Bhārata
Chapter 19: Duryodhana and Dhṛtarāṣṭra conspire to remove the Pāṇḍavas; the plot at Vāraṇāvata is set in motion to burn them alive.
वैशम्पायन उवाच॥
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः ॥BORI: १-१२९-१॥
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥BORI: १-१२९-२॥
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥BORI: १-१२९-३॥
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा । कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ॥BORI: १-१२९-४॥
प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः । राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥BORI: १-१२९-५॥
तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः । प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति ॥BORI: १-१२९-६॥
ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् । अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ॥BORI: १-१२९-७॥
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् । सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ॥BORI: १-१२९-८॥
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् । युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥BORI: १-१२९-९॥
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे । ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् ॥BORI: १-१२९-१०॥
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः । पौरानुरागसन्तप्तः पश्चादिदमभाषत ॥BORI: १-१२९-११॥
श्रुता मे जल्पतां तात पौराणामशिवा गिरः । त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥BORI: १-१२९-१२॥
मतमेतच्च भीष्मस्य न स राज्यं बुभूषति । अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥BORI: १-१२९-१३॥
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा । त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥BORI: १-१२९-१४॥
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः । तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ॥BORI: १-१२९-१५॥
ते वयं राजवंशेन हीनाः सह सुतैरपि । अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥BORI: १-१२९-१६॥
सततं निरयं प्राप्ताः परपिण्डोपजीविनः । न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् ॥BORI: १-१२९-१७॥
अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप । ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥BORI: १-१२९-१८॥
वैशम्पायन उवाच॥
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् । मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् ॥BORI: १-१३०-१॥
धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः । सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ॥BORI: १-१३०-२॥
नास्य किञ्चिन्न जानामि भोजनादि चिकीर्षितम् । निवेदयति नित्यं हि मम राज्यं धृतव्रतः ॥BORI: १-१३०-३॥
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः । गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः ॥BORI: १-१३०-४॥
स कथं शक्यमस्माभिरपक्रष्टुं बलादितः । पितृपैतामहाद्राज्यात्ससहायो विशेषतः ॥BORI: १-१३०-५॥
भृता हि पाण्डुनामात्या बलं च सततं भृतम् । भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥BORI: १-१३०-६॥
ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः । कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥BORI: १-१३०-७॥
दुर्योधन उवाच॥
एवमेतन्मया तात भावितं दोषमात्मनि । दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः ॥BORI: १-१३०-८॥
ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः । अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ॥BORI: १-१३०-९॥
स भवान्पाण्डवानाशु विवासयितुमर्हति । मृदुनैवाभ्युपायेन नगरं वारणावतम् ॥BORI: १-१३०-१०॥
यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति । तदा कुन्ती सहापत्या पुनरेष्यति भारत ॥BORI: १-१३०-११॥
धृतराष्ट्र उवाच॥
दुर्योधन ममाप्येतद्धृदि सम्परिवर्तते । अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् ॥BORI: १-१३०-१२॥
न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः । विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ॥BORI: १-१३०-१३॥
समा हि कौरवेयाणां वयमेते च पुत्रक । नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ॥BORI: १-१३०-१४॥
ते वयं कौरवेयाणामेतेषां च महात्मनाम् । कथं न वध्यतां तात गच्छेम जगतस्तथा ॥BORI: १-१३०-१५॥
दुर्योधन उवाच॥
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः । यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः ॥BORI: १-१३०-१६॥
कृपः शारद्वतश्चैव यत एते त्रयस्ततः । द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ॥BORI: १-१३०-१७॥
क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे । न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ॥BORI: १-१३०-१८॥
स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय । वारणावतमद्यैव नात्र दोषो भविष्यति ॥BORI: १-१३०-१९॥
वैशम्पायन उवाच॥
ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः । अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः ॥BORI: १-१३१-१॥
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः । कथयां चक्रिरे रम्यं नगरं वारणावतम् ॥BORI: १-१३१-२॥
अयं समाजः सुमहान्रमणीयतमो भुवि । उपस्थितः पशुपतेर्नगरे वारणावते ॥BORI: १-१३१-३॥
सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे । इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥BORI: १-१३१-४॥
कथ्यमाने तथा रम्ये नगरे वारणावते । गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥BORI: १-१३१-५॥
यदा त्वमन्यत नृपो जातकौतूहला इति । उवाचैनानथ तदा पाण्डवानम्बिकासुतः ॥BORI: १-१३१-६॥
ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः । रमणीयतरं लोके नगरं वारणावतम् ॥BORI: १-१३१-७॥
ते तात यदि मन्यध्वमुत्सवं वारणावते । सगणाः सानुयात्राश्च विहरध्वं यथामराः ॥BORI: १-१३१-८॥
कञ्चित्कालं विहृत्यैवमनुभूय परां मुदम् । इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥BORI: १-१३१-१०॥
धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः । आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ॥BORI: १-१३१-११॥
वैशम्पायन उवाच॥
एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु । दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ॥BORI: १-१३२-१॥
ततः सुबलपुत्रश्च कर्णदुर्योधनावपि । दहने सह पुत्रायाः कुन्त्या मतिमकुर्वत । मन्त्रयित्वा स तैः सार्धं दुरात्मा धृतराष्ट्रजः ॥KUMB: १-१५६-२॥
स पुरोचनमेकान्तमानीय भरतर्षभ । गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ॥BORI: १-१३२-२॥
ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा । यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि ॥BORI: १-१३२-३॥
न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया । सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ॥BORI: १-१३२-४॥
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर । निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ॥BORI: १-१३२-५॥
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् । उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥BORI: १-१३२-६॥
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना । वारणावतमद्यैव यथा यासि तथा कुरु ॥BORI: १-१३२-७॥
तत्र गत्वा चतुःशालं गृहं परमसंवृतम् । आयुधागारमाश्रित्य कारयेथा महाधनम् ॥BORI: १-१३२-८॥
शणसर्जरसादीनि यानि द्रव्याणि कानिचित् । आग्नेयान्युत सन्तीह तानि सर्वाणि दापय ॥BORI: १-१३२-९॥
सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया । मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः ॥BORI: १-१३२-१०॥
शणान्वंशं घृतं दारु यन्त्राणि विविधानि च । तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥BORI: १-१३२-११॥
यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः । आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः ॥BORI: १-१३२-१२॥
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् । वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् ॥BORI: १-१३२-१३॥
तत्रासनानि मुख्यानि यानानि शयनानि च । विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ॥BORI: १-१३२-१४॥
यथा रमेरन्विश्रब्धा नगरे वारणावते । तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥BORI: १-१३२-१५॥
ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् । अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः ॥BORI: १-१३२-१६॥
दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः । ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् ॥BORI: १-१३२-१७॥
तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः । प्रायाद्रासभयुक्तेन नगरं वारणावतम् ॥BORI: १-१३२-१८॥
स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः । यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ॥BORI: १-१३२-१९॥
वैशम्पायन उवाच॥
पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः । आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ॥BORI: १-१३३-१॥
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः । अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ॥BORI: १-१३३-२॥
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः । समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः ॥BORI: १-१३३-३॥
सर्वा मातृस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् । सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् ॥BORI: १-१३३-४॥
विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः । पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः ॥BORI: १-१३३-५॥
तत्र केच्चिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा । शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ ॥BORI: १-१३३-६॥
विषमं पश्यते राजा सर्वथा तमसावृतः । धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति ॥BORI: १-१३३-७॥
न हि पापमपापात्मा रोचयिष्यति पाण्डवः । भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः । कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ॥BORI: १-१३३-८॥
तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते । अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते । विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान् ॥BORI: १-१३३-९॥
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा । विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ॥BORI: १-१३३-१०॥
स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति । राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते ॥BORI: १-१३३-११॥
वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् । गृहान्विहाय गच्छामो यत्र याति युधिष्ठिरः ॥BORI: १-१३३-१२॥
तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः । उवाच परमप्रीतो धर्मराजो युधिष्ठिरः ॥BORI: १-१३३-१३॥
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः । अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ॥BORI: १-१३३-१४॥
भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् । आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् ॥BORI: १-१३३-१५॥
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते । तदा करिष्यथ मम प्रियाणि च हितानि च ॥BORI: १-१३३-१६॥
ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् । आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि ॥BORI: १-१३३-१७॥
पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् । बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् । प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् ॥BORI: १-१३३-१८॥
विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा । अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् । यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः ॥BORI: १-१३३-१९॥
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः । न दहेदिति चात्मानं यो रक्षति स जीवति ॥BORI: १-१३३-२०॥
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः । नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः ॥BORI: १-१३३-२१॥
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् । श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ॥BORI: १-१३३-२२॥
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः । आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते ॥BORI: १-१३३-२३॥
अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् । पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ॥BORI: १-१३३-२४॥
निवृत्ते विदुरे चैव भीष्मे पौरजने तथा । अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् ॥BORI: १-१३३-२५॥
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव । त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् ॥BORI: १-१३३-२६॥
यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् । श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ॥BORI: १-१३३-२७॥
युधिष्ठिर उवाच॥
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् । पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् ॥BORI: १-१३३-२८॥
जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् । विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया ॥BORI: १-१३३-२९॥
वैशम्पायन उवाच॥
अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते । वारणावतमासाद्य ददृशुर्नागरं जनम् ॥BORI: १-१३३-३०॥
वैशम्पायन उवाच॥
ततः सर्वाः प्रकृतयो नगराद्वारणावतात् । सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥BORI: १-१३४-१॥
श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः । अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥BORI: १-१३४-२॥
ते समासाद्य कौन्तेयान्वारणावतका जनाः । कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥BORI: १-१३४-३॥
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः । विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ॥BORI: १-१३४-४॥
सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः । अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ॥BORI: १-१३४-५॥
ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् । ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥BORI: १-१३४-६॥
नगराधिकृतानां च गृहाणि रथिनां तथा । उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ॥BORI: १-१३४-७॥
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः । जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ॥BORI: १-१३४-८॥
तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च । आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥BORI: १-१३४-९॥
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः । उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥BORI: १-१३४-१०॥
दशरात्रोषितानां तु तत्र तेषां पुरोचनः । निवेदयामास गृहं शिवाख्यमशिवं तदा ॥BORI: १-१३४-११॥
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः । पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥BORI: १-१३४-१२॥
तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः । उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः । जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ॥BORI: १-१३४-१३॥
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप । शणसर्जरसं व्यक्तमानीतं गृहकर्मणि । मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् ॥BORI: १-१३४-१४॥
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि । विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥BORI: १-१३४-१५॥
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा । आपदं तेन मां पार्थ स सम्बोधितवान्पुरा ॥BORI: १-१३४-१६॥
ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् । आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥BORI: १-१३४-१७॥
भीम उवाच॥
यदिदं गृहमाग्नेयं विहितं मन्यते भवान् । तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥BORI: १-१३४-१८॥
युधिष्ठिर उवाच॥
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये । नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥BORI: १-१३४-१९॥
यदि विन्देत चाकारमस्माकं हि पुरोचनः । शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ॥BORI: १-१३४-२०॥
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः । तथा हि वर्तते मन्दः सुयोधनमते स्थितः ॥BORI: १-१३४-२१॥
अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः । कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः । धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः ॥BORI: १-१३४-२२॥
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि । स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः ॥BORI: १-१३४-२३॥
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः । हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥BORI: १-१३४-२४॥
तदस्माभिरिमं पापं तं च पापं सुयोधनम् । वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ॥BORI: १-१३४-२५॥
ते वयं मृगयाशीलाश्चराम वसुधामिमाम् । तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ॥BORI: १-१३४-२६॥
भौमं च बिलमद्यैव करवाम सुसंवृतम् । गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति ॥BORI: १-१३४-२७॥
वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः । पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥BORI: १-१३४-२८॥