Bhārata
Chapter 18: Droṇa’s guru-dakṣiṇā; Yudhiṣṭhira’s strategy, Drupada’s capture by the Pāṇḍavas, and Droṇa’s division of Pañcāla.
वैशम्पायन उवाच॥
ततः शिष्यान्समानीय आचार्यार्थमचोदयत् । द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ॥BORI: १-१२८-१॥
पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि । पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥BORI: १-१२८-२॥
ततोऽभिजग्मुः पञ्चालान्निघ्नन्तस्ते नरर्षभाः । ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ॥KUMB: १-१४८-७॥
दुर्योधनश्च कर्णश्च युयुत्सुश्च महाबलः । दुःशासनो विकर्णश्च जलसन्धः सुलोचनः ॥KUMB: १-१४८-८॥
एते चान्ये च बहवः कुमारा बहुविक्रमाः । अहं पूर्वमहं पूर्वमित्येवं क्षत्रियर्षभाः ॥KUMB: १-१४८-९॥
ततो वरराथारूढाः कुमाराः सादिभिः सह । प्रविश्य नगरं सर्वे राजमार्गमुपाययुः ॥KUMB: १-१४८-१०॥
तस्मिन्काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद्बलम् । भ्रातृभिः सहितो राजंस्त्वरया निर्ययौ गृहात् ॥KUMB: १-१४८-११॥
ततस्तु कृतसन्नाहा यज्ञसेनसहोदराः । शरवर्षाणि मुञ्चन्तः प्रणेदुः सर्व एव ते ॥KUMB: १-१४८-१२॥
ततो रथेन शुभ्रेण समासाद्य तु कौरवान् । यज्ञसेनः शरान्घोरान्ववर्ष युधि दुर्जयः ॥KUMB: १-१४८-१३॥
पूर्वमेव तु संमन्त्र्य पार्थो द्रोणमथाऽब्रवीत् । दर्पोद्रेकात्कुमाराणामाचार्यं द्विजसत्तमम् ॥KUMB: १-१४८-१४॥
एषां पराक्रमस्यान्ते वयं कुर्याम साहसम् । एतैरशक्यः पाञ्चालो ग्रहीतुं रणमूर्धनि ॥KUMB: १-१४८-१५॥
एवमुक्त्वा तु कौन्तेयो भ्रातृभिः सहितोऽनघः । अर्धक्रोशे तु नगरादतिष्ठद्बहिरेव सः ॥KUMB: १-१४८-१६॥
द्रुपदः कौरवान्दृष्ट्वा प्राधावत समन्ततः । शरजालेन महता मोहयन्कौरवीं चमूम् ॥KUMB: १-१४८-१७॥
तमुद्यतं रथेनैकमाशुकारिणमाहवे । अनेकमिव सन्त्रासान्मेनिरे तत्र कौरवाः ॥KUMB: १-१४८-१८॥
द्रुपदस्य शरा घोरा विचेरुः सर्वतोदिशम् । ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः ॥KUMB: १-१४८-१९॥
प्रावाद्यन्त महाराज पञ्चालानां निवेशने । सिंहनादश्च संजज्ञे पञ्चालानां महात्मनाम् ॥KUMB: १-१४८-२०॥
धनुर्ज्यातलशब्दश्च संस्पृश्य गगनं महान् । दुर्योधनो विकर्णश्च सुबाहुर्दीर्घलोचनः ॥KUMB: १-१४८-२१॥
दुःशाशनश्च संक्रुद्धः शरवर्षैरवाकिरन् । सोऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः ॥KUMB: १-१४८-२२॥
व्यधमत्तान्यनीकानि तत्क्षणादेव भारत । दुर्योधनं विकर्णं च कर्णं चापि महाबलम् ॥KUMB: १-१४८-२३॥
नानानृपसुतान्वीरान्सैन्यानि विविधानि च । अलातचक्रवत्सर्वं चरन्बाणैरतर्पयत् ॥KUMB: १-१४८-२४॥
ततस्तु नागराः सर्वे मुसलैर्यष्टिभिस्तदा । अभ्यवर्षन्त कौरव्यान्वर्षमाणा घा इव ॥KUMB: १-१४८-२५॥
सबालवृद्धाः काम्पिल्याः कौरवानभ्ययुस्तदा । श्रुत्वा सुतुमुलं युद्धं कौरवानेव भारत ॥KUMB: १-१४८-२६॥
द्रवन्तिस्म नदन्तिस्म क्रोशन्तः पाण्डवान्प्रति । पाडवास्तु स्वनं श्रुत्वा आर्तानां रोमहर्षणम् ॥KUMB: १-१४८-२७॥
अभिवाद्य ततो द्रोणं रथानारुरुहुस्तदा ॥KUMB: १-१४८-२८A॥
माद्रेयौ चक्ररक्षौ तु फाल्गुनश्च तदाऽकरोत् । सेनाग्रगो भीमसेनस्तदाभूद्गदया सह ॥KUMB: १-१४८-२९॥
तदा शत्रुस्वनं श्रुत्वा भ्रातृभिः सहितोऽनघः । आयाज्जवेन कौन्तेयो रथेनानादयन्दिशः ॥KUMB: १-१४८-३०॥
पञ्चालानां ततः सेनामुद्धूतार्णवनिःस्वनाम् । भीमसेनो महाबाहुर्दण्डपाणिरिवान्तकः ॥KUMB: १-१४८-३१॥
प्रविवेश महासेनां मकरः सागरं यथा । चतुरङ्गबलाकीर्णे ततस्तस्मिन्रणोत्सवे ॥॥KUMB: १-१४८-३२॥
स्वयमभ्यद्रवद्भीमो नागानीकं गदाधरः ॥KUMB: १-१४८-३३॥
स युद्धकुशलः पार्थो बाहुवीर्येण चातुलः । अहनत्कुञ्जरानीकं गदया कालरूपधृक् ॥KUMB: १-१४८-३४॥
ते गजा गिरिसङ्काशाः क्षरन्तो रुधिरं बहु । भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः ॥KUMB: १-१४८-३५॥
पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः । गजानश्वान्रथांश्चैव पातयामास पाण्डवः ॥KUMB: १-१४८-३६॥
पदातींश्च रथांश्चैव न्यवधीदर्जुनाग्रजः । गोपाल इव दण्डेन यथा पशुगणान्वने ॥KUMB: १-१४८-३७॥
चालयन्रथनागांश्च संचचाल वृकोदरः । भारद्वाजप्रियं कर्तुमुद्यतः फाल्गुनस्तदा ॥KUMB: १-१४८-३८॥
पार्षतं शरजालेन क्षिपन्नागात्स पाण्डवः । हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः ॥KUMB: १-१४८-३९॥
पातयन्समरे राजन्युगान्ताग्रिरिव ज्वलन् । ततस्ते हन्यमाना वै पञ्चालाः सृञ्जयास्तथा ॥KUMB: १-१४८-४०॥
शरैर्नानाविधैस्तूर्णं पार्थं संछाद्य सर्वशः । सिंहनादं मुखैः कृत्वा समयुध्वन्त पाण्डवम् ॥KUMB: १-१४८-४१॥
तद्युद्धमभवद्धोरं समुहाद्भुतदर्शनम् । सिंहनादस्वनं श्रुत्वा नामृष्यत्पाकशासनिः ॥KUMB: १-१४८-४२॥
ततः किरीटी सहसा पञ्चालान्समरेऽद्रवत् । छादयन्निषुजालेन महता मोहयन्निव ॥KUMB: १-१४८-४३॥
शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् । नान्तरं ददृशे किंचित्कौन्तेयस्य यशस्विनः ॥KUMB: १-१४८-४४॥
दृष्ट्वा पार्थं तदायान्तं सत्यजित्सत्यविक्रमः । पाञ्चालं वै परिप्रेप्सुर्धनञ्जयमदुद्रुवत् ॥KUMB: १-१४८-५०॥
वेगं चक्रे महावेगो धनुर्ज्यामवमृज्य च । ततः सत्यजितश्चापं छित्वा राजानमभ्ययात् ॥KUMB: १-१४८-५४॥
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् । साश्वं ससूतं सरथं पार्थं विव्याध सत्वरः ॥KUMB: १-१४८-५५॥
स तं न ममृषे पार्थः पाञ्चालेनार्दितो युधि । ततस्तस्य विनाशार्थं सत्वरं व्यसृजच्छरान् ॥KUMB: १-१४८-५६॥
हयान्ध्वजं धनुर्मुष्टिमुभौ तौ पार्ष्णिसारथी । स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः ॥KUMB: १-१४८-५७॥
हयेषु विनिकृत्तेषु विमुखोऽभवदाहवे । स सत्यजितमालेक्य तथा विमुखमाहवे ॥KUMB: १-१४८-५८॥
वेगेन महता राजन्नभ्यधावत पार्षतम् । तदा चक्रे महद्युद्धमर्जुनो जयतां वरः ॥KUMB: १-१४८-५९॥
तस्य पार्थो धनुश्छित्त्वा ध्वजं चोर्व्यामपातयत् । पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः ॥KUMB: १-१४८-६०॥
तत उत्सृज्य तच्चापमाददानः शरावरम् । खड्गमुद्धृत्य कौन्तेयः सिंहनादमथाकरोत् ॥KUMB: १-१४८-६१॥
पाञ्चालस्य रथस्येषामाप्लुत्य सहसाऽपतत् । पाञ्चालरथमास्थाय अवित्रस्तो धनञ्जयः ॥KUMB: १-१४८-६२॥
विक्षोभ्याम्भोनिधिंतार्क्ष्यस्तंनागमिव सोऽग्रहीत् । ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश ॥KUMB: १-१४८-६३॥
दर्शयन्सर्वसैन्यानां स बाह्वोर्बलमात्मनः । सिंहनादस्वनं कृत्वा निर्जगाम धनञ्जयः ॥KUMB: १-१४८-६४॥
आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा । ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः ॥KUMB: १-१४८-६५॥
अर्जुन उवाच. ॥KUMB: १-१४८-६६क्ष्॥
संबन्धी कुरुवीराणां द्रुपदो राजसत्तमः । मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम् ॥KUMB: १-१४८-६६॥
वैशम्पायन उवाच. ॥KUMB: १-१४८-६७क्ष्॥
भीमसेनस्तदा राजन्नर्जुनेन निवारितः । अतृप्तो युद्धधर्मेषु न्यवर्तत महाबलः ॥KUMB: १-१४८-६७॥
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि । उपाजग्मुः सहामात्यं द्रोणाय भरतर्षभ ॥KUMB: १-१४८-६८॥
भग्नदर्पं हृतधनं तथा च वशमागतम् । स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥BORI: १-१२८-६॥
प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया । प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥BORI: १-१२८-७॥
एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् । मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् ॥BORI: १-१२८-८॥
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह । तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ ॥BORI: १-१२८-९॥
प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ । वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥BORI: १-१२८-१०॥
अराजा किल नो राज्ञां सखा भवितुमर्हति । अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥BORI: १-१२८-११॥
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे । सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥BORI: १-१२८-१२॥
द्रुपद उवाच॥
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु । प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥BORI: १-१२८-१३॥
वैशम्पायन उवाच॥
एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत । सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥BORI: १-१२८-१४॥
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् । सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् । दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी ॥BORI: १-१२८-१५॥
द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह । क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ॥BORI: १-१२८-१६॥
हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च । पुत्रजन्म परीप्सन्वै स राजा तदधारयत् । अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥BORI: १-१२८-१७॥
एवं राजन्नहिच्छत्रा पुरी जनपदायुता । युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥BORI: १-१२८-१८॥