Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.048
Library: Significance of the auspicious pilgrimage site known as Rāmatīrtha.
वैशम्पायन उवाच॥
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली। विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि ॥९-४८-१॥
तत्र ह्यमरराजोऽसावीजे क्रतुशतेन ह। बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् ॥९-४८-२॥
निरर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान्। आजहार क्रतूंस्तत्र यथोक्तान्वेदपारगैः ॥९-४८-३॥
तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः। पूरयामास विधिवत्ततः ख्यातः शतक्रतुः ॥९-४८-४॥
तस्य नाम्ना च तत्तीर्थं शिवं पुण्यं सनातनम्। इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् ॥९-४८-५॥
उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः। ब्राह्मणान्पूजयित्वा च पानाच्छादनभोजनैः ॥ शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह ॥९-४८-६॥
यत्र रामो महाभागो भार्गवः सुमहातपाः। असकृत्पृथिवीं सर्वां हतक्षत्रियपुङ्गवाम् ॥९-४८-७॥
उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम्। अयजद्वाजपेयेन सोऽश्वमेधशतेन च ॥ प्रददौ दक्षिणार्थं च पृथिवीं वै ससागराम् ॥९-४८-८॥
रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय। उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् ॥९-४८-९॥
पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः। मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् ॥९-४८-१०॥
यत्रानयामास तदा राजसूयं महीपते। पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः ॥९-४८-११॥
तत्र निर्जित्य सङ्ग्रामे मानुषान्दैवतांस्तथा। वरं क्रतुं समाजह्रे वरुणः परवीरहा ॥९-४८-१२॥
तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत। देवानां दानवानां च त्रैलोक्यस्य क्षयावहः ॥९-४८-१३॥
राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय। जायते सुमहाघोरः सङ्ग्रामः क्षत्रियान्प्रति ॥९-४८-१४॥
सीरायुधस्तदा रामस्तस्मिंस्तीर्थवरे तदा। तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः ॥९-४८-१५॥
वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः। तस्मादादित्यतीर्थं च जगाम कमलेक्षणः ॥९-४८-१६॥
यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम। ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत ॥९-४८-१७॥
तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः। विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह ॥९-४८-१८॥
द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः। यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशां पते ॥९-४८-१९॥
एते चान्ये च बहवो योगसिद्धाः सहस्रशः। तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप ॥९-४८-२०॥
तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ। आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे ॥९-४८-२१॥
द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत। सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः ॥९-४८-२२॥
असितो देवलश्चैव तस्मिन्नेव महातपाः। परमं योगमास्थाय ऋषिर्योगमवाप्तवान् ॥९-४८-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.