Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.002
Pancharatra and Core: Lamenting the past events, Dhritarashtra again asks Sanjaya to narrate the battle events, after dispatching the women to the inner quarters.
वैशम्पायन उवाच॥
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः। विललाप महाराज दुःखाद्दुःखतरं गतः ॥९-२-१॥
सधूममिव निःश्वस्य करौ धुन्वन्पुनः पुनः। विचिन्त्य च महाराज ततो वचनमब्रवीत् ॥९-२-२॥
अहो बत महद्दुःखं यदहं पाण्डवान्रणे। क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै ॥९-२-३॥
वज्रसारमयं नूनं हृदयं सुदृढं मम। यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा ॥९-२-४॥
चिन्तयित्वा वचस्तेषां बालक्रीडां च सञ्जय। अद्य श्रुत्वा हतान्पुत्रान्भृशं मे दीर्यते मनः ॥९-२-५॥
अन्धत्वाद्यदि तेषां तु न मे रूपनिदर्शनम्। पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता ॥९-२-६॥
बालभावमतिक्रान्तान्यौवनस्थांश्च तानहम्। मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तथानघ ॥९-२-७॥
तानद्य निहताञ्श्रुत्वा हृतैश्वर्यान्हृतौजसः। न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः ॥९-२-८॥
एह्येहि पुत्र राजेन्द्र ममानाथस्य साम्प्रतम्। त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम् ॥९-२-९॥
गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा। अन्धं वृद्धं च मां वीर विहाय क्व नु गच्छसि ॥९-२-१०॥
सा कृपा सा च ते प्रीतिः सा च राजन्सुमानिता। कथं विनिहतः पार्थैः संयुगेष्वपराजितः ॥९-२-११॥
कथं त्वं पृथिवीपालान्भुक्त्वा तात समागतान्। शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा ॥९-२-१२॥
को नु मामुत्थितं काल्ये तात तातेति वक्ष्यति। महाराजेति सततं लोकनाथेति चासकृत् ॥९-२-१३॥
परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः। अनुशाधीति कौरव्य तत्साधु वद मे वचः ॥९-२-१४॥
ननु नामाहमश्रौषं वचनं तव पुत्रक। भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा ॥९-२-१५॥
भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः। भूरिश्रवाः सोमदत्तो महाराजोऽथ बाह्लिकः ॥९-२-१६॥
अश्वत्थामा च भोजश्च मागधश्च महाबलः। बृहद्बलश्च काशीशः शकुनिश्चापि सौबलः ॥९-२-१७॥
म्लेच्छाश्च बहुसाहस्राः शकाश्च यवनैः सह। सुदक्षिणश्च काम्बोजस्त्रिगर्ताधिपतिस्तथा ॥९-२-१८॥
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः। श्रुतायुश्चाच्युतायुश्च शतायुश्चापि वीर्यवान् ॥९-२-१९॥
जलसन्धोऽथार्श्यशृङ्गी राक्षसश्चाप्यलायुधः। अलम्बुसो महाबाहुः सुबाहुश्च महारथः ॥९-२-२०॥
एते चान्ये च बहवो राजानो राजसत्तम। मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा रणे प्रभो ॥९-२-२१॥
येषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः। योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः ॥९-२-२२॥
चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे। सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् ॥९-२-२३॥
एकोऽप्येषां महाराज समर्थः संनिवारणे। समरे पाण्डवेयानां सङ्क्रुद्धो ह्यभिधावताम् ॥ किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः ॥९-२-२४॥
अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः। योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान्मृधे ॥९-२-२५॥
कर्णस्त्वेको मया सार्धं निहनिष्यति पाण्डवान्। ततो नृपतयो वीराः स्थास्यन्ति मम शासने ॥९-२-२६॥
यश्च तेषां प्रणेता वै वासुदेवो महाबलः। न स संनह्यते राजन्निति मामब्रवीद्वचः ॥९-२-२७॥
तस्याहं वदतः सूत बहुशो मम संनिधौ। युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्मृधे ॥९-२-२८॥
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः। व्यायच्छमानाः समरे किमन्यद्भागधेयतः ॥९-२-२९॥
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान्। शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् ॥९-२-३०॥
द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः। निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः ॥९-२-३१॥
भूरिश्रवा हतो यत्र सोमदत्तश्च संयुगे। बाह्लीकश्च महाराज किमन्यद्भागधेयतः ॥९-२-३२॥
सुदक्षिणो हतो यत्र जलसन्धश्च कौरवः। श्रुतायुश्चाच्युतायुश्च किमन्यद्भागधेयतः ॥९-२-३३॥
बृहद्बलो हतो यत्र मागधश्च महाबलः। आवन्त्यो निहतो यत्र त्रिगर्तश्च जनाधिपः ॥ संशप्तकाश्च बहवः किमन्यद्भागधेयतः ॥९-२-३४॥
अलम्बुसस्तथा राजन्राक्षसश्चाप्यलायुधः। आर्श्यशृङ्गश्च निहतः किमन्यद्भागधेयतः ॥९-२-३५॥
नारायणा हता यत्र गोपाला युद्धदुर्मदाः। म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः ॥९-२-३६॥
शकुनिः सौबलो यत्र कैतव्यश्च महाबलः। निहतः सबलो वीरः किमन्यद्भागधेयतः ॥९-२-३७॥
राजानो राजपुत्राश्च शूराः परिघबाहवः। निहता बहवो यत्र किमन्यद्भागधेयतः ॥९-२-३८॥
नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय। निहताः समरे सर्वे किमन्यद्भागधेयतः ॥९-२-३९॥
पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः। वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः ॥९-२-४०॥
भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः। यश्च भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः ॥९-२-४१॥
अहं वियुक्तः स्वैर्भाग्यैः पुत्रैश्चैवेह सञ्जय। कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः ॥९-२-४२॥
नान्यदत्र परं मन्ये वनवासादृते प्रभो। सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसङ्क्षये ॥९-२-४३॥
न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते। इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय ॥९-२-४४॥
दुर्योधनो हतो यत्र शल्यश्च निहतो युधि। दुःशासनो विशस्तश्च विकर्णश्च महाबलः ॥९-२-४५॥
कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम्। एकेन समरे येन हतं पुत्रशतं मम ॥९-२-४६॥
असकृद्वदतस्तस्य दुर्योधनवधेन च। दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः ॥९-२-४७॥
एवं स शोकसन्तप्तः पार्थिवो हतबान्धवः। मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः ॥९-२-४८॥
विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः। दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पराभवम् ॥९-२-४९॥
दुःखेन महता राजा सन्तप्तो भरतर्षभ। पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥९-२-५०॥
भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम्। सेनापतिं प्रणेतारं किमकुर्वत मामकाः ॥९-२-५१॥
यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः। अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः ॥९-२-५२॥
रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना। एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् ॥९-२-५३॥
एवमेव हतः कर्णः सूतपुत्रः प्रतापवान्। स राजकानां सर्वेषां पश्यतां वः किरीटिना ॥९-२-५४॥
पूर्वमेवाहमुक्तो वै विदुरेण महात्मना। दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥९-२-५५॥
केचिन्न सम्यक्पश्यन्ति मूढाः सम्यक्तथापरे। तदिदं मम मूढस्य तथाभूतं वचः स्म ह ॥९-२-५६॥
यदब्रवीन्मे धर्मात्मा विदुरो दीर्घदर्शिवान्। तत्तथा समनुप्राप्तं वचनं सत्यवादिनः ॥९-२-५७॥
दैवोपहतचित्तेन यन्मयापकृतं पुरा। अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः ॥९-२-५८॥
को वा मुखमनीकानामासीत्कर्णे निपातिते। अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी ॥९-२-५९॥
केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे। वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः ॥९-२-६०॥
कथं च वः समेतानां मद्रराजो महाबलः। निहतः पाण्डवैः सङ्ख्ये पुत्रो वा मम सञ्जय ॥९-२-६१॥
ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम्। यथा च निहतः सङ्ख्ये पुत्रो दुर्योधनो मम ॥९-२-६२॥
पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः। धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः ॥९-२-६३॥
पाण्डवाश्च यथा मुक्तास्तथोभौ सात्वतौ युधि। कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः ॥९-२-६४॥
यद्यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम्। अखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय ॥९-२-६५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.