Chapter 14: Pāṇḍu’s death and Mādrī’s following him; Kuntī and the Pāṇḍavas return to Hastināpura, funeral rites are performed, and Satyavatī retires to the forest with Ambikā and Ambālikā.
वैशम्पायन उवाच॥
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने । तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् ॥BORI: १-११६-१॥
सुपुष्पितवने काले कदाचिन्मधुमाधवे । भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ॥BORI: १-११६-२॥
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः । अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥BORI: १-११६-३॥
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् । पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥BORI: १-११६-४॥
प्रहृष्टमनसं तत्र विहरन्तं यथामरम् । तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥BORI: १-११६-५॥
समीक्षमाणः स तु तां वयःस्थां तनुवाससम् । तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ॥BORI: १-११६-६॥
रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् । न शशाक नियन्तुं तं कामं कामबलात्कृतः ॥BORI: १-११६-७॥
तत एनां बलाद्राजा निजग्राह रहोगताम् । वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥BORI: १-११६-८॥
स तु कामपरीतात्मा तं शापं नान्वबुध्यत । माद्रीं मैथुनधर्मेण गच्छमानो बलादिव ॥BORI: १-११६-९॥
जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः । शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् ॥BORI: १-११६-१०॥
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता । सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥BORI: १-११६-११॥
स तया सह सङ्गम्य भार्यया कुरुनन्दन । पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥BORI: १-११६-१२॥
ततो माद्री समालिङ्ग्य राजानं गतचेतसम् । मुमोच दुःखजं शब्दं पुनः पुनरतीव ह ॥BORI: १-११६-१३॥
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ । आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥BORI: १-११६-१४॥
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः । एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥BORI: १-११६-१५॥
तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् । हताहमिति विक्रुश्य सहसोपजगाम ह ॥BORI: १-११६-१६॥
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले । कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥BORI: १-११६-१७॥
माद्र्युवाच॥
विलोभ्यमानेन मया वार्यमाणेन चासकृत् । आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥BORI: १-११६-२२॥
कुन्त्युवाच॥
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम । अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥BORI: १-११६-२३॥
अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् । उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥BORI: १-११६-२४॥
माद्र्युवाच॥
अहमेवानुयास्यामि भर्तारमपलायिनम् ॥BORI: १-११६-२५A॥
न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ॥BORI: १-११६-२५B॥
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः ॥BORI: १-११६-२६A॥
तमुच्छिन्द्यामस्य कामं कथं नु यमसादने ॥BORI: १-११६-२६B॥
न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते । वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् ॥BORI: १-११६-२७॥
तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् । मां हि कामयमानोऽयं राजा प्रेतवशं गतः ॥BORI: १-११६-२८॥
राज्ञः शरीरेण सह ममापीदं कलेवरम् । दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ॥BORI: १-११६-२९॥
दारकेष्वप्रमत्ता च भवेथाश्च हिता मम । अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किञ्चन ॥BORI: १-११६-३०॥
वैशम्पायन उवाच॥
इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् । मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी ॥BORI: १-११६-३१॥
वैशम्पायन उवाच॥
पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः । ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ॥BORI: १-११७-१॥
हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः । अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ॥BORI: १-११७-२॥
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह । प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥BORI: १-११७-३॥
ते परस्परमामन्त्र्य सर्वभूतहिते रताः । पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥BORI: १-११७-४॥
उदारमनसः सिद्धा गमने चक्रिरे मनः । भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि ॥BORI: १-११७-५॥
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे । पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ॥BORI: १-११७-६॥
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला । प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ॥BORI: १-११७-७॥
सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् । वर्धमानपुरद्वारमाससाद यशस्विनी ॥BORI: १-११७-८॥
तं चारणसहस्राणां मुनीनामागमं तदा । श्रुत्वा नागपुरे नृणां विस्मयः समजायत ॥BORI: १-११७-९॥
मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः । सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥BORI: १-११७-१०॥
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः । ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥BORI: १-११७-११॥
तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् । न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥BORI: १-११७-१२॥
तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः । प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥BORI: १-११७-१३॥
सा च सत्यवती देवी कौसल्या च यशस्विनी । राजदारैः परिवृता गान्धारी च विनिर्ययौ ॥BORI: १-११७-१४॥
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः । भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥BORI: १-११७-१५॥
तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च । उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥BORI: १-११७-१६॥
तथैव शिरसा भूमावभिवाद्य प्रणम्य च । उपोपविविशुः सर्वे पौरजानपदा अपि ॥BORI: १-११७-१७॥
तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा । भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ॥BORI: १-११७-१८॥
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी । महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ॥BORI: १-११७-१९॥
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः । कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥BORI: १-११७-२०॥
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना । साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ॥BORI: १-११७-२१॥
तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः । मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ॥BORI: १-११७-२२॥
पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः । यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति ॥BORI: १-११७-२३॥
यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ । अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ॥BORI: १-११७-२४॥
चरता धर्मनित्येन वनवासं यशस्विना । एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥BORI: १-११७-२५॥
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च । पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ॥BORI: १-११७-२६॥
वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च । पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥BORI: १-११७-२७॥
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् । प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥BORI: १-११७-२८॥
सा गता सह तेनैव पतिलोकमनुव्रता । तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥BORI: १-११७-२९॥
इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः । क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ॥BORI: १-११७-३०॥
प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः । लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥BORI: १-११७-३१॥
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् । क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ॥BORI: १-११७-३२॥
गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः । ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥BORI: १-११७-३३॥
धृतराष्ट्र उवाच॥
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय । राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥BORI: १-११८-१॥
पशून्वासांसि रत्नानि धनानि विविधानि च । पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥BORI: १-११८-२॥
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु । यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥BORI: १-११८-३॥
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः । यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥BORI: १-११८-४॥
वैशम्पायन उवाच॥
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत । पाण्डुं संस्कारयामास देशे परमसंवृते ॥BORI: १-११८-५॥
ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः । निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ॥BORI: १-११८-६॥
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः । अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ॥BORI: १-११८-१३॥
ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः । उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥BORI: १-११८-२७॥
वैशम्पायन उवाच॥
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् । आदाय विविशुः पौराः पुरं वारणसाह्वयम् ॥BORI: १-११९-३॥
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् । संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥BORI: १-११९-५॥
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः । श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ॥BORI: १-११९-६॥
बहुमायासमाकीर्णो नानादोषसमाकुलः । लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥BORI: १-११९-७॥
गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने । मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः ॥BORI: १-११९-८॥
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् । अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः । सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ॥BORI: १-११९-९॥
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् । वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥BORI: १-११९-१०॥
तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता । वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥BORI: १-११९-११॥
ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम । देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥BORI: १-११९-१२॥