Jaya
Chapter 7: Śantanu’s sons; Citrāṅgada’s death, Vicitravīrya’s accession, Bhīṣma’s seizure of the Kāśī princesses, Ambā’s release, and Vicitravīrya’s death.
वैशम्पायन उवाच॥
ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः। तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत् ॥BORI: १-०९५-१॥
ततः शान्तनवो धीमान्सत्यवत्यामजायत। वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति ॥BORI: १-०९५-२॥
अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः। विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥BORI: १-०९५-३॥
अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ। स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् ॥BORI: १-०९५-४॥
स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिंदमम्। स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥BORI: १-०९५-५॥
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान्। मनुष्यं न हि मेने स कञ्चित्सदृशमात्मनः ॥BORI: १-०९५-६॥
त्वं वै सदृशनामासि युद्धं देहि नृपात्मज । नाम वाऽन्यत्प्रगृह्णीष्व यदि युद्धं न दास्यसि ॥KUMB: १-१०८-९॥
त्वयाहं युद्धमिच्छामि त्वत्सकाशं तु नामतः । आगतोस्मि वृथाऽऽभाष्य न गच्छेन्नाम ते मम ॥KUMB: १-१०८-१०॥
इत्युक्त्वा गर्जमानौ तौ हिरण्वत्यास्तटं गतौ ॥KUMB: १-१०८-११॥
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा। गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा। तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥BORI: १-०९५-७॥
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः। नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥BORI: १-०९५-८॥
तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले। मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥BORI: १-०९५-९॥
चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम्। अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥BORI: १-०९५-१०॥
तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि। भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् ॥BORI: १-०९५-११॥
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम्। कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ॥BORI: १-०९५-१२॥
विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः। अन्वशासन्महाराज पितृपैतामहं पदम् ॥BORI: १-०९५-१३॥
स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः। पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥BORI: १-०९५-१४॥
वैशम्पायन उवाच॥
हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ । पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥BORI: १-०९६-१॥
सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् । भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥BORI: १-०९६-२॥
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः । शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ॥BORI: १-०९६-३॥
ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् । जगामानुमते मातुः पुरीं वाराणसीं प्रति ॥BORI: १-०९६-४॥
तत्र राज्ञः समुदितान्सर्वतः समुपागतान् । ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः ॥BORI: १-०९६-५॥
कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः । भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ॥BORI: १-०९६-६॥
उवाच च महीपालान्राजञ्जलदनिःस्वनः । रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ॥BORI: १-०९६-७॥
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः । अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ॥BORI: १-०९६-८॥
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि । वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ॥BORI: १-०९६-९॥
प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते । अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ॥BORI: १-०९६-१०॥
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च । प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥BORI: १-०९६-११॥
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः । ते यतध्वं परं शक्त्या विजयायेतराय वा । स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ॥BORI: १-०९६-१२॥
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् । सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् । आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥BORI: १-०९६-१३॥
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः । संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥BORI: १-०९६-१४॥
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् । आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् ॥BORI: १-०९६-१५॥
ताराणामिव सम्पातो बभूव जनमेजय । भूषणानां च शुभ्राणां कवचानां च सर्वशः ॥BORI: १-०९६-१६॥
सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः । सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ॥BORI: १-०९६-१७॥
सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् । रथानास्थाय ते वीराः सर्वप्रहरणान्विताः । प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ॥BORI: १-०९६-१८॥
ततः समभवद्युद्धं तेषां तस्य च भारत । एकस्य च बहूनां च तुमुलं लोमहर्षणम् ॥BORI: १-०९६-१९॥
ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् । अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ॥BORI: १-०९६-२०॥
ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥BORI: १-०९६-२१॥
स तद्बाणमयं वर्षं शरैरावार्य सर्वतः । ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ॥BORI: १-०९६-२२॥
तस्याति पुरुषानन्याँल्लाघवं रथचारिणः । रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् ॥BORI: १-०९६-२३॥
तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः । कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ॥BORI: १-०९६-२४॥
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः । अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे ॥BORI: १-०९६-२५॥
वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा । वाशितामनुसम्प्राप्तो यूथपो बलिनां वरः ॥BORI: १-०९६-२६॥
स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः । शाल्वराजो महाबाहुरमर्षेणाभिचोदितः ॥BORI: १-०९६-२७॥
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः । तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ॥BORI: १-०९६-२८॥
क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः । निवर्तयामास रथं शाल्वं प्रति महारथः ॥BORI: १-०९६-२९॥
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते । प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ॥BORI: १-०९६-३०॥
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे । अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥BORI: १-०९६-३१॥
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः । शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥BORI: १-०९६-३२॥
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः । विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ॥BORI: १-०९६-३३॥
लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः । अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ॥BORI: १-०९६-३४॥
क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः । क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ॥BORI: १-०९६-३५॥
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः । यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ॥BORI: १-०९६-३६॥
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः । तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ॥BORI: १-०९६-३७॥
अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः । भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् । अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ॥BORI: १-०९६-३८॥
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा । जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् । ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ॥BORI: १-०९६-३९॥
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः । स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय ॥BORI: १-०९६-४०॥
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः । प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ॥BORI: १-०९६-४१॥
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप । वनानि सरितश्चैव शैलांश्च विविधद्रुमान् ॥BORI: १-०९६-४२॥
अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः । आनयामास काश्यस्य सुताः सागरगासुतः ॥BORI: १-०९६-४३॥
स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः । यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ॥BORI: १-०९६-४४॥
ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥BORI: १-०९६-४५॥
सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् । भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे । सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ॥BORI: १-०९६-४६॥
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुताः । ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ॥BORI: १-०९६-४७॥
मया सौभपतिः पूर्वं मनसाभिवृतः पतिः । तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥BORI: १-०९६-४८॥
मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे । एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ॥BORI: १-०९६-४९॥
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि । चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥BORI: १-०९६-५०॥
स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः । अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् ॥BORI: १-०९६-५१॥
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥BORI: १-०९६-५२॥
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः । विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ॥BORI: १-०९६-५७॥
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः । जगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥BORI: १-०९६-५८॥
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् । राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः । ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ॥BORI: १-०९६-५९॥