्रेक्षमाण उदपानं गतोदकम्। ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव ॥BORI: ०१-७३-१५॥
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम्। सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ॥BORI: ०१-७३-१६॥
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला। दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ॥BORI: ०१-७३-१७॥
कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते। दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ॥BORI: ०१-७३-१८॥
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया। तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ॥BORI: ०१-७३-१९॥
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः। समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ॥BORI: ०१-७३-२०॥
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम्। तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ॥BORI: ०१-७३-२१॥
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः। गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ॥BORI: ०१-७३-२२॥
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः। आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ॥BORI: ०१-७३-२३॥
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः। नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः ॥BORI: ०१-७३-२४॥
सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम्। दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना ॥BORI: ०१-७३-२५॥
आचक्षे ते महाप्राज्ञ देवयानी वने हता। शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ॥BORI: ०१-७३-२६॥
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम्। त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ॥BORI: ०१-७३-२७॥
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने। बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् ॥BORI: ०१-७३-२८॥
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः। मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ॥BORI: ०१-७३-२९॥
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम। शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः । सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ॥BORI: ०१-७३-३०॥
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी। वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ॥BORI: ०१-७३-३१॥
स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः। सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥BORI: ०१-७३-३२॥
इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः। क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ॥BORI: ०१-७३-३३॥
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः। प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया ॥BORI: ०१-७३-३४॥
स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः। अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ॥BORI: ०१-७३-३५॥
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः। अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥BORI: ०१-७३-३६॥
आदुन्वस्व विदुन्वस्व द्रुह्य कुप्यस्व याचकि । अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि ॥KUMB: १-७२-११; NILA: ०१.०७८.०११॥
लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् । प्रतिकूलं वदसि चेदितःप्रभृति याचकि ॥KUMB: १-७२-१२॥
अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा । प्रविश्य स्वगृहं स्वस्था धर्ममासुरमास्थिता । अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः ॥KUMB: १-७२-१४॥
गच्छ भद्रे यथाकामं न भयं विद्यते तव । इत्युच्यमाना नृपतिं देवयानीदमुत्तरम् ॥KUMB: १-७२-२४॥
उवाच मामुपादाय गच्छ शीघ्रं प्रियो हि मे । गृहीताहं त्वया पाणौ तस्माद्भर्ता भविष्यसि ॥KUMB: १-७२-२५॥
इत्येवमुक्तो नृपतिराह क्षत्रकुलोद्भवः । त्वं भद्रे ब्राह्मणी तस्मान्मया नार्हसि सङ्गमम् ॥KUMB: १-७२-२६॥
सर्वलोकगुरुः काव्यस्त्वं तस्य दुहिता शुभे । तस्मादपि भयं मेऽद्य ततः कल्याणि नार्हसि ॥KUMB: १-७२-२७॥
यदि मद्वचनान्नाद्य मां नेच्छसि नराधिप । त्वामेव वरये पित्रा तस्माल्लप्स्यसि गच्छ हि ॥KUMB: १-७२-२८॥
आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ । गते तु नाहुषे तस्मिन्देवयान्यप्यनिन्दिता ॥KUMB: १-७२-२९; NILA: ०१.०७८.०२४॥
क्वचिद्गत्वा च रुदती वृक्षमाश्रित्य धिष्ठिता । ततश्चिरायमाणायां दुहितर्यथ भार्गवः ॥KUMB: १-७२-३०॥
संस्मृत्योवाच धात्रीं तां दुहितुः स्नेहविक्लवः । धात्रि त्वमानय क्षिप्रं देवयानीं समुध्यमाम् ॥KUMB: १-७२-३१॥
इत्युक्तमात्रे सा धात्री त्वरिताऽऽनयितुं गता । यत्रयत्र सशीभिः सा गता पदममार्गत ॥KUMB: १-७२-३२॥
सा ददर्श तथा दीनां श्रमार्तां रुदतीं स्थिताम् । वृत्तान्तं किमिदं भद्रे शीघ्रं वद पिताह्वयत् ॥KUMB: १-७२-३३॥
एवमुक्ताह धात्रीं तां शर्मिष्ठावृजिनं कृतम् । उवाच शोकसंतप्ता घूर्णिकामागतां पुरः ॥KUMB: १-७२-३४; NILA: ०१.०७८.०२५॥
उक्ताप्येवं भृशं मां सा निगृह्य विजने वने । कूपे प्रक्षेपयामास प्रक्षिप्य गृहमागमत् ॥KUMB: १-७२-४७॥
जानामि जीविनीं विद्यां लोकेस्मिञ्शाश्वतीं ध्रुवम् । मृतः संजीवते जन्तुर्यया कमललोचने ॥KUMB: १-७२-५०॥
कत्थनं स्वगुणानां च कृत्वा तप्यति सज्जनः । ततो वक्तुमशक्तोऽस्मित्वं मे जानासि यद्बलम् ॥KUMB: १-७२-५१॥
तसमादुत्तिष्ठ गच्छामः स्वगृहं कुलनन्दिनि । क्षमां कृत्वा विशालाक्षि क्षमासारा हि साधवः ॥KUMB: १-७२-५२॥
यच्च किंचित्सर्वगतं भूमौ वा यदि वा दिवि । तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयंभुवा ॥KUMB: १-७२-५३; NILA: ०१.०७८.०३९॥
अहं जलं विमुञ्चामि प्रजानां हितकाम्यया । पुष्णाम्यौषधयः सर्वा इति सत्यं ब्रवीमि ते ॥KUMB: १-७२-५४; NILA: ०१.०७८.०४०॥
एवं विषादमापन्नां मन्युना संप्रपीडिताम् । वचनैर्मधुरैः श्लक्ष्णैः सान्त्वयामास तां पिता ॥KUMB: १-७२-५५; NILA: ०१.०७८.०४१॥
यः परेषां नरो नित्यमतिवादांस्तितिक्षति। देवयानि विजानीहि तेन सर्वमिदं जितम् ॥BORI: ०१-७४-१॥
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा। स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥BORI: ०१-७४-२॥
यः समुत्पतितं क्रोधमक्रोधेन निरस्यति। देवयानि विजानीहि तेन सर्वमिदं जितम् ॥BORI: ०१-७४-३॥
यः समुत्पतितं क्रोधं क्षमयेह निरस्यति। यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥BORI: ०१-७४-४॥
यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षति। यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥BORI: ०१-७४-५॥
यो यजेदपरिश्रान्तो मासि मासि शतं समाः। न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ॥BORI: ०१-७४-६॥
यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः। न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् ॥BORI: ०१-७४-७॥
वेदाहं तात बालापि धर्माणां यदिहान्तरम्। अक्रोधे चातिवादे च वेद चापि बलाबलम् ॥BORI: ०१-७४-८॥
शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता। तस्मात्सङ्कीर्णवृत्तेषु वासो मम न रोचते ॥BORI: ०१-७४-९॥
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च। न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु ॥BORI: ०१-७४-१०॥
ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च। तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥BORI: ०१-७४-११॥
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः। न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु । यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥BORI: ०१-७४-१२॥
तस्मादक्रोधनः श्रेष्ठः कामक्रोधौ विगर्हितौ । क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च ॥KUMB: १-७३-७॥
तस्मादक्रोधने यज्ञतपोदानफलं महत् । भवेदसंशयं भद्रे नेतरस्मिन्कदाचन ॥KUMB: १-७३-८॥
न यतिर्न तपस्वी च न यज्वा न च धर्मभाक् । क्रोधस्य यो वशं गच्छेत्तस्य लोकद्वयं न च ॥KUMB: १-७३-९॥
पुत्रो भृत्यः सुहृद्भ्राता भार्या धर्मश्च सत्यता । तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम् ॥KUMB: १-७३-१०॥
स्ववृत्तिमननुष्ठाय धर्ममुत्सृज्य तत्त्वतः । शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषता ॥KUMB: १-७३-१३॥
प्रेष्यः शिष्यः स्ववृत्तिं हि विसृज्य विफलं गतः । तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते ॥KUMB: १-७३-१४॥
सुयन्त्रितपरा नित्यं विहीनाश्च धनैर्वराः । दुर्वृत्ताः पापकर्माणश्चण्डाला धनिनोपि च ॥KUMB: १-७३-१७॥
नैव जात्या हि चण्डालाः स्वकर्मविहितैर्विना । धनाभिजनविद्यासु सक्ताश्चण्डालधर्मिणः ॥KUMB: १-७३-१८॥
अकारणाश्च द्वेष्यन्ति परिवादं वदन्ति ते । साधोस्तत्र न वासोस्ति पापिभिः पापतां व्रजेत् ॥KUMB: १-७३-१९॥
सुकृते दुष्कृते वापि यत्र सज्जति यो नरः । ध्रुवं रतिर्भवेत्तस्य तस्माद्द्वेषं न रोचयेत् ॥KUMB: १-७३-२०॥
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः । मम मथ्नाति हृदयमग्निकाम इवारणिम् ॥KUMB: १-७३-२१; NILA: ०१.०७९.०१२॥
मरणं शोभनं तस्य इति विद्वज्जना विदुः । अवमानमवाप्नोति शनैर्नीचसमागमात् ॥KUMB: १-७३-२३; NILA: ०१.०७९.०१३॥
अतिवादा वक्त्रतो निःसरन्ति यैराहतः शोचति रात्र्यहानि । परस्य वै मर्मसु ते पतन्ति तस्माद्धीरो नैव मुच्येत्परेषु ॥KUMB: १-७३-२४॥
निरोहेदायुधैश्छिन्नं संरोहेद्दग्धमाग्निना । वाक्क्षतं च न संरोहेदाशरीरं शरीरिणाम् ॥KUMB: १-७३-२५॥
संरोहित शरैर्विद्धं नवं परशुना हतम् । वाचा दुरुक्तं बीभत्सं न संरोहेत वाक्क्षतम् ॥KUMB: १-७३-२६॥
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह। वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥BORI: ०१-७५-१॥
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव। पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति । फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे ॥BORI: ०१-७५-२॥
यदघातयथा विप्रं कचमाङ्गिरसं तदा। अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥BORI: ०१-७५-३॥
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम। वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् । स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥BORI: ०१-७५-४॥
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम्। यथेममात्मनो दोषं न नियच्छस्युपेक्षसे ॥BORI: ०१-७५-५॥
नाधर्मं न मृषावादं त्वयि जानामि भार्गव। त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥BORI: ०१-७५-६॥
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव। समुद्रं सम्प्रवेक्ष्यामो नान्यदस्ति परायणम् ॥BORI: ०१-७५-७॥
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः। दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥BORI: ०१-७५-८॥
प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम्। योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥BORI: ०१-७५-९॥
यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव। भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः ॥BORI: ०१-७५-१०॥
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर। तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् ॥BORI: ०१-७५-११॥
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव। नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥BORI: ०१-७५-१२॥
यं काममभिकामासि देवयानि शुचिस्मिते। तत्तेऽहं सम्प्रदास्यामि यदि चेदपि दुर्लभम् ॥BORI: ०१-७५-१३॥
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये। अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता ॥BORI: ०१-७५-१४॥
उत्तिष्ठ हे सङ्ग्रहीत्रि शर्मिष्ठां शीघ्रमानय। यं च कामयते कामं देवयानी करोतु तम् ॥BORI: ०१-७५-१५॥
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत्। उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥BORI: ०१-७५-१६॥
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः। सा यं कामयते कामं स कार्योऽद्य त्वयानघे ॥BORI: ०१-७५-१७॥
सा यं कामयते कामं करवाण्यहमद्य तम्। मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते ॥BORI: ०१-७५-१८॥
ततः कन्यासहस्रेण वृता शिबिकया तदा। पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥BORI: ०१-७५-१९॥
अहं कन्यासहस्रेण दासी ते परिचारिका। अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥BORI: ०१-७५-२०॥
स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः। स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥BORI: ०१-७५-२१॥
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत्। अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ॥BORI: ०१-७५-२२॥
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः। देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥BORI: ०१-७५-२३॥
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम। अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥BORI: ०१-७५-२४॥
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः। प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥BORI: ०१-७५-२५॥
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव । शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति ॥KUMB: १-७४-२; NILA: ०१.०८०.००२॥
अधीयानं हितं राजन्क्षमावन्तं जितेन्द्रियम्। यदघातयथा विप्रं कचमाङ्गिरसं तदा । अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥KUMB: १-७४-४॥
शर्मिष्ठया देवयानी क्रूरमुक्ता बहु प्रभो । विप्रकृत्य च संरम्भात्कूपे क्षिप्ता मनस्विनी ॥KUMB: १-७४-५॥
सा न कल्पेत वासाय तयाहं रहितः कथम् । वसेयमिह तस्मात्ते त्यजामि विषयं नृप ॥KUMB: १-७४-६॥
मा शोच वृषपर्वंस्त्वं मा क्रुध्यस्व विशांपते । स्थातुं ते विषये राजन्न शक्ष्यामि तया विना । अस्या गतिर्गतिर्मह्यं प्रियमस्याः प्रियं मम ॥KUMB: १-७४-८॥
यदि ब्रह्मन्घातयामि यदि वा क्रोशयाम्यहम् । शर्मिष्ठया देवयानीं तेन गच्छाम्यसद्गतिम् ॥KUMB: १-७४-९॥
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव । समुद्रं संप्रवेक्ष्यामि पूर्वं मद्बान्धवैः सह ॥KUMB: १-७४-१२॥
पातालमथवा चाग्निं नान्यदस्ति परायणम् । यद्येव देवान्गच्छेस्त्वं मां च त्यक्त्वा ग्रहाधिप । सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम् ॥KUMB: १-७४-१३॥
एवमुक्तस्तथेत्याह वृषपर्वा महाकविम् । देवयान्यन्तिकं गत्वा तमर्थं प्राह भार्गवः ॥KUMB: १-७४-१८; NILA: ०१.०८०.०१३॥
शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः । देवयानि प्रसीदेति पपात भुवि पादयोः ॥KUMB: १-७४-२०॥
स्तुत्यो वन्द्यश्च सततं मया तातश्च ते शुभे। यं काममभिकामाऽसि देवयानि शुचिस्मिते । तत्तेऽहं संप्रदास्यामि यदि वापि हि दुर्लभम् ॥KUMB: १-७४-२१॥
त्यजेदेकं कुलस्यार्थे ग्रामार्थे च कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥KUMB: १-७४-२४॥
यं सा कामयते कां करवाण्यहमद्य तम् । यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम् । मद्दोषान्मागमच्छुक्रो देवयानी च मत्कृते ॥KUMB: १-७४-२७; NILA: ०१.०८०.०२०॥
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम। वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥BORI: ०१-७६-१॥
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा। तमेव देशं सम्प्राप्ता यथाकामं चचार सा । ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ॥BORI: ०१-७६-२॥
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम्। खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ॥BORI: ०१-७६-३॥
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया। तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः ॥BORI: ०१-७६-४॥
ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः। पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ॥BORI: ०१-७६-५॥
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम्। रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् । शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ॥BORI: ०१-७६-६॥
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते। गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् ॥BORI: ०१-७६-७॥
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप। शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥BORI: ०१-७६-८॥
इयं च मे सखी दासी यत्राहं तत्र गामिनी। दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥BORI: ०१-७६-९॥
कथं नु ते सखी दासी कन्येयं वरवर्णिनी। असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे ॥BORI: ०१-७६-१०॥
सर्व एव नरव्याघ्र विधानमनुवर्तते। विधानविहितं मत्वा मा विचित्राः कथाः कृथाः ॥BORI: ०१-७६-११॥
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च। किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥BORI: ०१-७६-१२॥
ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः। राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥BORI: ०१-७६-१३॥
केनास्यर्थेन नृपते इमं देशमुपागतः। जिघृक्षुर्वारिजं किञ्चिदथ वा मृगलिप्सया ॥BORI: ०१-७६-१४॥
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः। बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि ॥BORI: ०१-७६-१५॥
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह। त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव ॥BORI: ०१-७६-१६॥
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि। अविवाह्या हि राजानो देवयानि पितुस्तव ॥BORI: ०१-७६-१७॥
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम्। ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥BORI: ०१-७६-१८॥
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने। पृथग्धर्माः पृथक्षौचास्तेषां तु ब्राह्मणो वरः ॥BORI: ०१-७६-१९॥
पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा। तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ॥BORI: ०१-७६-२०॥
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत्। गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥BORI: ०१-७६-२१॥
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्। दुराधर्षतरो विप्रः पुरुषेण विजानता ॥BORI: ०१-७६-२२॥
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्। दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥BORI: ०१-७६-२३॥
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते। हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥BORI: ०१-७६-२४॥
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम। अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥BORI: ०१-७६-२५॥
दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया। अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥BORI: ०१-७६-२६॥
त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः। श्रुत्वैव च स राजानं दर्शयामास भार्गवः ॥BORI: ०१-७६-२७॥
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः। ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ॥BORI: ०१-७६-२८॥
राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत्। नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे ॥BORI: ०१-७६-२९॥
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया। गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥BORI: ०१-७६-३०॥
अधर्मो न स्पृशेदेवं महान्मामिह भार्गव। वर्णसङ्करजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥BORI: ०१-७६-३१॥
अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम्। अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते ॥BORI: ०१-७६-३२॥
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम्। अनया सह सम्प्रीतिमतुलां समवाप्स्यसि ॥BORI: ०१-७६-३३॥
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी। सम्पूज्या सततं राजन्मा चैनां शयने ह्वयेः ॥BORI: ०१-७६-३४॥
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्। जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना ॥BORI: ०१-७६-३५॥
पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः । आसनप्रवरे दिव्ये सर्वरत्नविभूषिते । उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् ॥KUMB: १-७५-६; NILA: ०१.०८१.००६॥
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनम् । आसनाच्च ततः किंचिद्विहीनां हेमभीषिताम् ॥KUMB: १-७५-७॥
असुरेन्द्रसुतां चापि निषण्णां चारुहासिनीम् । ददर्श पादौ विप्रायाः संवहन्तीमनिन्दिताम् ॥KUMB: १-७५-८॥
गायन्त्योऽथ प्रनृत्यन्त्यो वादयन्त्योऽथ भारत । दृष्ट्वा ययातिमतुलं लज्जयाऽवनताः स्थिताः ॥KUMB: १-७५-९॥
नैव देवी न गन्धर्वी न यक्षी न च किन्नरी । नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥KUMB: १-७५-१४॥
श्रीरिवायतपद्माक्षी सर्वलक्षणशोभना । असुरेन्द्रसुता कन्या सर्वालङ्कारभूषिता ॥KUMB: १-७५-१५॥
दैवेनोपहता सुभ्रूरुताहो तपसापि वा । अन्यथैषाऽनवद्याङ्गी दासी नेह भविष्यति ॥KUMB: १-७५-१६॥
अस्या रूपेण ते रूपं न किंचित्सदृशं भवेत् । पुरा दुश्चरितेनेयं तव दासी भवत्यहो ॥KUMB: १-७५-१७॥
असुरेन्द्रसुतामीक्ष्य तस्यां सक्तेन चेतसा । शर्मिष्ठा महिषी मह्यमिति मत्वा वचोऽब्रवीत् ॥KUMB: १-७५-२४॥
परभार्या स्वसा श्रेष्ठा सगोत्रा पतिता स्नुषा । अवरा भिक्षुकाऽस्वस्था अगम्याः कीर्तिता बुधैः ॥KUMB: १-७५-२६॥
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म संहितम् । अन्यत्वमस्ति न तयोरेकान्ततरमास्थिते। ऋषिश्चाप्यृषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥KUMB: १-७५-२७॥
तिष्ठ राजन्मुहूर्तं च प्रेषयिष्याम्यहं पितुः । गच्छ त्वं धात्रिके शीघ्रं ब्रह्मकल्पमिहानय । स्वयंवरे वृतं शीघ्रं निवेदय च नाहुषम् ॥KUMB: १-७५-३६॥
त्वरितं देवयान्याथ संदिष्टं पितुरात्मनः । सर्वं निवेदयामास धात्री तस्मै यथातथम् ॥KUMB: १-७५-३७; NILA: ०१.०८१.०२८॥
राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत् । नान्यपूर्वगृहीतं मे तेनाहमभया कृता । नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे ॥KUMB: १-७५-३९॥
अन्यो धर्मः प्रियस्त्वन्यो वृतस्ते नाहुषः पतिः । कचशापात्त्वया पूर्वं नान्यद्भवितुमर्हति ॥KUMB: १-७५-४०॥
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया । स्वयं ग्रहे महान्दोषो ब्राह्मण्या वर्णसंकरात् । गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥KUMB: १-७५-४१॥
रहस्येनां समाहूय न वदेर्न च संस्पृशेः । वहस्व भार्यां भद्रं ते यथा काममवाप्स्यसि ॥KUMB: १-७५-४६॥
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् । शास्त्रोक्तविधिना राजा विवाहमकरोच्छुभम् ॥KUMB: १-७५-४७; NILA: ०१.०८१.०३६॥
लब्ध्वा शुक्रान्महद्वित्तं देवयानीं तदोत्तमाम् । द्विसहस्रेण कन्यानां तथा शर्मिष्ठया सह ॥KUMB: १-७५-४८; NILA: ०१.०८१.०३७॥
संपूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः । जगाम स्वपुरं हृष्टोऽनुज्ञातोऽथ महात्मना ॥KUMB: १-७५-४९; NILA: ०१.०८१.०३८॥
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम्। प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥BORI: ०१-७७-१॥
देवयान्याश्चानुमते तां सुतां वृषपर्वणः। अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥BORI: ०१-७७-२॥
वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम्। वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् ॥BORI: ०१-७७-३॥
देवयान्या तु सहितः स नृपो नहुषात्मजः। विजहार बहूनब्दान्देववन्मुदितो भृशम् ॥BORI: ०१-७७-४॥
ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना। लेभे गर्भं प्रथमतः कुमारं च व्यजायत ॥BORI: ०१-७७-५॥
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी। ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ॥BORI: ०१-७७-६॥
ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति पतिर्वृतः। किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् ॥BORI: ०१-७७-७॥
देवयानी प्रजातासौ वृथाहं प्राप्तयौवना। यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ॥BORI: ०१-७७-८॥
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः। अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः ॥BORI: ०१-७७-९॥
अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया। अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः ॥BORI: ०१-७७-१०॥
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी। प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥BORI: ०१-७७-११॥
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा। तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति ॥BORI: ०१-७७-१२॥
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा। सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ॥BORI: ०१-७७-१३॥
वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम्। रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥BORI: ०१-७७-१४॥
अब्रवीदुशना काव्यो देवयानीं यदावहम्। नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥BORI: ०१-७७-१५॥
न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले। प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि ॥BORI: ०१-७७-१६॥
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र। एकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति ॥BORI: ०१-७७-१७॥
राजा प्रमाणं भूतानां स नश्येत मृषा वदन्। अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥BORI: ०१-७७-१८॥
समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः। समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः ॥BORI: ०१-७७-१९॥
दातव्यं याचमानेभ्य इति मे व्रतमाहितम्। त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥BORI: ०१-७७-२०॥
अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय। त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥BORI: ०१-७७-२१॥
त्रय एवाधना राजन्भार्या दासस्तथा सुतः। यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥BORI: ०१-७७-२२॥
देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी। सा चाहं च त्वया राजन्भरणीये भजस्व माम् ॥BORI: ०१-७७-२३॥
एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान्। पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ॥BORI: ०१-७७-२४॥
समागम्य च शर्मिष्ठां यथाकाममवाप्य च। अन्योन्यमभिसम्पूज्य जग्मतुस्तौ यथागतम् ॥BORI: ०१-७७-२५॥
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी। लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥BORI: ०१-७७-२६॥
प्रजज्ञे च ततः काले राजन्राजीवलोचना। कुमारं देवगर्भाभं राजीवनिभलोचनम् ॥BORI: ०१-७७-२७॥
अशोकवनिकामध्ये देवयानी समागता । शर्मिष्ठया सा क्रीडित्वा रमणीये मनोरमे ॥KUMB: १-७६-५॥
तत्रैव तां तु निर्दिश्य राज्ञा सह ययौ गृहम् । एवमेव सह प्रीत्या बहु कालं मुमोद च ॥KUMB: १-७६-६॥
शुद्धा स्नाता तु शर्मिष्ठा सर्वालङ्कारशोभिता । अशोकशाखामालम्ब्य सुपुष्पस्तबकैर्वृताम् ॥KUMB: १-७६-१०॥
आदर्शे मुखमुद्वीक्ष्य भर्तुर्दर्शनलालसा । शोकमोहसमाविष्टा वचनं चेदमब्रवीत् ॥KUMB: १-७६-११॥
अशोक शोकापनुद शोकोपहतचेतसाम् । त्वन्नामानं कुरुष्वाद्य प्रियसंदर्शनेन माम् । एवमुक्तवती सा तु शर्मिष्ठा पुनरब्रवीत् ॥KUMB: १-७६-१२॥
केशैर्बध्या तु राजानं याचेऽहं सदृशं पतिम् । स्पृहेदिदं देवयानी पुत्रमीक्ष्य पुनःपुनः । क्रीडन्नन्तःपुरे तस्याः क्वचित्क्षणमवाप्य च ॥KUMB: १-७६-१६॥
तदाप्रभृति दृष्ट्वा त्वां स्मराम्यनिशमुत्तमे । अब्रवीदुशना काव्यो देवयानीं यदाऽवहम् । नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥KUMB: १-७६-२२॥
देवयान्याः प्रियं कृत्वा शर्मिष्ठामपि पोषय ॥KUMB: १-७६-२३॥
सह दत्तास्मि काव्येन देवयान्या मनीषिणा । पूज्या पोषयितव्येति न मृषा कर्तुमर्हसि ॥KUMB: १-७६-२९॥
सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च । याचितॄणां ददासि त्वं गोभूम्यादीनि यानि च ॥KUMB: १-७६-३०॥
बहिःस्थं दानमित्युक्तं न शरीराश्रितं नृप । दुष्करं पुत्रदानं च आत्मदानं च दुष्करम् ॥KUMB: १-७६-३१॥
शरीरदानात्तत्सर्वं दत्तं भवति मारिष । यस्य यस्य यथा कामस्तस्य तस्य ददाम्यहम् ॥KUMB: १-७६-३२॥
इत्युक्त्वा नगरे राजंस्त्रिकालं घोषितं त्वया । त्वयोक्तमनृतं राजन्वृथा घोषितमेव वा । तत्सत्यं कुरु राजेन्द्र यथा वैश्रवणस्तथा ॥KUMB: १-७६-३३॥
धनं वा यदि वा किंचिद्राज्यं वाऽपि शुचिस्मिते ॥KUMB: १-७६-३५॥
नान्यं वृणे पुत्रकामा पुत्रात्परतरं न च। त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥KUMB: १-७६-३६॥
पुत्रार्थं भर्तृपोषार्थं स्त्रियः सृष्टाः स्वयंभुवा । अपतिर्वापि या कन्या अनपत्या च या भवेत् । तासां जन्म वृथा लोके गतिस्तासां न विद्यते ॥KUMB: १-७६-३८॥
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता। चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ॥BORI: ०१-७८-१॥
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम्। किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ॥BORI: ०१-७८-२॥
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः। स मया वरदः कामं याचितो धर्मसंहितम् ॥BORI: ०१-७८-३॥
नाहमन्यायतः काममाचरामि शुचिस्मिते। तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥BORI: ०१-७८-४॥
शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः। गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ॥BORI: ०१-७८-५॥
ओजसा तेजसा चैव दीप्यमानं रविं यथा। तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥BORI: ०१-७८-६॥
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम। अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥BORI: ०१-७८-७॥
अन्योन्यमेवमुक्त्वा च सम्प्रहस्य च ते मिथः। जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी ॥BORI: ०१-७८-८॥
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः। यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥BORI: ०१-७८-९॥
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी। द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥BORI: ०१-७८-१०॥
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता। ययातिसहिता राजन्निर्जगाम महावनम् ॥BORI: ०१-७८-११॥
ददर्श च तदा तत्र कुमारान्देवरूपिणः। क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ॥BORI: ०१-७८-१२॥
कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः। वर्चसा रूपतश्चैव सदृशा मे मतास्तव ॥BORI: ०१-७८-१३॥
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत। किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता । विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ॥BORI: ०१-७८-१४॥
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम्। शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः ॥BORI: ०१-७८-१५॥
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः। नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके । रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः ॥BORI: ०१-७८-१६॥
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति। बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ॥BORI: ०१-७८-१७॥
मदधीना सती कस्मादकार्षीर्विप्रियं मम। तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् ॥BORI: ०१-७८-१८॥
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि। न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥BORI: ०१-७८-१९॥
यदा त्वया वृतो राजा वृत एव तदा मया। सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥BORI: ०१-७८-२०॥
पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी। त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ॥BORI: ०१-७८-२१॥
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम्। राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ॥BORI: ०१-७८-२२॥
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्। त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥BORI: ०१-७८-२३॥
अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन्नृपः। न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना ॥BORI: ०१-७८-२४॥
अविब्रुवन्ती किञ्चित्तु राजानं चारुलोचना। अचिरादिव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् ॥BORI: ०१-७८-२५॥
सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता। अनन्तरं ययातिस्तु पूजयामास भार्गवम् ॥BORI: ०१-७८-२६॥
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्। शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः ॥BORI: ०१-७८-२७॥
त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना। दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥BORI: ०१-७८-२८॥
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह। अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥BORI: ०१-७८-२९॥
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम्। तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ॥BORI: ०१-७८-३०॥
ऋतुं वै याचमानाया भगवन्नान्यचेतसा। दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ॥BORI: ०१-७८-३१॥
ऋतुं वै याचमानाया न ददाति पुमान्वृतः। भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः ॥BORI: ०१-७८-३२॥
अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः। नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ॥BORI: ०१-७८-३३॥
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह। अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ॥BORI: ०१-७८-३४॥
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव। मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥BORI: ०१-७८-३५॥
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा। पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥BORI: ०१-७८-३६॥
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह। प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् ॥BORI: ०१-७८-३७॥
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप। जरां त्वेतां त्वमन्यस्मै सङ्क्रामय यदीच्छसि ॥BORI: ०१-७८-३८॥
राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा। यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ॥BORI: ०१-७८-३९॥
सङ्क्रामयिष्यसि जरां यथेष्टं नहुषात्मज। मामनुध्याय भावेन न च पापमवाप्स्यसि ॥BORI: ०१-७८-४०॥
वयो दास्यति ते पुत्रो यः स राजा भविष्यति। आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥BORI: ०१-७८-४१॥
अपत्यार्थे स तु मया वृतो वै चारुहासिनि । नाहमन्यायतः काममाचरामि शुचिस्मिते । तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥KUMB: १-७७-७॥
तस्मिन्काले तु राजर्षिर्ययातिः पृथिवीपतिः । माध्वीकरससंयुक्तां मदिरां मदवर्धनीम् ॥KUMB: १-७७-१३॥
पाययामास शुक्रस्य तनयां रक्तपिङ्गलाम् । पीत्वा पीत्वा च मदिरां देवयानी मुमोह सा ॥KUMB: १-७७-१४॥
रुदती गायमाना च नृत्यन्ती च मुहुर्मुहुः । बहु प्रलपती देवी राजानमिदमब्रवीत् ॥KUMB: १-७७-१५॥
राजवद्रूपवेषौ ते किमर्थं त्वमिहागतः । केन कार्येण संप्राप्तो निर्जनं गहनं वनम् ॥KUMB: १-७७-१६॥
द्विजश्रेष्ठ नृपश्रेष्ठो ययातिश्चोग्रदर्शनः । तस्मादितः पलायस्व हितमिच्छसि चेद्द्विज ॥KUMB: १-७७-१७॥
इत्येवं प्रलपन्तीं तां देवयानीं तु नाहुषः । भर्त्सयामास वचनैरनर्हां पापवर्धनीम् ॥KUMB: १-७७-१८॥
ततो वर्षवरान्मूकान्व्यङ्गान्वृद्धांश्च पङ्गुकान् । रक्षणे देवयान्याः स पोषणे च शशास तान् ॥KUMB: १-७७-१९॥
ततस्तु नाहुषो राजा शर्मिष्ठां प्राप्य बुद्धिमान् । रेमे च सुचिरं कालं तया शर्मिष्ठया सह ॥KUMB: १-७७-२०॥
तस्मिन्काले तु तच्छ्रुत्वा धात्री तेषां वचोऽब्रवीत् । किं न ब्रूत कुमारा वः पितरं वै द्विजर्षभम् ॥KUMB: १-७७-२६॥
ऋषिश्च ब्राह्मणश्चैव द्विजातिश्चैव नः पिता । शर्मिष्ठा नानृतं ब्रूते देवयानि क्षमस्व नः ॥KUMB: १-७७-२७॥
किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता । प्रब्रूत तत्त्वतः क्षिप्रं कश्चासौ क्व च वर्तते ॥KUMB: १-७७-२८॥
प्रब्रूत मे यथा तथ्यं श्रोतुमिच्छामि तं ह्यहम् । एवमुक्ताः कुमारस्ते देवयान्या सुमध्यया ॥KUMB: १-७७-२९॥
नातिदूराच्च राजानं सा चातिष्ठदवाङ्मुखी । श्रुत्वा तेषां तु बालानां सव्रीड इव पार्थिवः ॥KUMB: १-७७-३३; NILA: ०१.०८३.०१७॥
प्रतिवक्तुमशक्तोऽभूत्तूष्णींभूतोऽभवन्नृपः । दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति ॥KUMB: १-७७-३४॥
बुद्ध्वा तु तत्त्वतो देवी शर्मिष्ठापिदमब्रवीत् । अभ्यागच्छति मां कश्चिदृषिरित्येवमब्रवीः ॥KUMB: १-७७-३५॥
ययातिमेवं राजानं त्वं गोपायसि भामिनि । पूर्वमेव मया प्रोक्तं त्वया तु वृजिनं कृतम् ॥KUMB: १-७७-३६॥
त्वत्पित्रा मम गुरुणा सह दत्ते उभे शुभे । ततो भर्ता च पूज्यश्च पोष्यां पोषयतीह माम् ॥KUMB: १-७७-४१॥
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् । रमस्वेह यथाकामं देव्या शर्मिष्ठया सह ॥KUMB: १-७७-४२॥
राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया । इति जज्वाल कोपेन देवयानी ततो भृशम् ॥KUMB: १-७७-४३॥
निर्दहन्तीव सव्रीडां शर्मिष्ठां समुदीक्ष्य च । अपविध्य च सर्वाणि भूषणान्यसितेक्षणा ॥KUMB: १-७७-४४॥
यद्यद्वृणोति मां कश्चित्तत्तद्देयमिति व्रतम् । त्वया च सापि दत्ता मे नान्यं नाथमिहेच्छति ॥KUMB: १-७७-५६॥
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह । अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् । मत्वैतन्मे धर्म इति कृतं ब्रह्मन्क्षमस्व माम् ॥KUMB: १-७७-५७॥
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह। पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥BORI: ०१-७९-१॥
जरा वली च मां तात पलितानि च पर्यगुः। काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥BORI: ०१-७९-२॥
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह। यौवनेन त्वदीयेन चरेयं विषयानहम् ॥BORI: ०१-७९-३॥
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम्। दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ॥BORI: ०१-७९-४॥
सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः। वलीसन्ततगात्रश्च दुर्दर्शो दुर्बलः कृशः ॥BORI: ०१-७९-५॥
अशक्तः कार्यकरणे परिभूतः स यौवनैः। सहोपजीविभिश्चैव तां जरां नाभिकामये ॥BORI: ०१-७९-६॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति ॥BORI: ०१-७९-७॥
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह। यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥BORI: ०१-७९-८॥
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्। स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥BORI: ०१-७९-९॥
न कामये जरां तात कामभोगप्रणाशिनीम्। बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् ॥BORI: ०१-७९-१०॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥BORI: ०१-७९-११॥
सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च। पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ॥BORI: ०१-७९-१२॥
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च। पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि ॥BORI: ०१-७९-१३॥
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः। शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ॥BORI: ०१-७९-१४॥
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्। जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ॥BORI: ०१-७९-१५॥
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम्। स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ॥BORI: ०१-७९-१६॥
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम्। वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये ॥BORI: ०१-७९-१७॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। तस्माद्द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ॥BORI: ०१-७९-१८॥
उडुपप्लवसन्तारो यत्र नित्यं भविष्यति। अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः ॥BORI: ०१-७९-१९॥
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह। एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥BORI: ०१-७९-२०॥
जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा। न जुहोति च कालेऽग्निं तां जरां नाभिकामये ॥BORI: ०१-७९-२१॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ॥BORI: ०१-७९-२२॥
प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव। अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ॥BORI: ०१-७९-२३॥
पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि। जरा वली च मे तात पलितानि च पर्यगुः । काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥BORI: ०१-७९-२४॥
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह। कञ्चित्कालं चरेयं वै विषयान्वयसा तव ॥BORI: ०१-७९-२५॥
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम्। स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥BORI: ०१-७९-२६॥
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा। यथात्थ मां महाराज तत्करिष्यामि ते वचः ॥BORI: ०१-७९-२७॥
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह। गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ॥BORI: ०१-७९-२८॥
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव। यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ॥BORI: ०१-७९-२९॥
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते। सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥BORI: ०१-७९-३०॥
जरायां बहवो दोषाः पानभोजनकारिताः । तस्माज्जरां न ते राजन्ग्रहीष्य इति मे मतिः ॥KUMB: १-७८-५; NILA: ०१.०८४.००५॥
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप । जरां ग्रहीतुं धर्मज्ञ तस्मादन्यं वृणीष्व वै ॥KUMB: १-७८-८; NILA: ०१.०८४.००८॥
प्रत्याख्यातस्तु राजा स तुर्वसुं प्रत्युवाच ह। तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह । यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥KUMB: १-७८-१०॥
यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च । हस्तिनां पीठकानां च गर्दभानां तथैव च ॥KUMB: १-७८-२१; NILA: ०१.०८४.०२१॥
बस्तानां च गवां चैव शिबिकायास्तथैव च। उडुपप्लवसन्तारो यत्र नित्यं भविष्यति। अराजा भोजशब्दं त्वं तत्र प्राप्स्यसि सान्वयः ॥KUMB: १-७८-२२; NILA: ०१.०८४.०२२॥
प्रत्याख्यातश्चतुर्भिश्च शप्त्वा तान्यदुपूर्वकान् । पूरोः सकाशमगमन्मत्त्वा पूरुमलङ्घनम् ॥KUMB: १-७८-२७॥
गुरोर्वै वचनं पुण्यं स्वर्ग्यमायुष्करं नृणाम् । गुरुप्रसादात्त्रैलोक्यमन्वशासच्छतक्रतुः ॥KUMB: १-७८-३२॥
गुरोरनुमतं प्राप्य सर्वान्कामानमाप्नुयात् । यावदिच्छसि तावच्च धारयिष्यामि ते जराम् ॥KUMB: १-७८-३३॥
एवमुक्त्वा ययातिस्तु स्मृत्वा काव्यं महातपाः । संक्रामयामास जरां तदा पूरौ महात्मनि ॥KUMB: १-७८-३७; NILA: ०१.०८४.०३४॥
पौरवेणाथ वयसा ययातिर्नहुषात्मजः। प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् ॥BORI: ०१-८०-१॥
यथाकामं यथोत्साहं यथाकालं यथासुखम्। धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ॥BORI: ०१-८०-२॥
देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितृनपि। दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥BORI: ०१-८०-३॥
अतिथीनन्नपानैश्च विशश्च परिपालनैः। आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ॥BORI: ०१-८०-४॥
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन्। ययातिः पालयामास साक्षादिन्द्र इवापरः ॥BORI: ०१-८०-५॥
स राजा सिंहविक्रान्तो युवा विषयगोचरः। अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥BORI: ०१-८०-६॥
स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः। कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥BORI: ०१-८०-७॥
परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान्। पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥BORI: ०१-८०-८॥
यथाकामं यथोत्साहं यथाकालमरिंदम। सेविता विषयाः पुत्र यौवनेन मया तव ॥BORI: ०१-८०-९॥
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम्। राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥BORI: ०१-८०-१०॥
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा। यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ॥BORI: ०१-८०-११॥
अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम्। ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥BORI: ०१-८०-१२॥
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो। ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥BORI: ०१-८०-१३॥
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः। शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ॥BORI: ०१-८०-१४॥
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति। एतत्सम्बोधयामस्त्वां धर्मं त्वमनुपालय ॥BORI: ०१-८०-१५॥
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः। ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ॥BORI: ०१-८०-१६॥
मम ज्येष्ठेन यदुना नियोगो नानुपालितः। प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥BORI: ०१-८०-१७॥
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः। स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥BORI: ०१-८०-१८॥
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च। द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ॥BORI: ०१-८०-१९॥
पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः। कनीयान्मम दायादो जरा येन धृता मम । मम कामः स च कृतः पूरुणा पुत्ररूपिणा ॥BORI: ०१-८०-२०॥
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम्। पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः । भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ॥BORI: ०१-८०-२१॥
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा। सर्वमर्हति कल्याणं कनीयानपि स प्रभो ॥BORI: ०१-८०-२२॥
अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव। वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥BORI: ०१-८०-२३॥
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा। अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् ॥BORI: ०१-८०-२४॥
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः। पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥BORI: ०१-८०-२५॥
यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः। द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः ॥BORI: ०१-८०-२६॥
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव। इदं वर्षसहस्राय राज्यं कारयितुं वशी ॥BORI: ०१-८०-२७॥
पौरवेणाथ वयसा ययातिर्नहुषात्मजः । रूपयौवनसंपन्नः कुमारः समपद्यत। प्रीतियुक्तो नृपश्रेष्ठश्चरा विषयान्प्रियान् ॥KUMB: १-७९-१॥
परिसंख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् । यौवनं प्राप्य राजर्षिः सहस्रपरिवत्सरान् ॥KUMB: १-७९-८; NILA: ०१.०८५.००८॥
विश्वाच्या सहितो रेमे व्यभ्राजन्नन्दने वने । अलकायां स कालं तु मेरुशृङ्गे तथोत्तरे ॥KUMB: १-७९-९; NILA: ०१.०८५.००९॥
यदा स पश्यते कालं धर्मात्मा तं महीपतिः । पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥KUMB: १-७९-१०; NILA: ०१.०८५.०१०॥
न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥KUMB: १-७९-१२; NILA: ०१.०८५.०१२॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । एकस्यापि न पर्याप्तं तस्मान्नृष्णां परित्यजेत् ॥KUMB: १-७९-१३; NILA: ०१.०८५.०१३॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । योऽसौ प्राणान्तिको रोगस्तांतृष्णां त्यजतः सुखम् ॥KUMB: १-७९-१४; NILA: ०१.०८५.०१४॥
पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः । तथाप्यनुदिनं तृष्णा ममैतेष्वभिजायते ॥KUMB: १-७९-१५; NILA: ०१.०८५.०१५॥
तस्मादेनामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् । निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह ॥KUMB: १-७९-१६; NILA: ०१.०८५.०१६॥
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् । राज्यं चेदं गृहाण त्वं यावदिच्छसि यौवनम् । तावद्दीर्घायुषा भुङ्ख त्वं हि मे प्रियकृत्सुतः ॥KUMB: १-७९-१७॥
पुदिति नरकस्याख्या दुःखं च नरकं विदुः । पुतस्त्राणात्ततः पुत्त्रमिहेच्छन्ति परत्र च ॥KUMB: १-७९-२६॥
आत्मनः सदृशः पुत्रः पितृदेवर्षिपूजने । यो बहूनां गुणकरः स पुत्रो ज्येष्ठ उच्यते ॥KUMB: १-७९-२७॥
मूकोऽन्धो बधिरः श्वित्री स्वधर्मं नानुतिष्ठति । चोरः किल्बिषिकः पुत्रो ज्येष्ठो न ज्येष्ठ उच्यते ॥KUMB: १-७९-२८॥
ज्येष्ठांशहारी गुणकृदिह लोके परत्र च । श्रेयान्पुत्रो गुणोपेतः स पुत्रो नेतरो वृथा । वदन्ति धर्मं धर्मज्ञाः पितॄणां पुत्रकारणात् ॥KUMB: १-७९-२९॥
वेदोक्तं संभवं मह्यमनेन हृदयोद्भवम् । तस्य जातमिदं कृत्स्नमात्मा पुत्र इति श्रुतिः ॥KUMB: १-७९-३०॥
पुत्रो यस्त्वाऽनुवर्तेत स राजा पृथिवीपतिः । यो वानुवर्ती पुत्राणां स पुत्रो दायभाग्भवेत् ॥KUMB: १-७९-३४॥
यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा । सर्वमर्हति कल्याणं कनीयानपि सत्तमः । वेद धमार्थशास्त्रेषु मुनिभिः कथितं पुरा ॥KUMB: १-७९-३६क्ष्; KUMB: १-७९-३६॥
यदुं च तुर्वसुं चोभौ द्रुह्युं चैव सहानुजम् । अन्तेषु स विनिक्षिप्य नाहुषः स्वात्मजान्सुतान् ॥KUMB: १-७९-३९॥
देवयान्या च सहितः शर्मिष्ठया च भारत । अकरोत्स वने राजा सभार्यस्तप उत्तमम् ॥KUMB: १-७९-४१॥
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम्। राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥BORI: ०१-८१-१॥
उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः। फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ॥BORI: ०१-८१-२॥
स गतः सुरवासं तं निवसन्मुदितः सुखम्। कालस्य नातिमहतः पुनः शक्रेण पातितः ॥BORI: ०१-८१-३॥
निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम्। स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ॥BORI: ०१-८१-४॥
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः। राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् । प्रतर्दनेन शिबिना समेत्य किल संसदि ॥BORI: ०१-८१-५॥
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः। सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः । कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥BORI: ०१-८१-६॥
देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः। वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥BORI: ०१-८१-७॥
तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः। चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ॥BORI: ०१-८१-८॥
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम्। दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥BORI: ०१-८१-९॥
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम्। राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ॥BORI: ०१-८१-१०॥
अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान्। फलमूलाशनो राजा वने संन्यवसच्चिरम् ॥BORI: ०१-८१-११॥
संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः। अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ॥BORI: ०१-८१-१२॥
अतिथीन्पूजयामास वन्येन हविषा विभुः। शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ॥BORI: ०१-८१-१३॥
पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः। अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः ॥BORI: ०१-८१-१४॥
ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः। पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः ॥BORI: ०१-८१-१५॥
एकपादस्थितश्चासीत्षण्मासाननिलाशनः। पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ॥BORI: ०१-८१-१६॥
साधुभिः संगतिं लब्ध्वा पुनः स्वर्गमुपेयिवान् ॥KUMB: १-८०-४॥
जनमेजय उवाच । स्वर्गतश्च पुनर्ब्रह्मन्निवसन्देववेश्मनि । कालेन नातिमहता कथं शक्रेण पातितः ॥KUMB: १-८०-४॥
स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि। पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥BORI: ०१-८२-१॥
देवलोकाद्ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी। अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥BORI: ०१-८२-२॥
स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत्। कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥BORI: ०१-८२-३॥
यदा स पूरुस्तव रूपेण राज; ञ्जरां गृहीत्वा प्रचचार भूमौ। तदा राज्यं सम्प्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम् ॥BORI: ०१-८२-४॥
गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव। मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ॥BORI: ०१-८२-५॥
अक्रोधनः क्रोधनेभ्यो विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः। अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः ॥BORI: ०१-८२-६॥
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥BORI: ०१-८२-७॥
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत। ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥BORI: ०१-८२-८॥
अरुन्तुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान्। विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् ॥BORI: ०१-८२-९॥
सद्भिः पुरस्तादभिपूजितः स्या; त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात्। सदासतामतिवादांस्तितिक्षे; त्सतां वृत्तं चाददीतार्यवृत्तः ॥BORI: ०१-८२-१०॥
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि। परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥BORI: ०१-८२-११॥
न हीदृशं संवननं त्रिषु लोकेषु विद्यते। यथा मैत्री च भूतेषु दानं च मधुरा च वाक् ॥BORI: ०१-८२-१२॥
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित्। पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदाचन ॥BORI: ०१-८२-१३॥
न च कुर्यान्नरो दैन्यं शाठ्यं क्रोधं तथैव च । जैहयं च मत्सरं वैरं सर्वत्रेदं न कारयेत् ॥KUMB: १-८१-६॥
मातरं पितरं ज्येष्ठं विद्वांसं च तपोधनम् । क्षमावन्तं च राजेन्द्र नावमन्येत बुद्धिमान् ॥KUMB: १-८१-७॥
ळशक्तस्तु क्षमते नित्यमशक्तः क्रुध्यते नरः । दुर्जनः सुजनं द्वेष्टि दुर्बलो बलवत्तरम् ॥KUMB: १-८१-८॥
रूपवन्तमरूपी च धनवन्तं च निर्धनः । अकर्मी कर्मिणं द्वेष्टि धार्मिकं च नधार्मिकः ॥KUMB: १-८१-९॥
निर्गुणो गुणवन्तं च पुत्रैतत्कलिलक्षणम् । विपरीतं च राजेन्द्र एतेषु कृतलक्षणम् ॥KUMB: १-८१-१०॥
ब्राह्मणो वाथ वा राजा वैश्यो वा शूद्र एव वा । प्रशस्तेषु प्रसक्ताश्चेत्प्रशस्यन्ते यशस्विनः ॥KUMB: १-८१-११॥
तस्मात्प्रशस्ते राजेन्द्र नरः सक्तमना भवेत् । अलोकज्ञा ह्यप्रशस्ता भ्रातरस्ते ह्यबुद्धयः ॥KUMB: १-८१-१२॥
अन्त्याधिपतयः सर्वे ह्यभवन्गुरुशासनात् ॥KUMB: १-८१-१३॥
इन्द्र उवाच । त्वं हि धर्मविदो राजन्कत्थसे धर्मसुत्तमम् । कथयस्व पुनर्मेऽद्य लोकवृत्तान्तमुत्तमम् ॥KUMB: १-८१-१३॥
सर्वाणि कर्माणि समाप्य राज; न्गृहान्परित्यज्य वनं गतोऽसि। तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते ॥BORI: ०१-८३-१॥
नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु। आत्मनस्तपसा तुल्यं कञ्चित्पश्यामि वासव ॥BORI: ०१-८३-२॥
यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः। तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन् ॥BORI: ०१-८३-३॥
सुरर्षिगन्धर्वनरावमाना; त्क्षयं गता मे यदि शक्र लोकाः। इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज ॥BORI: ०१-८३-४॥
सतां सकाशे पतितासि राजं; श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः। एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च ॥BORI: ०१-८३-५॥
ततः प्रहायामरराजजुष्टा; न्पुण्याँल्लोकान्पतमानं ययातिम्। सम्प्रेक्ष्य राजर्षिवरोऽष्टकस्त; मुवाच सद्धर्मविधानगोप्ता ॥BORI: ०१-८३-६॥
कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः। पतस्युदीर्णाम्बुधरान्धकारा; त्खात्खेचराणां प्रवरो यथार्कः ॥BORI: ०१-८३-७॥
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम्। किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः ॥BORI: ०१-८३-८॥
दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम्। अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः ॥BORI: ०१-८३-९॥
न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः। तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः ॥BORI: ०१-८३-१०॥
भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप। त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः ॥BORI: ०१-८३-११॥
सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प। ते सङ्गताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥BORI: ०१-८३-१२॥
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः। प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ॥BORI: ०१-८३-१३॥
अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात्। प्रभ्रंशितः सुरसिद्धर्षिलोका; त्परिच्युतः प्रपताम्यल्पपुण्यः ॥BORI: ०१-८४-१॥
अहं हि पूर्वो वयसा भवद्भ्य; स्तेनाभिवादं भवतां न प्रयुञ्जे। यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् ॥BORI: ०१-८४-२॥
अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथञ्चित्। यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् ॥BORI: ०१-८४-३॥
प्रतिकूलं कर्मणां पापमाहु; स्तद्वर्ततेऽप्रवणे पापलोक्यम्। सन्तोऽसतां नानुवर्तन्ति चैत; द्यथा आत्मैषामनुकूलवादी ॥BORI: ०१-८४-४॥
अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि। एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् ॥BORI: ०१-८४-५॥
नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः। तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥BORI: ०१-८४-६॥
सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या। तस्माद्दिष्टं बलवन्मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ॥BORI: ०१-८४-७॥
दुःखे न तप्येन्न सुखेन हृष्ये; त्समेन वर्तेत सदैव धीरः। दिष्टं बलीय इति मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ॥BORI: ०१-८४-८॥
भये न मुह्याम्यष्टकाहं कदा चित्; सन्तापो मे मानसो नास्ति कश्चित्। धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा ॥BORI: ०१-८४-९॥
संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः। तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते ॥BORI: ०१-८४-१०॥
अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्सन्तापमष्टकाहं भजेयम्। किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ॥BORI: ०१-८४-११॥
ये ये लोकाः पार्थिवेन्द्र प्रधाना; स्त्वया भुक्ता यं च कालं यथा च। तन्मे राजन्ब्रूहि सर्वं यथाव; त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ॥BORI: ०१-८४-१२॥
राजाहमासमिह सार्वभौम; स्ततो लोकान्महतो अजयं वै। तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥BORI: ०१-८४-१३॥
ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम्। अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥BORI: ०१-८४-१४॥
ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम्। तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥BORI: ०१-८४-१५॥
देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम्। सम्पूज्यमानस्त्रिदशैः समस्तै; स्तुल्यप्रभावद्युतिरीश्वराणाम् ॥BORI: ०१-८४-१६॥
तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम्। सहाप्सरोभिर्विहरन्पुण्यगन्धा; न्पश्यन्नगान्पुष्पितांश्चारुरूपान् ॥BORI: ०१-८४-१७॥
तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम्। दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥BORI: ०१-८४-१८॥
एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः। वाचोऽश्रौषं चान्तरिक्षे सुराणा; मनुक्रोशाच्छोचतां मानवेन्द्र ॥BORI: ०१-८४-१९॥
अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः। तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु ॥BORI: ०१-८४-२०॥
तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि। हविर्गन्धं देशिकं यज्ञभूमे; र्धूमापाङ्गं प्रतिगृह्य प्रतीतः ॥BORI: ०१-८४-२१॥
महाधनो यो यजते सुयज्ञैर्यः सर्वविद्यासु विनीतबुद्धिः । वेदानधीत्य तपसा योज्य देहं दिवं स यायात्पुरुषो वीतमोहः ॥KUMB: १-८३-६; NILA: ०१.०८९.००६॥
न जातु हृष्येन्महता धनेन वेदानधीयीतानहंकृतः स्यात् । नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः । तत्तत्प्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥KUMB: १-८३-७; NILA: ०१.०८९.००७॥
एवं व्रुवाणं नृपतिं ययातिमथाष्टकः पुनरेवान्वपृच्छत् । मातामहं सर्वगुणोपपन्नं तत्रस्थितं स्वर्गलोके यथावत् ॥KUMB: १-८३-१३; NILA: ०१.०८९.०१३॥
यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम्। किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः ॥BORI: ०१-८५-१॥
ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि। तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ॥BORI: ०१-८५-२॥
कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम्। किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥BORI: ०१-८५-३॥
इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे। ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति ॥BORI: ०१-८५-४॥
तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म। आख्यातं ते पार्थिव सर्वमेत; द्भूयश्चेदानीं वद किं ते वदामि ॥BORI: ०१-८५-५॥
यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतङ्गाः। कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि ॥BORI: ०१-८५-६॥
ऊर्ध्वं देहात्कर्मणो जृम्भमाणा; द्व्यक्तं पृथिव्यामनुसञ्चरन्ति। इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान् ॥BORI: ०१-८५-७॥
षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि। तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥BORI: ०१-८५-८॥
यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः। कथं भवन्ति कथमाभवन्ति; कथम्भूता गर्भभूता भवन्ति ॥BORI: ०१-८५-९॥
अस्रं रेतः पुष्पफलानुपृक्त; मन्वेति तद्वै पुरुषेण सृष्टम्। स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र ॥BORI: ०१-८५-१०॥
वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम्। चतुष्पदं द्विपदं चापि सर्व; मेवम्भूता गर्भभूता भवन्ति ॥BORI: ०१-८५-११॥
अन्यद्वपुर्विदधातीह गर्भ; उताहो स्वित्स्वेन कामेन याति। आपद्यमानो नरयोनिमेता; माचक्ष्व मे संशयात्प्रब्रवीमि ॥BORI: ०१-८५-१२॥
शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन सञ्ज्ञाम्। एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥BORI: ०१-८५-१३॥
वायुः समुत्कर्षति गर्भयोनि; मृतौ रेतः पुष्परसानुपृक्तम्। स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम् ॥BORI: ०१-८५-१४॥
स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः। स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च ॥BORI: ०१-८५-१५॥
घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम्। इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे ॥BORI: ०१-८५-१६॥
यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा। अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात् ॥BORI: ०१-८५-१७॥
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च। अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह ॥BORI: ०१-८५-१८॥
पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति। कीटाः पतङ्गाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव ॥BORI: ०१-८५-१९॥
चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति। आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह ॥BORI: ०१-८५-२०॥
किं स्वित्कृत्वा लभते तात लोका; न्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा। तन्मे पृष्टः शंस सर्वं यथाव; च्छुभाँल्लोकान्येन गच्छेत्क्रमेण ॥BORI: ०१-८५-२१॥
तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा। नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः ॥BORI: ०१-८५-२२॥
अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम्। तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति ॥BORI: ०१-८५-२३॥
चत्वारि कर्माण्यभयङ्कराणि; भयं प्रयच्छन्त्ययथाकृतानि। मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः ॥BORI: ०१-८५-२४॥
न मान्यमानो मुदमाददीत; न सन्तापं प्राप्नुयाच्चावमानात्। सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते ॥BORI: ०१-८५-२५॥
इति दद्यादिति यजेदित्यधीयीत मे व्रतम्। इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः ॥BORI: ०१-८५-२६॥
येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम्। तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह ॥BORI: ०१-८५-२७॥
तपश्च दानं च शमो दमश्च ह्रीरार्जवं सर्वभूतानुकम्पा । स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम् । नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः ॥KUMB: १-८४-२२; NILA: ०१.०९०.०२२॥
चरन्गृहस्थः कथमेति देवा; न्कथं भिक्षुः कथमाचार्यकर्मा। वानप्रस्थः सत्पथे संनिविष्टो; बहून्यस्मिन्सम्प्रति वेदयन्ति ॥BORI: ०१-८६-१॥
आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी। मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी ॥BORI: ०१-८६-२॥
धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजयेच्च। अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी ॥BORI: ०१-८६-३॥
स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी। तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये नियताहारचेष्टः ॥BORI: ०१-८६-४॥
अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः। अनोकसारी लघुरल्पचार; श्चरन्देशानेकचरः स भिक्षुः ॥BORI: ०१-८६-५॥
रात्र्या यया चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च। तामेव रात्रिं प्रयतेत विद्वा; नरण्यसंस्थो भवितुं यतात्मा ॥BORI: ०१-८६-६॥
दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम्। अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् ॥BORI: ०१-८६-७॥
कति स्विदेव मुनयो मौनानि कति चाप्युत। भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥BORI: ०१-८६-८॥
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः। ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ॥BORI: ०१-८६-९॥
कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः। ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥BORI: ०१-८६-१०॥
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत्। तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥BORI: ०१-८६-११॥
अनग्निरनिकेतश्च अगोत्रचरणो मुनिः। कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥BORI: ०१-८६-१२॥
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम्। तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥BORI: ०१-८६-१३॥
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः। आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥BORI: ०१-८६-१४॥
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम्। असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ॥BORI: ०१-८६-१५॥
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः। यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः । अथ लोकमिमं जित्वा लोकं विजयते परम् ॥BORI: ०१-८६-१६॥
आस्येन तु यदाहारं गोवन्मृगयते मुनिः। अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते ॥BORI: ०१-८६-१७॥
सामान्यधर्मः सर्वेषां क्रोधो लोभो द्रुहाऽक्षमा । विहाय मत्सरं शाठ्यं दर्पं दम्भं च पैशुनम् । क्रोधं लोभं ममत्वं च यस्य नास्ति स धर्मवित् ॥KUMB: १-८५-१९॥
नित्याशनो ब्रह्मचारी गृहस्थो वनगो मुनिः । नाधर्ममशनात्प्राप्येत्कथं ब्रूहीह पृच्छते ॥KUMB: १-८५-२०॥
अष्टौ ग्रासा मुनेः प्रोक्ताः षोडशारण्यवासिनः । द्वात्रिंशत्तु गृहस्थस्य अमितं ब्रह्मचारिणः ॥KUMB: १-८५-२१॥
इत्येवं कारणैर्ज्ञेयमष्टकैतच्छुभाशुभम् ॥KUMB: १-८५-२२॥
कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम्। उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ॥BORI: ०१-८७-१॥
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः। ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ॥BORI: ०१-८७-२॥
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत्। तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः ॥BORI: ०१-८७-३॥
यद्वै नृशंसं तदपथ्यमाहु; र्यः सेवते धर्ममनर्थबुद्धिः। अस्वोऽप्यनीशश्च तथैव राजं; स्तदार्जवं स समाधिस्तदार्यम् ॥BORI: ०१-८७-४॥
केनासि दूतः प्रहितोऽद्य राज; न्युवा स्रग्वी दर्शनीयः सुवर्चाः। कुत आगतः कतरस्यां दिशि त्व; मुताहो स्वित्पार्थिवं स्थानमस्ति ॥BORI: ०१-८७-५॥
इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः। उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः ॥BORI: ०१-८७-६॥
सतां सकाशे तु वृतः प्रपात; स्ते सङ्गता गुणवन्तश्च सर्वे। शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र ॥BORI: ०१-८७-७॥
पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र। यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥BORI: ०१-८७-८॥
यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च। तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह ॥BORI: ०१-८७-९॥
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति। यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रममित्रसाह ॥BORI: ०१-८७-१०॥
नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य। यथा प्रदेयं सततं द्विजेभ्य; स्तथाददं पूर्वमहं नरेन्द्र ॥BORI: ०१-८७-११॥
नाब्राह्मणः कृपणो जातु जीवे; द्या चापि स्याद्ब्राह्मणी वीरपत्नी। सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु ॥BORI: ०१-८७-१२॥
पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः। यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥BORI: ०१-८७-१३॥
सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि। मधुच्युतो घृतपृक्ता विशोका; स्ते नान्तवन्तः प्रतिपालयन्ति ॥BORI: ०१-८७-१४॥
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु। यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रमपेतमोहः ॥BORI: ०१-८७-१५॥
न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन्। दैवादेशादापदं प्राप्य विद्वां; श्चरेन्नृशंसं न हि जातु राजा ॥BORI: ०१-८७-१६॥
धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः। न मद्विधो धर्मबुद्धिः प्रजान; न्कुर्यादेवं कृपणं मां यथात्थ ॥BORI: ०१-८७-१७॥
कुर्यामपूर्वं न कृतं यदन्यै; र्विवित्समानः किमु तत्र साधु। ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम् ॥BORI: ०१-८७-१८॥
पापानां कर्मणां नित्यं बिभीयाद्यस्तु मानवः । सुखमप्याचरन्नित्यं सोऽत्यन्तं सुखमेधते ॥KUMB: १-८६-४; NILA: ०१.०९२.००४॥
कुर्यादपूर्वं न कृतं यदन्यैर्विधित्समानः किमु तत्र साधु । धर्माधर्मौ सुविनिश्चित्य सम्यक्कार्याकार्येष्वप्रमत्तश्चरेद्यः ॥KUMB: १-८६-१९॥
स वै धीमान्सत्यसन्धः कृतात्मा राजा भवेल्लोकपालो महिम्ना । यदा भवेत्संशयो धर्मकार्ये कामार्थौ वा यत्र विन्दन्ति सम्यक् ॥KUMB: १-८६-२०॥
कार्यं तत्र प्रथमं धर्मकार्यं यन्नो विरुध्यादर्थकामौ स धर्मः ॥KUMB: १-८६-२१॥
पृच्छामि त्वां वसुमना रौशदश्वि; र्यद्यस्ति लोको दिवि मह्यं नरेन्द्र। यद्यन्तरिक्षे प्रथितो महात्म; न्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥BORI: ०१-८८-१॥
यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च। लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति ॥BORI: ०१-८८-२॥
तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु। क्रीणीष्वैनांस्तृणकेनापि राज; न्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः ॥BORI: ०१-८८-३॥
न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः। कुर्यां न चैवाकृतपूर्वमन्यै; र्विवित्समानः किमु तत्र साधु ॥BORI: ०१-८८-४॥
तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते। अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु ॥BORI: ०१-८८-५॥
पृच्छामि त्वां शिबिरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात। यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥BORI: ०१-८८-६॥
न त्वं वाचा हृदयेनापि विद्व; न्परीप्समानान्नावमंस्था नरेन्द्र। तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः ॥BORI: ०१-८८-७॥
तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते। न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान् ॥BORI: ०१-८८-८॥
यथा त्वमिन्द्रप्रतिमप्रभाव; स्ते चाप्यनन्ता नरदेव लोकाः। तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिबे नाभिनन्दामि दायम् ॥BORI: ०१-८८-९॥
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि। सर्वे प्रदाय भवते गन्तारो नरकं वयम् ॥BORI: ०१-८८-१०॥
यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः। अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा ॥BORI: ०१-८८-११॥
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः। उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥BORI: ०१-८८-१२॥
युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः। उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥BORI: ०१-८८-१३॥
आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा। वयमप्यनुयास्यामो यदा कालो भविष्यति ॥BORI: ०१-८८-१४॥
सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम्। एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥BORI: ०१-८८-१५॥
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः। आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ॥BORI: ०१-८८-१६॥
अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा। कस्मादेवं शिबिरौशीनरोऽय; मेकोऽत्यगात्सर्ववेगेन वाहान् ॥BORI: ०१-८८-१७॥
अददाद्देवयानाय यावद्वित्तमविन्दत। उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः ॥BORI: ०१-८८-१८॥
दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा। राजन्नेतान्यप्रतिमस्य राज्ञः; शिबेः स्थितान्यनृशंसस्य बुद्ध्या । एवंवृत्तो ह्रीनिषेधश्च यस्मा; त्तस्माच्छिबिरत्यगाद्वै रथेन ॥BORI: ०१-८८-१९॥
अथाष्टकः पुनरेवान्वपृच्छ; न्मातामहं कौतुकादिन्द्रकल्पम्। पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य । कृतं त्वया यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ॥BORI: ०१-८८-२०॥
ययातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम्। गुह्यमर्थं मामकेभ्यो ब्रवीमि; मातामहोऽहं भवतां प्रकाशः ॥BORI: ०१-८८-२१॥
सर्वामिमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः। मेध्यानश्वानेकशफान्सुरूपां; स्तदा देवाः पुण्यभाजो भवन्ति ॥BORI: ०१-८८-२२॥
अदामहं पृथिवीं ब्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य। गोभिः सुवर्णेन धनैश्च मुख्यै; स्तत्रासन्गाः शतमर्बुदानि ॥BORI: ०१-८८-२३॥
सत्येन मे द्यौश्च वसुन्धरा च; तथैवाग्निर्ज्वलते मानुषेषु। न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति । सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम् ॥BORI: ०१-८८-२४॥
यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत्। अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् ॥BORI: ०१-८८-२५॥
एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः। त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥BORI: ०१-८८-२६॥
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः । यानारुह्य नरो लोकानभिवाञ्छति शाश्वतान् ॥KUMB: १-८७-१२; NILA: ०१.०९३.०१२॥
अश्वमेधे महायज्ञे स्वयंभुविहिते पुरा । हयस्य यानि चाङ्गानि संनिकृत्य यथाक्रमम् ॥KUMB: १-८७-१४॥
होताऽध्वर्युरथोद्गाता ब्रह्मणा सह भारत । अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः ॥KUMB: १-८७-१५॥
धूमगन्धं च पापिष्ठा ये जिघ्रन्ति नरा भुवि । विमुक्तपापाः पूतास्ते तत्क्षणेनाभवन्नराः ॥KUMB: १-८७-१६॥
एतस्मिन्नन्तरे चैव माधवी सा तपोधना । मृगचर्मपरीताङ्गी परिधाय मृगत्वचम् ॥KUMB: १-८७-१७॥
मृगैः परिचरन्ती सा मृगाहारविचेष्टिता । यज्ञवाटं मृगगणैः प्रविश्य भृशविस्मिता ॥KUMB: १-८७-१८॥
आघ्रायन्ती धूमगन्धं मृगैरेव चचार सा । यज्ञवाटमटन्ती सा पुत्रांस्तानपराजितान् ॥KUMB: १-८७-१९॥
पश्यन्ती यज्ञमाहात्म्यं मुदं लेभे च माधवी । असंस्पृशन्तं वसुधां ययातिं नाहुषं यदा ॥KUMB: १-८७-२०॥
दिविष्ठं प्राप्तमाज्ञाय ववन्दे पितरं तदा । तदा वसुमनापृच्छन्मातरं वै तपस्विनीम् ॥KUMB: १-८७-२१॥
भवत्या यत्कृतमिदं वन्दनं पादयोरिह । कोयं देवोपमो राजा याऽभिवन्दसि मे वद ॥KUMB: १-८७-२२॥
शृणुध्वं सहिताः पुत्रा नाहुषोयं पिता मम । ययातिर्मम पुत्राणां मातामह इति स्मृतः ॥KUMB: १-८७-२३॥
पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः । केन वा कारणेनैवमिह प्राप्तो महायशाः ॥KUMB: १-८७-२४॥
तस्यास्तद्वचनं श्रुत्वा स्वर्गाद्भ्रष्टेति चाब्रवीत् । सा पुत्रस्य वचः श्रुत्वा संभ्रमाविष्टचेतना ॥KUMB: १-८७-२५॥
माधवी पितरं प्राह दौहित्रपरिवारितम् । तपसा निर्जिताँल्लोकान्प्रतिगृह्णीष्व मामकान् ॥KUMB: १-८७-२६॥
पुत्राणामिव पौत्राणां धर्मादधिगतं धनम् । स्वार्थणेव वदन्तीह ऋषयो धर्मपाठकाः । तस्माद्दानेन तपसा चास्माकं दिवमाव्रज ॥KUMB: १-८७-२७॥
यदि धर्मफलं ह्येतच्छोभनं भविता तव । दुहित्रा चैव दौहित्रैस्तारितोऽहं महात्मभिः ॥KUMB: १-८७-२८॥
तस्मात्पवित्रं दौहित्रमद्यप्रभृति पैतृके । त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ॥KUMB: १-८७-२९॥
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् । भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः ॥KUMB: १-८७-३०॥
दिवसस्याष्टमे भागे मन्दीभवति भास्करे । स कालः कुतपो नाम पितॄणां दत्तमक्षयम् ॥KUMB: १-८७-३१॥
तिलाः पिशाचाद्रक्षन्ति दर्भा रक्षन्ति राक्षसात् । रक्षन्ति श्रोत्रियाः पङ्क्तिं यतिभिर्भुक्तमक्षयम् ॥KUMB: १-८७-३२॥
लब्ध्वा पात्रं तु विद्वांसं श्रोत्रियं सुव्रतं शुचिम् । स कालः कालतो दत्तं नान्यथा काल इष्यते ॥KUMB: १-८७-३३॥
एवमुक्त्वा ययातिस्तु पुनः प्रोवाच बुद्धिमान् । सर्वे ह्यवभृथस्नातास्त्वरध्वं कार्यगौरवात् ॥KUMB: १-८७-३४॥
अष्टकश्च शिबिश्चैव काशेयश्च प्रतर्दनः । ऐक्ष्वाकवो वसुमनाश्चत्वारो भूमिपास्तदा । सर्वे ह्यवभृथस्नाताः स्वर्गताः साधवः सह ॥KUMB: १-८७-३७॥
यदष्टक प्रब्रवीमीह सत्यं प्रतर्दनं चौषदश्विं तथैव । सर्वे च लोका मुनयश्च देवाः सत्येन पूज्या इति मे मनोगतम् ॥KUMB: १-८७-४८; NILA: ०१.०९३.०२६॥