01.00 - Preface
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः। यस्यास्यकमलकोशे वाङ्मयममृतं पिबति लोकः ॥बोरि १.१.१*॥
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥१-००१-१॥
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान्। विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥१-००१-२॥
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः। चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥१-००१-३॥
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः।अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥१-००१-४॥
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु।निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥१-००१-५॥
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च।अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥१-००१-६॥
कुत आगम्यते सौते क्व चायं विहृतस्त्वया।कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥१-००१-७॥
सूत उवाच॥
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः।समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥१-००१-८॥
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः।कथिताश्चापि विधिवद्या वैशम्पायनेन वै ॥१-००१-९॥
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः।बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ॥१-००१-१०॥
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्।गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ॥१-००१-११॥
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥१-००१-११॥
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह।आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥१-००१-१२॥
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः।कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ॥१-००१-१३॥
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥१-००१-१३॥
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः।इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥१-००१-१४॥
ऋषय ऊचुः॥
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा।सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥१-००१-१५॥
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः।सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥१-००१-१६॥
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्।संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥१-००१-१७॥
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान्।यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥१-००१-१८॥
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः।संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥१-००१-१९॥
सूत उवाच॥
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्।ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥१-००१-२०॥
असच्च सच्चैव च यद्विश्वं सदसतः परम्।परावराणां स्रष्टारं पुराणं परमव्ययम् ॥१-००१-२१॥
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्।नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥१-००१-२२॥
महर्षेः पूजितस्येह सर्वलोके महात्मनः।प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥१-००१-२३॥
आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे।आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥१-००१-२४॥
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्। विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥१-००१-२५॥
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः।छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥१-००१-२६॥
पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये। विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः ॥कुंभ १.१.३९॥
शुचिः सनियमो व्यासः शान्तात्मातपसि स्थितः भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् ॥कुंभ १.१.४०॥
प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः ॥कुंभ १.१.४१॥
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्।वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥१-००१-४६॥
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च।लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ॥१-००१-४७॥
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च।इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥१-००१-४८॥
विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत्।इष्टं हि विदुषां लोके समासव्यासधारणम् ॥१-००१-४९॥
मन्वादि भारतं केचिदास्तीकादि तथापरे।तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥१-००१-५०॥
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः।व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥१-००१-५१॥
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्।इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥१-००१-५२॥
तदाख्यानवरिष्ठं स कृत्वा द्वैपायनः प्रभुः ॥नील १.१.५५॥
कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत्। तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च ॥नील १.१.५६॥
तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम्। प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया ॥नील १.१.५७॥
तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः। आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः ॥नील १.१.५८॥
हिरण्यगर्भमासीनं तस्मिंस्तु परमासने। परिवृत्यासनाभ्याशे वासवेयः स्थितोऽभवत् ॥नील १.१.५९॥
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना। निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः ॥नील १.१.६०॥
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्। कृतं मयेदं भगवान्काव्यं परमपूजितम् ॥नील १.१.६१॥
ब्रह्मन्वेदरहस्यं च यच्चान्यत्स्थापितं मया। साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया ॥नील १.१.६२॥
इतिहासपुराणानामुन्मेषं निर्मितं च यत्। भूतं भव्यं भविष्यच्च त्रिविधं कालसञ्ज्ञितम् ॥नील १.१.६३॥
जरामृत्युभयव्याधिभावाभावविनिश्चयः। विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम् ॥नील १.१.६४॥
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः। तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः ॥नील १.१.६५॥
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह। ऋचो यजूंषि सामानि वेदाध्यात्मं तथैव च ॥नील १.१.६६॥
न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा। हेतुनैव समं जन्म दिव्यमानुषसञ्ज्ञितम् ॥नील १.१.६७॥
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्। नदीनां पर्वतानां च वनानां सागरस्य च ॥नील १.१.६८॥
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्। वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः ॥नील १.१.६९॥
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्। परं न लेखकः कश्चिदेतस्य भुवि विद्यते ॥नील १.१.७०॥
ब्रह्मोवाच। तपोविशिष्टदपि वै विशिष्टान्मुनिसञ्चयात्। मन्ये श्रेष्ठतरं त्वां वै रहस्यज्ञानवेदनात् ॥नील १.१.७१॥
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम्। त्वया च काव्यमित्युक्तं तस्मात्काव्यं भविष्यति ॥नील १.१.७२॥
अस्य काव्यस्य कवयो न समर्था विशेषणे। विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः ॥नील १.१.७३॥
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने। सौतिरुवाच। एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् ॥नील १.१.७४॥
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः। स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः ॥नील १.१.७५॥
तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः। पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदाऽनघ ॥
लेखको भारतस्यास्य भव त्वं गणनायक। मयैव प्रोच्यमानस्य मनसा कल्पितस्य च ॥नील १.१.७७॥
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम्। लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥नील १.१.७८॥
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्। ओमित्युक्त्वा गणेशोऽपि बभूव किल लेखकः ॥नील १.१.७९॥
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात्। यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम् ॥नील १.१.८०॥
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च। अहं वेद्मि शुको वेत्ति सञ्जयो वेत्ति वा न वा ॥नील १.१.८१॥
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने। भेत्तुं न शक्यतेऽर्थस्य गूढत्वात्प्रश्रितस्य च ॥नील १.१.८२॥
सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन्। तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि ॥नील १.१.८३॥
अज्ञानतिमिरान्धस्य लोकस्य तु विचेष्टतः। ज्ञानाञ्जनशालाकाभिः नेत्रोऽन्मीलनकारकम् ॥नील १.१.८४॥
धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः। तथा भारतसूर्येण नृणां विनिहतं तमः ॥नील १.१.८५॥
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः। नृबुद्धिकौरवाणां च कृतमेतत्प्रकाशनम् ॥नील १.१.८६॥
इतिहासप्रदीपेन मोहावरणघातिना। लोकगर्भगृहं कृत्स्नं यथावत्सम्प्रकाशितम् ॥नील १.१.८७॥
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥१-००१-५७॥
स सदस्यैः सहासीनः श्रावयामास भारतम्।कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥१-००१-५८॥
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्। उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥१-००१-६१॥
इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम्। उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् ॥कुंभ १.१.७७॥
षष्टिं शतसहस्राणि चकारान्यां स संहिताम् ॥नील १.१.१०५॥
त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम्। पित्र्ये पञ्चदश प्रोक्तं गन्धर्वेषु चतुर्दश ॥नील १.१.१०६॥
एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम् ॥नील १.१.१०७॥
अस्मिंस्तु मानुषे लोके वैशम्पायन उक्तवान्। शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः ॥कुंभ १.१.१२६॥
एकं शतसहस्रं तु मयोक्तं वै निबोधत ॥कुंभ १.१.१२७॥
सूत उवाच॥
लोकानां च हितार्थाय कारुण्यान्मुनिसत्तमः ॥कुंभ १.१.२७९॥
अत्र उपनिषदं पुण्याम् कृष्णद्वैपायनः अब्रवीत्। भारत-अध्ययनात् पुण्यात् अपि पादम् अधीयतः ॥१-००१-१९१॥
यः च इमं शृणुयात् नित्यम्; आर्षं श्रद्धा-समन्वितः। सः दीर्घम् आयुः कीर्तिं च; स्वर्ग-गतिम् च आप्नुयात् नरः ॥१-००१-२०७॥
चत्वारः एकतः वेदाः; भारतम् च एकम् एकतः। समागतैः सुरर्षिभिः; तुलाम् आरोपितं पुरा ॥१-००१-२०८॥
महत्त्वे च गुरुत्वे च; ध्रियमाणं ततः अधिकम् ॥१-००१-२०८॥
महत्त्वात् भारवत्त्वात् च; महाभारतम् उच्यते। निरुक्तम् अस्य यः वेद; सर्व-पापैः प्रमुच्यते ॥१-००१-२०९॥
तपः न कल्कः अध्ययनं न कल्कः। स्वाभाविकः वेदविधिः न कल्कः। प्रसह्य वित्त-ाहरणं न कल्कः; तानि एव भाव-उपहतानि कल्कः ॥१-००१-२१०॥