Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.035
Library: Story of Trita, his two brothers and the well.
वैशम्पायन उवाच॥
तस्मान्नदीगतं चापि उदपानं यशस्विनः। त्रितस्य च महाराज जगामाथ हलायुधः ॥९-३५-१॥
तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान्। उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः ॥९-३५-२॥
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः। कूपे च वसता तेन सोमः पीतो महात्मना ॥९-३५-३॥
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान्। ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः ॥९-३५-४॥
जनमेजय उवाच॥
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः। पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तमः ॥९-३५-५॥
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान्। एतदाचक्ष्व मे ब्रह्मन्यदि श्राव्यं हि मन्यसे ॥९-३५-६॥
वैशम्पायन उवाच॥
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः। एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः ॥९-३५-७॥
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च। ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः ॥९-३५-८॥
तेषां तु तपसा प्रीतो नियमेन दमेन च। अभवद्गौतमो नित्यं पिता धर्मरतः सदा ॥९-३५-९॥
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च। जगाम भगवान्स्थानमनुरूपमिवात्मनः ॥९-३५-१०॥
राजानस्तस्य ये पूर्वे याज्या ह्यासन्महात्मनः। ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् ॥९-३५-११॥
तेषां तु कर्मणा राजंस्तथैवाध्ययनेन च। त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा ॥९-३५-१२॥
तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः। अपूजयन्महाभागं तथा विद्वत्तयैव तु ॥९-३५-१३॥
कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ। यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः ॥९-३५-१४॥
तयोश्चिन्ता समभवत्त्रितं गृह्य परन्तप। याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः ॥९-३५-१५॥
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम्। चक्रुश्चैव महाराज भ्रातरस्त्रय एव ह ॥९-३५-१६॥
तथा तु ते परिक्रम्य याज्यान्सर्वान्पशून्प्रति। याजयित्वा ततो याज्याँल्लब्ध्वा च सुबहून्पशून् ॥९-३५-१७॥
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः। प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः ॥९-३५-१८॥
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत्। एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् ॥९-३५-१९॥
तयोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत्। कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम् ॥९-३५-२०॥
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह। यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर ॥९-३५-२१॥
त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः। अन्यास्त्रितो बहुतरा गावः समुपलप्स्यते ॥९-३५-२२॥
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे। त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः ॥९-३५-२३॥
तेषामागच्छतां रात्रौ पथिस्थाने वृकोऽभवत्। तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान् ॥९-३५-२४॥
अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः। तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह ॥ अगाधे सुमहाघोरे सर्वभूतभयङ्करे ॥९-३५-२५॥
त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः। आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी ॥९-३५-२६॥
तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ। वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः ॥९-३५-२७॥
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः। उदपाने महाराज निर्जले पांसुसंवृते ॥९-३५-२८॥
बुद्ध्या ह्यगणयत्प्राज्ञो मृत्योर्भीतो ह्यसोमपः। सोमः कथं नु पातव्य इहस्थेन मया भवेत् ॥९-३५-३०॥
स एवमनुसञ्चिन्त्य तस्मिन्कूपे महातपाः। ददर्श वीरुधं तत्र लम्बमानां यदृच्छया ॥९-३५-३१॥
पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः। अग्नीन्सङ्कल्पयामास होत्रे चात्मानमेव च ॥९-३५-३२॥
ततस्तां वीरुधं सोमं सङ्कल्प्य सुमहातपाः। ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः ॥ ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप ॥९-३५-३३॥
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम्। सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम् ॥९-३५-३४॥
स चाविशद्दिवं राजन्स्वरः शैक्षस्त्रितस्य वै। समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः ॥९-३५-३५॥
वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः। आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते ॥९-३५-३६॥
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः। श्रुत्वा चैवाब्रवीद्देवान्सर्वान्देवपुरोहितः ॥९-३५-३७॥
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः। स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः ॥९-३५-३८॥
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः। प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते ॥९-३५-३९॥
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः। ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु ॥९-३५-४०॥
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम्। ऊचुश्चाथ महाभागं प्राप्ता भागार्थिनो वयम् ॥९-३५-४१॥
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः। अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् ॥९-३५-४२॥
ततस्त्रितो महाराज भागांस्तेषां यथाविधि। मन्त्रयुक्तान्समददात्ते च प्रीतास्तदाभवन् ॥९-३५-४३॥
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः। प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति ॥९-३५-४४॥
स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः। यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत् ॥९-३५-४५॥
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती। तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः ॥९-३५-४६॥
तथेति चोक्त्वा विबुधा जग्मू राजन्यथागतम्। त्रितश्चाप्यगमत्प्रीतः स्वमेव निलयं तदा ॥९-३५-४७॥
क्रुद्धः स तु समासाद्य तावृषी भ्रातरौ तदा। उवाच परुषं वाक्यं शशाप च महातपाः ॥९-३५-४८॥
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ। तस्माद्रूपेण तेषां वै दंष्ट्रिणामभितश्चरौ ॥९-३५-४९॥
भवितारौ मया शप्तौ पापेनानेन कर्मणा। प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः ॥९-३५-५०॥
इत्युक्ते तु तदा तेन क्षणादेव विशां पते। तथाभूतावदृश्येतां वचनात्सत्यवादिनः ॥९-३५-५१॥
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः। दत्त्वा च विविधान्दायान्पूजयित्वा च वै द्विजान् ॥९-३५-५२॥
उदपानं च तं दृष्ट्वा प्रशस्य च पुनः पुनः। नदीगतमदीनात्मा प्राप्तो विनशनं तदा ॥९-३५-५३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.