05.116
नारद उवाच॥
तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी। माधवी गालवं विप्रमन्वयात्सत्यसङ्गरा ॥५-११६-१॥
गालवो विमृशन्नेव स्वकार्यगतमानसः। जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् ॥५-११६-२॥
तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम्। इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ ॥५-११६-३॥
अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च। सोमार्कप्रतिसङ्काशौ जनयित्वा सुतौ नृप ॥५-११६-४॥
शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम्। एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् ॥५-११६-५॥
गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे। यदि शक्यं महाराज क्रियतां मा विचार्यताम् ॥५-११६-६॥
अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव। पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय ॥५-११६-७॥
न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः। न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः ॥५-११६-८॥
एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम्। उशीनरः प्रतिवचो ददौ तस्य नराधिपः ॥५-११६-९॥
श्रुतवानस्मि ते वाक्यं यथा वदसि गालव। विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम ॥५-११६-१०॥
शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम। इतरेषां सहस्राणि सुबहूनि चरन्ति मे ॥५-११६-११॥
अहमप्येकमेवास्यां जनयिष्यामि गालव। पुत्रं द्विज गतं मार्गं गमिष्यामि परैरहम् ॥५-११६-१२॥
मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम। पौरजानपदार्थं तु ममार्थो नात्मभोगतः ॥५-११६-१३॥
कामतो हि धनं राजा पारक्यं यः प्रयच्छति। न स धर्मेण धर्मात्मन्युज्यते यशसा न च ॥५-११६-१४॥
सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम। कुमारीं देवगर्भाभामेकपुत्रभवाय मे ॥५-११६-१५॥
तथा तु बहुकल्याणमुक्तवन्तं नराधिपम्। उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् ॥५-११६-१६॥
उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम्। रेमे स तां समासाद्य कृतपुण्य इव श्रियम् ॥५-११६-१७॥
कन्दरेषु च शैलानां नदीनां निर्झरेषु च। उद्यानेषु विचित्रेषु वनेषूपवनेषु च ॥५-११६-१८॥
हर्म्येषु रमणीयेषु प्रासादशिखरेषु च। वातायनविमानेषु तथा गर्भगृहेषु च ॥५-११६-१९॥
ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः। शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः ॥५-११६-२०॥
उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च। कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम् ॥५-११६-२१॥