09.001
Pancharatra and Core: Sanjaya brings the news that only seven Pandavas — five brothers, along with Vasudeva and Satyaki, and three Kauravas - Kripa, Kritavarma, and Drauni survived.
जनमेजय उवाच॥
एवं निपातिते कर्णे समरे सव्यसाचिना। अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ॥९-१-१॥
उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः। पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः ॥९-१-२॥
एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥९-१-३॥
वैशम्पायन उवाच॥
ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः। भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् ॥९-१-४॥
हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः। कृच्छ्रात्स्वशिबिरं प्रायाद्धतशेषैर्नृपैः सह ॥९-१-५॥
स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः। राजभिर्नालभच्छर्म सूतपुत्रवधं स्मरन् ॥९-१-६॥
स दैवं बलवन्मत्वा भवितव्यं च पार्थिवः। सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्धाय निर्ययौ ॥९-१-७॥
शल्यं सेनापतिं कृत्वा विधिवद्राजपुङ्गवः। रणाय निर्ययौ राजा हतशेषैर्नृपैः सह ॥९-१-८॥
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः। बभूव भरतश्रेष्ठ देवासुररणोपमम् ॥९-१-९॥
ततः शल्यो महाराज कृत्वा कदनमाहवे। पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः ॥९-१-१०॥
ततो दुर्योधनो राजा हतबन्धू रणाजिरात्। अपसृत्य ह्रदं घोरं विवेश रिपुजाद्भयात् ॥९-१-११॥
अथापराह्णे तस्याह्नः परिवार्य महारथैः। ह्रदादाहूय योगेन भीमसेनेन पातितः ॥९-१-१२॥
तस्मिन्हते महेष्वासे हतशिष्टास्त्रयो रथाः। संरभान्निशि राजेन्द्र जघ्नुः पाञ्चालसैनिकान् ॥९-१-१३॥
ततः पूर्वाह्णसमये शिबिरादेत्य सञ्जयः। प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः ॥९-१-१४॥
प्रविश्य च पुरं तूर्णं भुजावुच्छ्रित्य दुःखितः। वेपमानस्ततो राज्ञः प्रविवेश निवेशनम् ॥९-१-१५॥
रुरोद च नरव्याघ्र हा राजन्निति दुःखितः। अहो बत विविग्नाः स्म निधनेन महात्मनः ॥९-१-१६॥
अहो सुबलवान्कालो गतिश्च परमा तथा। शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः ॥९-१-१७॥
दृष्ट्वैव च पुरो राजञ्जनः सर्वः स सञ्जयम्। प्ररुरोद भृशोद्विग्नो हा राजन्निति सस्वरम् ॥९-१-१८॥
आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः। आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् ॥९-१-१९॥
धावतश्चाप्यपश्यच्च तत्र त्रीन्पुरुषर्षभान्। नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशपीडितान् ॥९-१-२०॥
तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम्। ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् ॥९-१-२१॥
दृष्ट्वा चासीनमनघं समन्तात्परिवारितम्। स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च ॥९-१-२२॥
तथान्यैश्च सुहृद्भिश्च ज्ञातिभिश्च हितैषिभिः। तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति ॥९-१-२३॥
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय। नातिहृष्टमनाः सूतो बाष्पसंदिग्धया गिरा ॥९-१-२४॥
सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ। मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा ॥ उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः ॥९-१-२५॥
संशप्तका हताः सर्वे काम्बोजाश्च शकैः सह। म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः ॥९-१-२६॥
प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः। उदीच्या निहताः सर्वे प्रतीच्याश्च नराधिप ॥ राजानो राजपुत्राश्च सर्वतो निहता नृप ॥९-१-२७॥
दुर्योधनो हतो राजन्यथोक्तं पाण्डवेन च। भग्नसक्थो महाराज शेते पांसुषु रूषितः ॥९-१-२८॥
धृष्टद्युम्नो हतो राजञ्शिखण्डी चापराजितः। उत्तमौजा युधामन्युस्तथा राजन्प्रभद्रकाः ॥९-१-२९॥
पाञ्चालाश्च नरव्याघ्राश्चेदयश्च निषूदिताः। तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत ॥ कर्णपुत्रो हतः शूरो वृषसेनो महाबलः ॥९-१-३०॥
नरा विनिहताः सर्वे गजाश्च विनिपातिताः। रथिनश्च नरव्याघ्र हयाश्च निहता युधि ॥९-१-३१॥
किञ्चिच्छेषं च शिबिरं तावकानां कृतं विभो। पाण्डवानां च शूराणां समासाद्य परस्परम् ॥९-१-३२॥
प्रायः स्त्रीशेषमभवज्जगत्कालेन मोहितम्। सप्त पाण्डवतः शेषा धार्तराष्ट्रास्तथा त्रयः ॥९-१-३३॥
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः। कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः ॥९-१-३४॥
तवाप्येते महाराज रथिनो नृपसत्तम। अक्षौहिणीनां सर्वासां समेतानां जनेश्वर ॥ एते शेषा महाराज सर्वेऽन्ये निधनं गताः ॥९-१-३५॥
कालेन निहतं सर्वं जगद्वै भरतर्षभ। दुर्योधनं वै पुरतः कृत्वा वैरस्य भारत ॥९-१-३६॥
एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः। निपपात महाराज गतसत्त्वो महीतले ॥९-१-३७॥
तस्मिन्निपतिते भूमौ विदुरोऽपि महायशाः। निपपात महाराज राजव्यसनकर्शितः ॥९-१-३८॥
गान्धारी च नृपश्रेष्ठ सर्वाश्च कुरुयोषितः। पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचश्च ताः ॥९-१-३९॥
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः। शनैरलभत प्राणान्पुत्रव्यसनकर्शितः ॥९-१-४१॥
लब्ध्वा तु स नृपः सञ्ज्ञां वेपमानः सुदुःखितः। उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् ॥९-१-४२॥
विद्वन्क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ। ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः ॥ एवमुक्त्वा ततो भूयो विसञ्ज्ञो निपपात ह ॥९-१-४३॥
तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन। शीतैस्तु सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि ॥९-१-४४॥
स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः। तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः ॥ निःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशां पते ॥९-१-४५॥
सञ्जयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम्। तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी ॥९-१-४६॥
ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत्। धृतराष्ट्रो नरव्याघ्रो मुह्यमानो मुहुर्मुहुः ॥९-१-४७॥
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी। तथेमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम् ॥९-१-४८॥
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ। विसर्जयामास शनैर्वेपमानः पुनः पुनः ॥९-१-४९॥
निश्चक्रमुस्ततः सर्वास्ताः स्त्रियो भरतर्षभ। सुहृदश्च ततः सर्वे दृष्ट्वा राजानमातुरम् ॥९-१-५०॥
ततो नरपतिं तत्र लब्धसञ्ज्ञं परन्तप। अवेक्ष्य सञ्जयो दीनो रोदमानं भृशातुरम् ॥९-१-५१॥
प्राञ्जलिर्निःश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुः। समाश्वासयत क्षत्ता वचसा मधुरेण ह ॥९-१-५२॥