05.131
Library: Kunti narrates the story of Vibhavari rebuking her son, encouraging him to fight.
कुन्त्युवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । विदुरायाश्च संवादं पुत्रस्य च परन्तप ॥५-१३१-१॥
अत्र श्रेयश्च भूयश्च यथा सा वक्तुमर्हति । यशस्विनी मन्युमती कुले जाता विभावरी ॥५-१३१-२॥
क्षत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी । विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता ॥५-१३१-३॥
विदुरा नाम वै सत्या जगर्हे पुत्रमौरसम् । निर्जितं सिन्धुराजेन शयानं दीनचेतसम् ॥ अनन्दनमधर्मज्ञं द्विषतां हर्षवर्धनम् ॥५-१३१-४॥
न मया त्वं न पित्रासि जातः क्वाभ्यागतो ह्यसि । निर्मन्युरुपशाखीयः पुरुषः क्लीबसाधनः ॥५-१३१-५॥
यावज्जीवं निराशोऽसि कल्याणाय धुरं वह । मात्मानमवमन्यस्व मैनमल्पेन बीभरः ॥ मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंस्तभ ॥५-१३१-६॥
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः । अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः ॥५-१३१-७॥
सुपूरा वै कुनदिका सुपूरो मूषिकाञ्जलिः । सुसन्तोषः कापुरुषः स्वल्पकेनापि तुष्यति ॥५-१३१-८॥
अप्यरेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज । अपि वा संशयं प्राप्य जीवितेऽपि पराक्रम ॥५-१३१-९॥
अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् । विनदन्वाथ वा तूष्णीं व्योम्नि वापरिशङ्कितः ॥५-१३१-१०॥
त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा । उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः ॥५-१३१-११॥
मास्तं गमस्त्वं कृपणो विश्रूयस्व स्वकर्मणा । मा मध्ये मा जघन्ये त्वं माधो भूस्तिष्ठ चोर्जितः ॥५-१३१-१२॥
अलातं तिन्दुकस्येव मुहूर्तमपि विज्वल । मा तुषाग्निरिवानर्चिः काकरङ्खा जिजीविषुः ॥ मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् ॥५-१३१-१३॥
मा ह स्म कस्यचिद्गेहे जनी राज्ञः खरीमृदुः । कृत्वा मानुष्यकं कर्म सृत्वाजिं यावदुत्तमम् ॥ धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते ॥५-१३१-१४॥
अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः । आनन्तर्यं चारभते न प्राणानां धनायते ॥५-१३१-१५॥
उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम् । धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि ॥५-१३१-१६॥
इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता । विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि ॥५-१३१-१७॥
शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता । विपरिच्छिन्नमूलोऽपि न विषीदेत्कथञ्चन ॥ उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन् ॥५-१३१-१८॥
कुरु सत्त्वं च मानं च विद्धि पौरुषमात्मनः । उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि ॥५-१३१-१९॥
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् । राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् ॥५-१३१-२०॥
दाने तपसि शौर्ये च यस्य न प्रथितं यशः । विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥५-१३१-२१॥
श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा । जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् ॥५-१३१-२२॥
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि । नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम् ॥५-१३१-२३॥
यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् । लोकस्य समवज्ञातं निहीनाशनवाससम् ॥५-१३१-२४॥
अहोलाभकरं दीनमल्पजीवनमल्पकम् । नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते ॥५-१३१-२५॥
अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः । सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिञ्चनाः ॥५-१३१-२६॥
अवर्णकारिणं सत्सु कुलवंशस्य नाशनम् । कलिं पुत्रप्रवादेन सञ्जय त्वामजीजनम् ॥५-१३१-२७॥
निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् । मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ॥५-१३१-२८॥
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् । ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम् ॥५-१३१-२९॥
एतावानेव पुरुषो यदमर्षी यदक्षमी । क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् ॥५-१३१-३०॥
सन्तोषो वै श्रियं हन्ति तथानुक्रोश एव च । अनुत्थानभये चोभे निरीहो नाश्नुते महत् ॥५-१३१-३१॥
एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना । आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् ॥५-१३१-३२॥
पुरं विषहते यस्मात्तस्मात्पुरुष उच्यते । तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति ॥५-१३१-३३॥
शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तगामिनः । दिष्टभावं गतस्यापि विघसे मोदते प्रजा ॥५-१३१-३४॥
य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम् । अमात्यानामथो हर्षमादधात्यचिरेण सः ॥५-१३१-३५॥
पुत्र उवाच॥
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया । किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ॥५-१३१-३६॥
मातोवाच॥
किमद्यकानां ये लोका द्विषन्तस्तानवाप्नुयुः । ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः ॥५-१३१-३७॥
भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम् । कृपणानामसत्त्वानां मा वृत्तिमनुवर्तिथाः ॥५-१३१-३८॥
अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा । पर्जन्यमिव भूतानि देवा इव शतक्रतुम् ॥५-१३१-३९॥
यमाजीवन्ति पुरुषं सर्वभूतानि सञ्जय । पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत् ॥५-१३१-४०॥
यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम् । त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् ॥५-१३१-४१॥
स्वबाहुबलमाश्रित्य योऽभ्युज्जीवति मानवः । स लोके लभते कीर्तिं परत्र च शुभां गतिम् ॥५-१३१-४२॥