Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.056
Core:Significance of Mahabharata as Artha-shastra, Dharma-shastra, and also Mokhsa-shastra.
जनमेजय उवाच॥
कथितं वै समासेन त्वया सर्वं द्विजोत्तम। महाभारतमाख्यानं कुरूणां चरितं महत् ॥१-०५६-१॥
कथां त्वनघ चित्रार्थामिमां कथयति त्वयि। विस्तरश्रवणे जातं कौतूहलमतीव मे ॥१-०५६-२॥
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥१-०५६-३॥
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः। अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥१-०५६-४॥
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः। प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥१-०५६-५॥
कथं नागायुतप्राणो बाहुशाली वृकोदरः। परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥१-०५६-६॥
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः। शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ॥१-०५६-७॥
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा। अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ॥१-०५६-८॥
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्। अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥१-०५६-९॥
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः। अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः ॥१-०५६-१०॥
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन। यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ॥१-०५६-११॥
वैशम्पायन उवाच॥
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥१-०५६-१२॥
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्। सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥१-०५६-१३॥
य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः। ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥१-०५६-१४॥
इदं हि वेदैः समितं पवित्रमपि चोत्तमम्। श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥१-०५६-१५॥
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते। इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥१-०५६-१६॥
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान्। कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥१-०५६-१७॥
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम्। इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥१-०५६-१८॥
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा। महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ॥१-०५६-१९॥
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्। महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ॥१-०५६-२०॥
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम्। मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥१-०५६-२१॥
सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे। पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥१-०५६-२२॥
शरीरेण कृतं पापं वाचा च मनसैव च। सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ॥१-०५६-२३॥
भारतानां महज्जन्म शृण्वतामनसूयताम्। नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥१-०५६-२४॥
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च। कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥१-०५६-२५॥
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्। अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥१-०५६-२६॥
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः। ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥१-०५६-२७॥
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु। धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ॥१-०५६-२८॥
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः। अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितृनपि ॥१-०५६-२९॥
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन्। तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ॥१-०५६-३०॥
भारतानां महज्जन्म महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥१-०५६-३१॥
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः। महाभारतमाख्यानं कृतवानिदमुत्तमम् ॥१-०५६-३२॥
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥१-०५६-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.