Chapter 13: Gāndhārī’s hard mass is divided by Vyāsa into 101 embryos; jealousy underlies both Gāndhārī’s anguish and Dhṛtarāṣṭra’s dynastic anxiety.
वैशम्पायन उवाच॥
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय । धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥BORI: १-१०७-१॥
जनमेजय उवाच॥
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम । कियता चैव कालेन तेषामायुश्च किं परम् ॥BORI: १-१०७-३॥
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् । कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् । आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ॥BORI: १-१०७-४॥
वैशम्पायन उवाच॥
क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् । तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ॥BORI: १-१०७-७॥
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः ॥BORI: १-१०७-८A॥
ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ॥BORI: १-१०७-८B॥
संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् । अप्रजा धारयामास ततस्तां दुःखमाविशत् ॥BORI: १-१०७-९॥
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् । उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ॥BORI: १-१०७-१०॥
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः । सोदरं पातयामास गान्धारी दुःखमूर्च्छिता ॥BORI: १-१०७-११॥
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता । द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ॥BORI: १-१०७-१२॥
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् । तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥BORI: १-१०७-१३॥
ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् । सा चात्मनो मतं सत्यं शशंस परमर्षये ॥BORI: १-१०७-१४॥
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् । दुःखेन परमेणेदमुदरं पातितं मया ॥BORI: १-१०७-१५॥
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा । इयं च मे मांसपेशी जाता पुत्रशताय वै ॥BORI: १-१०७-१६॥
व्यास उवाच॥
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् । वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥BORI: १-१०७-१७॥
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् । शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ॥BORI: १-१०७-१८॥
वैशम्पायन उवाच॥
सा सिच्यमाना अष्ठीला अभवच्छतधा तदा । अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ॥BORI: १-१०७-१९॥
एकाधिकशतं पूर्णं यथायोगं विशां पते । मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ॥BORI: १-१०७-२०॥
ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा । स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ॥BORI: १-१०७-२१॥
शशास चैव भगवान्कालेनैतावता पुनः । विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ॥BORI: १-१०७-२२॥
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च । जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ॥BORI: १-१०७-२३॥
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः । जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ॥BORI: १-१०७-२४॥
जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् । समानीय बहून्विप्रान्भीष्मं विदुरमेव च ॥BORI: १-१०७-२५॥
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः । प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ॥BORI: १-१०७-२६॥
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति । एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ॥BORI: १-१०७-२७॥
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत । क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ॥BORI: १-१०७-२८॥
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः । तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥BORI: १-१०७-२९॥
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव । तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ॥BORI: १-१०७-३०॥
शतमेकोनमप्यस्तु पुत्राणां ते महीपते । एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ॥BORI: १-१०७-३१॥
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥BORI: १-१०७-३२॥
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः । न चकार तथा राजा पुत्रस्नेहसमन्वितः ॥BORI: १-१०७-३३॥
ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव । मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका ॥BORI: १-१०७-३४॥
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता । धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ॥BORI: १-१०७-३५॥
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः । जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ॥BORI: १-१०७-३६॥
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः । महारथानां वीराणां कन्या चैकाथ दुःशला ॥BORI: १-१०७-३७॥
जनमेजय उवाच॥
ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो । धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥BORI: १-१०८-१॥
वैशम्पायन उवाच॥
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा । दुःसहो दुःशलश्चैव जलसन्धः समः सहः ॥BORI: १-१०८-२॥
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः । दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥BORI: १-१०८-३॥
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः । चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥BORI: १-१०८-४॥
दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः । ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥BORI: १-१०८-५॥
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ । चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ॥BORI: १-१०८-६॥
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः । भीमवेगो भीमबलो बलाकी बलवर्धनः ॥BORI: १-१०८-७॥
उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः । दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥BORI: १-१०८-८॥
दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् । उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ॥BORI: १-१०८-९॥
अपराजितः पण्डितको विशालाक्षो दुरावरः । दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥BORI: १-१०८-१०॥
आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ । कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ॥BORI: १-१०८-११॥
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः । अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ॥BORI: १-१०८-१२॥
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः । दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ॥BORI: १-१०८-१३॥
कुण्डाशी विरजाश्चैव दुःशला च शताधिका । एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ॥BORI: १-१०८-१४॥
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप । सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥BORI: १-१०८-१५॥
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः । सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ॥BORI: १-११५-२८॥
सर्वेषामनुरूपाश्च कृता दारा महीपते । धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ॥BORI: १-१०८-१७॥
दुःशलां समये राजा सिन्धुराजाय भारत । जयद्रथाय प्रददौ सौबलानुमते तदा ॥BORI: १-१०८-१८॥