Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
Chapter 29: Kuntī’s Decision to Send Bhīma Against Baka to Save Their Brahmin Host
जनमेजय उवाच॥
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥BORI: ०१-१४५-१॥
वैशम्पायन उवाच॥
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥BORI: ०१-१४५-२॥
रमणीयानि पश्यन्तो वनानि विविधानि च । पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥BORI: ०१-१४५-३॥
चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते । बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ॥BORI: ०१-१४५-४॥
निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि । तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ॥BORI: ०१-१४५-५॥
अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः । अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ॥BORI: ०१-१४५-६॥
तथा तु तेषां वसतां तत्र राजन्महात्मनाम् । अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥BORI: ०१-१४५-७॥
ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः । सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह ॥BORI: ०१-१४५-८॥
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने । भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥BORI: ०१-१४५-९॥
रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा । कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ॥BORI: ०१-१४५-१०॥
मथ्यमानेव दुःखेन हृदयेन पृथा ततः । उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥BORI: ०१-१४५-११॥
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने । अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥BORI: ०१-१४५-१२॥
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् । प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ॥BORI: ०१-१४५-१३॥
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति । यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥BORI: ०१-१४५-१४॥
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् । तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥BORI: ०१-१४५-१५॥
भीम उवाच॥
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् । विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥BORI: ०१-१४५-१६॥
वैशम्पायन उवाच॥
तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् । आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ॥BORI: ०१-१४५-१७॥
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः । विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ॥BORI: ०१-१४५-१८॥
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च । दुहित्रा चैव सहितं ददर्श विकृताननम् ॥BORI: ०१-१४५-१९॥
ब्राह्मण उवाच॥
धिगिदं जीवितं लोकेऽनलसारमनर्थकम् । दुःखमूलं पराधीनं भृशमप्रियभागि च ॥BORI: ०१-१४५-२०॥
जीविते परमं दुःखं जीविते परमो ज्वरः । जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥BORI: ०१-१४५-२१॥
एकात्मापि हि धर्मार्थौ कामं च न निषेवते । एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ॥BORI: ०१-१४५-२२॥
आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन । अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ॥BORI: ०१-१४५-२३॥
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् । जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥BORI: ०१-१४५-२४॥
न हि योगं प्रपश्यामि येन मुच्येयमापदः । पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् ॥BORI: ०१-१४५-२५॥
यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि । यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ॥BORI: ०१-१४५-२६॥
इह जाता विवृद्धास्मि पिता चेह ममेति च । उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ॥BORI: ०१-१४५-२७॥
स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव । बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥BORI: ०१-१४५-२८॥
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम । बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम ॥BORI: ०१-१४५-२९॥
अथवा मद्विनाशोऽयं न हि शक्ष्यामि कञ्चन । परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥BORI: ०१-१४५-३०॥
सहधर्मचरीं दान्तां नित्यं मातृसमां मम । सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥BORI: ०१-१४५-३१॥
मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् । वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥BORI: ०१-१४५-३२॥
कुलीनां शीलसम्पन्नामपत्यजननीं मम । त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् । परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ॥BORI: ०१-१४५-३३॥
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् । बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥BORI: ०१-१४५-३४॥
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना । यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह । स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥BORI: ०१-१४५-३५॥
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः । कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ ॥BORI: ०१-१४५-३६॥
यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् । अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥BORI: ०१-१४५-३७॥
आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः । त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥BORI: ०१-१४५-३८॥
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः । आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥BORI: ०१-१४५-३९॥
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् । अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः । सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ॥BORI: ०१-१४५-४०॥
युधिष्ठिरं च कुन्तीं च चिन्तयन्त उपासते ॥KUMB: १-१७१-४॥
भैक्षं चरन्तस्तु तदा जटिला ब्रह्मचारिणः ॥KUMB: १-१७१-५॥
दर्शनीया द्विजाः शुभ्रा देवगर्भोपमाः शुभाः । भैक्षानर्हाश्च राज्यार्हाः सुकुमारास्तपस्विनः ॥KUMB: १-१७१-६॥
नैते यथार्थतो विप्राः सुकुमारास्तपस्विनः । चरन्ति भूमौ प्रच्छन्नाः कस्माच्चित्कारणादिह ॥KUMB: १-१७१-७॥
सर्वलक्षणसंपन्ना भैक्षं नार्हन्ति नित्यशः । कार्यार्थिनश्चरन्तीति तर्कयन्त इति ब्रुवन् ॥KUMB: १-१७१-८॥
बन्धूनामागमान्नित्यमुपचारैस्तु नागराः । भाजनानि च पूर्णानि भक्ष्यभोज्यैरकारयन् ॥KUMB: १-१७१-९॥
मौनव्रतेन संयुक्ता भैश्रं गृह्णन्ति पाण्डवाः । माता चिरगतान्ज्ञात्वा शोचन्ती पाण्डवान्प्रति ॥KUMB: १-१७१-१०॥
दुःखाश्रुपूर्णनयना लिखन्त्यास्ते महीतलम् । भिक्षित्वा द्विजगेहेषु चिन्तयन्तश्च मातरम् ॥KUMB: १-१७१-११॥
स नाशितश्च भवति कल्याणान्नभुजिः पुरा । स वैवर्ण्यं च कार्श्यं च जगामातृप्तिकारितम् ॥KUMB: १-१७१-१५॥
आज्यबिन्दुर्यथा वह्नौ महति ज्वलिते भवेत् । तथार्धभागं भीमस्य भिक्षान्नस्य नरोत्तम ॥KUMB: १-१७१-१६॥
भीमोऽपि क्रीडयित्वाथ मिथो ब्राह्मणबन्धुषु । कुम्भकारेण संबन्धाल्लेभे पात्रं महत्तरम् ॥KUMB: १-१७१-१८॥
कुम्भकारोऽददात्पात्रं महत्कृत्वातिमात्रकम् । प्रहसन्भीमसेनाय विस्मितस्तस्य कर्मणा ॥KUMB: १-१७१-१९॥
तस्याद्भुतं कर्म कुर्वन्मृद्भारं महदाददे । मृद्भारैः शतसाहस्रैः कुम्भकारमतोषयत् ॥KUMB: १-१७१-२०॥
चक्रे चक्रे च मृद्भाण्डान्सततं भैक्षमाचरन् । तदादायागतं दृष्ट्वा हसन्ति प्रहसन्ति च ॥KUMB: १-१७१-२१॥
भक्ष्यभोज्यानि विविधान्यादाय प्रक्षिपन्ति च । एवमेव सदा भुक्त्वा मात्रे वदति वै रहः । न चाशितोऽस्मि भवति कल्याणान्नभृतः पुरा ॥KUMB: १-१७१-२२॥
यावन्तो यस्य संयोगा द्रव्यैरिष्टैर्भवन्त्युत । तावन्तोऽस्य निख्यन्ते हृदये शोकशङ्कवः ॥KUMB: १-१७१-४०॥
तदिदं जीवितं प्राप्य अल्पकालं महाभयम् । त्यागो हि न मया प्राप्तो भार्यया सहितेन च ॥KUMB: १-१७१-४१॥
न भोजनं विरुद्धं स्यान्न स्त्रीदेशो निबन्धनः । सुदूरमपि तं देशं व्रजेद्गरुडहंसवत् ॥KUMB: १-१७१-४६॥
कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम् । प्रार्थयेयं परां प्रीतिं यस्मिन्स्वर्गफलानि च ॥KUMB: १-१७१-५७॥
यस्य जातस्य पितरो मुखं दृष्ट्वा दिवं गताः । अहं मुक्तः पितृऋणाद्यस्य जातस्य तेजसा ॥KUMB: १-१७१-५८॥
दयितं मे कथं बालमहं त्यक्तुमिहोत्सहे । तमहं ज्येष्ठपुत्रं मे कुलनिर्हारकं विभुम् ॥KUMB: १-१७१-५९॥
मम पिण्डोदकनिधिं कथं त्यक्ष्यामि पुत्रकम् । त्यागोऽयं मम संप्राप्तो ममन्वा मे सुतस्य वा ॥KUMB: १-१७१-६०॥
तव वा तव पुत्र्या वा अत्र वासस्य तत्फलम् । न शृणोषि वचो मह्यं तत्फलं भुङ्क्ष्व भामिनि ॥KUMB: १-१७१-६१॥
अथवाहं न शक्ष्यामि स्वयं मर्तुं सुतं मम । एकं त्यक्तुं न शक्नोति भवतीं च सुतामपि ॥KUMB: १-१७१-६२॥
ब्राह्मण्युवाच॥
न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् । न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ॥BORI: ०१-१४६-१॥
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः । अवश्यभाविन्यर्थे वै सन्तापो नेह विद्यते ॥BORI: ०१-१४६-२॥
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते । व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै ॥BORI: ०१-१४६-३॥
एतद्धि परमं नार्याः कार्यं लोके सनातनम् । प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ॥BORI: ०१-१४६-४॥
तच्च तत्र कृतं कर्म तवापीह सुखावहम् । भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥BORI: ०१-१४६-५॥
एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव । अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ॥BORI: ०१-१४६-६॥
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि । कन्या चैव कुमारश्च कृताहमनृणा त्वया ॥BORI: ०१-१४६-७॥
समर्थः पोषणे चासि सुतयो रक्षणे तथा । न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ॥BORI: ०१-१४६-८॥
मम हि त्वद्विहीनायाः सर्वकामा न आपदः । कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् ॥BORI: ०१-१४६-९॥
कथं हि विधवानाथा बालपुत्रा विना त्वया । मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ॥BORI: ०१-१४६-१०॥
अहङ्कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् । अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम् ॥BORI: ०१-१४६-११॥
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः । प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् ॥BORI: ०१-१४६-१२॥
साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः । स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥BORI: ०१-१४६-१३॥
कथं तव कुलस्यैकामिमां बालामसंस्कृताम् । पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥BORI: ०१-१४६-१४॥
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान् । अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ॥BORI: ०१-१४६-१५॥
इमामपि च ते बालामनाथां परिभूय माम् । अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥BORI: ०१-१४६-१६॥
तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् । प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ॥BORI: ०१-१४६-१७॥
सम्प्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः । अनर्हवशमापन्नामिमां चापि सुतां तव ॥BORI: ०१-१४६-१८॥
अवज्ञाता च लोकस्य तथात्मानमजानती । अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः ॥BORI: ०१-१४६-१९॥
तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ । विनश्येतां न संदेहो मत्स्याविव जलक्षये ॥BORI: ०१-१४६-२०॥
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् । त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ॥BORI: ०१-१४६-२१॥
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः । न तु ब्राह्मणपुत्राणां विषये परिवर्तितुम् ॥BORI: ०१-१४६-२२॥
परित्यक्तः सुतश्चायं दुहितेयं तथा मया । बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ॥BORI: ०१-१४६-२३॥
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा । विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ॥BORI: ०१-१४६-२४॥
तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् । इष्टं चैव हितं चैव तव चैव कुलस्य च ॥BORI: ०१-१४६-२५॥
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः । आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् ॥BORI: ०१-१४६-२६॥
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन । न समं सर्वमेवेति बुधानामेष निश्चयः ॥BORI: ०१-१४६-२७॥
स कुरुष्व मया कार्यं तारयात्मानमात्मना । अनुजानीहि मामार्य सुतौ मे परिरक्ष च ॥BORI: ०१-१४६-२८॥
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये । धर्मज्ञान् राक्षसानाहुर्न हन्यात्स च मामपि ॥BORI: ०१-१४६-२९॥
निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः । अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ॥BORI: ०१-१४६-३०॥
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया । त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् ॥BORI: ०१-१४६-३१॥
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा । समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ॥BORI: ०१-१४६-३२॥
उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रियम् । ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ॥BORI: ०१-१४६-३३॥
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् । स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥BORI: ०१-१४६-३४॥
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् । आत्मानं तारय मया कुलं चेमौ च दारकौ ॥BORI: ०१-१४६-३५॥
वैशम्पायन उवाच॥
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत । मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ॥BORI: ०१-१४६-३६॥
स्त्रीजन्म गर्हितं नाथ लोके दुष्टजनाकुले । मातापित्रोर्वशे कन्या प्रौढा भर्तृवशे तथा ॥KUMB: १-१७२-१४॥
अभावे चानयोः पुत्रे खतन्त्रा स्त्री विगर्हिता ॥KUMB: १-१७२-१५॥
अनाथत्वं स्त्रियो द्वारं दुष्टानां विवृतं हि तत् । वस्त्रखण्डं घृताक्तं हि यथा संकृष्यते श्वभिः ॥KUMB: १-१७२-१६॥
हरिद्राञ्जनपुष्पादिसौमङ्गल्ययुता सती ॥KUMB: १-१७२-२६॥
मरणं याति या भर्तुस्तद्दत्तजलपायिनी । भर्तृपादार्पितमनाः सा याति गिरिजापदम् ॥KUMB: १-१७२-२७॥
गिराजायाः सखी भूत्वा मोदते नगकन्यया । मितं ददाति हि पिता मितं माता मितं सुतः ॥KUMB: १-१७२-२८॥
अमितस्य हि दातारं का पतिं नाभिनन्दति । आश्रमाश्चाग्निसंस्कारा जपहोमव्रतानि च ॥KUMB: १-१७२-२९॥
स्त्रीणां नैते विधातव्या विना पतिमनिन्दितम् । क्षमा शौचमनाहारमेतावद्विहितं स्त्रियाः ॥KUMB: १-१७२-३०॥
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥KUMB: १-१७२-३५; NILA: ०१.१५८.०२७॥
दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम् । सर्वमेतद्विधातव्यं बुधानामेष निश्चयः ॥KUMB: १-१७२-३६; NILA: ०१.१५८.०२८॥
उभयोः कोधिको विद्वन्नात्मा चैवाधिकः कुलात् ॥KUMB: १-१७२-३७॥
आत्मनो विद्यमानत्वाद्भुवनानि चतुर्दश । विद्यन्ते द्विजशार्दूल आतमा रक्ष्यस्ततस्त्वया ॥KUMB: १-१७२-३८॥
आत्मन्यविद्यमाने चेदस्य नास्तीह किंचन । एतज्जगदिदं सर्वमात्मना न समं किल ॥KUMB: १-१७२-३९॥
त्वच्छुश्रूषणसंभूता कीर्तिश्चाप्यतुला मम ॥KUMB: १-१७२-४३॥
मैवं वद त्वं कल्याणि तिष्ठ चेह सुमध्यमे । न तु भार्यां त्यजेत्प्राज्ञः पुत्रान्वापि कदाचन ॥KUMB: १-१७२-४९॥
वैशम्पायन उवाच॥
तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् । भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥BORI: १-१४७-१॥
किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् । ममापि श्रूयतां किञ्चिच्छ्रुत्वा च क्रियतां क्षमम् ॥BORI: १-१४७-२॥
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः । त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया ॥BORI: १-१४७-३॥
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति । तस्मिन्नुपस्थिते काले तरतं प्लववन्मया ॥BORI: १-१४७-४॥
इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् । सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥BORI: १-१४७-५॥
आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः । तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः ॥BORI: १-१४७-६॥
भ्राता च मम बालोऽयं गते लोकममुं त्वयि । अचिरेणैव कालेन विनश्येत न संशयः ॥BORI: १-१४७-७॥
तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे । पिण्डः पितृणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् ॥BORI: १-१४७-८॥
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् । दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता ॥BORI: १-१४७-९॥
त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः । सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ॥BORI: १-१४७-१०॥
आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल । स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय ॥BORI: १-१४७-११॥
अनाथा कृपणा बाला यत्रक्वचनगामिनी । भविष्यामि त्वया तात विहीना कृपणा बत ॥BORI: १-१४७-१२॥
अथवाहं करिष्यामि कुलस्यास्य विमोक्षणम् । फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ॥BORI: १-१४७-१३॥
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम । पीडिताहं भविष्यामि तदवेक्षस्व मामपि ॥BORI: १-१४७-१४॥
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम । आत्मानं परिरक्षस्व त्यक्तव्यां मां च सन्त्यज ॥BORI: १-१४७-१५॥
अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम् । त्वया दत्तेन तोयेन भविष्यति हितं च मे ॥BORI: १-१४७-१६॥
किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि । याचमानाः परादन्नं परिधावेमहि श्ववत् ॥BORI: १-१४७-१७॥
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे । अमृते वसती लोके भविष्यामि सुखान्विता ॥BORI: १-१४७-१८॥
एवं बहुविधं तस्या निशम्य परिदेवितम् । पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ॥BORI: १-१४७-१९॥
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः । उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ॥BORI: १-१४७-२०॥
मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् । प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति ॥BORI: १-१४७-२१॥
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् । अनेन तं हनिष्यामि राक्षसं पुरुषादकम् ॥BORI: १-१४७-२२॥
तथापि तेषां दुःखेन परीतानां निशम्य तत् । बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् ॥BORI: १-१४७-२३॥
अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् । गतासूनमृतेनेव जीवयन्तीदमब्रवीत् ॥BORI: १-१४७-२४॥
इतः प्रदाने देवाश्च पितरश्चेति नः श्रुतम् । त्वया दत्तेन तोयेन भविष्यति हिताय वै ॥KUMB: १-१७३-१८; NILA: ०१.१५९.०१८॥
इत्येतदुभयं तात निशाम्य तव यद्धितम् । तद्व्यवस्य तथाम्बाया हितं स्वस्य सुतस्य च ॥KUMB: १-१७३-१९॥
मातापित्रोश्च पुत्रास्तु भवितारो गुणान्विताः । न तु पुत्रस्य पितरो पुनर्जातु भविष्यतः ॥KUMB: १-१७३-२०॥
कुन्त्युवाच॥
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः । विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् ॥BORI: १-१४८-१॥
ब्राह्मण उवाच॥
उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने । न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥BORI: १-१४८-२॥
समीपे नगरस्यास्य बको वसति राक्षसः । ईशो जनपदस्यास्य पुरस्य च महाबलः ॥BORI: १-१४८-३॥
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः । रक्षत्यसुरराण्नित्यमिमं जनपदं बली ॥BORI: १-१४८-४॥
नगरं चैव देशं च रक्षोबलसमन्वितः । तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ॥BORI: १-१४८-५॥
वेतनं तस्य विहितं शालिवाहस्य भोजनम् । महिषौ पुरुषश्चैको यस्तदादाय गच्छति ॥BORI: १-१४८-६॥
एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् । स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥BORI: १-१४८-७॥
तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् । सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥BORI: १-१४८-८॥
वेत्रकीयगृहे राजा नायं नयमिहास्थितः । अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥BORI: १-१४८-९॥
एतदर्हा वयं नूनं वसामो दुर्बलस्य ये । विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः ॥BORI: १-१४८-१०॥
ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः । गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा ॥BORI: १-१४८-११॥
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । त्रयस्य सञ्चये चास्य ज्ञातीन्पुत्रांश्च धारयेत् ॥BORI: १-१४८-१२॥
विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् । त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् ॥BORI: १-१४८-१३॥
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः । भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥BORI: १-१४८-१४॥
न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् । सुहृज्जनं प्रदातुं च न शक्ष्यामि कथञ्चन । गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ॥BORI: १-१४८-१५॥
सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् । सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् । ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥BORI: १-१४८-१६॥
तथापि तत्त्वमाख्यास्ये दुःखस्यैतस्य संभवम् । शक्यं वा यदि वाऽशक्यं शृणु भद्रे यथातथम् ॥KUMB: १-१७४-३॥
समीपे नगरस्यास्य वको वसति राक्षसः । इतो गव्यूतिमात्रे.ञस्ति यमुनागह्वरे गुहा ॥KUMB: १-१७४-४॥
तस्यां घोरः स वसति जिघांसुः पुरुषादकः । बकाभिधानो दुष्टात्मा राक्षसानां कुलाधमः ॥KUMB: १-१७४-५॥
प्रबलः कामरूपी च राक्षसस्तु महाबलः । तेनोपसृष्टा नगरी वर्षमद्य त्रयोदशम् ॥KUMB: १-१७४-७॥
तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् । पुरुषादेन रौद्रेण भक्ष्यमाणा दुरात्मना ॥KUMB: १-१७४-८॥
अनाथा नगरी नाथं त्रातारं नाधिगच्छति । गुहायां च वसंस्तत्र बाधते सततं जनम् ॥KUMB: १-१७४-९॥
स्त्रियो बालांश्च वृद्धांश्च यूनश्चापि दुरात्मवान् । अत्र मन्त्रैश्च होमैश्च भोजनैश्च स राक्षसः ॥KUMB: १-१७४-१०॥
ईडितो द्विजमुख्यैश्च पूजितश्च दुरात्मवान् । यदा च सकलानेवं प्रसूदयति राक्षसः ॥KUMB: १-१७४-११॥
अथैनं ब्राह्मणाः सर्वे समये समयोजयन् । मा स्म कामाद्वधी रक्षो दास्यामस्ते सदा वयं ॥KUMB: १-१७४-१२॥
पर्यायेण यथाकाममिह मांसोदनं प्रभो । अन्नं मांससमायुक्तं तिलचूर्णसमन्वितम् ॥KUMB: १-१७४-१३॥
सर्पिषा च समायुक्तं व्यञ्जनैश्च समन्वितम् । सूपांस्त्रीन्सतिलान्पिण्डाँल्लाजापूपसुरासवान् ॥KUMB: १-१७४-१४॥
शृताशृतान्पानकुम्भान्स्थूलमांसं शृताशृतम् । वनमाहिषवाराहभाल्लूकं च शृताशृतम् ॥KUMB: १-१७४-१५॥
सर्पिःकुम्भांश्च विविधान्दधिकुम्भांस्तथा बहून् । सद्यःसिद्धसमायुक्तं तिलचूर्णैः समाकुलम् ॥KUMB: १-१७४-१६॥
कुलाच्च पुरुषं चैकं बलीवर्दौ च कालकौ । प्राप्स्यसि त्वमसंक्रुद्धो रक्षोभागं प्रकल्पितम् ॥KUMB: १-१७४-१७॥
तिष्ठेह समयेऽस्माकमित्ययाचन्त तं द्विजाः । बाढमित्येव तद्रक्षस्तद्वचः प्रत्यगृह्णत ॥KUMB: १-१७४-१८॥
परचक्राटवीकेभ्यो रक्षणं स करोति च । तस्मिन्भागे सुनिर्दिष्टे स्थितः स समये बली ॥KUMB: १-१७४-१९॥
वेत्रकीयगृहे राजा नायं नयमिहास्थितः । उपायं तं न कुरुते यत्नादपि स मन्दधीः । अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥KUMB: १-१७४-२२; NILA: ०१.१६०.००९॥
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम् । वयस्य संचयेनास्य ज्ञातीन्पुत्रांश्च तारयेत् ॥KUMB: १-१७४-२५॥
दुःखमूलमिदं भद्रे मयोक्तं प्रश्नतोऽनघे ॥KUMB: १-१७४-३१॥
कुन्त्युवाच॥
न विषादस्त्वया कार्यो भयादस्मात्कथञ्चन । उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ॥BORI: १-१४९-१॥
एकस्तव सुतो बालः कन्या चैका तपस्विनी । न ते तयोस्तथा पत्न्या गमनं तत्र रोचये ॥BORI: १-१४९-२॥
मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति । त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥BORI: १-१४९-३॥
ब्राह्मण उवाच॥
नाहमेतत्करिष्यामि जीवितार्थी कथञ्चन । ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् ॥BORI: १-१४९-४॥
न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते । यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् ॥BORI: १-१४९-५॥
आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये । ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम ॥BORI: १-१४९-६॥
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते । अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम ॥BORI: १-१४९-७॥
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे । परैः कृते वधे पापं न किञ्चिन्मयि विद्यते ॥BORI: १-१४९-८॥
अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया । निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ॥BORI: १-१४९-९॥
आगतस्य गृहे त्यागस्तथैव शरणार्थिनः । याचमानस्य च वधो नृशंसं परमं मतम् ॥BORI: १-१४९-१०॥
कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन । इति पूर्वे महात्मान आपद्धर्मविदो विदुः ॥BORI: १-१४९-११॥
श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् । ब्राह्मणस्य वधं नाहमनुमंस्ये कथञ्चन ॥BORI: १-१४९-१२॥
कुंत्युवाच॥
ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा । न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥BORI: १-१४९-१३॥
न चासौ राक्षसः शक्तो मम पुत्रविनाशने । वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥BORI: १-१४९-१४॥
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् । मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ॥BORI: १-१४९-१५॥
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः । बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥BORI: १-१४९-१६॥
न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथञ्चन । विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ॥BORI: १-१४९-१७॥
गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम । न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् ॥BORI: १-१४९-१८॥
वैशम्पायन उवाच॥
एवमुक्तस्तु पृथया स विप्रो भार्यया सह । हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् ॥BORI: १-१४९-१९॥
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् । तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ॥BORI: १-१४९-२०॥
नैव स्वयं सपुत्रस्य गमनं तत्र रोचये । एकस्तव सुतो बालः कन्या चैका तपस्विनी । न चैतयोस्तथा पत्न्या गमनं तव रोचये ॥KUMB: १-१७५-२॥
वैशम्पायन उवाच॥
करिष्य इति भीमेन प्रतिज्ञाते तु भारत । आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ॥BORI: १-१५०-१॥
भीमसेनं ततो दृष्ट्वा आपूर्णवदनं तथा । बुबोध धर्मराजस्तु हृषितं भीममच्युतम् ॥KUMB: १-१७६-२॥
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः । रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ॥BORI: १-१५०-२॥
किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः । भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति ॥BORI: १-१५०-३॥
कुंत्युवाच॥
ममैव वचनादेष करिष्यति परन्तपः । ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च ॥BORI: १-१५०-४॥
युधिष्ठिर उवाच॥
किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् । परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ॥BORI: १-१५०-५॥
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि । लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया ॥BORI: १-१५०-६॥
यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे । राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ॥BORI: १-१५०-७॥
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः । न शेते वसतीः सर्वा दुःखाच्छकुनिना सह ॥BORI: १-१५०-८॥
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् । अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ॥BORI: १-१५०-९॥
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम् । इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ॥BORI: १-१५०-१०॥
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया । कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः ॥BORI: १-१५०-११॥
कुन्त्युवाच॥
युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् । न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ॥BORI: १-१५०-१२॥
इह विप्रस्य भवने वयं पुत्र सुखोषिताः । तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता । एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ॥BORI: १-१५०-१३॥
दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतुगृहे महत् । हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे ॥BORI: १-१५०-१४॥
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् । येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ॥BORI: १-१५०-१५॥
वृकोदरबलो नान्यो न भूतो न भविष्यति । योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् ॥BORI: १-१५०-१६॥
जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ । शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता ॥BORI: १-१५०-१७॥
तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव । प्रतीकारं च विप्रस्य ततः कृतवती मतिम् ॥BORI: १-१५०-१८॥
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् । बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ॥BORI: १-१५०-१९॥
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः । प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ॥BORI: १-१५०-२०॥
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् । क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम् ॥BORI: १-१५०-२१॥
क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् । विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ॥BORI: १-१५०-२२॥
वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि । स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ॥BORI: १-१५०-२३॥
शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम् । प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते ॥BORI: १-१५०-२४॥
एवं स भगवान्व्यासः पुरा कौरवनन्दन । प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् ॥BORI: १-१५०-२५॥
युधिष्ठिर उवाच॥
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् । आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् । ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ॥BORI: १-१५०-२६॥
यथा त्विदं न विन्देयुर्नरा नगरवासिनः । तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ॥BORI: १-१५०-२७॥
तोषस्य कारणं यत्तु मनसाऽचिन्तयद्गुरुः । स समीक्ष्य तदा राजन्योद्धुकामं युधिष्ठिरः ॥KUMB: १-१७६-३॥
बकाय कल्पितं पुत्र महान्तं बलिमुत्तमम् । भीमो भुनक्तु सुस्पष्टमप्येकाहं तपःसुतः ॥KUMB: १-१७६-७॥
न च शोकेन बुद्धिः सा विलुप्ता गतचेकसः । इह विप्रस्य भवने वयं पुत्र सुखोषिताः । अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥KUMB: १-१७६-१६; NILA: ०१.१६२.०१३॥
यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुमं ततः । ब्राह्मणार्थे महान्धर्मो जानामीत्थं वृकोदरे ॥KUMB: १-१७६-१८; NILA: ०१.१६२.०१५॥
ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् । सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि ॥KUMB: १-१७७-२; NILA: ०१.१६३.००२॥