Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.008
Core and Pancharatra: The fierce river, filled with Kurus and Sṛñjayas, began to flow, bringing joy to the heroes and increasing fear among the fearful. As the army of the Kauravas was being slaughtered, they fled in all directions. Great cries of distress arose among the Kaurava warriors.
सञ्जय उवाच॥
ततः प्रववृते युद्धं कुरूणां भयवर्धनम्। सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम् ॥९-८-१॥
नरा रथा गजौघाश्च सादिनश्च सहस्रशः। वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम् ॥९-८-२॥
नागानां भीमरूपाणां द्रवतां निस्वनो महान्। अश्रूयत यथा काले जलदानां नभस्तले ॥९-८-३॥
नागैरभ्याहताः केचित्सरथा रथिनोऽपतन्। व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः ॥९-८-४॥
हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः। शरैः सम्प्रेषयामासुः परलोकाय भारत ॥९-८-५॥
सादिनः शिक्षिता राजन्परिवार्य महारथान्। विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा ॥९-८-६॥
धन्विनः पुरुषाः केचित्संनिवार्य महारथान्। एकं बहव आसाद्य प्रेषयेयुर्यमक्षयम् ॥९-८-७॥
नागं रथवरांश्चान्ये परिवार्य महारथाः। सोत्तरायुधिनं जघ्नुर्द्रवमाणा महारवम् ॥९-८-८॥
तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून्। नागा जघ्नुर्महाराज परिवार्य समन्ततः ॥९-८-९॥
नागो नागमभिद्रुत्य रथी च रथिनं रणे। शक्तितोमरनाराचैर्निजघ्नुस्तत्र तत्र ह ॥९-८-१०॥
पादातानवमृद्नन्तो रथवारणवाजिनः। रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम् ॥९-८-११॥
हयाश्च पर्यधावन्त चामरैरुपशोभिताः। हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम् ॥९-८-१२॥
तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशां पते। अशोभत यथा नारी करजक्षतविक्षता ॥९-८-१३॥
वाजिनां खुरशब्देन रथनेमिस्वनेन च। पत्तीनां चापि शब्देन नागानां बृंहितेन च ॥९-८-१४॥
वादित्राणां च घोषेण शङ्खानां निस्वनेन च। अभवन्नादिता भूमिर्निर्घातैरिव भारत ॥९-८-१५॥
धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम्। कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन ॥९-८-१६॥
बहवो बाहवश्छिन्ना नागराजकरोपमाः। उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम् ॥९-८-१७॥
शिरसां च महाराज पततां वसुधातले। च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः ॥९-८-१८॥
शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा। तपनीयनिभैः काले नलिनैरिव भारत ॥९-८-१९॥
उद्वृत्तनयनैस्तैस्तु गतसत्त्वैः सुविक्षतैः। व्यभ्राजत महाराज पुण्डरीकैरिवावृता ॥९-८-२०॥
बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महाधनैः। पतितैर्भाति राजेन्द्र मही शक्रध्वजैरिव ॥९-८-२१॥
ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे। हस्तिहस्तोपमैरन्यैः संवृतं तद्रणाङ्गणम् ॥९-८-२२॥
कबन्धशतसङ्कीर्णं छत्रचामरशोभितम्। सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा ॥९-८-२३॥
तत्र योधा महाराज विचरन्तो ह्यभीतवत्। दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः ॥९-८-२४॥
मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः। पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे ॥९-८-२५॥
गजानीकं महाराज वध्यमानं महात्मभिः। व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव ॥९-८-२६॥
ते गजा घनसङ्काशाः पेतुरुर्व्यां समन्ततः। वज्ररुग्णा इव बभुः पर्वता युगसङ्क्षये ॥९-८-२७॥
हयानां सादिभिः सार्धं पतितानां महीतले। राशयः सम्प्रदृश्यन्ते गिरिमात्रास्ततस्ततः ॥९-८-२८॥
सञ्जज्ञे रणभूमौ तु परलोकवहा नदी। शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा ॥९-८-२९॥
भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला। मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा ॥९-८-३०॥
कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा। चक्रचक्रावलीजुष्टा त्रिवेणूदण्डकावृता ॥९-८-३१॥
शूराणां हर्षजननी भीरूणां भयवर्धिनी। प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्कुला ॥९-८-३२॥
तां नदीं पितृलोकाय वहन्तीमतिभैरवाम्। तेरुर्वाहननौभिस्ते शूराः परिघबाहवः ॥९-८-३३॥
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते। चतुरङ्गक्षये घोरे पूर्वं देवासुरोपमे ॥९-८-३४॥
अक्रोशन्बान्धवानन्ये तत्र तत्र परन्तप। क्रोशद्भिर्बान्धवैश्चान्ये भयार्ता न निवर्तिरे ॥९-८-३५॥
निर्मर्यादे तथा युद्धे वर्तमाने भयानके। अर्जुनो भीमसेनश्च मोहयां चक्रतुः परान् ॥९-८-३६॥
सा वध्यमाना महती सेना तव जनाधिप। अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव ॥९-८-३७॥
मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ। दध्मतुर्वारिजौ तत्र सिंहनादं च नेदतुः ॥९-८-३८॥
श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ। धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ ॥९-८-३९॥
तत्राश्चर्यमपश्याम घोररूपं विशां पते। शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः ॥९-८-४०॥
माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ। अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव ॥९-८-४१॥
ततो न्यवर्तत बलं तावकं भरतर्षभ। शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः ॥९-८-४२॥
वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव। भेजे दिशो महाराज प्रणुन्ना दृढधन्विभिः ॥ हाहाकारो महाञ्जज्ञे योधानां तव भारत ॥९-८-४३॥
तिष्ठ तिष्ठेति वागासीद्द्रावितानां महात्मनाम्। क्षत्रियाणां तदान्योन्यं संयुगे जयमिच्छताम् ॥ आद्रवन्नेव भग्नास्ते पाण्डवैस्तव सैनिकाः ॥९-८-४४॥
त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान्। मातुलान्भागिनेयांश्च तथा सम्बन्धिबान्धवान् ॥९-८-४५॥
हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः। आत्मत्राणकृतोत्साहास्तावका भरतर्षभ ॥९-८-४६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.