Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
Chapter 12: Śantanu seeks Satyavatī; Devavrata secures the marriage by renouncing the throne and progeny, and becomes Bhīṣma.
स कदाचिद्वनं यातो यमुनामभितो नदीम्। महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ॥BORI: १-०९४-४१॥
तस्य प्रभवमन्विच्छन् विचचार समन्ततः। स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ॥BORI: १-०९४-४२॥
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम्। कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ॥BORI: १-०९४-४३॥
साब्रवीद् दाशकन्यास्मि धर्मार्थं वाहये तरीम्। पितुर्नियोगात् भद्रं ते दाशराज्ञो महात्मनः ॥BORI: १-०९४-४४॥
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम्। समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः ॥BORI: १-०९४-४५॥
स गत्वा पितरं तस्या वरयामास तां तदा। पर्यपृच्छत्ततः तस्याः पितरं च आत्मकारणात् ॥BORI: १-०९४-४६॥
स च तं प्रत्युवाचेदं दाशराजो महीपतिम्। जातमात्रैव मे देया वराय वरवर्णिनी। हृदि कामस्तु मे कश्चित् तं निबोध जनेश्वर ॥BORI: १-०९४-४७॥
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ। सत्यवागसि सत्येन समयं कुरु मे ततः ॥BORI: १-०९४-४८॥
समयेन प्रदद्यां ते कन्यामहमिमां नृप। न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ॥BORI: १-०९४-४९॥
श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा। दातव्यं चेत् प्रदास्यामि न त्वदेयं कथञ्चन ॥BORI: १-०९४-५०॥
अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः। त्वदूर्ध्वम् अभिषेक्तव्यः न अन्यः कश्चन पार्थिवः ॥BORI: १-०९४-५१॥
नाकामयत तं दातुं वरं दाशाय शन्तनुः। शरीरजेन तीव्रेण दह्यमानः अपि भारत ॥BORI: १-०९४-५२॥
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः। प्रत्ययात् हास्तिनपुरं शोकोपहतचेतनः ॥BORI: १-०९४-५३॥
ततः कदाचित् शोचन्तं शन्तनुं ध्यानमास्थितम्। पुत्रः देवव्रतः अभ्येत्य पितरं वाक्यम् अब्रवीत् ॥BORI: १-०९४-५४॥
सर्वतः भवतः क्षेमं विधेयाः सर्वपार्थिवाः। तत् किमर्थम् इहाभीक्ष्णं परिशोचसि दुःखितः। ध्यान्निव च किं राजन् नाभिभाषसि किञ्चन ॥BORI: १-०९४-५५॥
एवमुक्तः स पुत्रेण शन्तनुः प्रत्यभाषत। असंशयं ध्यानपरं यथा मात्थ तथास्म्युत ॥BORI: १-०९४-५६॥
अपत्यं नः त्वम् एवैकः कुले महति भारत। अनित्यता च मर्त्यानाम् अतः शोचामि पुत्रक ॥BORI: १-०९४-५७॥
कथञ्चित् तव गाङ्गेय विपत्तौ नास्ति नः कुलम्। असंशयं त्वम् एवैकः शतादपि वरः सुतः ॥BORI: १-०९४-५८॥
न चाप्यहं वृथा भूयो दारान् कर्तुम् इहोत्सहे। सन्तानस्य अविनाशाय कामये भद्रमस्तु ते। अनपत्यतैकपुत्रत्वम् इत्याहुः धर्मवादिनः ॥BORI: १-०९४-५९॥
अग्निहोत्रं त्रयो वेदा यज्ञाश्च सह दक्षिणाः। सर्वाणि एतान्य अपत्यस्य कलां नार्हन्ति षोडशीम् ॥BORI: १-०९४-६०॥
एवमेव मनुष्येषु स्यात् च सर्वप्रजासु अपि। यद् अपत्यम् महाप्राज्ञ तत्र मे नास्ति संशयः। एषा त्रयी पुराणानाम् उत्तमानां च शाश्वती ॥BORI: १-०९४-६१॥
त्वं च शूरः सदा अमर्षी शस्त्रनित्यः च भारत। न अन्यत्र शस्त्रात् तस्मात् ते निधनं विद्यते अनघ ॥BORI: १-०९४-६२॥
सः अस्मि संशयम् आपन्नः त्वयि शान्ते कथं भवेत्। इति ते कारणं तात दुःखस्य उक्तम् अशेषतः ॥BORI: १-०९४-६३॥
ततः तत् कारणं ज्ञात्वा कृत्स्नं च एवम् अशेषतः। देवव्रतः महाबुद्धिः प्रययौ अनुचिन्तयन् ॥BORI: १-०९४-६४॥
अभ्यगच्छत् तदा एव आशु वृद्धामात्यं पितुः हितम्। तम् अपृच्छत् तदा अभ्येत्य पितुः तत् शोककारणम् ॥BORI: १-०९४-६५॥
तस्मै स कुरुमुख्याय यथावत् परिपृच्छते। वरं शशंस कन्यां ताम् उद्दिश्य भरतर्षभ ॥BORI: १-०९४-६६॥
ततः देवव्रतः वृद्धैः क्षत्रियैः सहितः तदा। अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् ॥BORI: १-०९४-६७॥
तं दाशः प्रतिजग्राह विधिवत् प्रतिपूज्य च। अब्रवीत् च एनम् आसीनं राजसंसदि भारत ॥BORI: १-०९४-६८॥
त्वम् एव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ। पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥BORI: १-०९४-६९॥
कः हि सम्बन्धकम् श्लाघ्यम् ईप्सितम् यौनि म् ईदृशम्। अतिक्रामन् तप्येत साक्षात् अपि शतक्रतुः ॥BORI: १-०९४-७०॥
अपत्यं च एतद् आर्ज्यस्य यः युष्माकं समः गुणैः। यस्य शुक्रात् सत्यवती प्रादुर्भूता यशस्विनी ॥BORI: १-०९४-७१॥
तेन मे बहुशः तात पिता ते परिकीर्तितः। अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ॥BORI: १-०९४-७२॥
असितः हि अपि देवर्षिः प्रत्याख्यातः पुरा मया। सत्यवत्या भृशं हि अर्थी स आसीत् ऋषिसत्तमः ॥BORI: १-०९४-७३॥
कन्या-पितृत्वात् किञ्चित् तु वक्ष्यामि भरतर्षभ। बलवत् सपत्नताम् अत्र दोषं पश्यामि केवलम् ॥BORI: १-०९४-७४॥
यस्य हि त्वं सपत्नः स्यात् गन्धर्वस्य असुरस्य वा। न स जातु सुखं जीवेत् त्वयि क्रुद्धे परन्तप ॥BORI: १-०९४-७५॥
एतावान् अत्र दोषः हि न अन्यः कश्चन पार्थिव। एतत् जानीहि भद्रं ते दानादाने परन्तप ॥BORI: १-०९४-७६॥
एवम् उक्तः तु गाङ्गेयः तत् युक्तं प्रत्यभाषत। शृण्वतां भूमिपालानां पितुरर्थाय भारत ॥BORI: १-०९४-७७॥
इदं मे मतम् आदत्स्व सत्यं सत्यवतां वर। नैव जातः न वा जातः ईदृशं वक्तुम् उत्सहेत ॥BORI: १-०९४-७८॥
एवम् एतत् करिष्यामि यथा त्वम् अनु भाषसे। यः अस्यां जनिष्यते पुत्रः सः नः राजा भविष्यति ॥BORI: १-०९४-७९॥
इति उक्तः पुनः एव अथ तम् दाशः प्रत्यभाषत। चिकीर्षुः दुष्करं कर्म राज्यार्थे भरतर्षभ ॥BORI: १-०९४-८०॥
त्वम् एव नाथः पर्याप्तः शन्तनोः अमितद्युतेः। कन्यायाः च एव धर्मात्मन् प्रभुः दानाय च ईश्वरः ॥BORI: १-०९४-८१॥
इदं तु वचनं सौम्य कार्यं च एव निबोध मे। कौमारिकाणां शीलेन वक्ष्यामि अहम् अरिंदम ॥BORI: १-०९४-८२॥
यत् त्वया सत्यवत्यर्थे सत्यधर्मपरायण। राजमध्ये प्रतिज्ञातं अनुरूपं तव एव तत् ॥BORI: १-०९४-८३॥
न अन्यथा तत् महाबाहो संशयः अत्र न कश्चन। तव अपत्यं भवेत् यत् तु तत्र नः संशयः महान् ॥BORI: १-०९४-८४॥
तस्य तत् मतम् आज्ञाय सत्यधर्मपरायणः। प्रत्यजानात् तदा राजन् पितुः प्रियचिकीर्षया ॥BORI: १-०९४-८५॥
दाशराज निबोध एतत् वचनं मे नृपोत्तम। शृण्वतां भूमिपालानां यत् ब्रवीमि पितुः कृते ॥BORI: १-०९४-८६॥
राज्यं तावत् पूर्वमेव मया त्यक्तं नराधिप। अपत्यहेतोः अपि च करोमि एषः विनिश्चयः ॥BORI: १-०९४-८७॥
अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति। अपुत्रस्य अपि मे लोकाः भविष्यन्ति अक्षयाः दिवि ॥BORI: १-०९४-८८॥
तस्य तत् वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः। ददानीति एव तं दाशः धर्मात्मा प्रत्यभाषत ॥BORI: १-०९४-८९॥
ततः अन्तरिक्षे अप्सरसो देवाः स-ऋषिगणाः तथा। अभ्यवर्षन्त कुसुमैः भीष्मः अयम् इति च अब्रुवन् ॥BORI: १-०९४-९०॥
ततः स पितुरर्थाय ताम् उवाच यशस्विनीम्। अधिरोह रथं मातः गच्छावः स्वगृहान् इति ॥BORI: १-०९४-९१॥
एवम् उक्त्वा तु भीष्मः तां रथम् आरोप्य भामिनीम्। आगम्य हास्तिनपुरं शन्तनोः संन्यवेदयत् ॥BORI: १-०९४-९२॥
तस्य तत् दुष्करं कर्म प्रशशंसुः नराधिपाः। समेताः च पृथक् च एव भीष्मः अयम् इति च अब्रुवन् ॥BORI: १-०९४-९३॥
तत् दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शन्तनुः। स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् ॥BORI: १-०९४-९४॥
अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः । तस्य कीर्तिमतो वृत्तमवेक्ष्य सततं नराः ॥KUMB: १-१०७-४; KUMB: १-१०७-५; NILA: ०१.१००.००४; NILA: ०१.१००.००५॥
तेन कीर्तिमता शिष्टाः शक्रप्रतिमतेजसा । यज्ञदानक्रियाशीलाः समपद्यन्त भूमिपाः ॥KUMB: १-१०७-९; NILA: ०१.१००.००९॥
चकोरनेत्रस्ताम्रास्यः सिंहर्षभगतिर्युवा । गुणैरनुपमैर्युक्तः समस्तैराभिगामिकैः । गम्भीरः सत्त्वसम्पन्नः पूर्णचन्द्रनिभाननः ॥KUMB: १-१०७-१७॥
यज्ञार्थं पशवः सृष्टाः संतानार्थं च मैथुनम् ॥KUMB: १-१०७-२१॥
पौरवेषु ततः पुत्रं राज्यार्थमभयप्रदम् । गुणवन्तं महात्मानं यौवराज्येऽभ्यषेचयत् ॥KUMB: १-१०७-४३; KUMB: १-१०७-४४; NILA: ०१.१००.०४२; NILA: ०१.१००.०४३॥
न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः । व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै ॥KUMB: १-१०७-६२; KUMB: १-१०७-६३; NILA: ०१.१००.०६१; NILA: ०१.१००.०६२॥
स तं काममवाच्यं वै दाशकन्यां प्रतीदृशम् । विवर्तुं नाशकत्तस्मै पिता पुत्रस्य शान्तनुः ॥KUMB: १-१०७-६३क्ष्; KUMB: १-१०७-६४॥
चक्षुरेकं च पुत्रश्च अस्ति नास्ति च भारत । चक्षुर्नाशे तनोर्नाशः पुत्रनाशे कुलक्षयः ॥KUMB: १-१०७-६९॥
अपत्येनानृणो लोके पितॄणां नास्ति संशयः । अपत्यं कर्म विद्या च त्रीणि ज्योतींषि भारत ॥KUMB: १-१०७-७२; KUMB: १-१०७-७३॥
अपत्यफलसंयुक्तमेतच्छ्रुत्वा पितुर्वचः । सूतं भूयोऽपि संतप्त आह्वयामास वै पितुः ॥KUMB: १-१०७-७७॥
सूतस्तु कुरुमुख्यस्य उपयातस्तदाज्ञया । तमुवाच महाप्राज्ञो भीष्मो वै सारथिं पितुः ॥KUMB: १-१०७-७८॥
त्वं सारथे पितुर्मह्यं सखासि रथधूर्गतः । अपि जानासि यदि वै कस्यां भावो नृपस्य तु ॥KUMB: १-१०७-७९॥
तदाचक्ष्व भवान्पृष्टः करिष्ये न तदन्यथा । दाशकन्या कुरुश्रेष्ठ तत्र भावः पितुर्गतः ॥KUMB: १-१०७-८०; KUMB: १-१०७-८०क्ष्॥
वृतः स नरदेवेन तदा वचनमब्रवीत् । योऽस्यां पुमान्भवेज्जातः स राजा त्वदनन्तरम् ॥KUMB: १-१०७-८१॥
नाकामयत तं दातुं पिता तव वरं तदा । स चापि निश्चयस्तस्य न च दद्यां ततोऽन्यथा ॥KUMB: १-१०७-८२॥
एतत्ते कथितं वीर कुरुष्व यदनन्तरम् ॥KUMB: १-१०७-८३॥
ततः स पितुराज्ञाय मतं सम्यगवेक्ष्य च । ज्ञात्वा च मानसं पुत्रः प्रययौ यमुनां प्रति ॥KUMB: १-१०७-८३क्ष्॥
राज्यशुल्का प्रदातव्या कन्येयं याचतां वर । अपत्यं यद्भवेदस्याः स राजाऽस्तु पितुः परम् ॥KUMB: १-१०७-८६॥
इयं सत्यवती देवी पितरं तेऽब्रवीत्तथा । अर्थितश्चापि राजर्षिः प्रत्याख्यातः पुरा मया ॥KUMB: १-१०७-९१॥
भूयांसं त्वयि पश्यामि तद्दोषमपराजित ॥KUMB: १-१०७-९३॥
उच्चैश्श्रवः समाधत्स्व प्रतिज्ञां जनसंसदि । ऋषयो वाथ वा देवा भूतान्यन्तर्हितानि च । यानि यानीह शृण्वन्तु नास्ति वक्तास्य मत्समः ॥KUMB: १-१०७-१०५; KUMB: १-१०७-१०६॥
न हि जन्मप्रभृत्युक्तं मया किंचिदिहानृतम् । यावत्प्राणा ध्रियन्ते वै मम देहं समाश्रिताः ॥KUMB: १-१०७-१०९; KUMB: १-१०७-११०॥
तावन्न जनयिष्यामि पित्रे कन्यां प्रयच्छ मे । परित्यजाम्यहं राज्यं मैथुनं चापि सर्वशः ॥KUMB: १-१०७-११०; KUMB: १-१०७-१११॥
ऊर्ध्वरेता भविष्यामि दाश सत्यं ब्रवीमि ते ॥KUMB: १-१०७-१११॥
बभूव दुःखितो राजा चिररात्राय भारत । स तेन कर्मणा सूनोः प्रीतस्तस्मै वरं ददौ ॥KUMB: १-१०७-११८॥
न ते मृत्युः प्रभविता यावज्जीवितुमिच्छसि । त्वत्तो ह्यनुज्ञां सम्प्राप्य मृत्युः प्रभविताऽनघ ॥KUMB: १-१०७-११९; KUMB: १-१०७-१२०; NILA: ०१.१००.१०३॥