Jaya
Chapter 11: Pāṇḍu renounces worldly life after Kindama’s curse and withdraws with Kuntī and Mādrī to Śataśṛṅga.
वैशम्पायन उवाच॥
तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् । सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥BORI: १-११०-१॥
पाण्डुरुवाच॥
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् । प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥BORI: १-११०-२॥
शश्वद्धर्मात्मना जातो बाल एव पिता मम । जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥BORI: १-११०-३॥
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः । कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥BORI: १-११०-४॥
तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा । त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ॥BORI: १-११०-५॥
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् । सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् । अतीव तपसात्मानं योजयिष्याम्यसंशयम् ॥BORI: १-११०-६॥
तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ । चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥BORI: १-११०-७॥
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥BORI: १-११०-८॥
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः । निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ॥BORI: १-११०-९॥
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् । प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ॥BORI: १-११०-१०॥
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् । स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ॥BORI: १-११०-११॥
एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च । असम्भवे वा भैक्षस्य चरन्ननशनान्यपि ॥BORI: १-११०-१२॥
अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् । नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ॥BORI: १-११०-१३॥
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः । नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ॥BORI: १-११०-१४॥
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् । मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ॥BORI: १-११०-१५॥
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः । ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ॥BORI: १-११०-१६॥
तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः । सम्परित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ॥BORI: १-११०-१७॥
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः । न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥BORI: १-११०-१८॥
एतया सततं वृत्त्या चरन्नेवम्प्रकारया । देहं सन्धारयिष्यामि निर्भयं मार्गमास्थितः ॥BORI: १-११०-१९॥
नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते । स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ॥BORI: १-११०-२०॥
सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा । उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥BORI: १-११०-२१॥
वैशम्पायन उवाच॥
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः । अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ॥BORI: १-११०-२२॥
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः । आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥BORI: १-११०-२३॥
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः । पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः । प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ॥BORI: १-११०-२४॥
निशम्य वचनं भर्तुर्वनवासे धृतात्मनः । तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥BORI: १-११०-२५॥
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ । आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् । त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ॥BORI: १-११०-२६॥
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे । त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ॥BORI: १-११०-२७॥
यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते । अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ॥BORI: १-११०-२८॥
पाण्डुरुवाच॥
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् । स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥BORI: १-११०-२९॥
त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः । वल्कली फलमूलाशी चरिष्यामि महावने ॥BORI: १-११०-३०॥
अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् । कृशः परिमिताहारश्चीरचर्मजटाधरः ॥BORI: १-११०-३१॥
शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः । तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥BORI: १-११०-३२॥
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् । पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥BORI: १-११०-३३॥
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् । नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ॥BORI: १-११०-३४॥
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् । काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ॥BORI: १-११०-३५॥
वैशम्पायन उवाच॥
इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः । ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च । वासांसि च महार्हाणि स्त्रीणामाभरणानि च ॥BORI: १-११०-३६॥
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत । गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ॥BORI: १-११०-३७॥
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् । प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः ॥BORI: १-११०-३८॥
ततस्तस्यानुयात्राणि ते चैव परिचारकाः । श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः । भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥BORI: १-११०-३९॥
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् । ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ॥BORI: १-११०-४०॥
श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने । धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥BORI: १-११०-४१॥
राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः । जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ॥BORI: १-११०-४२॥
स चैत्ररथमासाद्य वारिषेणमतीत्य च । हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥BORI: १-११०-४३॥
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः । उवास स तदा राजा समेषु विषमेषु च ॥BORI: १-११०-४४॥
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च । शतशृङ्गे महाराज तापसः समपद्यत ॥BORI: १-११०-४५॥