Chapter 12: Pāṇḍu seeks heirs; Kuntī bears Yudhiṣṭhira, Bhīma and Arjuna, while Mādrī bears Nakula and Sahadeva by invoking deities.
वैशम्पायन उवाच॥
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् । सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥BORI: १-१११-१॥
शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः । स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥BORI: १-१११-२॥
केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा । ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥BORI: १-१११-३॥
स तु कालेन महता प्राप्य निष्कल्मषं तपः । ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥BORI: १-१११-४॥
स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः । प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः । उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥BORI: १-१११-५॥
दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् । आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ॥BORI: १-१११-६॥
उद्यानानि कुबेरस्य समानि विषमाणि च । महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ॥BORI: १-१११-७॥
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः । सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ॥BORI: १-१११-८॥
अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः । वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ॥BORI: १-१११-९॥
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे । न सीदेतामदुःखार्हे मा गमो भरतर्षभ ॥BORI: १-१११-१०॥
पाण्डुरुवाच॥
अप्रजस्य महाभागा न द्वारं परिचक्षते । स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ॥BORI: १-१११-११॥
ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि । पितृदेवर्षिमनुजदेयैः शतसहस्रशः ॥BORI: १-१११-१२॥
एतानि तु यथाकालं यो न बुध्यति मानवः । न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ॥BORI: १-१११-१३॥
यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् । पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान् ॥BORI: १-१११-१४॥
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः । पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ॥BORI: १-१११-१५॥
तापसा ऊचुः॥
अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् । अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ॥BORI: १-१११-१८॥
दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय । अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ॥BORI: १-१११-१९॥
तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि । अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमवाप्स्यसि ॥BORI: १-१११-२०॥
वैशम्पायन उवाच॥
तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् । आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥BORI: १-१११-२१॥
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् । अपत्योत्पादने योगमापदि प्रसमर्थयन् ॥BORI: १-१११-२२॥
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता । इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ॥BORI: १-१११-२३॥
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः । सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥BORI: १-१११-२४॥
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते । अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ॥BORI: १-१११-२५॥
मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः । नृशंसकारिणो भीरु यथैवोपहतं तथा ॥BORI: १-१११-२६॥
इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने । षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ॥BORI: १-१११-२७॥
स्वयञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः । पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥BORI: १-१११-२८॥
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः । सहोढो जातरेताश्च हीनयोनिधृतश्च यः ॥BORI: १-१११-२९॥
पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् । उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ॥BORI: १-१११-३०॥
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः । आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ॥BORI: १-१११-३१॥
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् । सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ॥BORI: १-१११-३२॥
वैशम्पायन उवाच॥
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत । कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥BORI: १-११२-१॥
न मामर्हसि धर्मज्ञ वक्तुमेवं कथञ्चन । धर्मपत्नीमभिरतां त्वयि राजीवलोचन ॥BORI: १-११२-२॥
त्वमेव तु महाबाहो मय्यपत्यानि भारत । वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ॥BORI: १-११२-३॥
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया । अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥BORI: १-११२-४॥
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् । त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ॥BORI: १-११२-५॥
वैशम्पायन उवाच॥
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् । धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥BORI: १-११३-१॥
भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा । यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः ॥BORI: १-११३-२७॥
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् । यथाहमनवद्याङ्गि पुत्रदर्शनलालसः ॥BORI: १-११३-२८॥
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् । पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि । त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥BORI: १-११३-३०॥
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् । प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥BORI: १-११३-३१॥
पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने । उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥BORI: १-११३-३२॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥BORI: १-११३-३३॥
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् । मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् ॥BORI: १-११३-३४॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । अकामो वा सकामो वा स ते वशमुपैष्यति ॥BORI: १-११३-३५॥
इत्युक्ताहं तदा तेन पितृवेश्मनि भारत । ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः ॥BORI: १-११३-३६॥
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप । तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ॥BORI: १-११३-३७॥
आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर । त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ॥BORI: १-११३-३८॥
पाण्डुरुवाच॥
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि । धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् ॥BORI: १-११३-३९॥
अधर्मेण न नो धर्मः संयुज्येत कथञ्चन । लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते ॥BORI: १-११३-४०॥
धार्मिकश्च कुरूणां स भविष्यति न संशयः । दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ॥BORI: १-११३-४१॥
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते । उपचाराभिचाराभ्यां धर्ममाराधयस्व वै ॥BORI: १-११३-४२॥
वैशम्पायन उवाच॥
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना । अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ॥BORI: १-११३-४३॥
वैशम्पायन उवाच॥
सा बलिं त्वरिता देवी धर्मायोपजहार ह । जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा ॥BORI: १-११४-२॥
सङ्गम्य सा तु धर्मेण योगमूर्तिधरेण वै । लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् ॥BORI: १-११४-३॥
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे । दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते ॥BORI: १-११४-४॥
समृद्धयशसं कुन्ती सुषाव समये सुतम् । जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ॥BORI: १-११४-५॥
एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः । युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ॥BORI: १-११४-६॥
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः । यशसा तेजसा चैव वृत्तेन च समन्वितः ॥BORI: १-११४-७॥
धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् । प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ॥BORI: १-११४-८॥
ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा । तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥BORI: १-११४-९॥
तमप्यतिबलं जातं वागभ्यवददच्युतम् । सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ॥BORI: १-११४-१०॥
इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे । यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ॥BORI: १-११४-११॥
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल । नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् ॥BORI: १-११४-१२॥
ततः स वज्रसङ्घातः कुमारोऽभ्यपतद्गिरौ । पतता तेन शतधा शिला गात्रैर्विचूर्णिता । तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् ॥BORI: १-११४-१३॥
जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् । कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति ॥BORI: १-११४-१५॥
दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः । तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ॥BORI: १-११४-१६॥
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् ॥BORI: १-११४-१७A॥
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् ॥BORI: १-११४-२६A॥
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी । अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ॥BORI: १-११४-२७॥
जातमात्रे कुमारे तु वागुवाचाशरीरिणी । महागम्भीरनिर्घोषा नभो नादयती तदा ॥BORI: १-११४-२८॥
ग्रामणीश्च महीपालानेष जित्वा महाबलः ॥BORI: १-११४-३३A॥
तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति ॥BORI: १-११४-३५A॥
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः । प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् ॥BORI: १-११४-६४॥
नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत । अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् ॥BORI: १-११४-६५॥
स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् । अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे ॥BORI: १-११४-६६॥
वैशम्पायन उवाच॥
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥BORI: १-११५-१B॥
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप । नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥BORI: १-११५-२॥
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता । दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥BORI: १-११५-४॥
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि । कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥BORI: १-११५-५॥
स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति । यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥BORI: १-११५-६॥
पाण्डुरुवाच॥
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते । न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥BORI: १-११५-७॥
तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् । मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ॥BORI: १-११५-८॥
वैशम्पायन उवाच॥
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् । कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥BORI: १-११५-९॥
मम चापिण्डनाशाय पूर्वेषामपि चात्मनः । मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥BORI: १-११५-१०॥
सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते । अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ॥BORI: १-११५-१४॥
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् । तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥BORI: १-११५-१५॥
ततो माद्री विचार्यैव जगाम मनसाश्विनौ । तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥BORI: १-११५-१६॥
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि । तथैव तावपि यमौ वागुवाचाशरीरिणी ॥BORI: १-११५-१७॥
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः । भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ॥BORI: १-११५-१९॥
ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् । अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥BORI: १-११५-२०॥
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् । माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः । अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ॥BORI: १-११५-२१॥
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् । तमुवाच पृथा राजन्रहस्युक्ता सती सदा ॥BORI: १-११५-२२॥
उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता ॥BORI: १-११५-२३A॥
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ॥BORI: १-११५-२४B॥
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ । विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥BORI: १-११५-२७॥