05.130
Pancharatra: Through Krishna Kunti advises Yudhisthira to abandon peace and take up weapons, as per Kshatriya's duty.
वैशम्पायन उवाच॥
प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च । आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि ॥५-१३०-१॥
वासुदेव उवाच॥
उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम् । ऋषिभिश्च मया चैव न चासौ तद्गृहीतवान् ॥५-१३०-२॥
कालपक्वमिदं सर्वं दुर्योधनवशानुगम् । आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति ॥५-१३०-३॥
किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया । तद्ब्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव ॥५-१३०-४॥
कुन्त्युवाच॥
ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् । भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ॥५-१३०-५॥
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः । अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते ॥५-१३०-६॥
अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयम्भुवा । उरस्तः क्षत्रियः सृष्टो बाहुवीर्योपजीविता ॥ क्रूराय कर्मणे नित्यं प्रजानां परिपालने ॥५-१३०-७॥
शृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया । मुचुकुन्दस्य राजर्षेरददात्पृथिवीमिमाम् ॥ पुरा वैश्रवणः प्रीतो न चासौ तां गृहीतवान् ॥५-१३०-८॥
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये । ततो वैश्रवणः प्रीतो विस्मितः समपद्यत ॥५-१३०-९॥
मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुन्धराम् । बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ॥५-१३०-१०॥
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः । चतुर्थं तस्य धर्मस्य राजा भारत विन्दति ॥५-१३०-११॥
राजा चरति चेद्धर्मं देवत्वायैव कल्पते । स चेदधर्मं चरति नरकायैव गच्छति ॥५-१३०-१२॥
दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति । प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति ॥५-१३०-१३॥
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते । तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ॥५-१३०-१४॥
कालो वा कारणं राज्ञो राजा वा कालकारणम् । इति ते संशयो मा भूद्राजा कालस्य कारणम् ॥५-१३०-१५॥
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च । युगस्य च चतुर्थस्य राजा भवति कारणम् ॥५-१३०-१६॥
कृतस्य कारणाद्राजा स्वर्गमत्यन्तमश्नुते । त्रेतायाः कारणाद्राजा स्वर्गं नात्यन्तमश्नुते ॥ प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते ॥५-१३०-१७॥
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः । राजदोषेण हि जगत्स्पृश्यते जगतः स च ॥५-१३०-१८॥
राजधर्मानवेक्षस्व पितृपैतामहोचितान् । नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि ॥५-१३०-१९॥
न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः । प्रजापालनसम्भूतं किञ्चित्प्राप फलं नृपः ॥५-१३०-२०॥
न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः । प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया ॥५-१३०-२१॥
यज्ञो दानं तपः शौर्यं प्रजासन्तानमेव च । माहात्म्यं बलमोजश्च नित्यमाशंसितं मया ॥५-१३०-२२॥
नित्यं स्वाहा स्वधा नित्यं ददुर्मानुषदेवताः । दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः ॥५-१३०-२३॥
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च । दानमध्ययनं यज्ञं प्रजानां परिपालनम् ॥५-१३०-२४॥
एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः । ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः ॥५-१३०-२५॥
यत्तु दानपतिं शूरं क्षुधिताः पृथिवीचराः । प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः ॥५-१३०-२६॥
दानेनान्यं बलेनान्यं तथा सूनृतयापरम् । सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ॥५-१३०-२७॥
ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत् । वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् ॥५-१३०-२८॥
भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते । क्षत्रियोऽसि क्षतात्त्राता बाहुवीर्योपजीविता ॥५-१३०-२९॥
पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर । साम्ना दानेन भेदेन दण्डेनाथ नयेन च ॥५-१३०-३०॥
इतो दुःखतरं किं नु यदहं हीनबान्धवा । परपिण्डमुदीक्षामि त्वां सूत्वामित्रनन्दन ॥५-१३०-३१॥
युध्यस्व राजधर्मेण मा निमज्जीः पितामहान् । मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिम् ॥५-१३०-३२॥