Chapter 8: Satyavatī summons Vyāsa to preserve the Kuru line; Dhṛtarāṣṭra, Pāṇḍu and Vidura are born.
वैशम्पायन उवाच॥
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी । पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ॥BORI: १-०९७-१॥
धर्मं च पितृवंशं च मातृवंशं च मानिनी । प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ॥BORI: १-०९७-२॥
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते । बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ॥BORI: १-०९७-८॥
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे । रूपयौवनसम्पन्ने पुत्रकामे च भारत ॥BORI: १-०९७-९॥
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः । मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि ॥BORI: १-०९७-१०॥
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च । दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ॥BORI: १-०९७-११॥
तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः । प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः ॥BORI: १-०९७-१२॥
असंशयं परो धर्मस्त्वया मातरुदाहृतः । त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् ॥BORI: १-०९७-१३॥
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा । माता सत्यवती भीष्ममुवाच तदनन्तरम् ॥BORI: १-०९७-१९॥
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम । इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा ॥BORI: १-०९७-२०॥
जानामि चैव सत्यं तन्मदर्थं यदभाषथाः । आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् ॥BORI: १-०९७-२१॥
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् । सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ॥BORI: १-०९७-२२॥
लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् । धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ॥BORI: १-०९७-२३॥
राज्ञि धर्मानवेक्षस्व मा नः सर्वान् व्यनीनशः । सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ॥BORI: १-०९७-२४॥
शन्तनोरपि सन्तानं यथा स्यादक्षयं भुवि । तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ॥BORI: १-०९७-२५॥
भीष्म उवाच॥
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् । विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥BORI: १-०९९-२॥
वैशम्पायन उवाच॥
ततः सत्यवती भीष्मं वाचा संसज्जमानया । विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥BORI: १-०९९-३॥
सत्यमेतन्महाबाहो यथा वदसि भारत । विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य च । न ते शक्यमनाख्यातुमापद्धीयं तथाविधा ॥BORI: १-०९९-४॥
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः । तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ॥BORI: १-०९९-५॥
धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम । सा कदाचिदहं तत्र गता प्रथमयौवने ॥BORI: १-०९९-६॥
अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः । आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ॥BORI: १-०९९-७॥
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा । सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु ॥BORI: १-०९९-८॥
तमहं शापभीता च पितुर्भीता च भारत । वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥BORI: १-०९९-९॥
अभिभूय स मां बालां तेजसा वशमानयत् । तमसा लोकमावृत्य नौगतामेव भारत ॥BORI: १-०९९-१०॥
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः । तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥BORI: १-०९९-११॥
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् । द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥BORI: १-०९९-१२॥
पाराशर्यो महायोगी स बभूव महानृषिः । कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः ॥BORI: १-०९९-१३॥
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः । लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥BORI: १-०९९-१४॥
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः । स नियुक्तो मया व्यक्तं त्वया च अमितद्युते । भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥BORI: १-०९९-१५॥
स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति । तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥BORI: १-०९९-१६॥
तव ह्यनुमते भीष्म नियतं स महातपाः । विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥BORI: १-०९९-१७॥
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् । धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ॥BORI: १-०९९-१८॥
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् । कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् । यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् ॥BORI: १-०९९-१९॥
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः । उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ॥BORI: १-०९९-२०॥
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन । कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ॥BORI: १-०९९-२१॥
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् । प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ॥BORI: १-०९९-२२॥
तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् । परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च । मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ॥BORI: १-०९९-२३॥
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च । मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥BORI: १-०९९-२४॥
भवत्या यदभिप्रेतं तदहं कर्तुमागतः । शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥BORI: १-०९९-२५॥
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये । स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ॥BORI: १-०९९-२६॥
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् । सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ॥BORI: १-०९९-२७॥
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे । तेषां पिता यथा स्वामी तथा माता न संशयः ॥BORI: १-०९९-२८॥
विधातृविहितः स त्वं यथा मे प्रथमः सुतः । विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ॥BORI: १-०९९-२९॥
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः । भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ॥BORI: १-०९९-३०॥
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः । बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ॥BORI: १-०९९-३१॥
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च । भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ॥BORI: १-०९९-३२॥
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च । आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ॥BORI: १-०९९-३३॥
यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे । रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः ॥BORI: १-०९९-३४॥
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक । अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च ॥BORI: १-०९९-३५॥
व्यास उवाच॥
वेत्थ धर्मं सत्यवति परं चापरमेव च । यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ॥BORI: १-०९९-३६॥
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् । ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ॥BORI: १-०९९-३७॥
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् । व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ॥BORI: १-०९९-३८॥
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः । न हि मामव्रतोपेता उपेयात्काचिदङ्गना ॥BORI: १-०९९-३९॥
सत्यवत्युवाच॥
यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु । अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ॥BORI: १-०९९-४०॥
कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो । तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति ॥BORI: १-०९९-४१॥
व्यास उवाच॥
यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् । विरूपतां मे सहतामेतदस्याः परं व्रतम् ॥BORI: १-०९९-४२॥
यदि मे सहते गन्धं रूपं वेषं तथा वपुः । अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ॥BORI: १-०९९-४३॥
वैशम्पायन उवाच॥
समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः । ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् । धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ॥BORI: १-०९९-४४॥
कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे । भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् ॥BORI: १-०९९-४५॥
व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् । भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये ॥BORI: १-०९९-४६॥
सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह । नष्टं च भारतं वंशं पुनरेव समुद्धर ॥BORI: १-०९९-४७॥
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् । स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ॥BORI: १-०९९-४८॥
सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् । भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥BORI: १-०९९-४९॥
वैशम्पायन उवाच॥
ततः सत्यवती काले वधूं स्नातामृतौ तदा । संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् ॥BORI: १-१००- १॥
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति । अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति ॥BORI: १-१००- २॥
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे । साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ॥BORI: १-१००- ३॥
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः । दीप्यमानेषु दीपेषु शयनं प्रविवेश ह ॥BORI: १-१००- ४॥
तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने । बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ॥BORI: १-१००- ५॥
सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया । भयात् काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥BORI: १-१००- ६॥
ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् । अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥BORI: १-१००- ७॥
निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् । प्रोवाचातीन्द्रियज्ञानो विधिना सम्प्रचोदितः ॥BORI: १-१००- ८॥
महाभागो महावीर्यो महाबुद्धिर्भविष्यति ॥BORI: १-१००- ९B॥
किं तु मातुः स वैगुण्यादन्ध एव भविष्यति ॥BORI: १-१००- १०B॥
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् । नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥BORI: १-१००- ११॥
ज्ञातिवंशस्य गोप्तारं पितृणां वंशवर्धनम् । द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥BORI: १-१००- १२॥
स तथेति प्रतिज्ञाय निश्चक्राम महातपाः । सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥BORI: १-१००- १३॥
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः । ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता ॥BORI: १-१००- १४॥
ततस्तेनैव विधिना महर्षिस्तामपद्यत । अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् । विषण्णा पाण्डुसङ्काशा समपद्यत भारत ॥BORI: १-१००- १५॥
तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव । व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ॥BORI: १-१००- १६॥
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि । तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ॥BORI: १-१००- १७॥
नाम चास्य तदेवेह भविष्यति शुभानने । इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ॥BORI: १-१००- १८॥
तं माता पुनरेवान्यमेकं पुत्रमयाचत । तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥BORI: १-१००- २०॥
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् । सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् । नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ॥BORI: १-१००- २२॥
ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् । प्रेषयामास कृष्णाय ततः काशिपतेः सुता ॥BORI: १-१००- २३॥
दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च । संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ॥BORI: १-१००- २४॥
कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः । तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ॥BORI: १-१००- २५॥
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि । अयं च ते शुभे गर्भः श्रीमानुदरमागतः । धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥BORI: १-१००- २६॥
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च । तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥BORI: १-१००- २९॥
एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि । जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥BORI: १-१००- ३०॥