Chapter 21
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः । यतमाना वनं राजन्गहनं प्रतिपेदिरे ॥BORI: १-१३७-१८॥
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः । पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥BORI: १-१३७-१९॥
इतः कष्टतरं किं नु यद्वयं गहने वने । दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ॥BORI: १-१३७-२०॥
तं च पापं न जानीमो यदि दग्धः पुरोचनः । कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ॥BORI: १-१३७-२१॥
पुनरस्मानुपादाय तथैव व्रज भारत । त्वं हि नो बलवानेको यथा सततगस्तथा ॥BORI: १-१३७-२२॥
इत्युक्तो धर्मराजेन भीमसेनो महाबलः । आदाय कुन्तीं भ्रातृंश्च जगामाशु महाबलः ॥BORI: १-१३७-२३॥
वैशम्पायन उवाच॥
तेन विक्रमता तूर्णमूरुवेगसमीरितम् । प्रववावनिलो राजञ्शुचिशुक्रागमे यथा ॥BORI: १-१३८-१॥
स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् । आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् ॥BORI: १-१३८-२॥
तथा वृक्षान्भञ्जमानो जगामामितविक्रमः । तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत ॥BORI: १-१३८-३॥
असकृच्चापि सन्तीर्य दूरपारं भुजप्लवैः । पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥BORI: १-१३८-४॥
कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् । अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च ॥BORI: १-१३८-५॥
आगमंस्ते वनोद्देशमल्पमूलफलोदकम् । क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः ॥BORI: १-१३८-६॥
घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः । अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥BORI: १-१३८-७॥
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः । नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥BORI: १-१३८-८॥
ततो भीमो वनं घोरं प्रविश्य विजनं महत् । न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् ॥BORI: १-१३८-९॥
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः । पानीयं मृगयामीह विश्रमध्वमिति प्रभो ॥BORI: १-१३८-१०॥
एते रुवन्ति मधुरं सारसा जलचारिणः । ध्रुवमत्र जलस्थायो महानिति मतिर्मम ॥BORI: १-१३८-११॥
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत । जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ॥BORI: १-१३८-१२॥
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ । उत्तरीयेण पानीयमाजहार तदा नृप ॥BORI: १-१३८-१३॥
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति । स सुप्तां मातरं दृष्ट्वा भ्रातृंश्च वसुधातले । भृशं दुःखपरीतात्मा विललाप वृकोदरः ॥BORI: १-१३८-१४॥
शयनेषु परार्ध्येषु ये पुरा वारणावते । नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥BORI: १-१३८-१५॥
सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् । शयानां पश्यताद्येह पृथिव्यामतथोचिताम् ॥BORI: १-१३८-१८॥
धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् । सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता ॥BORI: १-१३८-१९॥
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् । योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥BORI: १-१३८-२०॥
त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः । सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥BORI: १-१३८-२१॥
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि । शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् ॥BORI: १-१३८-२२॥
अश्विनाविव देवानां याविमौ रूपसम्पदा । तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥BORI: १-१३८-२३॥
ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः । स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः ॥BORI: १-१३८-२४॥
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः । चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः ॥BORI: १-१३८-२५॥
येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः । ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥BORI: १-१३८-२६॥
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः । जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥BORI: १-१३८-२७॥
वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना । विवासिता न दग्धाश्च कथञ्चित्तस्य शासनात् ॥BORI: १-१३८-२८॥
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः । कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥BORI: १-१३८-२९॥
नातिदूरे च नगरं वनादस्माद्धि लक्षये । जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् ॥BORI: १-१३८-३०॥
पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः । इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥BORI: १-१३८-३१॥
वैशम्पायन उवाच॥
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः । अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः ॥BORI: १-१३९-१॥
क्रूरो मानुषमांसादो महावीर्यो महाबलः । विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः । पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया ॥BORI: १-१३९-२॥
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् । जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च ॥BORI: १-१३९-३॥
दुष्टो मानुषमांसादो महाकायो महाबलः । आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥BORI: १-१३९-४॥
उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः । स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् ॥BORI: १-१३९-५॥
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः । देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥BORI: १-१३९-६॥
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि । उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥BORI: १-१३९-७॥
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः । मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ॥BORI: १-१३९-८॥
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् । अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥BORI: १-१३९-९॥
एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः । भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम ॥BORI: १-१३९-१०॥
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी । जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ ॥BORI: १-१३९-११॥
ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह । शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ॥BORI: १-१३९-१२॥
दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् । राक्षसी कामयामास रूपेणाप्रतिमं भुवि ॥BORI: १-१३९-१३॥
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः । कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ॥BORI: १-१३९-१४॥
नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् । पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ॥BORI: १-१३९-१५॥
मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च । हतैरेतैरहत्वा तु मोदिष्ये शाश्वतिः समाः ॥BORI: १-१३९-१६॥
सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् । उपतस्थे महाबाहुं भीमसेनं शनैः शनैः ॥BORI: १-१३९-१७॥
विलज्जमानेव लता दिव्याभरणभूषिता । स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ॥BORI: १-१३९-१८॥
कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ । क इमे शेरते चेह पुरुषा देवरूपिणः ॥BORI: १-१३९-१९॥
केयं च बृहती श्यामा सुकुमारी तवानघ । शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ॥BORI: १-१३९-२०॥
नेदं जानाति गहनं वनं राक्षससेवितम् । वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥BORI: १-१३९-२१॥
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा । बिभक्षयिषता मांसं युष्माकममरोपम ॥BORI: १-१३९-२२॥
साहं त्वामभिसम्प्रेक्ष्य देवगर्भसमप्रभम् । नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥BORI: १-१३९-२३॥
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर । कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् ॥BORI: १-१३९-२४॥
त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् । वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ॥BORI: १-१३९-२५॥
अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च । अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥BORI: १-१३९-२६॥
भीम उवाच॥
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् । परित्यजेत को न्वद्य प्रभवन्निव राक्षसि ॥BORI: १-१३९-२७॥
को हि सुप्तानिमान्भ्रातृन्दत्त्वा राक्षसभोजनम् । मातरं च नरो गच्छेत्कामार्त इव मद्विधः ॥BORI: १-१३९-२८॥
राक्षस्युवाच॥
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय । मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् ॥BORI: १-१३९-२९॥
भीम उवाच॥
सुखसुप्तान्वने भ्रातृन्मातरं चैव राक्षसि । न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥BORI: १-१३९-३०॥
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् । न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥BORI: १-१३९-३१॥
गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु । तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ॥BORI: १-१३९-३२॥
वैशम्पायन उवाच॥
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः । अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् ॥BORI: १-१४०-१॥
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः । मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः ॥BORI: १-१४०-२॥
तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् । हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥BORI: १-१४०-३॥
आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः । त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥BORI: १-१४०-४॥
अहं कामगमा वीर रक्षोबलसमन्विता । आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा ॥BORI: १-१४०-५॥
प्रबोधयैनान्संसुप्तान्मातरं च परन्तप । सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा ॥BORI: १-१४०-६॥
भीम उवाच॥
मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते । अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ॥BORI: १-१४०-७॥
नायं प्रतिबलो भीरु राक्षसापसदो मम । सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ॥BORI: १-१४०-८॥
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ । ऊरू परिघसङ्काशौ संहतं चाप्युरो मम ॥BORI: १-१४०-९॥
विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने । मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥BORI: १-१४०-१०॥
हिडिम्बोवाच॥
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् । दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः ॥BORI: १-१४०-११॥
वैशम्पायन उवाच॥
तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत । वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥BORI: १-१४०-१२॥
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः । स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् ॥BORI: १-१४०-१३॥
सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् । सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् ॥BORI: १-१४०-१४॥
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् । पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥BORI: १-१४०-१५॥
सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम । उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥BORI: १-१४०-१६॥
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः । न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥BORI: १-१४०-१७॥
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि । पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥BORI: १-१४०-१८॥
यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम । एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥BORI: १-१४०-१९॥
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः । वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् ॥BORI: १-१४०-२०॥
तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः । भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् ॥BORI: १-१४०-२१॥