06.045
Core and Pancharatra: Death of Uttara, the son of Virata at the hands of Shalya; At midday, the warriors could not gaze upon Bhishma, the son of Pandu; The first day of war ends.
सञ्जय उवाच॥
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे। वर्तमाने महारौद्रे महावीरवरक्षये ॥६-४५-१॥
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः। भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ॥६-४५-२॥
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ। पाण्डवानामनीकानि विजगाहे महारथः ॥६-४५-३॥
चेदिकाशिकरूषेषु पाञ्चालेषु च भारत। भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत ॥६-४५-४॥
शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान्। निचकर्त महावेगैर्भल्लैः संनतपर्वभिः ॥६-४५-५॥
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ। केचिदार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ॥६-४५-६॥
अभिमन्युः सुसङ्क्रुद्धः पिशङ्गैस्तुरगोत्तमैः। संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ॥६-४५-७॥
जाम्बूनदविचित्रेण कर्णिकारेण केतुना। अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान् ॥६-४५-८॥
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा। भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह ॥६-४५-९॥
कृतवर्माणमेकेन शल्यं पञ्चभिरायसैः। विद्ध्वा नवभिरानर्छच्छिताग्रैः प्रपितामहम् ॥६-४५-१०॥
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च। ध्वजमेकेन विव्याध जाम्बूनदविभूषितम् ॥६-४५-११॥
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना। जहार सारथेः कायाच्छिरः संनतपर्वणा ॥६-४५-१२॥
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम्। कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ॥६-४५-१३॥
जघान परमक्रुद्धो नृत्यन्निव महारथः। तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ॥६-४५-१४॥
लब्धलक्ष्यतया कर्ष्णेः सर्वे भीष्ममुखा रथाः। सत्त्ववन्तममन्यन्त साक्षादिव धनञ्जयम् ॥६-४५-१५॥
तस्य लाघवमार्गस्थमलातसदृशप्रभम्। दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ॥६-४५-१६॥
तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः। विव्याध समरे तूर्णमार्जुनिं परवीरहा ॥६-४५-१७॥
ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः। सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ॥६-४५-१८॥
तथैव कृतवर्मा च कृपः शल्यश्च मारिष। विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ॥६-४५-१९॥
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः। ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ॥६-४५-२०॥
ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः। ननाद बलवान्कार्ष्णिर्भीष्माय विसृजञ्शरान् ॥६-४५-२१॥
तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत। यतमानस्य समरे भीष्ममर्दयतः शरैः ॥६-४५-२२॥
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान्। स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ॥६-४५-२३॥
ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः। चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ॥६-४५-२४॥
स राजतो महास्कन्धस्तालो हेमविभूषितः। सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ॥६-४५-२५॥
ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ। दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन् ॥६-४५-२६॥
अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च। प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः ॥६-४५-२७॥
ततः शतसहस्रेण सौभद्रं प्रपितामहः। अवाकिरदमेयात्मा शराणां नतपर्वणाम् ॥६-४५-२८॥
ततो दश महेष्वासाः पाण्डवानां महारथाः। रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ॥६-४५-२९॥
विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः। भीमश्च केकयाश्चैव सात्यकिश्च विशां पते ॥६-४५-३०॥
जवेनापततां तेषां भीष्मः शान्तनवो रणे। पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः ॥६-४५-३१॥
पूर्णायतविसृष्टेन क्षुरेण निशितेन च। ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ॥६-४५-३२॥
जाम्बूनदमयः केतुः केसरी नरसत्तम। पपात भीमसेनस्य भीष्मेण मथितो रथात् ॥६-४५-३३॥
भीमसेनस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे। कृपमेकेन विव्याध कृतवर्माणमष्टभिः ॥६-४५-३४॥
प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना। अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ॥६-४५-३५॥
तस्य वारणराजस्य जवेनापततो रथी। शल्यो निवारयामास वेगमप्रतिमं रणे ॥६-४५-३६॥
तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः। पदा युगमधिष्ठाय जघान चतुरो हयान् ॥६-४५-३७॥
स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम्। उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ॥६-४५-३८॥
तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः। स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः ॥६-४५-३९॥
समादाय च शल्योऽसिमवप्लुत्य रथोत्तमात्। वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम् ॥६-४५-४०॥
भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः। भीममार्तस्वरं कृत्वा पपात च ममार च ॥६-४५-४१॥
एतदीदृशकं कृत्वा मद्रराजो महारथः। आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥६-४५-४२॥
उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम्। कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ॥ शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ॥६-४५-४३॥
स विस्फार्य महच्चापं कार्तस्वरविभूषितम्। अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं बली ॥६-४५-४४॥
महता रथवंशेन समन्तात्परिवारितः। सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति ॥६-४५-४५॥
तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम्। तावकानां रथाः सप्त समन्तात्पर्यवारयन् ॥ मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥६-४५-४६॥
ततो भीष्मो महाबाहुर्विनद्य जलदो यथा। तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ॥६-४५-४७॥
तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम्। सन्त्रस्ता पाण्डवी सेना वातवेगहतेव नौः ॥६-४५-४८॥
तत्रार्जुनः सन्त्वरितः शङ्खस्यासीत्पुरःसरः। भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत ॥६-४५-४९॥
हाहाकारो महानासीद्योधानां युधि युध्यताम्। तेजस्तेजसि सम्पृक्तमित्येवं विस्मयं ययुः ॥६-४५-५०॥
अथ शल्यो गदापाणिरवतीर्य महारथात्। शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ॥६-४५-५१॥
स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः। बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत ॥६-४५-५२॥
ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः। यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम् ॥६-४५-५३॥
पाञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान्। भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः ॥६-४५-५४॥
उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम्। अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् ॥ प्रियं सम्बन्धिनं राजञ्शरानवकिरन्बहून् ॥६-४५-५५॥
अग्निनेव प्रदग्धानि वनानि शिशिरात्यये। शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह ॥ अतिष्ठत रणे भीष्मो विधूम इव पावकः ॥६-४५-५६॥
मध्यंदिने यथादित्यं तपन्तमिव तेजसा। न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् ॥६-४५-५७॥
वीक्षां चक्रुः समन्तात्ते पाण्डवा भयपीडिताः। त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ॥६-४५-५८॥
हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते। हाहाकारो महानासीत्पाण्डुसैन्येषु भारत ॥६-४५-५९॥
ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः। मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥६-४५-६०॥
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः। जघान पाण्डवरथानादिश्यादिश्य भारत ॥६-४५-६१॥
ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः। प्राप्ते चास्तं दिनकरे न प्राज्ञायत किञ्चन ॥६-४५-६२॥
भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे। अवहारमकुर्वन्त सैन्यानां भरतर्षभ ॥६-४५-६३॥