08.027
Pancharatra and Core: Karna's self-praise, Shalya's rebuke followed by Karna's counter-rebuke.
सञ्जय उवाच॥
प्रयानेव तदा कर्णो हर्षयन्वाहिनीं तव। एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत ॥८-२७-१॥
यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम्। तस्मै दद्यामभिप्रेतं वरं यं मनसेच्छति ॥८-२७-२॥
स चेत्तदभिमन्येत तस्मै दद्यामहं पुनः। शकटं रत्नसम्पूर्णं यो मे ब्रूयाद्धनञ्जयम् ॥८-२७-३॥
स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्। अन्यं तस्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम् ॥८-२७-४॥
तथा तस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम्। श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् ॥८-२७-५॥
स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्। अन्यं तस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान् ॥८-२७-६॥
हेमभाण्डपरिच्छन्नान्सुमृष्टमणिकुण्डलान्। सुदान्तानपि चैवाहं दद्यामष्टशतान्परान् ॥८-२७-७॥
रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलङ्कृतम्। युक्तं परमकाम्बोजैर्यो मे ब्रूयाद्धनञ्जयम् ॥८-२७-८॥
अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट्। काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः ॥ उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः ॥८-२७-९॥
स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्। अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम् ॥८-२७-१०॥
पुत्रदारान्विहारांश्च यदन्यद्वित्तमस्ति मे। तच्च तस्मै पुनर्दद्यां यद्यत्स मनसेच्छति ॥८-२७-११॥
हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः। तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ ॥८-२७-१२॥
एता वाचः सुबहुशः कर्ण उच्चारयन्युधि। दध्मौ सागरसम्भूतं सुस्वनं शङ्खमुत्तमम् ॥८-२७-१३॥
ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु। दुर्योधनो महाराज प्रहृष्टः सानुगोऽभवत् ॥८-२७-१४॥
ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः। सिंहनादः सवादित्रः कुञ्जराणां च निस्वनः ॥८-२७-१५॥
प्रादुरासीत्तदा राजंस्त्वत्सैन्ये भरतर्षभ। योधानां सम्प्रहृष्टानां तथा समभवत्स्वनः ॥८-२७-१६॥
तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम्। विकत्थमानं समरे राधेयमरिकर्शनम् ॥ मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत ॥८-२७-१७॥
मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम्। प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनञ्जयम् ॥८-२७-१८॥
बाल्यादिव त्वं त्यजसि वसु वैश्रवणो यथा। अयत्नेनैव राधेय द्रष्टास्यद्य धनञ्जयम् ॥८-२७-१९॥
परासृजसि मिथ्या किं किं च त्वं बहु मूढवत्। अपात्रदाने ये दोषास्तान्मोहान्नावबुध्यसे ॥८-२७-२०॥
यत्प्रवेदयसे वित्तं बहुत्वेन खलु त्वया। शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः ॥८-२७-२१॥
यच्च प्रार्थयसे हन्तुं कृष्णौ मोहान्मृषैव तत्। न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ ॥८-२७-२२॥
अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते। ये त्वां न वारयन्त्याशु प्रपतन्तं हुताशने ॥८-२७-२३॥
कालकार्यं न जानीषे कालपक्वोऽस्यसंशयम्। बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः ॥८-२७-२४॥
समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम्। गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम् ॥८-२७-२५॥
सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः। धनञ्जयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि ॥८-२७-२६॥
हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वा न हिंसया। श्रद्धत्स्वैतन्मया प्रोक्तं यदि तेऽस्ति जिजीविषा ॥८-२७-२७॥
कर्ण उवाच॥
स्ववीर्येऽहं पराश्वस्य प्रार्थयाम्यर्जुनं रणे। त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि ॥८-२७-२८॥
न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत्। अपीन्द्रो वज्रमुद्यम्य किं नु मर्त्यः करिष्यति ॥८-२७-२९॥
सञ्जय उवाच॥
इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः। चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः ॥८-२७-३०॥
यदा वै त्वां फल्गुनवेगनुन्ना; ज्याचोदिता हस्तवता विसृष्टाः। अन्वेतारः कङ्कपत्राः शिताग्रा; स्तदा तप्स्यस्यर्जुनस्याभियोगात् ॥८-२७-३१॥
यदा दिव्यं धनुरादाय पार्थः; प्रभासयन्पृतनां सव्यसाची। त्वामर्दयेत निशितैः पृषत्कै; स्तदा पश्चात्तप्स्यसे सूतपुत्र ॥८-२७-३२॥
बालश्चन्द्रं मातुरङ्के शयानो; यथा कश्चित्प्रार्थयतेऽपहर्तुम्। तद्वन्मोहाद्यतमानो रथस्थ; स्त्वं प्रार्थयस्यर्जुनमद्य जेतुम् ॥८-२७-३३॥
त्रिशूलमाश्लिष्य सुतीक्ष्णधारं; सर्वाणि गात्राणि निघर्षसि त्वम्। सुतीक्ष्णधारोपमकर्मणा त्वं; युयुत्ससे योऽर्जुनेनाद्य कर्ण ॥८-२७-३४॥
सिद्धं सिंहं केसरिणं बृहन्तं; बालो मूढः क्षुद्रमृगस्तरस्वी। समाह्वयेत्तद्वदेतत्तवाद्य; समाह्वानं सूतपुत्रार्जुनस्य ॥८-२७-३५॥
मा सूतपुत्राह्वय राजपुत्रं; महावीर्यं केसरिणं यथैव। वने सृगालः पिशितस्य तृप्तो; मा पार्थमासाद्य विनङ्क्ष्यसि त्वम् ॥८-२७-३६॥
ईषादन्तं महानागं प्रभिन्नकरटामुखम्। शशकाह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् ॥८-२७-३७॥
बिलस्थं कृष्णसर्पं त्वं बाल्यात्काष्ठेन विध्यसि। महाविषं पूर्णकोशं यत्पार्थं योद्धुमिच्छसि ॥८-२७-३८॥
सिंहं केसरिणं क्रुद्धमतिक्रम्याभिनर्दसि। सृगाल इव मूढत्वान्नृसिंहं कर्ण पाण्डवम् ॥८-२७-३९॥
सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम्। लट्वेवाह्वयसे पाते कर्ण पार्थं धनञ्जयम् ॥८-२७-४०॥
सर्वाम्भोनिलयं भीममूर्मिमन्तं झषायुतम्। चन्द्रोदये विवर्तन्तमप्लवः सन्तितीर्षसि ॥८-२७-४१॥
ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम्। वत्स आह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् ॥८-२७-४२॥
महाघोषं महामेघं दर्दुरः प्रतिनर्दसि। कामतोयप्रदं लोके नरपर्जन्यमर्जुनम् ॥८-२७-४३॥
यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत्। तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जयम् ॥८-२७-४४॥
सृगालोऽपि वने कर्ण शशैः परिवृतो वसन्। मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति ॥८-२७-४५॥
तथा त्वमपि राधेय सिंहमात्मानमिच्छसि। अपश्यञ्शत्रुदमनं नरव्याघ्रं धनञ्जयम् ॥८-२७-४६॥
व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि। समास्थितावेकरथे सूर्याचन्द्रमसाविव ॥८-२७-४७॥
यावद्गाण्डीवनिर्घोषं न शृणोषि महाहवे। तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि ॥८-२७-४८॥
रथशब्दधनुःशब्दैर्नादयन्तं दिशो दश। नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि ॥८-२७-४९॥
नित्यमेव सृगालस्त्वं नित्यं सिंहो धनञ्जयः। वीरप्रद्वेषणान्मूढ नित्यं क्रोष्टेव लक्ष्यसे ॥८-२७-५०॥
यथाखुः स्याद्बिडालश्च श्वा व्याघ्रश्च बलाबले। यथा सृगालः सिंहश्च यथा च शशकुञ्जरौ ॥८-२७-५१॥
यथानृतं च सत्यं च यथा चापि विषामृते। तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः ॥८-२७-५२॥
सञ्जय उवाच॥
अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा। शल्यमाह सुसङ्क्रुद्धो वाक्षल्यमवधारयन् ॥८-२७-५३॥
गुणान्गुणवतः शल्य गुणवान्वेत्ति नागुणः। त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यस्यगुणो गुणान् ॥८-२७-५४॥
अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान्। अहं शल्याभिजानामि न त्वं जानासि तत्तथा ॥८-२७-५५॥
एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे। जानन्नेवाह्वये युद्धे शल्य नाग्निं पतङ्गवत् ॥८-२७-५६॥
अस्ति चायमिषुः शल्य सुपुङ्खो रक्तभोजनः। एकतूणीशयः पत्री सुधौतः समलङ्कृतः ॥८-२७-५७॥
शेते चन्दनपूर्णेन पूजितो बहुलाः समाः। आहेयो विषवानुग्रो नराश्वद्विपसङ्घहा ॥८-२७-५८॥
एकवीरो महारौद्रस्तनुत्रास्थिविदारणः। निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम् ॥८-२७-५९॥
तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते। कृष्णाद्वा देवकीपुत्रात्सत्यं चात्र शृणुष्व मे ॥८-२७-६०॥
तेनाहमिषुणा शल्य वासुदेवधनञ्जयौ। योत्स्ये परमसङ्क्रुद्धस्तत्कर्म सदृशं मम ॥८-२७-६१॥
सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः प्रतिष्ठिता। सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः ॥ उभयं तत्समासाद्य कोऽतिवर्तितुमर्हति ॥८-२७-६२॥
तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ। मामेकमभिसंयातौ सुजातं शल्य पश्य मे ॥८-२७-६३॥
पितृष्वसामातुलजौ भ्रातरावपराजितौ। मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया ॥८-२७-६४॥
अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ। भीरूणां त्रासजननौ शल्य हर्षकरौ मम ॥८-२७-६५॥
त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः। भयावतीर्णः सन्त्रासादबद्धं बहु भाषसे ॥८-२७-६६॥
संस्तौषि त्वं तु केनापि हेतुना तौ कुदेशज। तौ हत्वा समरे हन्ता त्वामद्धा सहबान्धवम् ॥८-२७-६७॥
पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन। सुहृद्भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्नसि ॥८-२७-६८॥
तौ वा ममाद्य हन्तारौ हन्तास्मि समरे स्थितौ। नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम् ॥८-२७-६९॥
वासुदेवसहस्रं वा फल्गुनानां शतानि च। अहमेको हनिष्यामि जोषमास्स्व कुदेशज ॥८-२७-७०॥
स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः। या गाथाः सम्प्रगायन्ति कुर्वन्तोऽध्ययनं यथा ॥ ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु ॥८-२७-७१॥
ब्राह्मणैः कथिताः पूर्वं यथावद्राजसंनिधौ। श्रुत्वा चैकमना मूढ क्षम वा ब्रूहि वोत्तरम् ॥८-२७-७२॥
मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः। मद्रके सङ्गतं नास्ति क्षुद्रवाक्ये नराधमे ॥८-२७-७३॥
दुरात्मा मद्रको नित्यं नित्यं चानृतिकोऽनृजुः। यावदन्तं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम् ॥८-२७-७४॥
पिता माता च पुत्रश्च श्वश्रूश्वशुरमातुलाः। जामाता दुहिता भ्राता नप्ता ते ते च बान्धवाः ॥८-२७-७५॥
वयस्याभ्यागताश्चान्ये दासीदासं च सङ्गतम्। पुम्भिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया ॥८-२७-७६॥
येषां गृहेषु शिष्टानां सक्तुमन्थाशिनां सदा। पीत्वा सीधुं सगोमांसं नर्दन्ति च हसन्ति च ॥८-२७-७७॥
यानि चैवाप्यबद्धानि प्रवर्तन्ते च कामतः। कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत् ॥८-२७-७८॥
मद्रकेषु विलुप्तेषु प्रख्याताशुभकर्मसु। नापि वैरं न सौहार्दं मद्रकेषु समाचरेत् ॥८-२७-७९॥
मद्रके सङ्गतं नास्ति मद्रको हि सचापलः। मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च ॥८-२७-८०॥
राजयाजकयाज्येन नष्टं दत्तं हविर्भवेत्। शूद्रसंस्कारको विप्रो यथा याति पराभवम्। तथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् ॥८-२७-८२॥
मद्रके सङ्गतं नास्ति हतं वृश्चिकतो विषम्। आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत् ॥८-२७-८३॥
इति वृश्चिकदष्टस्य नानाविषहतस्य च। कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते ॥ एवं विद्वञ्जोषमास्स्व शृणु चात्रोत्तरं वचः ॥८-२७-८४॥
वासांस्युत्सृज्य नृत्यन्ति स्त्रियो या मद्यमोहिताः। मिथुनेऽसंयताश्चापि यथाकामचराश्च ताः ॥ तासां पुत्रः कथं धर्मं मद्रको वक्तुमर्हति ॥८-२७-८५॥
यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रीदशेरके। तासां विभ्रष्टलज्जानां निर्लज्जानां ततस्ततः ॥ त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि ॥८-२७-८६॥
सुवीरकं याच्यमाना मद्रका कषति स्फिजौ। अदातुकामा वचनमिदं वदति दारुणम् ॥८-२७-८७॥
मा मा सुवीरकं कश्चिद्याचतां दयितो मम। पुत्रं दद्यां प्रतिपदं न तु दद्यां सुवीरकम् ॥८-२७-८८॥
नार्यो बृहत्यो निर्ह्रीका मद्रकाः कम्बलावृताः। घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम ॥८-२७-८९॥
एवमादि मयान्यैर्वा शक्यं वक्तुं भवेद्बहु। आ केशाग्रान्नखाग्राच्च वक्तव्येषु कुवर्त्मसु ॥८-२७-९०॥
मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह। पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः ॥८-२७-९१॥
एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम्। यदाजौ निहतः शेते सद्भिः समभिपूजितः ॥८-२७-९२॥
आयुधानां सम्पराये यन्मुच्येयमहं ततः। न मे स प्रथमः कल्पो निधने स्वर्गमिच्छतः ॥८-२७-९३॥
सोऽहं प्रियः सखा चास्मि धार्तराष्ट्रस्य धीमतः। तदर्थे हि मम प्राणा यच्च मे विद्यते वसु ॥८-२७-९४॥
व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज। यथा ह्यमित्रवत्सर्वं त्वमस्मासु प्रवर्तसे ॥८-२७-९५॥
कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि। सङ्ग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः ॥८-२७-९६॥
सारङ्ग इव घर्मार्तः कामं विलप शुष्य च। नाहं भीषयितुं शक्यः क्षत्रवृत्ते व्यवस्थितः ॥८-२७-९७॥
तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम्। या गतिर्गुरुणा प्राङ्मे प्रोक्ता रामेण तां स्मर ॥८-२७-९८॥
स्वेषां त्राणार्थमुद्युक्तं वधाय द्विषतामपि। विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम् ॥८-२७-९९॥
न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रक। यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः ॥८-२७-१००॥
एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे। मा त्वा हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम ॥८-२७-१०१॥
मित्रप्रतीक्षया शल्य धार्तराष्ट्रस्य चोभयोः। अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि ॥८-२७-१०२॥
पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि। शिरस्ते पातयिष्यामि गदया वज्रकल्पया ॥८-२७-१०३॥
श्रोतारस्त्विदमद्येह द्रष्टारो वा कुदेशज। कर्णं वा जघ्नतुः कृष्णौ कर्णो वापि जघान तौ ॥८-२७-१०४॥
एवमुक्त्वा तु राधेयः पुनरेव विशां पते। अब्रवीन्मद्रराजानं याहि याहीत्यसम्भ्रमम् ॥८-२७-१०५॥