01.092
Shantanu gifted with a son “Gangadatta”.
वैशम्पायन उवाच॥
ततः प्रतीपो राजा स सर्वभूतहिते रतः। निषसाद समा बह्वीर्गङ्गातीरगतो जपन् ॥१॥
तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी। उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥२॥
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी। दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ॥३॥
प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम्। करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥४॥
स्त्र्युवाच॥
त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम्। त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥५॥
प्रतीप उवाच॥
नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि। न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् ॥६॥
स्त्र्युवाच॥
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित्। भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् ॥७॥
प्रतीप उवाच॥
मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम्। अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥८॥
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने। अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥९॥
सव्यतः कामिनीभागस्त्वया स च विवर्जितः। तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥१०॥
स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम्। स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ॥११॥
स्त्र्युवाच॥
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते। त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् ॥१२॥
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम्। गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ॥ कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् ॥१३॥
स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो। तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ॥१४॥
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम्। पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः ॥१५॥
वैशम्पायन उवाच॥
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत। पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् ॥१६॥
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः। तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ॥१७॥
तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः। शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शन्तनुः ॥१८॥
संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा। पुण्यकर्मकृदेवासीच्छन्तनुः कुरुसत्तम ॥१९॥
प्रतीपः शन्तनुं पुत्रं यौवनस्थं ततोऽन्वशात्। पुरा मां स्त्री समभ्यागाच्छन्तनो भूतये तव ॥२०॥
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी। कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया॥ सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने॥२१॥
यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ। मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥२२॥
एवं संदिश्य तनयं प्रतीपः शन्तनुं तदा। स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥२३॥
स राजा शन्तनुर्धीमान् ख्यातः पृथ्व्यां धनुर्धरः। बभूव मृगयाशीलः सततं वनगोचरः ॥२४॥
स मृगान्महिषांश्चैव विनिघ्नन् राजसत्तमः। गङ्गामनुचचारैकः सिद्धचारणसेविताम् ॥२५॥
स कदाचिन्महाराज ददर्श परमस्त्रियम्। जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् ॥२६॥
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्। सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ॥२७॥
तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा। पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥२८॥
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम्। स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥२९॥
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा। देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः ॥३०॥
यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे। या वा त्वं सुरगर्भाभे भार्या मे भव शोभने ॥३१॥
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च। वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता ॥३२॥
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा। भविष्यामि महीपाल महिषी ते वशानुगा ॥३३॥
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम्। न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् ॥३४॥
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव। वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ॥३५॥
तथेति राज्ञा सा तूक्ता तदा भरतसत्तम। प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ॥३६॥
आसाद्य शन्तनुस्तां च बुभुजे कामतो वशी। न प्रष्टव्येति मन्वानो न स तां किञ्चिदूचिवान् ॥३७॥
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च। उपचारेण च रहस्तुतोष जगतीपतिः ॥३८॥
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी। मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी ॥३९॥
भाग्योपनतकामस्य भार्येवोपस्थिताभवत्। शन्तनो राजसिंहस्य देवराजसमद्युतेः ॥४०॥
सम्भोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः। राजानं रमयामास यथा रेमे तथैव सः ॥४१॥
स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः। संवत्सरानृतून्मासान्न बुबोध बहून्गतान् ॥४२॥
रममाणस्तया सार्धं यथाकामं जनेश्वरः। अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः ॥४३॥
जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत। प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ॥४४॥
तस्य तन्न प्रियं राज्ञः शन्तनोरभवत्तदा। न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः ॥४५॥
अथ तामष्टमे पुत्रे जाते प्रहसितामिव। उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ॥४६॥
मा वधीः कासि कस्यासि किं हिंससि सुतानिति। पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते ॥४७॥
स्त्र्युवाच॥
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर। जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥४८॥
अहं गङ्गा जह्नुसुता महर्षिगणसेविता। देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह ॥४९॥
अष्टे मे वसवो देवा महाभागा महौजसः। वसिष्ठ-शाप-दोषेण मानुषत्वम् उपागताः ॥५०॥
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते। मद्विधा मानुषी धात्री न चैवास्तीह काचन ॥५१॥
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता। जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ॥५२॥
देवानां समयस्त्वेष वसूनां संश्रुतो मया। जातं जातं मोक्षयिष्ये जन्मतः मानुषादिति ॥५३॥
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः। स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥५४॥
एष पर्यायवासो मे वसूनां संनिधौ कृतः। मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ॥५५॥