6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.082
Core and Pancharatra: Encounter between Yudhisthira and Bhishma; Dhṛṣṭadyumna and Sātyaki with Avanti brothers, Drona with Panchalas. The day comes to an end.
सञ्जय उवाच॥
विरथं तं समासाद्य चित्रसेनं मनस्विनम्। रथमारोपयामास विकर्णस्तनयस्तव ॥६-८२-१॥
तस्मिंस्तथा वर्तमाने तुमुले सङ्कुले भृशम्। भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥६-८२-२॥
ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः। मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ॥६-८२-३॥
यिधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः। महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ ॥६-८२-४॥
ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि। भीष्मं सञ्छादयामास यथा मेघो दिवाकरम् ॥६-८२-५॥
तेन सम्यक्प्रणीतानि शरजालानि भारत। पतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः ॥६-८२-६॥
तथैव शरजालानि भीष्मेणास्तानि मारिष। आकाशे समदृश्यन्त खगमानां व्रजा इव ॥६-८२-७॥
निमेषार्धाच्च कौन्तेयं भीष्मः शान्तनवो युधि। अदृश्यं समरे चक्रे शरजालेन भागशः ॥६-८२-८॥
ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः। नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् ॥६-८२-९॥
असम्प्राप्तं ततस्तं तु क्षुरप्रेण महारथः। चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ॥६-८२-१०॥
तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम्। निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् ॥६-८२-११॥
हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः। आरुरोह रथं तूर्णं नकुलस्य महात्मनः ॥६-८२-१२॥
यमावपि सुसङ्क्रुद्धः समासाद्य रणे तदा। शरैः सञ्छादयामास भीष्मः परपुरञ्जयः ॥६-८२-१३॥
तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ। जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया ॥६-८२-१४॥
ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत्। भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् ॥६-८२-१५॥
ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम्। महता रथवंशेन परिवव्रुः पितामहम् ॥६-८२-१६॥
स समन्तात्परिवृतः पिता देवव्रतस्तव। चिक्रीद धनुषा राजन्पातयानो महारथान् ॥६-८२-१७॥
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि। मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ॥६-८२-१८॥
तर्जयानं रणे शूरांस्त्रासयानं च सायकैः। दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ॥६-८२-१९॥
रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम्। अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः ॥६-८२-२०॥
शिरांसि रथिनां भीष्मः पातयामास संयुगे। तालेभ्य इव पक्वानि फलानि कुशलो नरः ॥६-८२-२१॥
पतद्भिश्च महाराज शिरोभिर्धरणीतले। बभूव तुमुलः शब्दः पततामश्मनामिव ॥६-८२-२२॥
तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे। सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥६-८२-२३॥
भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम्। एकमेकं समाहूय युद्धायैवोपतस्थिरे ॥६-८२-२४॥
शिखण्डी तु समासाद्य भरतानां पितामहम्। अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥६-८२-२५॥
अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे। प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः ॥६-८२-२६॥
सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम्। सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान् ॥६-८२-२७॥
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्। अपरां दिशमास्थाय स्थिते सवितरि प्रभो ॥६-८२-२८॥
धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः। पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः ॥ शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे ॥६-८२-२९॥
ते हन्यमानाः समरे तावकाः पुरुषर्षभ। आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् ॥ यथोत्साहं च समरे जघ्नुर्लोकं महारथाः ॥६-८२-३०॥
तत्राक्रन्दो महानासीत्तावकानां महात्मनाम्। वध्यतां समरे राजन्पार्षतेन महात्मना ॥६-८२-३१॥
तं श्रुत्वा निनदं घोरं तावकानां महारथौ। विन्दानुविन्दावावन्त्यौ पार्षतं पत्युपस्थितौ ॥६-८२-३२॥
तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ। छादयामासतुरुभौ शरवर्षेण पार्षतम् ॥६-८२-३३॥
अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः। आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः ॥६-८२-३४॥
ततो युधिष्ठिरो राजा महत्या सेनया वृतः। आवन्त्यौ समरे क्रुद्धावभ्ययात्स परन्तपौ ॥६-८२-३५॥
तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष। विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान् ॥६-८२-३६॥
अर्जुनश्चापि सङ्क्रुद्धः क्षत्रियान्क्षत्रियर्षभ। अयोधयत सङ्ग्रामे वज्रपाणिरिवासुरान् ॥६-८२-३७॥
द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव। व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः ॥६-८२-३८॥
दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते। परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह ॥६-८२-३९॥
ततो दुर्योधनो राजा लोहितायति भास्करे। अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत ॥६-८२-४०॥
युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम्। अस्तं गिरिमथारूढे नप्रकाशति भास्करे ॥६-८२-४१॥
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी। गोमायुगणसङ्कीर्णा क्षणेन रजनीमुखे ॥६-८२-४२॥
शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम्। घोरमायोधनं जज्ञे भूतसङ्घसमाकुलम् ॥६-८२-४३॥
राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः। समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः ॥६-८२-४४॥
अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान्। विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति ॥६-८२-४५॥
युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा। ययौ स्वशिबिरं राजा निशायां सेनया वृतः ॥६-८२-४६॥
भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान्। अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति ॥६-८२-४७॥
दुर्योधनोऽपि नृपतिः परिवार्य महारणे। भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति ॥६-८२-४८॥
द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः। परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति ॥६-८२-४९॥
तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः। परिवार्य रणे योधान्ययतुः शिबिरं प्रति ॥६-८२-५०॥
एवमेते महाराज तावकाः पाण्डवैः सह। पर्यवर्तन्त सहिता निशाकाले परन्तपाः ॥६-८२-५१॥
ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा। न्यविशन्त महाराज पूजयन्तः परस्परम् ॥६-८२-५२॥
रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि। अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः ॥६-८२-५३॥
कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः। गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः ॥६-८२-५४॥
मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम्। न हि युद्धकथां काञ्चित्तत्र चक्रुर्महारथाः ॥६-८२-५५॥
ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप। हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः ॥६-८२-५६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.