Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
Chapter 14: Satyavatī summons Vyāsa to preserve the Kuru line; Dhṛtarāṣṭra, Pāṇḍu and Vidura are born.
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी । पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ॥BORI: १-०९७-१॥
धर्मं च पितृवंशं च मातृवंशं च मानिनी । प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ॥BORI: १-०९७-२॥
शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः । त्वयि पिण्डश्च कीर्तिश्च सन्तानं च प्रतिष्ठितम् ॥BORI: १-०९७-३॥
यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् । यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥BORI: १-०९७-४॥
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च । विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः ॥BORI: १-०९७-५॥
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये । प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ॥BORI: १-०९७-६॥
तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर । कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ॥BORI: १-०९७-७॥
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते । बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ॥BORI: १-०९७-८॥
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे । रूपयौवनसम्पन्ने पुत्रकामे च भारत ॥BORI: १-०९७-९॥
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः । मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि ॥BORI: १-०९७-१०॥
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च । दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ॥BORI: १-०९७-११॥
तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः । प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः ॥BORI: १-०९७-१२॥
असंशयं परो धर्मस्त्वया मातरुदाहृतः । त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् ॥BORI: १-०९७-१३॥
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे । स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ॥BORI: १-०९७-१४॥
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः । यद्वाप्यधिकमेताभ्यां न तु सत्यं कथञ्चन ॥BORI: १-०९७-१५॥
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः । ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ॥BORI: १-०९७-१६॥
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् । त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् ॥BORI: १-०९७-१७॥
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् । न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथञ्चन ॥BORI: १-०९७-१८॥
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा । माता सत्यवती भीष्ममुवाच तदनन्तरम् ॥BORI: १-०९७-१९॥
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम । इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा ॥BORI: १-०९७-२०॥
जानामि चैव सत्यं तन्मदर्थं यदभाषथाः । आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् ॥BORI: १-०९७-२१॥
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् । सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ॥BORI: १-०९७-२२॥
लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् । धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ॥BORI: १-०९७-२३॥
राज्ञि धर्मानवेक्षस्व मा नः सर्वान् व्यनीनशः । सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ॥BORI: १-०९७-२४॥
शन्तनोरपि सन्तानं यथा स्यादक्षयं भुवि । तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ॥BORI: १-०९७-२५॥
श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः । आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ॥BORI: १-०९७-२६॥
समाश्वास्य स्नुषे ते च भर्तृशोकनिपीडिते । धर्मं च पितृवंशं च मातृवंशं च भामिनी । प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ॥KUMB: १-११२-२; NILA: ०१.१०३.००२॥
दुःखार्दिता तु सा देवी मज्जन्ती शोकसागरे । शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः । त्वयि पिण्डश्च कीर्तिश्च संतानश्च प्रतिष्ठितः ॥KUMB: १-११२-३॥
भ्राता विचित्रवीर्यस्ते भूतानामन्तमेयिवान् । यथाकर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् । यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥KUMB: १-११२-४॥
तन्न जात्वन्यथा कुर्यां लोकानामपि संक्षये । अमरत्वस्य वा हेतोस्त्रैलोक्यस्य धनस्य च ॥KUMB: १-११२-१९॥
आत्मनश्च हितं तात प्रियं च मम भारत । लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् । धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ॥KUMB: १-११२-२४॥
जामदग्न्येन रामेण पितुर्वधममृष्यता । क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः । शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ॥BORI: १-०९८-१॥
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता । निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ॥BORI: १-०९८-२॥
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना । त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥BORI: १-०९८-३॥
ततः सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः । उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः ॥BORI: १-०९८-४॥
पाणिग्राहस्य तनय इति वेदेषु निश्चितम् । धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः । लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ॥BORI: १-०९८-५॥
अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा । ममता नाम तस्यासीद्भार्या परमसंमता ॥BORI: १-०९८-६॥
उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् । बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत ॥BORI: १-०९८-७॥
उवाच ममता तं तु देवरं वदतां वरम् । अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति ॥BORI: १-०९८-८॥
अयं च मे महाभाग कुक्षावेव बृहस्पते । औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत ॥BORI: १-०९८-९॥
अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि । तस्मादेवङ्गतेऽद्य त्वमुपारमितुमर्हसि ॥BORI: १-०९८-१०॥
एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः । कामात्मानं तदात्मानं न शशाक नियच्छितुम् ॥BORI: १-०९८-११॥
सम्बभूव ततः कामी तया सार्धमकामया । उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ॥BORI: १-०९८-१२॥
भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र सम्भवः । अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः ॥BORI: १-०९८-१३॥
शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः । उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ॥BORI: १-०९८-१४॥
यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति । एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥BORI: १-०९८-१५॥
स वै दीर्घतमा नाम शापादृषिरजायत । बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ॥BORI: १-०९८-१६॥
स पुत्राञ्जनयामास गौतमादीन्महायशाः । ऋषेरुतथ्यस्य तदा सन्तानकुलवृद्धये ॥BORI: १-०९८-१७॥
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः । काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् ॥BORI: १-०९८-१८॥
न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते । चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ॥BORI: १-०९८-१९॥
सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः । जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ॥BORI: १-०९८-२०॥
तं तु राजा बलिर्नाम सर्वधर्मविशारदः । अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् ॥BORI: १-०९८-२१॥
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः । ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ ॥BORI: १-०९८-२२॥
सन्तानार्थं महाभाग भार्यासु मम मानद । पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ॥BORI: १-०९८-२३॥
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः । तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ॥BORI: १-०९८-२४॥
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह । स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ॥BORI: १-०९८-२५॥
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी । जनयामास धर्मात्मा पुत्रानेकादशैव तु ॥BORI: १-०९८-२६॥
काक्षीवदादीन् पुत्रान् तान् दृष्ट्वा सर्वानधीयतः । उवाच तमृषिं राजा ममैत इति वीर्यवान् ॥BORI: १-०९८-२७॥
नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् । शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ॥BORI: १-०९८-२८॥
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव । अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ॥BORI: १-०९८-२९॥
ततः प्रसादयामास पुनस्तमृषिसत्तमम् । बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः ॥BORI: १-०९८-३०॥
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् । भविष्यति कुमारस्ते तेजस्वी सत्यवागिति ॥BORI: १-०९८-३१॥
तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत । एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ॥BORI: १-०९८-३२॥
जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः । एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ॥BORI: १-०९८-३३॥
शतानि दशबाहूनां निकृत्तान्यर्जुनस्य वै । लोकस्याचरितो धर्मस्तेनाति किल दुश्चरः ॥KUMB: १-११३-२; NILA: ०१.१०४.००२॥
एवं निःक्षत्रिये लोके कृते तेन महर्षिणा । ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः ॥KUMB: १-११३-५; NILA: ०१.१०४.००५॥
ततः पुनः समुदितं क्षत्रं समभवत्तदा । इमं चैवात्र वक्ष्येऽहमितिहासं पुरातनम् ॥KUMB: १-११३-८; NILA: ०१.१०४.००८॥
अमोघरेताश्च भवान्न पीडां कर्तुमर्हति । अश्रुत्वैव तु तद्वाक्यं गर्भस्थस्य बृहस्पतिः ॥KUMB: १-११३-१७; NILA: ०१.१०४.०१७॥
जगाम मैथुनायैव ममतां चारुलोचनाम् । शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो मुनिः ॥KUMB: १-११३-१८; NILA: ०१.१०४.०१८॥
पद्भ्यामारोधयन्मार्गं शुक्रस्य च बृहस्पतेः । स्थानमप्राप्तमथ तच्छुक्रं प्रतिहतं तदा ॥KUMB: १-११३-१९; NILA: ०१.१०४.०१९॥
पपात सहसा भूमौ ततः क्रुद्धो बृहस्पतिः । तं दृष्ट्वा पतितं शुक्रं शशाप स रुषान्वितः ॥KUMB: १-११३-२०; NILA: ०१.१०४.०२०॥
बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा । जात्यन्धो वेदवित्प्राज्ञः पत्नीं लेभे स विद्यया ॥KUMB: १-११३-२३; NILA: ०१.१०४.०२३॥
तरुणीं रुपसंपन्नां प्रद्वेषीं नाम ब्राह्मणीम् । स पुत्राञ्जनयामास गौतमादीन्महायशाः ॥KUMB: १-११३-२४; NILA: ०१.१०४.०२४॥
ऋषेरुचथ्यस्य तदा सन्तानकुलवृद्धये । धर्मात्मा च महात्मा च वेदवेदाङ्गपारगः ॥KUMB: १-११३-२५; NILA: ०१.१०४.०२५॥
गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं मुनिः । प्रावर्तत तदा कर्तुं श्रद्धावांस्तमशङ्कया ॥KUMB: १-११३-२६; NILA: ०१.१०४.०२६॥
ततो वितथमर्यादं तं दृष्ट्वा मुनिसत्तमाः । क्रुद्धा मोहाभिभूतास्ते सर्वे तत्राश्रमौकसः ॥KUMB: १-११३-२७; NILA: ०१.१०४.०२७॥
अहोऽयं भिन्नमर्यादो नाश्रमे वस्तुमर्हति । तस्मादेनं वयं सर्वे पापात्मानं त्यजामहे ॥KUMB: १-११३-२८; NILA: ०१.१०४.०२८॥
इत्यन्योन्यं समाभाष्य ते दीर्घतमसं मुनिम् । पुत्रलाभाच्च सा पत्नी न तुतोष पतिं तदा ॥KUMB: १-११३-२९; NILA: ०१.१०४.०२९॥
प्रद्विषन्तीं पतिर्भार्यां किं मां द्वेक्षीति चाब्रवीत् । प्रद्वेष्युवाच । भार्याया भरणाद्भर्ता पालनाच्च पतिः स्मृतः ॥KUMB: १-११३-३०; KUMB: १-११३-३०क्ष्; NILA: ०१.१०४.०३०॥
अहं त्वद्भरणाशक्ता जात्यन्धं ससुतं तदा । नित्यकालं श्रमेणार्ता न भरेयं महातपः ॥KUMB: १-११३-३१; NILA: ०१.१०४.०३१॥
भीष्म उवाच । तस्मास्तद्वचनं श्रुत्वा ऋषिः कोपसमन्वितः । प्रत्युवाच ततः पत्नीं प्रद्वेषीं ससुतां तदा ॥KUMB: १-११३-३२क्ष्; KUMB: १-११३-३२; NILA: ०१.१०४.०३२॥
नीयतां क्षत्रियकुले धनार्थश्च भविष्यति । प्रद्वेष्युवाच । त्वया दत्तं धनं विप्र नेच्छेयं दुःखकारणम् ॥KUMB: १-११३-३३; KUMB: १-११३-३३क्ष्; NILA: ०१.१०४.०३३॥
यथेष्टं कुरु विप्रेन्द्र न भेरयं पुरा यथा । दीर्घतमा उवाच । अद्यप्रभृति मर्यादा मया लोके प्रतिष्ठिता ॥KUMB: १-११३-३४; KUMB: १-११३-३४क्ष्; NILA: ०१.१०४.०३४॥
एक एव पतिर्नार्या यावज्जीवं परायणम् । मृते जीवति वा तस्मिन्नापरं प्राप्नुयान्नरम् ॥KUMB: १-११३-३५; NILA: ०१.१०४.०३५॥
अभिगम्य परं नारी पतिष्यति न संशयः । अपतीनां तु नारीणामद्यप्रभृति पातकम् ॥KUMB: १-११३-३६; NILA: ०१.१०४.०३६॥
यद्यस्ति चेद्धनं सर्वं वृथाभोगा भवन्तु ताः । अकीर्तिः परिवादाश्च नित्यं तासां भवन्तु वै ॥KUMB: १-११३-३७; NILA: ०१.१०४.०३७॥
इति तद्वचनं श्रुत्वा ब्राह्मणी भृशकोपिता । गङ्गायां नीयतामेष पुत्रा इत्येवमब्रवीत् ॥KUMB: १-११३-३८; NILA: ०१.१०४.०३८॥
तं पूजयित्वा राजर्षिर्विश्रान्तं मुनिमब्रवीत् । सन्तानार्थं महाभाग भार्यासु मम मानद । पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ॥KUMB: १-११३-४४॥
अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः । तेषां देशाः समाख्याताः स्वनामकथिता भुवि ॥KUMB: १-११३-५३; NILA: ०१.१०४.०५३॥
अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः । कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः ॥KUMB: १-११३-५४; NILA: ०१.१०४.०५४॥
पुण्ड्रस्य पुण्ड्राः प्रख्याताः सुह्माः सुह्मस्य च स्मृताः । एवं बलेः पुरा वंशः प्रख्यातो वै महर्षिजः ॥KUMB: १-११३-५५; NILA: ०१.१०४.०५५॥
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये । वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ॥BORI: १-०९९-१॥
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् । विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥BORI: १-०९९-२॥
ततः सत्यवती भीष्मं वाचा संसज्जमानया । विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥BORI: १-०९९-३॥
सत्यमेतन्महाबाहो यथा वदसि भारत । विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य च । न ते शक्यमनाख्यातुमापद्धीयं तथाविधा ॥BORI: १-०९९-४॥
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः । तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ॥BORI: १-०९९-५॥
धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम । सा कदाचिदहं तत्र गता प्रथमयौवने ॥BORI: १-०९९-६॥
अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः । आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ॥BORI: १-०९९-७॥
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा । सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु ॥BORI: १-०९९-८॥
तमहं शापभीता च पितुर्भीता च भारत । वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥BORI: १-०९९-९॥
अभिभूय स मां बालां तेजसा वशमानयत् । तमसा लोकमावृत्य नौगतामेव भारत ॥BORI: १-०९९-१०॥
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः । तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥BORI: १-०९९-११॥
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् । द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥BORI: १-०९९-१२॥
पाराशर्यो महायोगी स बभूव महानृषिः । कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः ॥BORI: १-०९९-१३॥
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः । लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥BORI: १-०९९-१४॥
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः । स नियुक्तो मया व्यक्तं त्वया च अमितद्युते । भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥BORI: १-०९९-१५॥
स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति । तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥BORI: १-०९९-१६॥
तव ह्यनुमते भीष्म नियतं स महातपाः । विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥BORI: १-०९९-१७॥
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् । धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ॥BORI: १-०९९-१८॥
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् । कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् । यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् ॥BORI: १-०९९-१९॥
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः । उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ॥BORI: १-०९९-२०॥
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन । कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ॥BORI: १-०९९-२१॥
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् । प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ॥BORI: १-०९९-२२॥
तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् । परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च । मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ॥BORI: १-०९९-२३॥
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च । मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥BORI: १-०९९-२४॥
भवत्या यदभिप्रेतं तदहं कर्तुमागतः । शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥BORI: १-०९९-२५॥
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये । स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ॥BORI: १-०९९-२६॥
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् । सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ॥BORI: १-०९९-२७॥
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे । तेषां पिता यथा स्वामी तथा माता न संशयः ॥BORI: १-०९९-२८॥
विधातृविहितः स त्वं यथा मे प्रथमः सुतः । विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ॥BORI: १-०९९-२९॥
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः । भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ॥BORI: १-०९९-३०॥
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः । बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ॥BORI: १-०९९-३१॥
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च । भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ॥BORI: १-०९९-३२॥
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च । आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ॥BORI: १-०९९-३३॥
यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे । रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः ॥BORI: १-०९९-३४॥
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक । अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च ॥BORI: १-०९९-३५॥
वेत्थ धर्मं सत्यवति परं चापरमेव च । यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ॥BORI: १-०९९-३६॥
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् । ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ॥BORI: १-०९९-३७॥
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् । व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ॥BORI: १-०९९-३८॥
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः । न हि मामव्रतोपेता उपेयात्काचिदङ्गना ॥BORI: १-०९९-३९॥
यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु । अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ॥BORI: १-०९९-४०॥
कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो । तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति ॥BORI: १-०९९-४१॥
यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् । विरूपतां मे सहतामेतदस्याः परं व्रतम् ॥BORI: १-०९९-४२॥
यदि मे सहते गन्धं रूपं वेषं तथा वपुः । अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ॥BORI: १-०९९-४३॥
समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः । ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् । धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ॥BORI: १-०९९-४४॥
कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे । भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् ॥BORI: १-०९९-४५॥
व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् । भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये ॥BORI: १-०९९-४६॥
सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह । नष्टं च भारतं वंशं पुनरेव समुद्धर ॥BORI: १-०९९-४७॥
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् । स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ॥BORI: १-०९९-४८॥
सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् । भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥BORI: १-०९९-४९॥
भीष्मस्य तु वचः श्रुत्वा धर्महेत्वर्थसंहितम् । माता सत्यवती भीष्मं पुनरेवाभ्यभाषत ॥KUMB: १-११४-३॥
औचथ्यमधिकृत्येदमङ्गं च यदुदाहृतम् । पौराणी श्रुतिरित्येषा प्राप्तकालमिदं कुरु ॥KUMB: १-११४-४॥
त्वं हि पुत्र कुलस्यास्य ज्येष्ठः श्रेष्ठश्च भारत । यथा च ते पितुर्वाक्यं मम कार्यं तथाऽनघ ॥KUMB: १-११४-५॥
मम पुत्रस्तव भ्राता यवीयान्सुप्रियश्च ते । बाल एव गतः स्वर्गं भारतो भरतर्षभ ॥KUMB: १-११४-६॥
इमे महिष्यौ तस्येह काशिराजसुते उभे । रूपयौवनसंपन्ने पुत्रकामे च भारत ॥KUMB: १-११४-७॥
धर्म्यमेतत्परं ज्ञात्वा सन्तानाय कुलस्य च । आभ्यां मम नियोगात्तु धर्मं चरितुमर्हसि ॥KUMB: १-११४-८॥
असंशयं परो धर्मस्त्वयाः मातः प्रकीर्तितः । त्वमप्येतां प्रतिज्ञां तु वेत्थ या मयि वर्तते ॥KUMB: १-११४-९॥
अमरत्वस्य वा हेतोस्त्रैलोक्यसदनस्य वा । उत्सृजेयमहं प्राणान्न तु सत्यं कथंचन ॥KUMB: १-११४-१०॥
जानामि त्वयि धर्मज्ञ सत्यं सत्यपराक्रम । इच्छंस्त्वमिह लोकांस्त्रीन्सृजेरन्यानरिन्दम ॥KUMB: १-११४-११॥
यथा तु नः कुलं चैव धर्मश्च न पराभवेत् । सुहृदश्च प्रहृष्टाः स्युस्तथा त्वं कर्तुमर्हसि ॥KUMB: १-११४-१२॥
त्वमेव कुलवृद्धासि गौरवं तु परं त्वयि । सोपायं कुलसन्ताने वक्तुमर्हसि नः परम् ॥KUMB: १-११४-१३॥
स्त्रियो हि परमं गुह्यं धारयन्ति सदा कुले । पुरुषांश्चैव मायाभिर्बह्वीभिरुपगृह्णते ॥KUMB: १-११४-१४॥
सा सत्यवति संपश्य धर्मं सत्यपरायणे । यथा न जह्यां सत्यं च न सीदेच्च कुलं हि नः ॥KUMB: १-११४-१५॥
यत्त्वं वक्ष्यसि तत्कार्यमस्माभिरिति मे मतिः। तस्मान्निशम्य सत्यं मे कुरुष्व यदनन्तरम् । शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम् ॥KUMB: १-११४-१९॥
न च विस्रम्भकथितं भवान्सूचितुमर्हति । यस्तु राजा वसुर्नाम श्रुतस्ते भरतर्षभ ॥KUMB: १-११४-२०॥
तस्य शुक्लादहं मत्स्या धृता कुक्षौ पुरा किल । मातरं मे जलाद्धृत्वा दाशः परमधर्मवित् ॥KUMB: १-११४-२१॥
मां तु स्वगृहमानीय दुहितृत्वेऽभ्यकल्पयत् । धर्मयुक्तः स धर्मेण पिता चासीत्ततो मम ॥KUMB: १-११४-२२॥
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा । सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वचः । उक्त्वा जन्म कुलं मह्यं नासि दाशसुतेति च ॥KUMB: १-११४-२५; NILA: ०१.१०५.००९॥
प्रेक्ष्य तांस्तु महाभागान्पारावारे ऋषीन्स्थितान् । यमुनातीरविन्यस्तान्प्रदीप्तानिव पावकान् ॥KUMB: १-११४-२७॥
पुरस्तादरुणश्चैव तरुणः संप्रकाशते । येनैषा ताम्रवस्त्रेव द्यौः कृता प्रविजृम्भिता ॥KUMB: १-११४-२८॥
उक्तमात्रो मया तत्र नीहारमसृजत्प्रभुः । पराशरः सत्यधृतिर्द्वीपे च यमुनाम्भसि ॥KUMB: १-११४-२९॥
कन्यात्वं च ददौ प्रीतः पुनर्विद्वांस्तपोधनः । तस्य वीर्यमहं दृष्ट्वा तथा युक्तं महात्मनः ॥KUMB: १-११४-३३॥
विस्मिता व्यथिता चैव प्रादामात्मानमेव च । ततस्तदा महात्मा स कन्यायां मयि भारत । प्रहृष्टोऽजनयत्पुत्रं द्वीप एव पराशरः ॥KUMB: १-११४-३४॥
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः । सद्योत्पन्नः स तु महान्सह पित्रा ततो गतः ॥KUMB: १-११४-३७; NILA: ०१.१०५.०१६॥
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् । देशकालौ च जानासि क्रियतामर्थसिद्धये। ॥KUMB: १-११४-४१॥
पूजितो मन्त्रपूर्वं तु विधिवत्प्रीतिमाप सः । तमासनगतं माता पृष्ट्वा कुशलमव्ययम् ॥KUMB: १-११४-५१; NILA: ०१.१०५.०३०॥
अराजकेषु राष्ट्रेषु प्रजाऽनाथा विनश्यति । नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता ॥KUMB: १-११४-६५; NILA: ०१.१०५.०४४॥
तस्यापि च शतं पुत्रा भवितारो न संशयः । गोप्तारः कुरुवंशस्य भवत्याः शोकनाशनाः ॥KUMB: १-११४-६९॥
एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा । शयने सा च कौसल्या शुचिवस्त्रा ह्यलङ्कृता ॥KUMB: १-११४-७०; NILA: ०१.१०५.०४८॥
स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः । एवमुक्त्वा तु सा देवी स्नुषां सत्यवती तदा ॥KUMB: १-११४-७६॥
ततः सत्यवती काले वधूं स्नातामृतौ तदा । संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् ॥BORI: १-१००- १॥
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति । अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति ॥BORI: १-१००- २॥
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे । साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ॥BORI: १-१००- ३॥
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः । दीप्यमानेषु दीपेषु शयनं प्रविवेश ह ॥BORI: १-१००- ४॥
तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने । बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ॥BORI: १-१००- ५॥
सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया । भयात् काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥BORI: १-१००- ६॥
ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् । अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥BORI: १-१००- ७॥
निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् । प्रोवाचातीन्द्रियज्ञानो विधिना सम्प्रचोदितः ॥BORI: १-१००- ८॥
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः ॥BORI: १-१००- ९A॥
महाभागो महावीर्यो महाबुद्धिर्भविष्यति ॥BORI: १-१००- ९B॥
तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः ॥BORI: १-१००- १०A॥
किं तु मातुः स वैगुण्यादन्ध एव भविष्यति ॥BORI: १-१००- १०B॥
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् । नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥BORI: १-१००- ११॥
ज्ञातिवंशस्य गोप्तारं पितृणां वंशवर्धनम् । द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥BORI: १-१००- १२॥
स तथेति प्रतिज्ञाय निश्चक्राम महातपाः । सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥BORI: १-१००- १३॥
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः । ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता ॥BORI: १-१००- १४॥
ततस्तेनैव विधिना महर्षिस्तामपद्यत । अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् । विषण्णा पाण्डुसङ्काशा समपद्यत भारत ॥BORI: १-१००- १५॥
तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव । व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ॥BORI: १-१००- १६॥
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि । तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ॥BORI: १-१००- १७॥
नाम चास्य तदेवेह भविष्यति शुभानने । इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ॥BORI: १-१००- १८॥
ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत । शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ॥BORI: १-१००- १९॥
तं माता पुनरेवान्यमेकं पुत्रमयाचत । तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥BORI: १-१००- २०॥
ततः कुमारं सा देवी प्राप्तकालमजीजनत् । पाण्डुं लक्षणसम्पन्नं दीप्यमानमिव श्रिया । तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ॥BORI: १-१००- २१॥
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् । सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् । नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ॥BORI: १-१००- २२॥
ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् । प्रेषयामास कृष्णाय ततः काशिपतेः सुता ॥BORI: १-१००- २३॥
दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च । संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ॥BORI: १-१००- २४॥
कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः । तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ॥BORI: १-१००- २५॥
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि । अयं च ते शुभे गर्भः श्रीमानुदरमागतः । धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥BORI: १-१००- २६॥
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः । धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् ॥BORI: १-१००- २७॥
धर्मो विदुररूपेण शापात्तस्य महात्मनः । माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥BORI: १-१००- २८॥
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च । तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥BORI: १-१००- २९॥
एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि । जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥BORI: १-१००- ३०॥
ततः सुप्तजनप्रायेऽर्धरात्रे भगवानृषिः । दीप्यमानेषु दीपेषु शरणं प्रविवेश ह ॥KUMB: १-११५-४॥
तं समीक्ष्य तु कौसल्या दुष्प्रेक्षमतथोचिता । विरूप इति वित्रस्ता संकुच्यासीन्निमीलिता ॥KUMB: १-११५-६॥
विरूपो हि जटी चापि दुर्वर्णः परुषः कृशः । सुगन्धेतरगन्धश्च सर्वथा दुष्प्रधर्षणः ॥KUMB: १-११५-७॥
ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् । अपरस्यामपि पुनर्मम शोकविनाशनम् ॥KUMB: १-११५-१५॥
तस्मादवरजं पुत्रं जनयान्यं नराधिपम् । भ्रातुर्भार्याऽवरा चेयं रूपयौवनशालिनी ॥KUMB: १-११५-१६॥
अम्बालिकां समाहूय तस्यां सत्यवती सुतम् । भूयो नियोजयामास सन्तानाय कुलस्य वै ॥KUMB: १-११५-२०॥
विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे । कोन्वेष्यतीति ध्यायन्ती नियतां संप्रतीक्षते ॥KUMB: १-११५-२१॥
भविष्यति सुविक्रान्तः कुमारो दिक्षु विश्रुतः । पाण्डुत्वं वर्णतस्तस्य मातृदोषाद्भविष्यति ॥KUMB: १-११५-२८॥
तस्य पुत्रा महेष्वासा भविष्यन्तीह पञ्च वै । इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह ॥KUMB: १-११५-२९॥
यस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः । तयोर्जन्मक्रियाः सर्वा यथावदनुपूर्वशः ॥KUMB: १-११५-३२॥
कारयामास वै भीष्मो ब्राह्मणैर्वेदपारगैः । अन्धं दृष्ट्वाऽम्बिकापुत्रं जातं सत्यवती सुतम् ॥KUMB: १-११५-३३॥
कौसल्यार्थे समाहूय पुत्रमन्यमयाचत । अन्धोयमन्यमिच्छामि कौसल्यातनयं शुभम् ॥KUMB: १-११५-३४॥
एवमुक्तो महर्षिस्तां मातरं प्रत्यभाषत । नियता यदि कौसल्या भविष्यति पुनःशुभा ॥KUMB: १-११५-३५॥
भविष्यति कुमारोऽस्या धर्मशास्त्रार्थतत्ववित् । तां समाधाय वै भूयः स्नुषां सत्यवती पुनः ॥KUMB: १-११५-३६॥
संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह । वाग्भावोपप्रदानेन गात्रसंस्पर्शनेन च ॥KUMB: १-११५-४०॥
कृष्णद्वैपायनोऽप्येतत्सत्यवत्यै न्यवेदयत् । प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च ॥KUMB: १-११५-४५; NILA: ०१.१०६.०३०॥