08.050
Pancharatra and Core: After reconciling, obtaining blessings from Yudhishthira, Arjuna and Krishna move towards the battlefield, greeted by auspicious omens.
सञ्जय उवाच॥
इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम्। बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम् ॥८-५०-१॥
ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम्। कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् ॥ असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम् ॥८-५०-२॥
त्वमित्युक्त्वैव राजानमेवं कश्मलमाविशः। हत्वा तु नृपतिं पार्थ अकरिष्यः किमुत्तरम् ॥ एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ॥८-५०-३॥
स भवान्धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः। नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात् ॥८-५०-४॥
स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम्। प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम ॥८-५०-५॥
प्रसाद्य भक्त्या राजानं प्रीतं चैव युधिष्ठिरम्। प्रयामस्त्वरिता योद्धुं सूतपुत्ररथं प्रति ॥८-५०-६॥
हत्वा सुदुर्जयं कर्णं त्वमद्य निशितैः शरैः। विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद ॥८-५०-७॥
एतदत्र महाबाहो प्राप्तकालं मतं मम। एवं कृते कृतं चैव तव कार्यं भविष्यति ॥८-५०-८॥
ततोऽर्जुनो महाराज लज्जया वै समन्वितः। धर्मराजस्य चरणौ प्रपेदे शिरसानघ ॥८-५०-९॥
उवाच भरतश्रेष्ठ प्रसीदेति पुनः पुनः। क्षमस्व राजन्यत्प्रोक्तं धर्मकामेन भीरुणा ॥८-५०-१०॥
पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः। धनञ्जयममित्रघ्नं रुदन्तं भरतर्षभ ॥८-५०-११॥
उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जयम्। समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः ॥८-५०-१२॥
रुदित्वा तु चिरं कालं भ्रातरौ सुमहाद्युती। कृतशौचौ नरव्याघ्रौ प्रीतिमन्तौ बभूवतुः ॥८-५०-१३॥
तत आश्लिष्य स प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवम्। प्रीत्या परमया युक्तः प्रस्मयंश्चाब्रवीज्जयम् ॥८-५०-१४॥
कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः। कवचं च ध्वजश्चैव धनुः शक्तिर्हया गदा ॥ शरैः कृत्ता महेष्वास यतमानस्य संयुगे ॥८-५०-१५॥
सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन। व्यवसीदामि दुःखेन न च मे जीवितं प्रियम् ॥८-५०-१६॥
तमद्य यदि वै वीर न हनिष्यसि सूतजम्। प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम ॥८-५०-१७॥
एवमुक्तः प्रत्युवाच विजयो भरतर्षभ। सत्येन ते शपे राजन्प्रसादेन तवैव च ॥ भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते ॥८-५०-१८॥
यथाद्य समरे कर्णं हनिष्यामि हतोऽथ वा। महीतले पतिष्यामि सत्येनायुधमालभे ॥८-५०-१९॥
एवमाभाष्य राजानमब्रवीन्माधवं वचः। अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः ॥ तदनुध्याहि भद्रं ते वधं तस्य दुरात्मनः ॥८-५०-२०॥
एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम। शक्तोऽस्मि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम् ॥८-५०-२१॥
एवं चापि हि मे कामो नित्यमेव महारथ। कथं भवान्रणे कर्णं निहन्यादिति मे मतिः ॥८-५०-२२॥
भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम्। युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि ॥ अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः ॥८-५०-२३॥
श्रुत्वा ह्ययमहं चैव त्वां कर्णशरपीडितम्। प्रवृत्तिं ज्ञातुमायाताविह पाण्डवनन्दन ॥८-५०-२४॥
दिष्ट्यासि राजन्निरुजो दिष्ट्या न ग्रहणं गतः। परिसान्त्वय बीभत्सुं जयमाशाधि चानघ ॥८-५०-२५॥
युधिष्ठिर उवाच॥
एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव। वक्तव्यमुक्तोऽस्म्यहितं त्वया क्षान्तं च तन्मया ॥८-५०-२६॥
अहं त्वामनुजानामि जहि कर्णं धनञ्जय। मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम् ॥८-५०-२७॥
सञ्जय उवाच॥
ततो धनञ्जयो राजञ्शिरसा प्रणतस्तदा। पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष ॥८-५०-२८॥
समुत्थाप्य ततो राजा परिष्वज्य च पीडितम्। मूर्ध्न्युपाघ्राय चैवैनमिदं पुनरुवाच ह ॥८-५०-२९॥
धनञ्जय महाबाहो मानितोऽस्मि दृढं त्वया। माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम् ॥८-५०-३०॥
अर्जुन उवाच॥
अद्य तं पापकर्माणं सानुबन्धं रणे शरैः। नयाम्यन्तं समासाद्य राधेयं बलगर्वितम् ॥८-५०-३१॥
येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम्। तस्याद्य कर्मणः कर्णः फलं प्राप्स्यति दारुणम् ॥८-५०-३२॥
अद्य त्वामहमेष्यामि कर्णं हत्वा महीपते। सभाजयितुमाक्रन्दादिति सत्यं ब्रवीमि ते ॥८-५०-३३॥
नाहत्वा विनिवर्तेऽहं कर्णमद्य रणाजिरात्। इति सत्येन ते पादौ स्पृशामि जगतीपते ॥८-५०-३४॥
सञ्जय उवाच॥
प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना। पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः ॥८-५०-३५॥
कल्प्यतां च रथो भूयो युज्यन्तां च हयोत्तमाः। आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे ॥८-५०-३६॥
उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिनः। रथोपकरणैः सर्वैरुपायान्तु त्वरान्विताः ॥८-५०-३७॥
एवमुक्ते महाराज फल्गुनेन महात्मना। उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत् ॥ अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥८-५०-३८॥
आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम। योजयामास स रथं वैयाघ्रं शत्रुतापनम् ॥८-५०-३९॥
युक्तं तु रथमास्थाय दारुकेण महात्मना। आपृच्छ्य धर्मराजानं ब्राह्मणान्स्वस्ति वाच्य च ॥ समङ्गलस्वस्त्ययनमारुरोह रथोत्तमम् ॥८-५०-४०॥
तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः। आशिषोऽयुङ्क्त परमा युक्ताः कर्णवधं प्रति ॥८-५०-४१॥
तं प्रयान्तं महेष्वासं दृष्ट्वा भूतानि भारत। निहतं मेनिरे कर्णं पाण्डवेन महात्मना ॥८-५०-४२॥
बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः। चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर ॥ प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् ॥८-५०-४३॥
बहवः पक्षिणो राजन्पुंनामानः शुभाः शिवाः। त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे ॥८-५०-४४॥
कङ्का गृध्रा वडाश्चैव वायसाश्च विशां पते। अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः ॥८-५०-४५॥
निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे। विनाशमरिसैन्यानां कर्णस्य च वधं तथा ॥८-५०-४६॥
प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत। चिन्ता च विपुला जज्ञे कथं न्वेतद्भविष्यति ॥८-५०-४७॥
ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः। दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा ॥८-५०-४८॥
गाण्डीवधन्वन्सङ्ग्रामे ये त्वया धनुषा जिताः। न तेषां मानुषो जेता त्वदन्य इह विद्यते ॥८-५०-४९॥
दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः। त्वां प्राप्य समरे वीरं ये गताः परमां गतिम् ॥८-५०-५०॥
को हि द्रोणं च भीष्मं च भगदत्तं च मारिष। विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् ॥८-५०-५१॥
श्रुतायुषं महावीर्यमच्युतायुषमेव च। प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वमिव क्षमी ॥८-५०-५२॥
तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च। वेधः पातश्च लक्षश्च योगश्चैव तवार्जुन ॥ असंमोहश्च युद्धेषु विज्ञानस्य च संनतिः ॥८-५०-५३॥
भवान्देवासुरान्सर्वान्हन्यात्सहचराचरान्। पृथिव्यां हि रणे पार्थ न योद्धा त्वत्समः पुमान् ॥८-५०-५४॥
धनुर्ग्रहा हि ये केचित्क्षत्रिया युद्धदुर्मदाः। आ देवात्त्वत्समं तेषां न पश्यामि शृणोमि वा ॥८-५०-५५॥
ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महाद्भुतम्। येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः ॥८-५०-५६॥
अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव। मावमंस्था महाबाहो कर्णमाहवशोभिनम् ॥८-५०-५७॥
कर्णो हि बलवान्धृष्टः कृतास्त्रश्च महारथः। कृती च चित्रयोधी च देशे काले च कोविदः ॥८-५०-५८॥
तेजसा वह्निसदृशो वायुवेगसमो जवे। अन्तकप्रतिमः क्रोधे सिंहसंहननो बली ॥८-५०-५९॥
अयोरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः। अतिमानी च शूरश्च प्रवीरः प्रियदर्शनः ॥८-५०-६०॥
सर्वैर्योधगुणैर्युक्तो मित्राणामभयङ्करः। सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः ॥८-५०-६१॥
सर्वैरवध्यो राधेयो देवैरपि सवासवैः। ऋते त्वामिति मे बुद्धिस्त्वमद्य जहि सूतजम् ॥८-५०-६२॥
देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम्। अशक्यः समरे जेतुं सर्वैरपि युयुत्सुभिः ॥८-५०-६३॥
दुरात्मानं पापमतिं नृशंसं; दुष्टप्रज्ञं पाण्डवेयेषु नित्यम्। हीनस्वार्थं पाण्डवेयैर्विरोधे; हत्वा कर्णं धिष्ठितार्थो भवाद्य ॥८-५०-६४॥
वीरं मन्यत आत्मानं येन पापः सुयोधनः। तमद्य मूलं पापानां जय सौतिं धनञ्जय ॥८-५०-६५॥