महाभारत
001.001 The Mahabharata story summarized
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥०॥
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥१॥
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान्। विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥२॥
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः। चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥३॥
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः।अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥४॥
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु।निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥५॥
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च।अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥६॥
कुत आगम्यते सौते क्व चायं विहृतस्त्वया।कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥७॥
सूत उवाच॥
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः।समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥८॥
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः।कथिताश्चापि विधिवद्या वैशम्पायनेन वै ॥९॥
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः।बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ॥१०॥
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्।गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ॥११॥
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥११॥
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह।आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥१२॥
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः।कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ॥१३॥
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥१३॥
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः।इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥१४॥
ऋषय ऊचुः॥
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा।सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥१५॥
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः।सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥१६॥
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्।संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥१७॥
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान्।यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥१८॥
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः।संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥१९॥
सूत उवाच॥
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्।ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥२०॥
असच्च सच्चैव च यद्विश्वं सदसतः परम्।परावराणां स्रष्टारं पुराणं परमव्ययम् ॥२१॥
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्।नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥२२॥
महर्षेः पूजितस्येह सर्वलोके महात्मनः।प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥२३॥
आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे।आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥२४॥
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्।विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥२५॥
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः।छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥२६॥
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते।बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥२७॥
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते।यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥२८॥
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम्।अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥२९॥
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः।ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥३०॥
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये।ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥३१॥
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः।विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥३२॥
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा।ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥३३॥
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः।आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥३४॥
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात्।यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ॥३५॥
यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम्।पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥३६॥
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये।दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥३७॥
एवमेतदनाद्यन्तं भूतसंहारकारकम्।अनादिनिधनं लोके चक्रं सम्परिवर्तते ॥३८॥
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च।त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा ॥३९॥
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः।सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥४०॥
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः।देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥४१॥
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः।दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥४२॥
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः।ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥४३॥
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः।तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥४४॥
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः।सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः ॥४५॥
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्।वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥४६॥
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च।लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ॥४७॥
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च।इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥४८॥
विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत्।इष्टं हि विदुषां लोके समासव्यासधारणम् ॥४९॥
मन्वादि भारतं केचिदास्तीकादि तथापरे।तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥५०॥
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः।व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥५१॥
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्।इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥५२॥
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः।मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥५३॥
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥५४॥
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥५५॥
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्।अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥५६॥
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥५७॥
स सदस्यैः सहासीनः श्रावयामास भारतम्।कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥५८॥
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्।क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥५९॥
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥६०॥
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्।उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥६१॥
ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः।अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥६२॥
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्।ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥६३॥
नारदोऽश्रावयद्देवानसितो देवलः पितृन्।गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥६४॥
दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः। दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ॥६५॥
स सदस्यैः सहासीनः श्रावयामास भारतम्। कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥६६॥
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्। क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥६७॥
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्। दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥६८॥
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति। धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥६९॥
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः। मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥७०॥
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम्। शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥७१॥
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः। पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥७२॥
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा। शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥७३॥
आहुः केचिन्न तस्यैते तस्यैत इति चापरे। यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥७४॥
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम्। उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥७५॥
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन्। अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥७६॥
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः। आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥७७॥
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः। शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥७८॥
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च। न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥७९॥
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन्। धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥८०॥
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च। तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥८१॥
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्।प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥८२॥
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्।आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥८३॥
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान्।आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥८४॥
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः।युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ॥८५॥
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च।घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ॥८६॥
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः।मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥८७॥
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम्।ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥८८॥
विमानप्रतिमां चापि मयेन सुकृतां सभाम्।पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥८९॥
यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात्।प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥९०॥
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च। कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥९१॥
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः। तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥९२॥
नातिप्रीतमनाः च आसीत् विवादांश् च अन्वमोदत। द्यूतादीन् नयान् घोरान् प्रवृद्धांश् च अपि उपैक्षत ॥९३॥
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम्। विग्रहे तुमुले तस्मिन् अहन् क्षत्रं परस्परम् ॥९४॥
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्। दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेः तथा ॥९५॥
धृतराष्ट्रः चिरं ध्यात्वा सञ्जयं वाक्यम् अब्रवीत् ॥९५॥
शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि। श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥९६॥
न विग्रहे मम मतिः न च प्रीये कुरुक्षये। न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥९७॥
वृद्धं मामभ्यसूयन्ति पुत्रा मन्यु-परायणाः। अहं तु अचक्षुः कार्पण्यात् पुत्र-प्रीत्या सहामि तत् ॥९८॥
मुह्यन्तं च अनुमुह्यामि दुर्योधनम् अचेतनम् ॥९८॥
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः। तच्च अवहसनं प्राप्य सभारोहणदर्शने ॥९९॥
अमर्षितः स्वयं जेतुं अशक्तः पाण्डवान् रणे। निरुत्साहश्च सम्प्राप्तुं श्रियम् अक्षत्रियः यथा ॥१००॥
गान्धारराजसहितः छद्मद्यूतम् अमन्त्रयत् ॥१००॥
तत्र यद्यत् यथा ज्ञातं मया सञ्जय तत् शृणु। श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ॥१०१॥
ततः ज्ञास्यसि मां सौते प्रज्ञा-चक्षुषम् इति उक्तम् ॥१०१॥
यदा अश्रौषम् धनुः आयम्य चित्रम्; विद्धम् लक्ष्यं पातितम् वै पृथिव्याम्। कृष्णां हृतां पश्यतां सर्वराज्ञाम्; तदा नाशंसे विजयाय सञ्जय ॥१०२॥
यदा अश्रौषम् द्वारकायां सुभद्रां; प्रसह्य ऊढां माधवीम् अर्जुनेन। इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय सञ्जय ॥१०३॥
यदा अश्रौषम् देवराजम् प्रवृष्टम्; शरैः दिव्यैः वारितं च अर्जुनेन। अग्निम् तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय सञ्जय ॥१०४॥
यदा अश्रौषम् हृत-राज्यम् युधिष्ठिरम्; पराजितम् सौबलेन अक्षवत्याम्। अन्वागतं भ्रातृभिः अप्रमेयैः; तदा नाशंसे विजयाय सञ्जय ॥१०५॥
यदा अश्रौषम् द्रौपदीम् अश्रु-कण्ठीम्; सभाम् नीताम् दुःखिताम् एक-वस्त्राम्। रजस्वलाम् नाथवतीम् अनाथवत्; तदा न अशंसे विजयाय सञ्जय ॥१०६॥
यदा अश्रौषम् विविधाः तात चेष्टाः; धर्मात्मनां प्रस्थितानां वनाय। ज्येष्ठ-प्रीत्या क्लिश्यतां पाण्डवानां; तदा न अशंसे विजयाय सञ्जय ॥१०७॥
यदा अश्रौषम् स्नातकानां सहस्रैः; अन्वागतं धर्मराजं वनस्थम्। भिक्षा-भुजां ब्राह्मणानां महात्मनाम्; तदा न अशंसे विजयाय सञ्जय ॥१०८॥
यदा अश्रौषम् अर्जुनः देव-देवम्; किरात-रूपम् त्र्यम्बकम् तोष्य युद्धे। अवाप तत् पाशुपतं महास्त्रं; तदा न अशंसे विजयाय सञ्जय ॥१०९॥
यदा अश्रौषम् त्रिदिवस्थम् धनञ्जयम्; शक्रात् साक्षात् दिव्यमस्त्रं यथावत्। अधीयानं शंसितं सत्यसन्धम्; तदा न अशंसे विजयाय सञ्जय ॥११०॥
यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान्। तस्मिन् देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय सञ्जय ॥१११॥
यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैः मोक्षणं च अर्जुनेन। स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय सञ्जय ॥११२॥
यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत। प्रश्नानुक्तान्विब्रुवन्तं च सम्यक्; तदा नाशंसे विजयाय सञ्जय ॥११३॥
यदाश्रौषं मामकानां वरिष्ठान्; धनञ्जयेनैकरथेन भग्नान्। विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय सञ्जय ॥११४॥
यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम् उत्तराम् अर्जुनाय। तां च अर्जुनः प्रत्यगृह्णात् सुतार्थे; तदा नाशंसे विजयाय सञ्जय ॥११५॥
यदाश्रौषं निर्जितस्य अधनस्य; प्रव्राजितस्य स्वजनात् प्रच्युतस्य। अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय सञ्जय ॥११६॥
यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतः नारदस्य। अहं द्रष्टा ब्रह्मलोके सदा इति; तदा नाशंसे विजयाय सञ्जय ॥११७॥
यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम्। यस्य इमां गां विक्रमम् एकम् आहु; तदा नाशंसे विजयाय सञ्जय ॥११८॥
यदाश्रौषं कर्ण-दुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य। तं च आत्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय सञ्जय ॥११९॥
यदाश्रौषं वासुदेवे प्रयाते; रथस्य एकाम् अग्रतः तिष्ठमानाम्। आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय सञ्जय ॥१२०॥
यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शान्तनवं च तेषाम्। भारद्वाजं च आऽशिषः अनुब्रुवाणं; तदा नाशंसे विजयाय सञ्जय ॥१२१॥
यदाश्रौषं कर्ण उवाच भीष्मं; न अहं योत्स्ये युध्यमाने त्वयि इति। हित्वा सेनाम् अपचक्राम चैव; तदा नाशंसे विजयाय सञ्जय ॥१२२॥
यदाश्रौषं वासुदेव-अर्जुनौ तौ; तथा धनुः गाण्डिवम् अप्रमेयम्। त्रीणि उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय सञ्जय ॥१२३॥
यदाश्रौषं कश्मलेन अभिपन्ने; रथ-उपस्थे सीदमाने अर्जुने वै। कृष्णं लोकान् दर्शयानं शरीरे; तदा नाशंसे विजयाय सञ्जय ॥१२४॥
यदाश्रौषं भीष्मम् अमित्रकर्शनं; निघ्नन्तम् आजावयुतं रथानाम्। नैषां कश्चित् वध्यते दृश्य-रूपः; तदा नाशंसे विजयाय सञ्जय ॥१२५॥
यदाश्रौषं भीष्मम् अत्यन्त-शूरं; हतं पार्थेन आहवेषु अप्रधृष्यम्। शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय सञ्जय ॥१२६॥
यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः। भीष्मं कृत्वा सोमकान् अल्पशेषान्; तदा नाशंसे विजयाय सञ्जय ॥१२७॥
यदाश्रौषं शान्तनवे शयाने; पानीयार्थे चोदितेन अर्जुनेन। भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय सञ्जय ॥१२८॥
यदाश्रौषं शुक्र-सूर्यौ च युक्तौ; कौन्तेयानाम् अनुलोमौ जयाय। नित्यं च अस्मान् श्वापदाः व्याभषन्त; तदा नाशंसे विजयाय सञ्जय ॥१२९॥
यदा द्रोणः विविधान् अस्त्रमार्गान्; विदर्शयन् समरे चित्रयोधी। न पाण्डवान् श्रेष्ठतमान् निहन्ति; तदा नाशंसे विजयाय सञ्जय ॥१३०॥
यदाश्रौषं च अस्मदीयान् महारथान्; व्यवस्थितान् अर्जुनस्य अन्तकाय। संशप्तकान् निहतान् अर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥१३१॥
यदाश्रौषं व्यूहम् अभेद्यम् अन्यैः; भारद्वाजेन आत्त-शस्त्रेण गुप्तम्। भित्त्वा सौभद्रं वीरम् एकं प्रविष्टं; तदा नाशंसे विजयाय सञ्जय ॥१३२॥
यदा अभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्ट-रूपा बभूवुः। महारथाः पार्थम् अशक्नुवन्त; तदा नाशंसे विजयाय सञ्जय ॥१३३॥
यदाश्रौषं अभिमन्युं निहत्य; हर्षात् मूढान् क्रोशतः धार्तराष्ट्रान्। क्रोधं मुक्तं सैन्धवे च अर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥१३४॥
यदाश्रौषं सैन्धव-अर्थे प्रतिज्ञाम्; प्रतिज्ञाताम् तद्वधाय अर्जुनेन। सत्याम् निस्तीर्णाम् शत्रु-मध्ये च तेन; तदा नाशंसे विजयाय सञ्जय ॥१३५॥
यदाश्रौषं श्रान्त-हये धनञ्जये; मुक्त्वा हयान् पाययित्वा उपवृत्तान्। पुनः युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय सञ्जय ॥१३६॥
यदाश्रौषं वाहनेषु आश्वसत्सु; रथ-उपस्थे तिष्ठता गाण्डिवेन। सर्वान् योधान् वारितान् अर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥१३७॥
यदाश्रौषं नागबलैः दुरुत्सहं; द्रोण-आनीकं युयुधानं प्रमथ्य। यातं वार्ष्णेयं यत्र तौ कृष्ण-पार्थौ; तदा नाशंसे विजयाय सञ्जय ॥१३८॥
यदाश्रौषं कर्णम् आसाद्य मुक्तं; वधात् भीमं कुत्सयित्वा वचोभिः। धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय सञ्जय ॥१३९॥
यदा द्रोणः कृतवर्मा कृपश्च; कर्णः द्रौणिः मद्रराजश्च शूरः। अमर्षयन् सैन्धवं वध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥१४०॥
यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन। घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय सञ्जय ॥१४१॥
यदाश्रौषं कर्ण-घटोत्कचाभ्याम्; युद्धे मुक्तां सूतपुत्रेण शक्तिम्। यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय सञ्जय ॥१४२॥
यदाश्रौषं द्रोणम् आचार्यम् एकं; धृष्टद्युम्नेन अति-क्रम्य धर्मम्। रथ-उपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय सञ्जय ॥१४३॥
यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये। समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥१४४॥
यदा द्रोणे निहते द्रोणपुत्रः; नारायणं दिव्यमस्त्रं विकुर्वन्। नैषां अन्तं गतवान् पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ॥१४५॥
यदाश्रौषं कर्णम् अत्यन्त-शूरं; हतं पार्थेन आहवेषु अप्रधृष्यम्। तस्मिन् भ्रातृणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय सञ्जय ॥१४६॥
यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणम् उग्रम्। युधिष्ठिरं शून्यम् अधर्षयन्तम्; तदा नाशंसे विजयाय सञ्जय ॥१४७॥
यदाश्रौषं निहतम् मद्रराजं; रणे शूरं धर्मराजेन सूत। सदा सङ्ग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय सञ्जय ॥१४८॥
यदाश्रौषं कलह-द्यूत-मूलं; माया-बलं सौबलं पाण्डवेन। हतम् सङ्ग्रामे सहदेवेन पापम्; तदा नाशंसे विजयाय सञ्जय ॥१४९॥
यदाश्रौषं श्रान्तम् एकं शयानं; ह्रदम् गत्वा स्तम्भयित्वा तत् अम्भः। दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय सञ्जय ॥१५०॥
यदाश्रौषं पाण्डवाँस् तिष्ठमानान्; गङ्गा-ह्रदे वासुदेवेन सार्धम्। अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय सञ्जय ॥१५१॥
यदाश्रौषं विविधान् तात मार्गान्; गदायुद्धे मण्डलं सञ्चरन्तम्। मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय सञ्जय ॥१५२॥
यदाश्रौषं द्रोणपुत्रादिभिः तैः; हतान् पाञ्चालान् द्रौपदेयान् च सुप्तान्। कृतं बीभत्सम अयशस्यं च कर्म; तदा नाशंसे विजयाय सञ्जय ॥१५३॥
यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम्। क्रुद्धेन ऐषीकम् अवधीद् येन गर्भं; तदा नाशंसे विजयाय सञ्जय ॥१५४॥
यदाश्रौषं ब्रह्मशिरः अर्जुनेन; मुक्तं स्वस्ति इति अस्त्रम् अस्त्रेण शान्तम्। अश्वत्थाम्ना मणि-रत्नं च दत्तम्; तदा नाशंसे विजयाय सञ्जय ॥१५५॥
यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्याया वै पात्यमाने महास्त्रे। द्वैपायनः केशवः द्रोणपुत्रं; परस्परेण अभिशापैः शशाप ॥१५६॥
शोच्याः गान्धारी पुत्रपौत्रैः विहीना; तथा वध्वः पितृभिः भ्रातृभिः च। कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यं असपत्नं पुनः तैः ॥१५७॥
कष्टं युद्धे दश शेषाः श्रुताः मे; त्रयः अस्माकं पाण्डवानां च सप्त। द्वि-ऊना विंशतिः आहत-अक्षौहिणीनां; तस्मिन् संग्रामे विग्रहे क्षत्रियाणाम् ॥१५८॥
तमसा तु अभ्यवस्तीर्णो; मोहः आविशतीव माम्। सञ्ज्ञां न उपलभे सूत; मनः विह्वलतीव मे ॥१५९॥
इति उक्त्वा धृतराष्ट्रः अथ; विलप्य बहु-दुःखितः। मूर्च्छितः पुनः आश्वस्तः; सञ्जयं वाक्यम् अब्रवीत् ॥१६०॥
सञ्जय एवम् गते प्राणान् त्यक्तुम् इच्छामि मा चिरम्। स्तोकम् हि अपि न पश्यामि फलम् जीवित-धारणे ॥१६१॥
तं तथा वादिनं दीनं विलपन्तं महीपतिम्। गावल्गणिः इदं धीमान् महार्थं वाक्यम् अब्रवीत् ॥१६२॥
श्रुतवान् असि वै राज्ञो महोत्साहान् महाबलान्। द्वैपायनस्य वदतः नारदस्य च धीमतः ॥१६३॥
महत्सु राजवंशेषु गुणैः समुदितेषु च। जातान् दिव्यास्त्रविदुषः शक्र-प्रतिम-तेजसः ॥१६४॥
धर्मेण पृथिवीं जित्वा यज्ञैः इष्ट्वा आप्त-दक्षिणैः। अस्मिन् लोके यशः प्राप्य ततः काल-वशं गताः ॥१६५॥
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम्। सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथा औशिजम् ॥१६६॥
बाह्लीकं दमनं शैब्यं शर्यातिम अजितं जितम्। विश्वामित्रम् अमित्रघ्नम् अम्बरीषं महाबलम् ॥१६७॥
मरुत्तं मनुम् इक्ष्वाकुं गयं भरतमेव च। रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ॥१६८॥
ययातिं शुभकर्माणं देवैः यः याजितः स्वयम्। चैत्य-यूपाङ्किता भूमिः यस्य इयम् सवनाकरा ॥१६९॥
इति राज्ञां चतुर्विंशत् नारदेन सुरर्षिणा। पुत्रशोक-अभितप्ताय पुरा शैब्याय कीर्तिताः ॥१७०॥
तेभ्यः च अन्ये गताः पूर्वं; राजानः बलवत्-तराः। महारथाः महात्मानः; सर्वैः समुदिताः गुणैः ॥१७१॥
पूरुः कुरुः यदुः शूरः; विष्वगश्वः महा-धृतिः। अनेनाः युवनाश्वः च; ककुत्स्थः विक्रमी रघुः ॥१७२॥
विजिती वीतिहोत्रः च; भवः श्वेतः बृहद्गुरुः। उशीनरः शतरथः; कङ्कः दुलिदुहः द्रुमः ॥१७३॥
दम्भोद्भवः परः वेनः; सगरः सङ्कृतिः निमिः। अजेयः परशुः पुण्ड्रः; शम्भुः देवावृद्धः अनघः ॥१७४॥
देव-आह्वयः सुप्रतिमः सुप्रतीकः बृहद्रथः। महोत्साहः विनीतात्मा सुक्रतुः नैषधः नलः ॥१७५॥
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः। जानुजङ्घः अनरण्यः अर्कः प्रियभृत्यः शुभव्रतः ॥१७६॥
बलबन्धुः निरामर्दः केतुशृङ्गः बृहद्बलः। धृष्टकेतुः बृहत्केतुः दीप्तकेतुः निरामयः ॥१७७॥
अविक्षित् प्रबलः धूर्तः कृतबन्धुः दृढेषुधिः। महापुराणः सम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ॥१७८॥
एते च अन्ये च बहवः शतशः अथ सहस्रशः। श्रूयन्ते अयुतशः च अन्ये सङ्ख्याताः च अपि पद्मशः ॥१७९॥
हित्वा सुविपुलान् भोगान् बुद्धिमन्तः महाबलाः। राजानः निधनं प्राप्ताः तव पुत्रैः महत्तमाः ॥१८०॥
येषां दिव्यानि कर्माणि विक्रमः त्यागः एव च। माहात्म्यम् अपि च आस्तिक्यं सत्यता शौचम् आर्जवम् ॥१८१॥
विद्वद्भिः कथ्यते लोके पुराणैः कवि-सत्तमैः। सर्व-ऋद्धि-गुण-सम्पन्नाः ते च अपि निधनं गताः ॥१८२॥
तव पुत्राः दुरात्मानः प्रतप्ताः च एव मन्युना। लुब्धाः दुर्वृत्त-भूयिष्ठाः न तान् शोचितुम् अर्हसि ॥१८३॥
श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञ-सम्मतः। येषां शास्त्र-अनुगा बुद्धिः न ते मुह्यन्ति भारत ॥१८४॥
निग्रह-अनुग्रहौ च अपि विदितौ ते नराधिप। न अत्यन्तम् एव अनुवृत्तिः श्रूयते पुत्र-रक्षणे ॥१८५॥
भवितव्यं तथा तत् च; न अतः शोचितुम् अर्हसि। दैवं प्रज्ञा-विशेषेण; कः निवर्तितुम् अर्हति ॥१८६॥
विधातृ-विहितं मार्गं; न कश्चित् अति वर्तते। काल-मूलम् इदं सर्वं; भाव-अभावौ सुख-असुखे ॥१८७॥
कालः पचति भूतानि; कालः संहरति प्रजाः। निर्दहन्तं प्रजाः कालं; कालः शमयते पुनः ॥१८८॥
कालः विकुरुते भावान्; सर्वान् लोके शुभ-अशुभान्। कालः सङ्क्षिपते सर्वाः; प्रजाः विसृजते पुनः ॥१८९॥
कालः सर्वेषु भूतेषु; चरति अविधृतः समः ॥१८९॥
अतीत-अनागताः भावाः; ये च वर्तन्ति साम्प्रतम्। तान् काल-निर्मितान् बुद्ध्वा; न सञ्ज्ञां हातुम् अर्हसि ॥१९०॥
सूत उवाच॥
अत्र उपनिषदं पुण्याम् कृष्णद्वैपायनः अब्रवीत्। भारत-अध्ययनात् पुण्यात् अपि पादम् अधीयतः ॥१९१॥
श्रद्दधानस्य पूयन्ते सर्वपापानि अशेषतः ॥१९१॥
देवर्षयः हि अत्र पुण्याः ब्रह्म-राजर्षयः तथा। कीर्त्यन्ते शुभकर्माणः तथा यक्ष-महोरगाः ॥१९२॥
भगवान् वासुदेवः च कीर्त्यते अत्र सनातनः। सः हि सत्यम् अमृतम् चैव पवित्रम् पुण्यम् एव च ॥१९३॥
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्। यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥१९४॥
असत् सत् सत्-असत् च एव; यस्मात् देवात् प्रवर्तते। सन्ततिः च प्रवृत्तिः च; जन्म मृत्युः पुनर्भवः ॥१९५॥
अध्यात्मं श्रूयते यत् च पञ्चभूत-गुणात्मकम्। अव्यक्त-आदि परं यत् च सः एव परिगीयते ॥१९६॥
यत् तत् यतिवराः युक्ताः ध्यान-योग-बलान्विताः। प्रतिबिम्बम् इव आदर्शे पश्यन्ति आत्मनि अवस्थितम् ॥१९७॥
श्रद्दधानः सदा उद्युक्तः सत्य-धर्म-परायणः। आसेवन् इमम् अध्यायम् नरः पापात् प्रमुच्यते ॥१९८॥
अनुक्रमणि-अध्यायम् भारतस्य इमम् आदितः। आस्तिकः सततं शृण्वन् न कृच्छ्रेषु अवसीदति ॥१९९॥
उभे सन्ध्ये जपन् किञ्चित्; सद्यः मुच्येत किल्बिषात्। अनुक्रमण्या यावत् स्यात्; अह्ना रात्र्या च सञ्चितम् ॥२००॥
भारतस्य वपुः हि एतत्; सत्यं च अमृतम् एव च। नवनीतं यथा दध्नः; द्विपदां ब्राह्मणः यथा ॥२०१॥
ह्रदानाम् उदधिः श्रेष्ठः; गौः वरिष्ठा चतुष्पदाम्। यथा एतानि वरिष्ठानि; तथा भारतम् उच्यते ॥२०२॥
यः च एनम् श्रावयेत् श्राद्धे; ब्राह्मणान् पादम् अन्ततः। अक्षय्यम् अन्नपानं तत्; पितृन् तस्य उपतिष्ठति ॥२०३॥
इतिहास-पुराणाभ्यां; वेदम् समुपबृंहयेत्। बिभेति अल्प-श्रुतात् वेदः; माम् अयम् प्रतरिष्यति ॥२०४॥
कार्ष्णम् वेदम् इमम् विद्वान्; श्रावयित्वा अर्थम् अश्नुते। भ्रूण-हत्या-कृतं च अपि; पापं जह्यात् न संशयः ॥२०५॥
यः इमं शुचिः अध्यायं पठेत् पर्वणि पर्वणि। अधीतं भारतं तेन कृत्स्नं स्यात् इति मे मतिः ॥२०६॥
यः च इमं शृणुयात् नित्यम्; आर्षं श्रद्धा-समन्वितः। सः दीर्घम् आयुः कीर्तिं च; स्वर्ग-गतिम् च आप्नुयात् नरः ॥२०७॥
चत्वारः एकतः वेदाः; भारतम् च एकम् एकतः। समागतैः सुरर्षिभिः; तुलाम् आरोपितं पुरा ॥२०८॥
महत्त्वे च गुरुत्वे च; ध्रियमाणं ततः अधिकम् ॥२०८॥
महत्त्वात् भारवत्त्वात् च; महाभारतम् उच्यते। निरुक्तम् अस्य यः वेद; सर्व-पापैः प्रमुच्यते ॥२०९॥
तपः न कल्कः अध्ययनं न कल्कः। स्वाभाविकः वेदविधिः न कल्कः। प्रसह्य वित्त-ाहरणं न कल्कः; तानि एव भाव-उपहतानि कल्कः ॥२१०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.