Chapter 21: Duryodhana reveals his wicked disposition and desire to seize the kingdom by plotting Bhīma’s death; Yudhiṣṭhira takes control under Vidura’s guidance.
अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा । अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥BORI: १-११९-१३॥
धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि । बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ॥BORI: १-११९-१४॥
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे । धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥BORI: १-११९-१५॥
हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने । शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ॥BORI: १-११९-१६॥
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् । एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ॥BORI: १-११९-१७॥
पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली । चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ॥BORI: १-११९-१८॥
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः । आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ॥BORI: १-११९-१९॥
फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा । तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ॥BORI: १-११९-२०॥
प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः । सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ॥BORI: १-११९-२१॥
न ते नियुद्धे न जवे न योग्यासु कदाचन । कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥BORI: १-११९-२२॥
एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः । अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥BORI: १-११९-२३॥
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् । भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥BORI: १-११९-२४॥
तस्य धर्मादपेतस्य पापानि परिपश्यतः । मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥BORI: १-११९-२५॥
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः । मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ॥BORI: १-११९-२६॥
अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् । प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् ॥BORI: १-११९-२७॥
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा । नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥BORI: १-११९-२८॥
ततो जलविहारार्थं कारयामास भारत । चेलकम्बलवेश्मानि विचित्राणि महान्ति च ॥BORI: १-११९-२९॥
प्रमाणकोट्यामुद्देशं स्थलं किञ्चिदुपेत्य च । क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलङ्कृताः । सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥BORI: १-११९-३०॥
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः । विहारावसथेष्वेव वीरा वासमरोचयन् ॥BORI: १-११९-३१॥
तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह । उपच्छन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः ॥KUMB: १-१३८-१३ (६१९७)॥
अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्चते । परस्परस्य वक्त्रेषु ददुर्भक्ष्यांस्ततस्ततः ॥KUMB: १-१३८-१४ (६१९८)॥
ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम् । विषं प्रक्षेपयामास भीमसेनजिघांसया ॥KUMB: १-१३८-१५ (६१९९)॥
स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः । स वाचाऽमृतकल्पश्च भ्रातृवच्च सुहृद्यथा ॥KUMB: १-१३८-१६ (६२००)॥
स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पाकृत् । प्रभक्षितं च भीमेन तं वै दोषमजानता ॥KUMB: १-१३८-१७ (६२०१)॥
ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत । पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः ॥KUMB: १-१३८-१९ (६२०३)॥
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा । वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः । प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ॥BORI: १-११९-३२॥
शीतं वासं समासाद्य श्रान्तो मदविमोहितः । निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ॥BORI: १-११९-३३॥
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः । गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ॥BORI: १-११९-३४॥
वैशम्पायन उवाच. ॥KUMB: १-१३९-०क्ष् (८१८)॥
दुर्योधनस्तु पापात्मा भीममाशीविषहदे । प्रक्षिप्य कृतकृत्यं स्वमात्मानं मन्यते तदा ॥KUMB: १-१३९-१ (६२२८)॥
प्रभातायां रजन्यां च प्रविवेश पुरं ततः । ब्रुवाणो भीमसेनस्तु यातो ह्यग्रत एव नः ॥॥KUMB: १-१३९-२ (६२२९)॥
युधिष्ठिरस्तु धर्मात्मा ह्यविदन्पापमात्मनि । स्वेनानुमानेन परं साधुं समनुपश्यति ॥KUMB: १-१३९-३ (६२३०)॥
सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः । अभिवाद्याब्रवीत्कुन्तीमम्ब भीम इहागतः ॥KUMB: १-१३९-४ (६२३१)॥
क्व गतो भविता मातर्नेह पश्यामि तं शुभे । उद्यानानि वनं चैव विचितानि समन्ततः ॥KUMB: १-१३९-५ (६२३२)॥
तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम् । मन्यमानास्ततः सर्वे यातो नः पूर्वमेव सः ॥KUMB: १-१३९-६ (६२३३)॥
आगताः स्म महाभागे व्याकुलेनान्तरात्मना । इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु ॥KUMB: १-१३९-७ (६२३४)॥
कथयस्व महाबाहुं भीमसेनं यशस्विनि । नहि मे शुध्यते भावस्तं वीरं प्रति शोभने ॥KUMB: १-१३९-८ (६२३५)॥
यतः प्रसुप्तं मन्येऽहं भीम् नेति हतस्तु सः । इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता ॥KUMB: १-१३९-९ (६२३६)॥
हाहेति कृत्वा संभ्रान्ता प्रत्युवाच युधिष्ठिरम् । न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति ॥KUMB: १-१३९-१० (६२३७)॥
शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह । द्रुतं गत्वा पुरोद्यानं विचिन्वन्तिस्म पाण्डवाः ॥KUMB: १-१३९-११ (६२३८)॥
भीमभीमेति ते वाचा पाण्डवाः समुदैरयन् । विचिन्वन्तोऽथ ते सर्वे न स्म पश्यन्ति भ्रातरम् ॥KUMB: १-१३९-१२ (६२३९)॥
आगताः स्वगृहं भूय इदमूचुः पृथां तदा । न दृश्यते महाबाहुरम्ब भीमो वने चितः ॥KUMB: १-१३९-१३ (६२४०)॥
विचितानि च सर्वाणि ह्युद्यानानि नदीस्तथा. ॥KUMB: १-१३९-१४ (६२४१)॥
वैशम्पायन उवाच । ततो विदुरमानाय्य कुन्ती सा स्वं निवेशनम् ॥KUMB: १-१३९-१४क्ष् (८१९)॥
उवाच बलवान्क्षत्तर्भीमसेनो न दृश्यते ॥KUMB: १-१३९-१५ (६२४२)॥
उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह । तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह ॥KUMB: १-१३९-१६ (६२४३)॥
न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः । क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः ॥KUMB: १-१३९-१७ (६२४४)॥
निहन्यादपि तं वीरं जातमन्युः सुयोधनः । तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च ॥KUMB: १-१३९-१८ (६२४५)॥
विदुर उवाच. ॥KUMB: १-१३९-१९क्ष् (८२०)॥
मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु । प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत्तव ॥KUMB: १-१३९-१९ (६२४६)॥
दीर्घायुषस्तव सुता यथोवाच महामुनिः । आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति ॥KUMB: १-१३९-२० (६२४७)॥
वैशम्पायन उवाच. ॥KUMB: १-१३९-२१क्ष् (८२१)॥
एवमुक्त्वा ययौ विद्वान्विदुरः स्वं निवेशनम् । कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे ॥KUMB: १-१३९-२१ (६२४८)॥
स निःसंज्ञो जलस्यान्तमवाग्वै पाण्डवोऽविशत् । आक्रामन्नागभवने तदा नागकुमारकान् ॥KUMB: १-१३८-२५; NILA: ०१.१२८.०५५॥
ततः समेत्य बहुभिस्तदा नागैर्महाविषैः । अदश्यत भृशं भीमो महादंष्ट्रैर्विपोल्बणैः ॥KUMB: १-१३८-२६ (६२१०)॥
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः । त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥BORI: १-११९-३७॥
तत उत्थाय कौन्तेयो भीमसेनो महाबलः । आजगाम महाबाहुर्मातुरन्तिकमञ्जसा ॥KUMB: १-१३९-३१ (६२५८)॥
ततोऽभिवाद्य जननीं ज्येष्ठं भ्रातरमेव च । कनीयसः समाघ्राय शिरस्स्वरिविमर्दनः ॥KUMB: १-१३९-३२ (६२५९)॥
तैश्चापि संपरिष्वक्तः सह मात्रा नरर्षभैः । अन्योन्यगतसौहार्दाद्दिष्ट्या दिष्ट्येति चाब्रुवन् ॥KUMB: १-१३९-३३ (६२६०)॥
ततस्तत्सर्वमाचष्ट दुर्योधनविचेष्टितम् । भ्रातॄणां भीमसेनश्च महाबलपराक्रमः ॥KUMB: १-१३९-३४ (६२६१)॥
ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत् । तूष्णीं भव न ते जल्प्यमिदं कार्यं कथंचन ॥KUMB: १-१३९-३६ (६२६३)॥
इतःप्रभृति कौन्तेयं रक्षतान्योन्यमादृताः । एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः ॥KUMB: १-१३९-३७ (६२६४)॥
भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत्तदा । यदा त्ववगतास्ते वै पाण्डवास्तस्य कर्म तत् ॥KUMB: १-१३९-३८ (६२६५)॥
नत्वेव बहुलं चक्रुः प्रयता मन्त्ररक्षणे । धर्मात्मा विदुरस्तेषां प्रददौ मतिमान्मतिम् ॥KUMB: १-१३९-३९ (६२६६)॥
दुर्योधनोऽपि तं दृष्ट्वा पाण्डवं पुनरागतम् । निश्वसंश्चिन्तयंश्चैवमहन्यहनि तप्यते ॥KUMB: १-१३९-४० (६२६७)॥
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् । कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ॥BORI: १-११९-३९॥
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया । तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ॥BORI: १-११९-४०॥
विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् । भीमसंहननो भीमस्तदप्यजरयत्ततः ॥BORI: १-११९-४१॥
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥BORI: १-११९-४३॥
ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम् । उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः ॥BORI: १-११९-३५॥
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः । कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ॥BORI: १-११९-३६॥
प्रतिकुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् । सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥BORI: १-११९-३८॥
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥BORI: १-११९-४२॥
पुरोहितसहायास्ते यथान्यायमकुर्वत ॥KUMB: १-१३७-२॥
कुरूणामनयाच्चापि पृथिवी न भविष्यति ॥KUMB: १-१३७-८; NILA: ०१.१२८.००८॥
केचिद्भग्नशिरोरस्काः केचिद्भग्नकटीमुखाः । निपेतुर्भ्रातरः सर्वे भीमसेनभुजार्दिताः ॥KUMB: १-१३७-२३॥
प्राणवान्विक्रमी चैव शौर्येण महतान्वितः । स्पर्धते चापि सहितानस्मानेको वृकोदरः ॥KUMB: १-१३७-२९; KUMB: १-१३८-१; KUMB: १-१३८-२; NILA: ०१.१२८.०२८॥
तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे ॥KUMB: १-१३७-३०; KUMB: १-१३८-२; NILA: ०१.१२८.०२९॥
सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च । तत्र सञ्जनयामास नानागाराण्यनेकशः ॥KUMB: १-१३७-३३; NILA: ०१.१२८.०३२॥
उदकक्रीडनं नाम कारयामास भारत ॥KUMB: १-१३७-३४; NILA: ०१.१२८.०३३॥
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च । उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि ॥KUMB: १-१३८-४; NILA: ०१.१२८.०३४॥
न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा । ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः ॥KUMB: १-१३८-५; NILA: ०१.१२८.०३५॥
गङ्गां चैवानुयास्याम उद्यानवनशोभिताम् । सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः ॥KUMB: १-१३८-६; NILA: ०१.१२८.०३६॥
एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः । ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः ॥KUMB: १-१३८-७; NILA: ०१.१२८.०३७॥
निर्ययुर्नगराच्छूराः कौरवाः पाण्डवैः सह । उद्यानवनमासाद्य विसृज्य च महाजनम् ॥KUMB: १-१३८-८; NILA: ०१.१२८.०३८॥
विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम् । उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते ॥KUMB: १-१३८-९; NILA: ०१.१२८.०३९॥
उपस्थानगृहैः शुभ्रैर्वलभीभिश्च शोभितम् । गवाक्षकैस्तथा जालैर्यन्त्रैः साञ्चारिकैरपि ॥KUMB: १-१३८-१०; NILA: ०१.१२८.०४०॥
सम्मार्जितं सौधकारैश्चित्रकारैश्च चित्रितम् । दीर्घिकाभिश्च पूर्णाभिस्तथा पुष्करिणीभिर्हि ॥KUMB: १-१३८-११; NILA: ०१.१२८.०४१॥
जलं तच्छुशुभे च्छन्नं फुलैर्जलरुहैस्तथा । उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः ॥KUMB: १-१३८-१२; NILA: ०१.१२८.०४२॥
तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह । उपच्छन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः ॥KUMB: १-१३८-१३; NILA: ०१.१२८.०४३॥
अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्च ते । परस्परस्य वक्त्रभ्यो ददुर्भक्ष्यांस्ततस्ततः ॥KUMB: १-१३८-१४; NILA: ०१.१२८.०४४॥
ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम् । विषं प्रक्षेपयामास भीमसेनजिघांसया ॥KUMB: १-१३८-१५; NILA: ०१.१२८.०४५॥
स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः । स वाचा मृतकल्पश्च भर्तृवच्च सुहृद्यथा ॥KUMB: १-१३८-१६; NILA: ०१.१२८.०४६॥
स्वयं प्राक्षिपते भक्ष्यं बहु भीमस्य पापकृत् । प्रतीक्षितं स्म भीमेन तं वै दोषमजानता ॥KUMB: १-१३८-१७; NILA: ०१.१२८.०४७॥
ततो दुर्योधनस्तत्र हृदयेन हसन्निव । कृतकृत्यभिवात्मानं मन्यते पुरुषाधमः ॥KUMB: १-१३८-१८; NILA: ०१.१२८.०४८॥
ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत । पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः ॥KUMB: १-१३८-१९; NILA: ०१.१२८.०४९॥
विषेण च परीताङ्गो ॥KUMB: १-१३८-२२; NILA: ०१.१२८.०५३॥
शूलान्यप्सु निखायाशु प्रादेशाभ्यन्तराणि च ॥KUMB: १-१३८-२३॥
सशेषत्वान्न संप्राप्तो जले शूलिनि पाण्डवः । पपात यत्र तत्रास्य शूलं नासीद्यदृच्छया ॥KUMB: १-१३८-२४; KUMB: १-१३८-२५॥
पपात यत्र तत्रास्य शूलं नासीद्यदृच्छया.स निःसंज्ञो जलस्यान्तमवाग्वै पाण्डवोऽविशत् । आक्रामन्नागभवने तदा नागकुमारकान् ॥KUMB: १-१३८-२५ (६२०९)॥
ततः समेत्य बहुभिस्तदा नागैर्महाविषैः । अदश्यत भृशं भीमो महादंष्ट्रैर्विषोल्बणैः ॥KUMB: १-१३८-२६; NILA: ०१.१२८.०५६॥
ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम् । हतं सर्पविषेणैव स्थावरं जङ्गमेन तु ॥KUMB: १-१३८-२७; NILA: ०१.१२८.०५७॥
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः । त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥KUMB: १-१३८-२८; NILA: ०१.१२८.०५८॥
ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम् । पोथयामास तान्सर्वान्केचिद्भीताः प्रदुद्रुवः ॥KUMB: १-१३८-२९; NILA: ०१.१२८.०५९॥
हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः । ऊचुश्च सर्पराजानं वासुकिं वासवोपमम् ॥KUMB: १-१३८-३०; NILA: ०१.१२८.०६०॥
अयं नरो वै नागेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः । यथा च नो मतिर्वीर विषपीतो भविष्यति ॥KUMB: १-१३८-३१; NILA: ०१.१२८.०६१॥
निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यत । स सञ्ज्ञश्चापि संवृत्तश्छित्वा बन्धनमाशु नः ॥KUMB: १-१३८-३२; NILA: ०१.१२८.०६२॥
पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि । ततो वासुकिरभ्येत्य नागैरनुगतस्तदा ॥KUMB: १-१३८-३३; NILA: ०१.१२८.०६३॥
पश्यति स्म महाबाहुं भीमं भीमपराक्रमम् । आर्यकेण च दृष्टः स पृथाया आर्यकेण च ॥KUMB: १-१३८-३४; NILA: ०१.१२८.०६४॥
तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम् । सुप्रीतश्चाभवत्तस्य वासुकिः स महायशाः ॥KUMB: १-१३८-३५; NILA: ०१.१२८.०६५॥
अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम् । धनौघो रत्ननिचयो वसु चास्य प्रदीयताम् ॥KUMB: १-१३८-३६; NILA: ०१.१२८.०६६॥
एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत । यदि नागेन्द्र तुष्टोऽसि किमस्य धनसञ्चयैः ॥KUMB: १-१३८-३७; NILA: ०१.१२८.०६७॥
रसं पिवेत्कुमारोऽयं त्वयि प्रीते महाबलः । बलं नागसहस्रस्य यस्मिन्कुण्डे प्रतिष्ठितम् ॥KUMB: १-१३८-३८; NILA: ०१.१२८.०६८॥
यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम् । एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत ॥KUMB: १-१३८-३९; NILA: ०१.१२८.०६९॥
ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः । प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः ॥KUMB: १-१३८-४०; NILA: ०१.१२८.०७०॥
एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः । एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः ॥KUMB: १-१३८-४१; NILA: ०१.१२८.०७१॥
ततस्तु शयने दिव्ये नागदत्ते महाभुजः । अशेत भीमसेनस्तु यथासुखमरिंदमः ॥KUMB: १-१३८-४२; NILA: ०१.१२८.०७२॥
ततोऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः । तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली ॥KUMB: १-१३९-२२; NILA: ०१.१२९.०२०॥
तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः । सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन् ॥KUMB: १-१३९-२३; NILA: ०१.१२९.०२१॥
यत्ते पीतो महाबाहो रसोऽयं वीर्यसम्भृतः । तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि ॥KUMB: १-१३९-२४; NILA: ०१.१२९.०२२॥
गच्छाद्य त्वं च स्वगृहं स्नातो दिव्यैरिमैर्जलैः । भ्रातरस्तेऽनुतप्यन्ति त्वां विना कुरुपुङ्गव ॥KUMB: १-१३९-२५; NILA: ०१.१२९.०२३॥
ततः स्नातो महाबाहुः शुचिशुक्लाम्बरस्रजः । ततो नागस्य भवने कृतकौतुकमङ्गलः ॥KUMB: १-१३९-२६; NILA: ०१.१२९.०२४॥
ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः । भुक्तवान्परमान्नं च नागैर्दत्तं महाबलः ॥KUMB: १-१३९-२७; NILA: ०१.१२९.०२५॥
पूजितो भुजगैर्वीर आशीर्भिश्चाभिनन्दितः । दिव्याभरणसञ्छन्नो नागानामन्त्र्य पाण्डवः ॥KUMB: १-१३९-२८; NILA: ०१.१२९.०२६॥
उदतिष्ठत्प्रहृष्टात्मा नागलोकादरिन्दमः । उत्क्षिप्तः स तु नागेन जलाज्जलरुहेक्षणः ॥KUMB: १-१३९-२९; NILA: ०१.१२९.०२७॥
तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः । ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः ॥KUMB: १-१३९-३०; NILA: ०१.१२९.०२८॥
नागलोके च यद्वृत्तं गुणदोषमशेषतः । तच्च सर्वमशेषेण कथयामास पाण्डवः ॥KUMB: १-१३९-३५; NILA: ०१.१२९.०३३॥
स विमुक्तो महातेजा नाज्ञासीत्तेन तत्कृतम् ॥KUMB: १-१३७-४१॥
पुनर्निद्रावशं प्राप्तस्तत्रैव प्रास्वपद्बली । अर्धरात्र्यां व्यतीतायामुत्तस्थुः कुरुपाण्डवाः । दुर्योधनस्तु कौन्तेयं दृष्ट्वा निर्वेदमभ्यगात् ॥KUMB: १-१३७-४२॥
तथान्यदिवसे राजन्हन्तुकामोऽत्यमर्षणः । वलनेन सहामन्त्र्य सौबलस्य मते स्थितः ॥KUMB: १-१३७-४६॥
ततोऽन्यदिवसे राजन्हन्तुकामो वृकोदरम् ॥KUMB: १-१३७-४९॥
सौबलेन सहायेन धार्तराष्ट्रोऽभ्यचिन्तयत् । चिन्तयन्नालभन्निद्रां दिवारात्रमतन्द्रितः ॥KUMB: १-१३७-५०॥