Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.091
Core-Pancharatra-Ext: Mahabhisha’s fall and the pact between Ganga and Vasus.
वैशम्पायन उवाच॥
इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः। महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ॥१-०९१-१॥
सोऽश्वमेधसहस्रेण वाजपेयशतेन च। तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ॥१-०९१-२॥
ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः। तत्र राजर्षयो आसन्स च राजा महाभिषः ॥१-०९१-३॥
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम्। तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥१-०९१-४॥
ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा। महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥१-०९१-५॥
अपध्यातो भगवता ब्रह्मणा स महाभिषः। उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥१-०९१-६॥
स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान्। प्रतीपं रोचयामास पितरं भूरिवर्चसम् ॥१-०९१-७॥
महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम्। तमेव मनसाध्यायमुपावर्तत्सरिद्वरा ॥१-०९१-८॥
सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः। ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ॥१-०९१-९॥
तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा। किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ॥१-०९१-१०॥
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि। अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ॥१-०९१-११॥
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम्। सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ॥१-०९१-१२॥
तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह। न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना ॥१-०९१-१३॥
त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि। न मानुषीणां जठरं प्रविशेमाशुभं वयम् ॥१-०९१-१४॥
इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम्। मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ॥१-०९१-१५॥
वसव ऊचुः॥
प्रतीपस्य सुतो राजा शन्तनुर्नाम धार्मिकः। भविता मानुषे लोके स नः कर्ता भविष्यति ॥१-०९१-१६॥
गङ्गोवाच॥
ममाप्येवं मतं देवा यथावदत मानघाः। प्रियं तस्य करिष्यामि युष्माकं चैतदीप्शितम् ॥१-०९१-१७॥
वसव ऊचुः॥
जातान् कुमारान् स्वानप्सु प्रक्षेप्तुं वै त्वम् अर्हसि। यथा न चिरकालं नः निष्कृतिः स्यात् त्रिलोकगे ॥१-०९१-१८॥
गङ्गोवाच॥
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम्। नास्य मोघः सङ्गमः स्यात् पुत्रहेतोर्मया सह ॥१-०९१-१९॥
वसव ऊचुः॥
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम्। तेन वीर्येण पुत्रस्ते भविता तस्य च इप्सितः ॥१-०९१-२०॥
न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः। तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ॥१-०९१-२१॥
वैशम्पायन उवाच॥
एवं ते समयं कृत्वा गङ्गया वसवः सह। जग्मुः प्रहृष्टमनसः यथासङ्कल्पम् अञ्जसा ॥१-०९१-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.