6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.083
Core and Pancharatra: Bhishma's "terrifying ocean with waves" military formation on the eighth day of war. Dhrishtadhymna forms the fierce horn-shaped counter-military formation.
सञ्जय उवाच॥
परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः। कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ॥६-८३-१॥
ततः शब्दो महानासीत्सेनयोरुभयोरपि। निर्गच्छमानयोः सङ्ख्ये सागरप्रतिमो महान् ॥६-८३-२॥
ततो दुर्योधनो राजा चित्रसेनो विविंशतिः। भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ॥६-८३-३॥
एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः। व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः ॥६-८३-४॥
भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते। सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ॥६-८३-५॥
अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ। मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ॥६-८३-६॥
ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान्। पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ॥६-८३-७॥
द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान्। मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते ॥६-८३-८॥
प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः। मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः ॥६-८३-९॥
बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः। काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ॥६-८३-१०॥
द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत। प्रययौ सिंहनादेन नादयानो धरातलम् ॥६-८३-११॥
तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा। द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः ॥६-८३-१२॥
दुर्योधनादनु कृपस्ततः शारद्वतो ययौ। एवमेष महाव्यूहः प्रययौ सागरोपमः ॥६-८३-१३॥
रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो। अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च ॥६-८३-१४॥
तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः। युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् ॥६-८३-१५॥
पश्य व्यूहं महेष्वास निर्मितं सागरोपमम्। प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम् ॥६-८३-१६॥
ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम्। शृङ्गाटकं महाराज परव्यूहविनाशनम् ॥६-८३-१७॥
शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः। रथैरनेकसाहस्रैस्तथा हयपदातिभिः ॥६-८३-१८॥
नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः। मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ॥६-८३-१९॥
अथेतरे महेष्वासाः सहसैन्या नराधिपाः। व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः ॥६-८३-२०॥
अभिमन्युस्ततः पश्चाद्विराटश्च महारथः। द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः ॥६-८३-२१॥
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः। अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः ॥६-८३-२२॥
भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः। क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् ॥६-८३-२३॥
ततः शूराः समासाद्य समरे ते परस्परम्। नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः ॥६-८३-२४॥
मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम्। युद्धाय समवर्तन्त समाहूयेतरेतरम् ॥६-८३-२५॥
ततः प्रववृते युद्धं घोररूपं भयावहम्। तावकानां परेषां च निघ्नतामितरेतरम् ॥६-८३-२६॥
नाराचा निशिताः सङ्ख्ये सम्पतन्ति स्म भारत। व्यात्तानना भयकरा उरगा इव सङ्घशः ॥६-८३-२७॥
निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः। अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ॥६-८३-२८॥
गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः। पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः ॥ निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः ॥६-८३-२९॥
आर्षभाणि च चर्माणि शतचन्द्राणि भारत। अशोभन्त रणे राजन्पतमानानि सर्वशः ॥६-८३-३०॥
तेऽन्योन्यं समरे सेने युध्यमाने नराधिप। अशोभेतां यथा दैत्यदेवसेने समुद्यते ॥ अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ॥६-८३-३१॥
रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे। युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ॥६-८३-३२॥
दन्तिनां युध्यमानानां सङ्घर्षात्पावकोऽभवत्। दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम् ॥६-८३-३३॥
प्रासैरभिहताः केचिद्गजयोधाः समन्ततः। पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ॥६-८३-३४॥
पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम्। चित्ररूपधराः शूरा नखरप्रासयोधिनः ॥६-८३-३५॥
अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः। शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ॥६-८३-३६॥
ततः शान्तनवो भीष्मो रथघोषेण नादयन्। अभ्यागमद्रणे पाण्डून्धनुःशब्देन मोहयन् ॥६-८३-३७॥
पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम्। अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ॥६-८३-३८॥
ततः प्रववृते युद्धं तव तेषां च भारत। नराश्वरथनागानां व्यतिषक्तं परस्परम् ॥६-८३-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.